विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
गते शक्रे ततः कृष्णः
पूज्यमानो व्रजौकसैः ।
गोवर्धनधरः श्रीमान्
विवेश व्रजम् एव ह ॥ ह्व्_६३।१ ॥
मूलम्
{वैशम्पायन उवाच}
गते शक्रे ततः कृष्णः
पूज्यमानो व्रजौकसैः ।
गोवर्धनधरः श्रीमान्
विवेश व्रजम् एव ह ॥ ह्व्_६३।१ ॥
विश्वास-प्रस्तुतिः
तं स्म वृद्धाभिनन्दन्ति
ज्ञातयश् च सहोषिताः ।
धन्याः स्मो ऽनुगृहीताः स्मस्
त्वद्धृतेन नगेन ह ॥ ह्व्_६३।२ ॥
मूलम्
तं स्म वृद्धाभिनन्दन्ति
ज्ञातयश् च सहोषिताः ।
धन्याः स्मो ऽनुगृहीताः स्मस्
त्वद्धृतेन नगेन ह ॥ ह्व्_६३।२ ॥
विश्वास-प्रस्तुतिः
गावो वर्षभयात् तीर्णा
वयं तीर्णा महाभयात् ।
तव प्रसादाद् गोविन्द
देवतुल्य महाद्युते ॥ ह्व्_६३।३ ॥
मूलम्
गावो वर्षभयात् तीर्णा
वयं तीर्णा महाभयात् ।
तव प्रसादाद् गोविन्द
देवतुल्य महाद्युते ॥ ह्व्_६३।३ ॥
विश्वास-प्रस्तुतिः
अमानुषाणि कर्माणि
तव पश्याम गोपते ।
धारणेनास्य शैलस्य
विद्मस् त्वां कृष्णम् अव्ययम् ॥ ह्व्_६३।४ ॥
मूलम्
अमानुषाणि कर्माणि
तव पश्याम गोपते ।
धारणेनास्य शैलस्य
विद्मस् त्वां कृष्णम् अव्ययम् ॥ ह्व्_६३।४ ॥
विश्वास-प्रस्तुतिः
कस् त्वं भवसि रुद्राणां
मरुतां वा महाबल ।
वसूनां वा किमर्थं च
वसुदेवः पिता तव ॥ ह्व्_६३।५ ॥
मूलम्
कस् त्वं भवसि रुद्राणां
मरुतां वा महाबल ।
वसूनां वा किमर्थं च
वसुदेवः पिता तव ॥ ह्व्_६३।५ ॥
विश्वास-प्रस्तुतिः
वने च बालक्रीडा ते
जन्म चास्मासु गर्हितम् ।
कृष्ण दिव्या च ते चेष्टा
शङ्कितानि मनांसि नः ॥ ह्व्_६३।६ ॥
मूलम्
वने च बालक्रीडा ते
जन्म चास्मासु गर्हितम् ।
कृष्ण दिव्या च ते चेष्टा
शङ्कितानि मनांसि नः ॥ ह्व्_६३।६ ॥
विश्वास-प्रस्तुतिः
किमर्थं गोपवेषेण
रमसे ऽस्मासु गर्हितम् ।
लोकपालोपमश् चैव
गास् त्वं किं परिरक्षसि ॥ ह्व्_६३।७ ॥
मूलम्
किमर्थं गोपवेषेण
रमसे ऽस्मासु गर्हितम् ।
लोकपालोपमश् चैव
गास् त्वं किं परिरक्षसि ॥ ह्व्_६३।७ ॥
विश्वास-प्रस्तुतिः
देवो वा दानवो वा त्वम्
यक्षो गन्धर्व एव वा ।
अस्माकं बान्धवो जातो
यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ ह्व्_६३।८ ॥
मूलम्
देवो वा दानवो वा त्वम्
यक्षो गन्धर्व एव वा ।
अस्माकं बान्धवो जातो
यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ ह्व्_६३।८ ॥
विश्वास-प्रस्तुतिः
([क्: after ८, द्६,स् ins.: :क्])
नमो ऽस्तु कृष्ण कृष्णेति
नमो गोपालबन्धवे । ह्व्_६३।८७३३:१ ।
नमो बालाय गोप्त्रे च
गोपवेषाय बान्धव ॥ ह्व्_६३।८७३३:२ ।
मूलम्
([क्: after ८, द्६,स् ins.: :क्])
नमो ऽस्तु कृष्ण कृष्णेति
नमो गोपालबन्धवे । ह्व्_६३।८७३३:१ ।
नमो बालाय गोप्त्रे च
गोपवेषाय बान्धव ॥ ह्व्_६३।८७३३:२ ।
विश्वास-प्रस्तुतिः
नमस् ते शिशुसिंहाय
नमो भूधरधारिणे । ह्व्_६३।८७३३:३ ।
देवायाथ वरिष्ठाय
यक्षाय च नमो नमः ॥ ह्व्_६३।८७३३:४ ।
मूलम्
नमस् ते शिशुसिंहाय
नमो भूधरधारिणे । ह्व्_६३।८७३३:३ ।
देवायाथ वरिष्ठाय
यक्षाय च नमो नमः ॥ ह्व्_६३।८७३३:४ ।
विश्वास-प्रस्तुतिः
नमस् ते नन्दपुत्राय
यशोदायाः सुताय च । ह्व्_६३।८७३३:५ ।
को भवान् कश् च वा देवः
किमर्थं नो ऽभिरक्षसि । ह्व्_६३।८७३३:६ ।
केनचिद् यदि कार्येण
वससिइह यदृच्छया ।
वयम् तवअनुगाः सर्वे
भवन्तम् शरणम्* गताः ॥ ह्व्_६३।९ ॥
मूलम्
नमस् ते नन्दपुत्राय
यशोदायाः सुताय च । ह्व्_६३।८७३३:५ ।
को भवान् कश् च वा देवः
किमर्थं नो ऽभिरक्षसि । ह्व्_६३।८७३३:६ ।
केनचिद् यदि कार्येण
वससिइह यदृच्छया ।
वयम् तवअनुगाः सर्वे
भवन्तम् शरणम्* गताः ॥ ह्व्_६३।९ ॥
विश्वास-प्रस्तुतिः
गोपानाम्* वचनम्* श्रुत्वा
कृष्णः पद्मनिभेक्षणः ।
प्रत्युवाच स्मितम्* कृत्वा
ज्ञातीन् सर्वान् समागतान् ॥ ह्व्_६३।१० ॥
मूलम्
गोपानाम्* वचनम्* श्रुत्वा
कृष्णः पद्मनिभेक्षणः ।
प्रत्युवाच स्मितम्* कृत्वा
ज्ञातीन् सर्वान् समागतान् ॥ ह्व्_६३।१० ॥
विश्वास-प्रस्तुतिः
यथा मन्यन्ति मां सर्वे
भवन्तो भीमविक्रमाः ।
तथाहं नावगन्तव्यः
स्वजातीयो ऽस्मि बान्धवः ॥ ह्व्_६३।११ ॥
मूलम्
यथा मन्यन्ति मां सर्वे
भवन्तो भीमविक्रमाः ।
तथाहं नावगन्तव्यः
स्वजातीयो ऽस्मि बान्धवः ॥ ह्व्_६३।११ ॥
विश्वास-प्रस्तुतिः
यदि त्व् अवश्यं श्रोतव्यः
कालः सम्प्रतिपाल्यताम् ।
ततो भवन्तः श्रोष्यन्ति
मां च द्रक्ष्यन्ति तत्त्वतः ॥ ह्व्_६३।१२ ॥
मूलम्
यदि त्व् अवश्यं श्रोतव्यः
कालः सम्प्रतिपाल्यताम् ।
ततो भवन्तः श्रोष्यन्ति
मां च द्रक्ष्यन्ति तत्त्वतः ॥ ह्व्_६३।१२ ॥
विश्वास-प्रस्तुतिः
यद्य् अहं भवतां श्लाघ्यो
बान्धवो देवसप्रभः ।
परिज्ञानेन किं कार्यम्
यद्य् एषो ऽनुग्रहो मम ॥ ह्व्_६३।१३ ॥
मूलम्
यद्य् अहं भवतां श्लाघ्यो
बान्धवो देवसप्रभः ।
परिज्ञानेन किं कार्यम्
यद्य् एषो ऽनुग्रहो मम ॥ ह्व्_६३।१३ ॥
विश्वास-प्रस्तुतिः
एवम् उक्तास् तु ते गोपा
वसुदेवसुतेन वै ।
बद्धमौना दिशः सर्वे
भेजिरे पिहिताननाः ॥ ह्व्_६३।१४ ॥
मूलम्
एवम् उक्तास् तु ते गोपा
वसुदेवसुतेन वै ।
बद्धमौना दिशः सर्वे
भेजिरे पिहिताननाः ॥ ह्व्_६३।१४ ॥
विश्वास-प्रस्तुतिः
कृष्णस् तु यौवनं दृष्ट्वा
निशि चन्द्रमसो नवम् ।
शारदीनां निशानां च
मनश् चक्रे रतिं प्रति ॥ ह्व्_६३।१५ ॥
मूलम्
कृष्णस् तु यौवनं दृष्ट्वा
निशि चन्द्रमसो नवम् ।
शारदीनां निशानां च
मनश् चक्रे रतिं प्रति ॥ ह्व्_६३।१५ ॥
विश्वास-प्रस्तुतिः
स करीषाङ्गरागासु
व्रजरथ्यासु वीर्यवान् ।
वृषाणां जातरागाणां
युद्धानि समयोजयत् ॥ ह्व्_६३।१६ ॥
मूलम्
स करीषाङ्गरागासु
व्रजरथ्यासु वीर्यवान् ।
वृषाणां जातरागाणां
युद्धानि समयोजयत् ॥ ह्व्_६३।१६ ॥
विश्वास-प्रस्तुतिः
गोपालांश् च बलोदग्रान्
योधयाम् आस वीर्यवान् ।
वने स वीरो गाश् चैव
जग्राह ग्राहवद् विभुः ॥ ह्व्_६३।१७ ॥
मूलम्
गोपालांश् च बलोदग्रान्
योधयाम् आस वीर्यवान् ।
वने स वीरो गाश् चैव
जग्राह ग्राहवद् विभुः ॥ ह्व्_६३।१७ ॥
विश्वास-प्रस्तुतिः
युवत्यो गोपकन्याश् च
रात्रौ सङ्काल्य कालवित् ।
कैशोरकं मानयानः
सह ताभिर् मुमोद ह ॥ ह्व्_६३।१८ ॥
मूलम्
युवत्यो गोपकन्याश् च
रात्रौ सङ्काल्य कालवित् ।
कैशोरकं मानयानः
सह ताभिर् मुमोद ह ॥ ह्व्_६३।१८ ॥
विश्वास-प्रस्तुतिः
तास् तस्य वदनं कान्तं
कान्ता गोपस्त्रियो निशि ।
पिबन्ति नयनाक्षेपैर्
गां गतं शशिनं यथा ॥ ह्व्_६३।१९ ॥
मूलम्
तास् तस्य वदनं कान्तं
कान्ता गोपस्त्रियो निशि ।
पिबन्ति नयनाक्षेपैर्
गां गतं शशिनं यथा ॥ ह्व्_६३।१९ ॥
विश्वास-प्रस्तुतिः
हरितालार्द्रपीतेन
कौशेयेन च भास्वता ।
भद्रवस्त्रेण वसितः
कृष्णः कान्ततरो ऽभवत् ॥ ह्व्_६३।२० ॥
मूलम्
हरितालार्द्रपीतेन
कौशेयेन च भास्वता ।
भद्रवस्त्रेण वसितः
कृष्णः कान्ततरो ऽभवत् ॥ ह्व्_६३।२० ॥
विश्वास-प्रस्तुतिः
स बद्धाङ्गदनिर्यूहश्
चित्रया वनमालया ।
शोभमानो हि गोविन्दः
शोभयाम् आस तं व्रजम् ॥ ह्व्_६३।२१ ॥
मूलम्
स बद्धाङ्गदनिर्यूहश्
चित्रया वनमालया ।
शोभमानो हि गोविन्दः
शोभयाम् आस तं व्रजम् ॥ ह्व्_६३।२१ ॥
विश्वास-प्रस्तुतिः
नमो दामोदरायेति
गोपकन्यास् तदाब्रुवन् ।
विचित्रं चरितं घोषे
दृष्ट्वा तत् तस्य भास्वतः ॥ ह्व्_६३।२२ ॥
मूलम्
नमो दामोदरायेति
गोपकन्यास् तदाब्रुवन् ।
विचित्रं चरितं घोषे
दृष्ट्वा तत् तस्य भास्वतः ॥ ह्व्_६३।२२ ॥
विश्वास-प्रस्तुतिः
([क्: after २२, द्६,स् ins.: :क्])
नमस् ते कृष्ण गोपेति
प्रसीद प्रभवेति च । ह्व्_६३।२२७३४ ।
तास् तं पयोधरोत्तानैर्
उरोभिः समपीडयन् ।
भ्रामिताक्षैश् च वदनैर्
निरीक्षन्ते वराङ्गनाः ॥ ह्व्_६३।२३ ॥
मूलम्
([क्: after २२, द्६,स् ins.: :क्])
नमस् ते कृष्ण गोपेति
प्रसीद प्रभवेति च । ह्व्_६३।२२७३४ ।
तास् तं पयोधरोत्तानैर्
उरोभिः समपीडयन् ।
भ्रामिताक्षैश् च वदनैर्
निरीक्षन्ते वराङ्गनाः ॥ ह्व्_६३।२३ ॥
विश्वास-प्रस्तुतिः
ता वार्यमानाः पितृभिर्
भ्रातृभिर् मातृभिस् तथा ।
कृष्णं गोपाङ्गना रात्रौ
मृगयन्ति रतिप्रियाः ॥ ह्व्_६३।२४ ॥
मूलम्
ता वार्यमानाः पितृभिर्
भ्रातृभिर् मातृभिस् तथा ।
कृष्णं गोपाङ्गना रात्रौ
मृगयन्ति रतिप्रियाः ॥ ह्व्_६३।२४ ॥
विश्वास-प्रस्तुतिः
तास् तु पङ्क्तीकृताः सर्वा*
रमयन्ति मनोरमम् ।
गायन्त्यः कृष्णचरितम्*
द्वन्द्वशो गोपकन्यकाः ॥ ह्व्_६३।२५ ॥
मूलम्
तास् तु पङ्क्तीकृताः सर्वा*
रमयन्ति मनोरमम् ।
गायन्त्यः कृष्णचरितम्*
द्वन्द्वशो गोपकन्यकाः ॥ ह्व्_६३।२५ ॥
विश्वास-प्रस्तुतिः
कृष्णलीलानुकारिण्यः
कृष्णप्रणिहितेक्षणाः ।
कृष्णस्य गतिगामिन्यस्
तरुण्यस् ता वराङ्गनाः ॥ ह्व्_६३।२६ ॥
मूलम्
कृष्णलीलानुकारिण्यः
कृष्णप्रणिहितेक्षणाः ।
कृष्णस्य गतिगामिन्यस्
तरुण्यस् ता वराङ्गनाः ॥ ह्व्_६३।२६ ॥
विश्वास-प्रस्तुतिः
वनेषु तालहस्ताग्रैः
कुट्टयन्त्यस् तथापराः ।
चेरुर् वै चरितं तस्य
कृष्णस्य व्रजयोषितः ॥ ह्व्_६३।२७ ॥
मूलम्
वनेषु तालहस्ताग्रैः
कुट्टयन्त्यस् तथापराः ।
चेरुर् वै चरितं तस्य
कृष्णस्य व्रजयोषितः ॥ ह्व्_६३।२७ ॥
विश्वास-प्रस्तुतिः
तास् तस्य नृत्यं गीतं च
विलासस्मितवीक्षितम् ।
मुदिताश् चानुकुर्वन्त्यः
क्रीडन्ति व्रजयोषितः ॥ ह्व्_६३।२८ ॥
मूलम्
तास् तस्य नृत्यं गीतं च
विलासस्मितवीक्षितम् ।
मुदिताश् चानुकुर्वन्त्यः
क्रीडन्ति व्रजयोषितः ॥ ह्व्_६३।२८ ॥
विश्वास-प्रस्तुतिः
भावनिष्पन्नमधुरं
गायन्त्यस् ता वराङ्गनाः ।
व्रजं गताः सुखं चेरुर्
दामोदरपरायणाः ॥ ह्व्_६३।२९ ॥
मूलम्
भावनिष्पन्नमधुरं
गायन्त्यस् ता वराङ्गनाः ।
व्रजं गताः सुखं चेरुर्
दामोदरपरायणाः ॥ ह्व्_६३।२९ ॥
विश्वास-प्रस्तुतिः
([क्: फ़ोर् २९cd, द्२ सुब्स्त्।: :क्])
चेरुर् दामोदरपराः
सुखं नार्यो व्रजं गताः । ह्व्_६३।२९७३५ ।
करीषपांसुदिग्धाङ्ग्यस्
ताः कृष्णम् अनुवव्रिरे ।
रमयन्त्यो यथा नागं
सप्रमोदाः करेणवः ॥ ह्व्_६३।३० ॥
मूलम्
([क्: फ़ोर् २९cd, द्२ सुब्स्त्।: :क्])
चेरुर् दामोदरपराः
सुखं नार्यो व्रजं गताः । ह्व्_६३।२९७३५ ।
करीषपांसुदिग्धाङ्ग्यस्
ताः कृष्णम् अनुवव्रिरे ।
रमयन्त्यो यथा नागं
सप्रमोदाः करेणवः ॥ ह्व्_६३।३० ॥
विश्वास-प्रस्तुतिः
तम् अन्या भावविकचैर्
नेत्रैः प्रहसिताननाः ।
पिबन्त्य् अतृप्ता वनिताः
कृष्णं कृष्णमृगेक्षणाः ॥ ह्व्_६३।३१ ॥
मूलम्
तम् अन्या भावविकचैर्
नेत्रैः प्रहसिताननाः ।
पिबन्त्य् अतृप्ता वनिताः
कृष्णं कृष्णमृगेक्षणाः ॥ ह्व्_६३।३१ ॥
विश्वास-प्रस्तुतिः
मुखम् अस्यापरा वीक्ष्य
तृषिता गोपकन्यकाः ।
रत्यन्तरगता रात्रौ
पिबन्ति रतिलालसाः ॥ ह्व्_६३।३२ ॥
मूलम्
मुखम् अस्यापरा वीक्ष्य
तृषिता गोपकन्यकाः ।
रत्यन्तरगता रात्रौ
पिबन्ति रतिलालसाः ॥ ह्व्_६३।३२ ॥
विश्वास-प्रस्तुतिः
हाहेति कुर्वतस् तस्य
प्रहृष्टास् ता वराङ्गनाः ।
जगृहुर् निःसृतां वाणीं
साम्ना दामोदरेरिताम् ॥ ह्व्_६३।३३ ॥
मूलम्
हाहेति कुर्वतस् तस्य
प्रहृष्टास् ता वराङ्गनाः ।
जगृहुर् निःसृतां वाणीं
साम्ना दामोदरेरिताम् ॥ ह्व्_६३।३३ ॥
विश्वास-प्रस्तुतिः
तासां ग्रथितसीमन्ता
रतिचिन्ताकुलीकृताः ।
चारु विस्रंसिरे केशाः
कुचाग्रे गोपयोषिताम् ॥ ह्व्_६३।३४ ॥
मूलम्
तासां ग्रथितसीमन्ता
रतिचिन्ताकुलीकृताः ।
चारु विस्रंसिरे केशाः
कुचाग्रे गोपयोषिताम् ॥ ह्व्_६३।३४ ॥
विश्वास-प्रस्तुतिः
([क्: द्६,त्,ग्,म्४,ग्(एद्।) ins. after ३४; म्१-३ सुब्स्त्। फ़ोर् ३३-३४: :क्])
अथ दामोदरः काश्चिज्
जग्राह रतिलालसः ॥ ह्व्_६३।३४७३६:१ ।
मूलम्
([क्: द्६,त्,ग्,म्४,ग्(एद्।) ins. after ३४; म्१-३ सुब्स्त्। फ़ोर् ३३-३४: :क्])
अथ दामोदरः काश्चिज्
जग्राह रतिलालसः ॥ ह्व्_६३।३४७३६:१ ।
विश्वास-प्रस्तुतिः
एवं गोपाङ्गनाः कृष्णं
रमयन्ति मनोरमाः । ह्व्_६३।३४७३६:२ ।
अलङ्कृताः सुमधुरं
गायन्त्यो मधुविह्वलाः ॥ ह्व्_६३।३४७३६:३ ।
मूलम्
एवं गोपाङ्गनाः कृष्णं
रमयन्ति मनोरमाः । ह्व्_६३।३४७३६:२ ।
अलङ्कृताः सुमधुरं
गायन्त्यो मधुविह्वलाः ॥ ह्व्_६३।३४७३६:३ ।
विश्वास-प्रस्तुतिः
कृष्णो ऽपि मधुरक्ताक्षो
गोपीनां हर्षवर्धनः । ह्व्_६३।३४७३६:४ ।
पपौ तासां मुखं विष्णुर्
घूर्णयन् नेत्रषट्पदम् ॥ ह्व्_६३।३४७३६:५ ।
मूलम्
कृष्णो ऽपि मधुरक्ताक्षो
गोपीनां हर्षवर्धनः । ह्व्_६३।३४७३६:४ ।
पपौ तासां मुखं विष्णुर्
घूर्णयन् नेत्रषट्पदम् ॥ ह्व्_६३।३४७३६:५ ।
विश्वास-प्रस्तुतिः
अपरां वाससी गृह्य
चुचुम्बे गोपकन्यकाम् । ह्व्_६३।३४७३६:६ ।
आलिलिङ्गे ऽथ काञ्चित् तु
कृष्णो मदविलोचनः ॥ ह्व्_६३।३४७३६:७ ।
मूलम्
अपरां वाससी गृह्य
चुचुम्बे गोपकन्यकाम् । ह्व्_६३।३४७३६:६ ।
आलिलिङ्गे ऽथ काञ्चित् तु
कृष्णो मदविलोचनः ॥ ह्व्_६३।३४७३६:७ ।
विश्वास-प्रस्तुतिः
अन्यया सह गोविन्दः
शेते लीलाविधानवित् । ह्व्_६३।३४७३६:८ ।
अन्यस्या वाससी गृह्य
दृष्ट्वा चारु पपौ मुखम् । ह्व्_६३।३४७३६:९ ।
अन्यां लिलेख गोविन्दो
नखैः शातैश् च केशवः ॥ ह्व्_६३।३४७३६:१० ।
मूलम्
अन्यया सह गोविन्दः
शेते लीलाविधानवित् । ह्व्_६३।३४७३६:८ ।
अन्यस्या वाससी गृह्य
दृष्ट्वा चारु पपौ मुखम् । ह्व्_६३।३४७३६:९ ।
अन्यां लिलेख गोविन्दो
नखैः शातैश् च केशवः ॥ ह्व्_६३।३४७३६:१० ।
विश्वास-प्रस्तुतिः
अन्यां च केशे सङ्गृह्य
मुखम् उन्नम्य लीलया । ह्व्_६३।३४७३६:११ ।
आलिलिङ्गे ऽथ गोविन्दो
गोपवेषतिरस्कृतः ॥ ह्व्_६३।३४७३६:१२ ।
मूलम्
अन्यां च केशे सङ्गृह्य
मुखम् उन्नम्य लीलया । ह्व्_६३।३४७३६:११ ।
आलिलिङ्गे ऽथ गोविन्दो
गोपवेषतिरस्कृतः ॥ ह्व्_६३।३४७३६:१२ ।
विश्वास-प्रस्तुतिः
एकां सङ्गृह्य सन्त्यज्य
काञ्चिद् अन्याम् अवासृजत् । ह्व्_६३।३४७३६:१३ ।
पश्यन्त्या रमयाम् आस
काञ्चिद् अन्याम् अरीरमत् ॥ ह्व्_६३।३४७३६:१४ ।
मूलम्
एकां सङ्गृह्य सन्त्यज्य
काञ्चिद् अन्याम् अवासृजत् । ह्व्_६३।३४७३६:१३ ।
पश्यन्त्या रमयाम् आस
काञ्चिद् अन्याम् अरीरमत् ॥ ह्व्_६३।३४७३६:१४ ।
विश्वास-प्रस्तुतिः
आहूय काञ्चिद् देवेशः
काञ्चिद् अन्याम् अरीरमत् । ह्व्_६३।३४७३६:१५ ।
तां पुनः सहसा गृह्य
तत्समक्षम् अरीरमत् ॥ ह्व्_६३।३४७३६:१६ ।
मूलम्
आहूय काञ्चिद् देवेशः
काञ्चिद् अन्याम् अरीरमत् । ह्व्_६३।३४७३६:१५ ।
तां पुनः सहसा गृह्य
तत्समक्षम् अरीरमत् ॥ ह्व्_६३।३४७३६:१६ ।
विश्वास-प्रस्तुतिः
ताश् च गोप्यः स्वभर्तृंश् च
सन्त्यज्य हरिम् एव ह । ह्व्_६३।३४७३६:१७ ।
अयम् एव हि नो ज्येष्ठः
श्रेष्ठश् चेति वराङ्गनाः । ह्व्_६३।३४७३६:१८ ।
कृष्णे च देवदेवेशे
परं भावं समाययुः । ह्व्_६३।३४७३६:१९ ।
एवं स कृष्णो गोपीनां
चक्रवालैर् अलङ्कृतः ।
शारदीषु सचन्द्रासु
निशासु मुमुदे सुखी ॥ ह्व्_६३।३५ ॥
मूलम्
ताश् च गोप्यः स्वभर्तृंश् च
सन्त्यज्य हरिम् एव ह । ह्व्_६३।३४७३६:१७ ।
अयम् एव हि नो ज्येष्ठः
श्रेष्ठश् चेति वराङ्गनाः । ह्व्_६३।३४७३६:१८ ।
कृष्णे च देवदेवेशे
परं भावं समाययुः । ह्व्_६३।३४७३६:१९ ।
एवं स कृष्णो गोपीनां
चक्रवालैर् अलङ्कृतः ।
शारदीषु सचन्द्रासु
निशासु मुमुदे सुखी ॥ ह्व्_६३।३५ ॥