विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
प्रदोषार्धे कदाचित् तु
कृष्णे रतिपरायणे ।
त्रासयन् समदो गोष्ठान्
अरिष्टः प्रत्यदृश्यत ॥ ह्व्_६४।१ ॥
मूलम्
{वैशम्पायन उवाच}
प्रदोषार्धे कदाचित् तु
कृष्णे रतिपरायणे ।
त्रासयन् समदो गोष्ठान्
अरिष्टः प्रत्यदृश्यत ॥ ह्व्_६४।१ ॥
विश्वास-प्रस्तुतिः
निर्वाणाङ्गारमेघाभस्
तीक्ष्णशृङ्गोऽर्कलोचनः ।
क्षुरतीक्ष्णाग्रचरणः
कालः काल इवापरः ॥ ह्व्_६४।२ ॥
मूलम्
निर्वाणाङ्गारमेघाभस्
तीक्ष्णशृङ्गोऽर्कलोचनः ।
क्षुरतीक्ष्णाग्रचरणः
कालः काल इवापरः ॥ ह्व्_६४।२ ॥
विश्वास-प्रस्तुतिः
लेलिहानः सनिष्पेषं
जिह्वयौष्ठौ पुनः पुनः ।
गर्विताविद्धलाङ्गूलः
कठिनस्कन्धबन्धनः ॥ ह्व्_६४।३ ॥
मूलम्
लेलिहानः सनिष्पेषं
जिह्वयौष्ठौ पुनः पुनः ।
गर्विताविद्धलाङ्गूलः
कठिनस्कन्धबन्धनः ॥ ह्व्_६४।३ ॥
विश्वास-प्रस्तुतिः
ककुदोदग्रनिर्माणः
प्रमाणाद् दुरतिक्रमः ।
शकृन्मूत्रोपलिप्ताङ्गो
गवाम् उद्वेजनो भृशम् ॥ ह्व्_६४।४ ॥
मूलम्
ककुदोदग्रनिर्माणः
प्रमाणाद् दुरतिक्रमः ।
शकृन्मूत्रोपलिप्ताङ्गो
गवाम् उद्वेजनो भृशम् ॥ ह्व्_६४।४ ॥
विश्वास-प्रस्तुतिः
महाकटिः स्थूलमुखो
दृढजानुर् महोदरः ।
विषाणावल्गितगतिर्
लम्बता कण्ठचर्मणा ॥ ह्व्_६४।५ ॥
मूलम्
महाकटिः स्थूलमुखो
दृढजानुर् महोदरः ।
विषाणावल्गितगतिर्
लम्बता कण्ठचर्मणा ॥ ह्व्_६४।५ ॥
विश्वास-प्रस्तुतिः
गवारोहेषु चपलस्
तरुघातङ्किताननः ।
युद्धसञ्जविषाणाग्रो
द्विषद्वृषभसूदनः ॥ ह्व्_६४।६ ॥
मूलम्
गवारोहेषु चपलस्
तरुघातङ्किताननः ।
युद्धसञ्जविषाणाग्रो
द्विषद्वृषभसूदनः ॥ ह्व्_६४।६ ॥
विश्वास-प्रस्तुतिः
अरिष्टो नाम हि गवाम्
अरिष्टो दारुणाकृतिः ।
दैत्यो वृषभरूपेण
गोष्ठान् विपरिधावति ॥ ह्व्_६४।७ ॥
मूलम्
अरिष्टो नाम हि गवाम्
अरिष्टो दारुणाकृतिः ।
दैत्यो वृषभरूपेण
गोष्ठान् विपरिधावति ॥ ह्व्_६४।७ ॥
विश्वास-प्रस्तुतिः
पातयानो गवां गर्भान्
दृप्तो गच्छत्य् अनार्तवम् ।
भजमानश् च चपलो
गृष्टीः सम्प्रचचार ह ॥ ह्व्_६४।८ ॥
मूलम्
पातयानो गवां गर्भान्
दृप्तो गच्छत्य् अनार्तवम् ।
भजमानश् च चपलो
गृष्टीः सम्प्रचचार ह ॥ ह्व्_६४।८ ॥
विश्वास-प्रस्तुतिः
शृङ्गप्रहरणो रौद्रः
प्रहरन् गोषु दुर्मदः ।
गोष्ठेषु न रतिं लेभे
विना युद्धं स गोवृषः ॥ ह्व्_६४।९ ॥
मूलम्
शृङ्गप्रहरणो रौद्रः
प्रहरन् गोषु दुर्मदः ।
गोष्ठेषु न रतिं लेभे
विना युद्धं स गोवृषः ॥ ह्व्_६४।९ ॥
विश्वास-प्रस्तुतिः
([क्: ९ after ९, क्१।२,द्२-४ ins.: :क्])
कस्यचित् त्व् अथ कालस्य
स वृषः केशवाग्रतः । ह्व्_६४।९७३७:१ ।
आजगाम बलोद्रग्रो
वैवस्वतवशे स्थितः । ह्व्_६४।९७३७:२ ।
([क्: क्१,द्२-४ चोन्त्।; क्३।४,Ñ,व्,ब्,द्न्स्,द्१।५।६,त्,ग्,म्४ ins. after ९: :क्])
स तत्र गास् तु प्रसभं
बाधमानो मदोत्कटः । ह्व्_६४।९७३८ ।
एतस्मिन्न् एव काले तु
गवाः कृष्णसमीपगाः ।
त्रासयामास दुष्टात्मा
वैवस्वत पथे स्थितः ॥ ह्व्_६४।१० ॥
मूलम्
([क्: ९ after ९, क्१।२,द्२-४ ins.: :क्])
कस्यचित् त्व् अथ कालस्य
स वृषः केशवाग्रतः । ह्व्_६४।९७३७:१ ।
आजगाम बलोद्रग्रो
वैवस्वतवशे स्थितः । ह्व्_६४।९७३७:२ ।
([क्: क्१,द्२-४ चोन्त्।; क्३।४,Ñ,व्,ब्,द्न्स्,द्१।५।६,त्,ग्,म्४ ins. after ९: :क्])
स तत्र गास् तु प्रसभं
बाधमानो मदोत्कटः । ह्व्_६४।९७३८ ।
एतस्मिन्न् एव काले तु
गवाः कृष्णसमीपगाः ।
त्रासयामास दुष्टात्मा
वैवस्वत पथे स्थितः ॥ ह्व्_६४।१० ॥
विश्वास-प्रस्तुतिः
सेन्द्राशनिर् इवाम्भोदो
नर्दमानो महावृषः ।
चकार निर्वृषं गोष्ठं
निर्वत्सशिशुपुङ्गवम् ॥ ह्व्_६४।११ ॥
मूलम्
सेन्द्राशनिर् इवाम्भोदो
नर्दमानो महावृषः ।
चकार निर्वृषं गोष्ठं
निर्वत्सशिशुपुङ्गवम् ॥ ह्व्_६४।११ ॥
विश्वास-प्रस्तुतिः
([क्: व्२,ब्१,द्४,त्२,ग्१,म् ins. after ११; द्६,त्१,ग्२।३।५ after the सेचोन्द् ओच्चुर्रेन्चे of ११cd: :क्])
तम् आराद् अभिधावन्तं
नर्दमानं महावृषम् । ह्व्_६४।११७३९ ।
तालशब्देन तं कृष्णः
सिंहनादैश् च मोहयन् ।
अभ्यधावत गोविन्दो
दैत्यं वृषभरूपिणम् ॥ ह्व्_६४।१२ ॥
मूलम्
([क्: व्२,ब्१,द्४,त्२,ग्१,म् ins. after ११; द्६,त्१,ग्२।३।५ after the सेचोन्द् ओच्चुर्रेन्चे of ११cd: :क्])
तम् आराद् अभिधावन्तं
नर्दमानं महावृषम् । ह्व्_६४।११७३९ ।
तालशब्देन तं कृष्णः
सिंहनादैश् च मोहयन् ।
अभ्यधावत गोविन्दो
दैत्यं वृषभरूपिणम् ॥ ह्व्_६४।१२ ॥
विश्वास-प्रस्तुतिः
स कृष्णं गोवृषो दृष्ट्वा
हृष्टलाङ्गूललोचनः ।
रुषितस् तलशब्देन
युद्धाकाङ्क्षी ननर्द ह ॥ ह्व्_६४।१३ ॥
मूलम्
स कृष्णं गोवृषो दृष्ट्वा
हृष्टलाङ्गूललोचनः ।
रुषितस् तलशब्देन
युद्धाकाङ्क्षी ननर्द ह ॥ ह्व्_६४।१३ ॥
विश्वास-प्रस्तुतिः
तम् आपतन्तम् उद्वृत्तम्
दृष्ट्वा वृषभदानवम् ।
तस्मात् स्थानान् न व्यचलत्
कृष्णो गिरिर् इवाचलः ॥ ह्व्_६४।१४ ॥
मूलम्
तम् आपतन्तम् उद्वृत्तम्
दृष्ट्वा वृषभदानवम् ।
तस्मात् स्थानान् न व्यचलत्
कृष्णो गिरिर् इवाचलः ॥ ह्व्_६४।१४ ॥
विश्वास-प्रस्तुतिः
वृषः कक्षयोर् दृष्टिं
प्रणिधाय धृताननः ।
कृष्णस्य निधनाकाङ्क्षी
तूर्णम् अभ्युत्पपात ह ॥ ह्व्_६४।१५ ॥
मूलम्
वृषः कक्षयोर् दृष्टिं
प्रणिधाय धृताननः ।
कृष्णस्य निधनाकाङ्क्षी
तूर्णम् अभ्युत्पपात ह ॥ ह्व्_६४।१५ ॥
विश्वास-प्रस्तुतिः
तम् आपतन्तं प्रमुखे
प्रतिजग्राह दुर्धरम् ।
कृष्णः कृष्णाञ्जननिभं
वृषं प्रति वृषोपमः ॥ ह्व्_६४।१६ ॥
मूलम्
तम् आपतन्तं प्रमुखे
प्रतिजग्राह दुर्धरम् ।
कृष्णः कृष्णाञ्जननिभं
वृषं प्रति वृषोपमः ॥ ह्व्_६४।१६ ॥
विश्वास-प्रस्तुतिः
स संसक्तस् तु कृष्णेन
वृषेणेव महावृषः ।
मुमोच वक्त्रजं फेनं
नस्ततो ऽथ स शब्दवत् ॥ ह्व्_६४।१७ ॥
मूलम्
स संसक्तस् तु कृष्णेन
वृषेणेव महावृषः ।
मुमोच वक्त्रजं फेनं
नस्ततो ऽथ स शब्दवत् ॥ ह्व्_६४।१७ ॥
विश्वास-प्रस्तुतिः
ताव् अन्योन्याव् अरुद्धाङ्गौ
युद्धे कृष्णवृषाव् उभौ ।
रेजतुर् मेघसमये
संसक्ताव् इव तोयदौ ॥ ह्व्_६४।१८ ॥
मूलम्
ताव् अन्योन्याव् अरुद्धाङ्गौ
युद्धे कृष्णवृषाव् उभौ ।
रेजतुर् मेघसमये
संसक्ताव् इव तोयदौ ॥ ह्व्_६४।१८ ॥
विश्वास-प्रस्तुतिः
तस्य दर्पबलं हत्वा
कृत्वा शृङ्गान्तरे पदम् ।
अपीडयद् अरिष्टस्य
कण्ठं क्लिन्नम् इवाम्बरम् ॥ ह्व्_६४।१९ ॥
मूलम्
तस्य दर्पबलं हत्वा
कृत्वा शृङ्गान्तरे पदम् ।
अपीडयद् अरिष्टस्य
कण्ठं क्लिन्नम् इवाम्बरम् ॥ ह्व्_६४।१९ ॥
विश्वास-प्रस्तुतिः
शृङ्गं चास्य पुनः सव्यम्
उत्पाट्य यमदण्डवत् ।
तेनैव प्राहरद् वक्त्रे
स ममार भृशं हतः ॥ ह्व्_६४।२० ॥
मूलम्
शृङ्गं चास्य पुनः सव्यम्
उत्पाट्य यमदण्डवत् ।
तेनैव प्राहरद् वक्त्रे
स ममार भृशं हतः ॥ ह्व्_६४।२० ॥
विश्वास-प्रस्तुतिः
विभिन्नशृङ्गो भग्नास्यो
भग्नस्कन्धश् च दानवः ।
पपात रुधिरोद्गारी
साम्बुधार इवाम्बुदः ॥ ह्व्_६४।२१ ॥
मूलम्
विभिन्नशृङ्गो भग्नास्यो
भग्नस्कन्धश् च दानवः ।
पपात रुधिरोद्गारी
साम्बुधार इवाम्बुदः ॥ ह्व्_६४।२१ ॥
विश्वास-प्रस्तुतिः
गोविन्देन हतं दृष्ट्वा
दृप्तं वृषभदानवम् ।
साधु साध्व् इति भूतानि
तत्कर्मास्याभितुष्टुवुः ॥ ह्व्_६४।२२ ॥
मूलम्
गोविन्देन हतं दृष्ट्वा
दृप्तं वृषभदानवम् ।
साधु साध्व् इति भूतानि
तत्कर्मास्याभितुष्टुवुः ॥ ह्व्_६४।२२ ॥
विश्वास-प्रस्तुतिः
स चोपेन्द्रो वृषं हत्वा
कान्तवक्त्रो निशामुखे ।
अरविन्दाभनयनः
पुनर् एव रराज ह ॥ ह्व्_६४।२३ ॥
मूलम्
स चोपेन्द्रो वृषं हत्वा
कान्तवक्त्रो निशामुखे ।
अरविन्दाभनयनः
पुनर् एव रराज ह ॥ ह्व्_६४।२३ ॥
विश्वास-प्रस्तुतिः
ते ऽपि गोवृत्तयः सर्वे
कृष्णं कमललोचनम् ।
उपासाञ्चक्रिरे हृष्टाः
स्वर्गे शक्रम् इवामराः ॥ ह्व्_२४ ॥
मूलम्
ते ऽपि गोवृत्तयः सर्वे
कृष्णं कमललोचनम् ।
उपासाञ्चक्रिरे हृष्टाः
स्वर्गे शक्रम् इवामराः ॥ ह्व्_२४ ॥