०६१

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
महे प्रतिहते शक्रः
सक्रोधस् त्रिदशेश्वरः ।
संवर्तकं नाम गणं
तोयदानाम् अथाब्रवीत् ॥ ह्व्_६१।१ ॥

मूलम्

{वैशम्पायन उवाच}
महे प्रतिहते शक्रः
सक्रोधस् त्रिदशेश्वरः ।
संवर्तकं नाम गणं
तोयदानाम् अथाब्रवीत् ॥ ह्व्_६१।१ ॥

विश्वास-प्रस्तुतिः

भो बलाहकमातङ्गाः
श्रूयतां मम भाषितम् ।
यदि वो मत्प्रियं कार्यं
राजभक्तिपुरस्कृतम् ॥ ह्व्_६१।२ ॥

मूलम्

भो बलाहकमातङ्गाः
श्रूयतां मम भाषितम् ।
यदि वो मत्प्रियं कार्यं
राजभक्तिपुरस्कृतम् ॥ ह्व्_६१।२ ॥

विश्वास-प्रस्तुतिः

एते वृन्दावन गता
दामोदरपरायणाः ।
नन्दगोपादयो गोपा
विद्विषन्ति ममोत्सवम् ॥ ह्व्_६१।३ ॥

मूलम्

एते वृन्दावन गता
दामोदरपरायणाः ।
नन्दगोपादयो गोपा
विद्विषन्ति ममोत्सवम् ॥ ह्व्_६१।३ ॥

विश्वास-प्रस्तुतिः

आजीवो यः परस् तेषां
गोपत्वं च यतः स्मृतम् ।
ता गावः सप्तरात्रेण
पीड्यन्तां वृष्टिमारुतैः ॥ ह्व्_६१।४ ॥

मूलम्

आजीवो यः परस् तेषां
गोपत्वं च यतः स्मृतम् ।
ता गावः सप्तरात्रेण
पीड्यन्तां वृष्टिमारुतैः ॥ ह्व्_६१।४ ॥

विश्वास-प्रस्तुतिः

ऐरावतगतश् चाहम्
स्वयम् एवाम्बु दारुणम् ।
स्रक्ष्यामि वृष्टिं वातं च
वज्राशनिसमप्रभम् ॥ ह्व्_६१।५ ॥

मूलम्

ऐरावतगतश् चाहम्
स्वयम् एवाम्बु दारुणम् ।
स्रक्ष्यामि वृष्टिं वातं च
वज्राशनिसमप्रभम् ॥ ह्व्_६१।५ ॥

विश्वास-प्रस्तुतिः

भवद्भिश् चण्डवर्षेण
चरता मारुतेन च ।
हतास् ताः सव्रजा गावस्
त्यक्ष्यन्ति भुवि जीवितम् ॥ ह्व्_६१।६ ॥

मूलम्

भवद्भिश् चण्डवर्षेण
चरता मारुतेन च ।
हतास् ताः सव्रजा गावस्
त्यक्ष्यन्ति भुवि जीवितम् ॥ ह्व्_६१।६ ॥

विश्वास-प्रस्तुतिः

एवम् आज्ञापयाम् आस
स सर्वाञ् जलदान् प्रभुः ।
प्रत्याहते वै कृष्णेन
शासने पाकशासनः ॥ ह्व्_६१।७ ॥

मूलम्

एवम् आज्ञापयाम् आस
स सर्वाञ् जलदान् प्रभुः ।
प्रत्याहते वै कृष्णेन
शासने पाकशासनः ॥ ह्व्_६१।७ ॥

विश्वास-प्रस्तुतिः

([क्: फ़ोर् ७cd, म्१-३ सुब्स्त्।: :क्])
महे प्रतिहते विष्णोः
शासनात् पाकशासनः । ह्व्_६१।७७०६ ।
ततस् ते जलदाः कृष्णा
घोरनादा भयावहाः ।
आकाशं छादयामासुः
सर्वतः पर्वतोपमाः ॥ ह्व्_६१।८ ॥

मूलम्

([क्: फ़ोर् ७cd, म्१-३ सुब्स्त्।: :क्])
महे प्रतिहते विष्णोः
शासनात् पाकशासनः । ह्व्_६१।७७०६ ।
ततस् ते जलदाः कृष्णा
घोरनादा भयावहाः ।
आकाशं छादयामासुः
सर्वतः पर्वतोपमाः ॥ ह्व्_६१।८ ॥

विश्वास-प्रस्तुतिः

विद्युत्सम्पातजननाः
शक्रचापविभूषिताः ।
तिमिरावृतम् आकाशं
चक्रुस् ते जलदास् तदा ॥ ह्व्_६१।९ ॥

मूलम्

विद्युत्सम्पातजननाः
शक्रचापविभूषिताः ।
तिमिरावृतम् आकाशं
चक्रुस् ते जलदास् तदा ॥ ह्व्_६१।९ ॥

विश्वास-प्रस्तुतिः

गजा इवान्ये संसक्ताः
केचिन् मकरवर्चसः ।
नागा इवान्ये गगने
चेरुर् जलदपुङ्गवाः ॥ ह्व्_६१।१० ॥

मूलम्

गजा इवान्ये संसक्ताः
केचिन् मकरवर्चसः ।
नागा इवान्ये गगने
चेरुर् जलदपुङ्गवाः ॥ ह्व्_६१।१० ॥

विश्वास-प्रस्तुतिः

ते ऽन्योन्यवपुषा बद्धा
नागयूथायुतोपमाः ।
दुर्दिनं विपुलं चक्रुश्
छादयन्तो नभस् तलम् ॥ ह्व्_६१।११ ॥

मूलम्

ते ऽन्योन्यवपुषा बद्धा
नागयूथायुतोपमाः ।
दुर्दिनं विपुलं चक्रुश्
छादयन्तो नभस् तलम् ॥ ह्व्_६१।११ ॥

विश्वास-प्रस्तुतिः

नृहस्तनागहस्तानां
वेणूनां चैव सर्वशः ।
([क्: फ़ोर् १२अब्, म्१-३ सुब्स्त्।: :क्])
स्थूलनागोरुहस्तानां
सततं सर्वतोदिशम् । ह्व्_६१।१२अब्७०७ ।
धाराभिस् तुल्यरूपाभिर्
ववृषुस् ते बलाहकाः ॥ ह्व्_६१।१२ ॥

मूलम्

नृहस्तनागहस्तानां
वेणूनां चैव सर्वशः ।
([क्: फ़ोर् १२अब्, म्१-३ सुब्स्त्।: :क्])
स्थूलनागोरुहस्तानां
सततं सर्वतोदिशम् । ह्व्_६१।१२अब्७०७ ।
धाराभिस् तुल्यरूपाभिर्
ववृषुस् ते बलाहकाः ॥ ह्व्_६१।१२ ॥

विश्वास-प्रस्तुतिः

समुद्रं मेनिरे तं हि
खम् आरूढं नृचक्षुषः ।
दुर्विगाह्यम् अपर्यन्तम्
अगाधं दुर्दिनं महत् ॥ ह्व्_६१।१३ ॥

मूलम्

समुद्रं मेनिरे तं हि
खम् आरूढं नृचक्षुषः ।
दुर्विगाह्यम् अपर्यन्तम्
अगाधं दुर्दिनं महत् ॥ ह्व्_६१।१३ ॥

विश्वास-प्रस्तुतिः

न सम्पतन्ति खगमा
दुद्रुवुर् मृगजातयः ।
पर्वताभेषु मेघेषु
खे नदत्सु समन्ततः ॥ ह्व्_६१।१४ ॥

मूलम्

न सम्पतन्ति खगमा
दुद्रुवुर् मृगजातयः ।
पर्वताभेषु मेघेषु
खे नदत्सु समन्ततः ॥ ह्व्_६१।१४ ॥

विश्वास-प्रस्तुतिः

सुप्तसूर्येन्दुसदृशे
मेघैर् नभसि दारुणैह् ।
अतिवृष्टेन लोकस्य
विरूपम् अभवद् वपुः ॥ ह्व्_६१।१५ ॥

मूलम्

सुप्तसूर्येन्दुसदृशे
मेघैर् नभसि दारुणैह् ।
अतिवृष्टेन लोकस्य
विरूपम् अभवद् वपुः ॥ ह्व्_६१।१५ ॥

विश्वास-प्रस्तुतिः

मेघौघैर् निष्प्रभाकारम्
अदृश्यग्रहतारकम् ।
चन्द्रसूर्यांशुरहितं
खं बभूवातिनिष्प्रभम् ॥ ह्व्_६१।१६ ॥

मूलम्

मेघौघैर् निष्प्रभाकारम्
अदृश्यग्रहतारकम् ।
चन्द्रसूर्यांशुरहितं
खं बभूवातिनिष्प्रभम् ॥ ह्व्_६१।१६ ॥

विश्वास-प्रस्तुतिः

वारिणा मेघमुक्तेन
मुच्यमानेन चासकृत् ।
([क्: after १७अब्,द्६ त्१।२ ग् म् ins.: :क्])
मेघयुक्तेन वातेन
घूर्णितम् विश्वतोमुखम् । ह्व्_६१।१७अब्७०८ ।
आबभौ सर्वतस् तत्र
भूमिस् तोयमयी यथा ॥ ह्व्_६१।१७ ॥

मूलम्

वारिणा मेघमुक्तेन
मुच्यमानेन चासकृत् ।
([क्: after १७अब्,द्६ त्१।२ ग् म् ins.: :क्])
मेघयुक्तेन वातेन
घूर्णितम् विश्वतोमुखम् । ह्व्_६१।१७अब्७०८ ।
आबभौ सर्वतस् तत्र
भूमिस् तोयमयी यथा ॥ ह्व्_६१।१७ ॥

विश्वास-प्रस्तुतिः

विनेदुर् बर्हिणस् तत्र
स्तोककाल्परुताः खगाः ।
विवृद्धिं निम्नगा याताः
प्लवगाः सम्प्लवं गताः ॥ ह्व्_६१।१८ ॥

मूलम्

विनेदुर् बर्हिणस् तत्र
स्तोककाल्परुताः खगाः ।
विवृद्धिं निम्नगा याताः
प्लवगाः सम्प्लवं गताः ॥ ह्व्_६१।१८ ॥

विश्वास-प्रस्तुतिः

गर्जितेन च मेघानां
पर्जन्यनिनदेन च ।
तर्जितानीव कम्पन्ते
तृणानि तरुभिः सह ॥ ह्व्_६१।१९ ॥

मूलम्

गर्जितेन च मेघानां
पर्जन्यनिनदेन च ।
तर्जितानीव कम्पन्ते
तृणानि तरुभिः सह ॥ ह्व्_६१।१९ ॥

विश्वास-प्रस्तुतिः

प्राप्तो ऽन्तकालो लोकानां
प्राप्ता चैकार्णवा मही ।
इति गोपगणा वाक्यं
व्याहरन्ति भयार्दिताः ॥ ह्व्_६१।२० ॥

मूलम्

प्राप्तो ऽन्तकालो लोकानां
प्राप्ता चैकार्णवा मही ।
इति गोपगणा वाक्यं
व्याहरन्ति भयार्दिताः ॥ ह्व्_६१।२० ॥

विश्वास-प्रस्तुतिः

([क्: after २०, अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
तेनोत्पाताम्बुवर्षेण
गावो विप्रहता भृशम् । ह्व्_६१।२०७०९ ।
हम्भारवैः क्रन्दमाना
न चेलुः स्तम्भितोपमाः ।
निष्कम्पसक्थिश्रवणा
निष्प्रयत्नखुराननाः ॥

मूलम्

([क्: after २०, अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
तेनोत्पाताम्बुवर्षेण
गावो विप्रहता भृशम् । ह्व्_६१।२०७०९ ।
हम्भारवैः क्रन्दमाना
न चेलुः स्तम्भितोपमाः ।
निष्कम्पसक्थिश्रवणा
निष्प्रयत्नखुराननाः ॥

विश्वास-प्रस्तुतिः

हृष्टलोमार्द्रतनवः
क्षामकुक्षिपयोधराः ॥ ह्व्_६१।२१ ॥

मूलम्

हृष्टलोमार्द्रतनवः
क्षामकुक्षिपयोधराः ॥ ह्व्_६१।२१ ॥

विश्वास-प्रस्तुतिः

काश्चित् प्राणान् जहुः श्रान्ता
निपेतुः काश्चिद् आतुराः ।
काश्चित् सवत्साः पतिता
गावः शीकरवेजिताः ॥ ह्व्_६१।२२ ॥

मूलम्

काश्चित् प्राणान् जहुः श्रान्ता
निपेतुः काश्चिद् आतुराः ।
काश्चित् सवत्साः पतिता
गावः शीकरवेजिताः ॥ ह्व्_६१।२२ ॥

विश्वास-प्रस्तुतिः

काश्चिद् आक्रम्य क्रोडेन
वत्सांश् तिष्ठन्ति मातरः ।
विमुखाः श्रान्तसक्थ्यश् च
निराहाराः कृशोदराः ॥ ह्व्_६१।२३ ॥

मूलम्

काश्चिद् आक्रम्य क्रोडेन
वत्सांश् तिष्ठन्ति मातरः ।
विमुखाः श्रान्तसक्थ्यश् च
निराहाराः कृशोदराः ॥ ह्व्_६१।२३ ॥

विश्वास-प्रस्तुतिः

पेतुर् आर्ता वेपमाना
गावो वर्षपराजिताः ।
वत्साश् चोन्मुखका बाला
दामोदर मुखाः स्थिताः ॥

मूलम्

पेतुर् आर्ता वेपमाना
गावो वर्षपराजिताः ।
वत्साश् चोन्मुखका बाला
दामोदर मुखाः स्थिताः ॥

विश्वास-प्रस्तुतिः

त्राहीति वदनैर् दीनैः
कृष्णम् ऊचुर् इवार्तवत् ॥ ह्व्_६१।२४ ॥

मूलम्

त्राहीति वदनैर् दीनैः
कृष्णम् ऊचुर् इवार्तवत् ॥ ह्व्_६१।२४ ॥

विश्वास-प्रस्तुतिः

([क्: after २४, त्३ ins.: :क्])
गवां पश्य महाबाहो
वेदनां परमातुराः । ह्व्_६१।२४७१० ।
गवां तत्कदनं दृष्ट्वा
दुर्दिनागमजं भयम् ।
गोपांश् चासन्नवदनान्
कोपं कृष्णः समादधे ॥ ह्व्_६१।२५ ॥

मूलम्

([क्: after २४, त्३ ins.: :क्])
गवां पश्य महाबाहो
वेदनां परमातुराः । ह्व्_६१।२४७१० ।
गवां तत्कदनं दृष्ट्वा
दुर्दिनागमजं भयम् ।
गोपांश् चासन्नवदनान्
कोपं कृष्णः समादधे ॥ ह्व्_६१।२५ ॥

विश्वास-प्रस्तुतिः

([क्: after २५च्, त्३ ins.: :क्])
गाश् चापि परमातुराः । ह्व्_६१।२५७११:१ ।*
रोषताम्रेक्षणः श्रीमान् । ह्व्_६१।२५७११:२ ।*
([क्: after २५, द्६,त्१।३।४,ग्१-३,म्४ ins.: :क्])
अहो धार्ष्ट्यं सुरपतेर्
माम् अनादृत्य सम्प्रति । ह्व्_६१।२५७१२:१ ।
गवां वधः कृतस् तस्य
गोपानां च तथा कृतः । ह्व्_६१।२५७१२:२ ।
स चिन्तयित्वा संरब्धो
दृष्टो योगो गवाम् इति ।
आत्मानम् आत्मना वाक्यम्
इदम् आह प्रियंवदः ॥ ह्व्_६१।२६ ॥

मूलम्

([क्: after २५च्, त्३ ins.: :क्])
गाश् चापि परमातुराः । ह्व्_६१।२५७११:१ ।*
रोषताम्रेक्षणः श्रीमान् । ह्व्_६१।२५७११:२ ।*
([क्: after २५, द्६,त्१।३।४,ग्१-३,म्४ ins.: :क्])
अहो धार्ष्ट्यं सुरपतेर्
माम् अनादृत्य सम्प्रति । ह्व्_६१।२५७१२:१ ।
गवां वधः कृतस् तस्य
गोपानां च तथा कृतः । ह्व्_६१।२५७१२:२ ।
स चिन्तयित्वा संरब्धो
दृष्टो योगो गवाम् इति ।
आत्मानम् आत्मना वाक्यम्
इदम् आह प्रियंवदः ॥ ह्व्_६१।२६ ॥

विश्वास-प्रस्तुतिः

अद्याहम् इमम् उत्पाट्य
सकाननवनं गिरिम् ।
कल्पयेयं गवां स्थानं
वर्षत्राणाय दुर्धरम् ॥ ह्व्_६१।२७ ॥

मूलम्

अद्याहम् इमम् उत्पाट्य
सकाननवनं गिरिम् ।
कल्पयेयं गवां स्थानं
वर्षत्राणाय दुर्धरम् ॥ ह्व्_६१।२७ ॥

विश्वास-प्रस्तुतिः

अयं धृतो मया शैलो
भूमीगृहनिभोपमः ।
त्रास्यन्ते सव्रजा गावो
मद्वश्यश् च भविष्यति ॥ ह्व्_६१।२८ ॥

मूलम्

अयं धृतो मया शैलो
भूमीगृहनिभोपमः ।
त्रास्यन्ते सव्रजा गावो
मद्वश्यश् च भविष्यति ॥ ह्व्_६१।२८ ॥

विश्वास-प्रस्तुतिः

एवं स चिन्तयित्वा तु
विष्णुः सत्यपराक्रमः ।
([क्: after २९अब्, क्४ ins.: :क्])
इत्य् उक्त्वैकेन हस्तेन
कृत्वा गोवर्धनाचलम् । ह्व्_६१।२९अब्७१३:१ ।
दधार लीलया कृष्णश्
छत्राकम् इव बालकः । ह्व्_६१।२९अब्७१३:२ ।
बाह्वोर् बलं दर्शयिष्यन्
समीपं तं महीधरम् ॥

मूलम्

एवं स चिन्तयित्वा तु
विष्णुः सत्यपराक्रमः ।
([क्: after २९अब्, क्४ ins.: :क्])
इत्य् उक्त्वैकेन हस्तेन
कृत्वा गोवर्धनाचलम् । ह्व्_६१।२९अब्७१३:१ ।
दधार लीलया कृष्णश्
छत्राकम् इव बालकः । ह्व्_६१।२९अब्७१३:२ ।
बाह्वोर् बलं दर्शयिष्यन्
समीपं तं महीधरम् ॥

विश्वास-प्रस्तुतिः

दोर्भ्यां उत्पाटयामास
कृष्णो गिरिर् इवापरः ॥ ह्व्_६१।२९ ॥

मूलम्

दोर्भ्यां उत्पाटयामास
कृष्णो गिरिर् इवापरः ॥ ह्व्_६१।२९ ॥

विश्वास-प्रस्तुतिः

([क्: after २९, द्६ स् ins.: :क्])
समूलविटपस्कन्धश्
चचाल स महागिरिः । ह्व्_६१।२९७१४:१ ।
घणाघणकृतः शैलः
सप्राण इव निःश्वसन् । ह्व्_६१।२९७१४:२ ।
स धृतः सङ्गतो मेघैर्
गिरिः सव्येन पाणिना ।
गृहभावं गतस् तत्र
गृहाकारेण वर्चसा ॥ ह्व्_६१।३० ॥

मूलम्

([क्: after २९, द्६ स् ins.: :क्])
समूलविटपस्कन्धश्
चचाल स महागिरिः । ह्व्_६१।२९७१४:१ ।
घणाघणकृतः शैलः
सप्राण इव निःश्वसन् । ह्व्_६१।२९७१४:२ ।
स धृतः सङ्गतो मेघैर्
गिरिः सव्येन पाणिना ।
गृहभावं गतस् तत्र
गृहाकारेण वर्चसा ॥ ह्व्_६१।३० ॥

विश्वास-प्रस्तुतिः

भूमेर् उत्पाट्यमानस्य
तस्य शैलस्य सानुषु ।
शिलाः प्रशिथिलाश् चेलुर्
निष्पेतुश् च सपादपाः ॥ ह्व्_६१।३१ ॥

मूलम्

भूमेर् उत्पाट्यमानस्य
तस्य शैलस्य सानुषु ।
शिलाः प्रशिथिलाश् चेलुर्
निष्पेतुश् च सपादपाः ॥ ह्व्_६१।३१ ॥

विश्वास-प्रस्तुतिः

([क्: after ३१, द्६,स् ins.: :क्])
रक्षिष्यन् गोधनं विष्णुर्
गोपानां गोपतिर् हरिः । ह्व्_६१।३१७१५:१ ।
गोमध्यस्थितगोविन्दो
गोपान् रक्षन् सगोकुलान् ॥ ह्व्_६१।३१७१५:२ ।

मूलम्

([क्: after ३१, द्६,स् ins.: :क्])
रक्षिष्यन् गोधनं विष्णुर्
गोपानां गोपतिर् हरिः । ह्व्_६१।३१७१५:१ ।
गोमध्यस्थितगोविन्दो
गोपान् रक्षन् सगोकुलान् ॥ ह्व्_६१।३१७१५:२ ।

विश्वास-प्रस्तुतिः

दधार गोधनं विष्णुर्
गोधरं च विलम्बयन् । ह्व्_६१।३१७१५:३ ।
गोपान् विस्मापयन् गोपो
गोमार्गे संस्थितो हरिः । ह्व्_६१।३१७१५:४ ।
आद्यं वपुश् च गृह्णानो
लोकानाम् ईश्वरेश्वरः ॥ ह्व्_६१।३१७१५:५ ।

मूलम्

दधार गोधनं विष्णुर्
गोधरं च विलम्बयन् । ह्व्_६१।३१७१५:३ ।
गोपान् विस्मापयन् गोपो
गोमार्गे संस्थितो हरिः । ह्व्_६१।३१७१५:४ ।
आद्यं वपुश् च गृह्णानो
लोकानाम् ईश्वरेश्वरः ॥ ह्व्_६१।३१७१५:५ ।

विश्वास-प्रस्तुतिः

व्यर्थं चकार गोविन्दो
गोधरस्य समीहितम् । ह्व्_६१।३१७१५:६ ।
गोवर्धनस्यास्य गिरेः
खे खणायितविग्रहः । ह्व्_६१।३१७१५:७ ।
शिखरैर् घूणमानैश् च
सीदमानैश् च सर्वतः ।
विधृतैश् चोच्छ्रितैः शृङ्गैर्
अगमः खगमो ऽभवत् ॥ ह्व्_६१।३२ ॥

मूलम्

व्यर्थं चकार गोविन्दो
गोधरस्य समीहितम् । ह्व्_६१।३१७१५:६ ।
गोवर्धनस्यास्य गिरेः
खे खणायितविग्रहः । ह्व्_६१।३१७१५:७ ।
शिखरैर् घूणमानैश् च
सीदमानैश् च सर्वतः ।
विधृतैश् चोच्छ्रितैः शृङ्गैर्
अगमः खगमो ऽभवत् ॥ ह्व्_६१।३२ ॥

विश्वास-प्रस्तुतिः

चलत्प्रस्रवणैः पार्श्वैर्
मेघौघैर् एकतां गतैः ।
भिद्यमानाश्मनिचयश्
चचाल धरणीधरः ॥ ह्व्_६१।३३ ॥

मूलम्

चलत्प्रस्रवणैः पार्श्वैर्
मेघौघैर् एकतां गतैः ।
भिद्यमानाश्मनिचयश्
चचाल धरणीधरः ॥ ह्व्_६१।३३ ॥

विश्वास-प्रस्तुतिः

न मेघानां प्रवृष्टानां
न शैलस्याश्मवर्षिणः ।
([क्: after ३४अब्, म्१-३ ins.: :क्])
वायोश् च घूर्णमानस्य
विद्युतां भ्रमताम् अपि । ह्व्_६१।३४अब्७१६:१ ।
विष्णुतेजोभिभूतानाम्
अदृश्यन्त वपूंषि च । ह्व्_६१।३४अब्७१६:२ ।
विविदुस् ते जना रूपं
वायोस् तस्य च गर्जतः ॥ ह्व्_६१।३४ ॥

मूलम्

न मेघानां प्रवृष्टानां
न शैलस्याश्मवर्षिणः ।
([क्: after ३४अब्, म्१-३ ins.: :क्])
वायोश् च घूर्णमानस्य
विद्युतां भ्रमताम् अपि । ह्व्_६१।३४अब्७१६:१ ।
विष्णुतेजोभिभूतानाम्
अदृश्यन्त वपूंषि च । ह्व्_६१।३४अब्७१६:२ ।
विविदुस् ते जना रूपं
वायोस् तस्य च गर्जतः ॥ ह्व्_६१।३४ ॥

विश्वास-प्रस्तुतिः

मेघैः शिखरसन्धानैर्
जलप्रस्रवणान्वितैः ।
मिश्रीकृत इवाभाति
गिरिर् उद्दामबर्हिणः ॥ ह्व्_६१।३५ ॥

मूलम्

मेघैः शिखरसन्धानैर्
जलप्रस्रवणान्वितैः ।
मिश्रीकृत इवाभाति
गिरिर् उद्दामबर्हिणः ॥ ह्व्_६१।३५ ॥

विश्वास-प्रस्तुतिः

आप्लुतो ऽयं गिरिः पक्षैर्
इति विद्याधरोरगाः ।
गन्धर्वऋषयश् चैव
वाचो मुञ्चन्ति सुस्वराः ॥ ह्व्_६१।३६ ॥

मूलम्

आप्लुतो ऽयं गिरिः पक्षैर्
इति विद्याधरोरगाः ।
गन्धर्वऋषयश् चैव
वाचो मुञ्चन्ति सुस्वराः ॥ ह्व्_६१।३६ ॥

विश्वास-प्रस्तुतिः

स कृष्णतलविन्यस्तो
मुक्तमूलः क्षितेस् तलात् ।
रीतीर् निर्वर्तयामास
काञ्चनाञ् जनराजतीः ॥ ह्व्_६१।३७ ॥

मूलम्

स कृष्णतलविन्यस्तो
मुक्तमूलः क्षितेस् तलात् ।
रीतीर् निर्वर्तयामास
काञ्चनाञ् जनराजतीः ॥ ह्व्_६१।३७ ॥

विश्वास-प्रस्तुतिः

कानिचिच् छादितानीव
सङ्कीर्णार्धानि कानिचित् ।
गिरेर् मेघं प्रविष्टानि
तस्य शृङ्गाणि चाभवन् ॥ ह्व्_६१।३८ ॥

मूलम्

कानिचिच् छादितानीव
सङ्कीर्णार्धानि कानिचित् ।
गिरेर् मेघं प्रविष्टानि
तस्य शृङ्गाणि चाभवन् ॥ ह्व्_६१।३८ ॥

विश्वास-प्रस्तुतिः

गिरिणा कम्प्यमानेन
कम्पितानां तु शाखिनाम् ।
पुष्पम् उच्चावचं भूमौ
व्यशीर्यत समन्ततः ॥ ह्व्_६१।३९ ॥

मूलम्

गिरिणा कम्प्यमानेन
कम्पितानां तु शाखिनाम् ।
पुष्पम् उच्चावचं भूमौ
व्यशीर्यत समन्ततः ॥ ह्व्_६१।३९ ॥

विश्वास-प्रस्तुतिः

निःसृताः पृथुमूर्धानः
स्वस्तिकार्धविभूषिताः ।
द्विजिह्वपतयः क्रुद्धाः
खेचराः खे समन्ततः ॥ ह्व्_६१।४० ॥

मूलम्

निःसृताः पृथुमूर्धानः
स्वस्तिकार्धविभूषिताः ।
द्विजिह्वपतयः क्रुद्धाः
खेचराः खे समन्ततः ॥ ह्व्_६१।४० ॥

विश्वास-प्रस्तुतिः

आर्तिं जग्मुः खगगणा
वर्षेण च भयेन च ।
उत्पत्योत्पत्य गगनात्
पुनः पेतुर् अवाङ्मुखाः ॥ ह्व्_६१।४१ ॥

मूलम्

आर्तिं जग्मुः खगगणा
वर्षेण च भयेन च ।
उत्पत्योत्पत्य गगनात्
पुनः पेतुर् अवाङ्मुखाः ॥ ह्व्_६१।४१ ॥

विश्वास-प्रस्तुतिः

रेजुश् चारोषिताः सिंहाः
सजला इव तोयदाः ।
गर्गरा इव मथ्यन्तो
नेदुः शार्दूलपुङ्गवाः ॥ ह्व्_६१।४२ ॥

मूलम्

रेजुश् चारोषिताः सिंहाः
सजला इव तोयदाः ।
गर्गरा इव मथ्यन्तो
नेदुः शार्दूलपुङ्गवाः ॥ ह्व्_६१।४२ ॥

विश्वास-प्रस्तुतिः

विषमैश् च समीभूतैः
समैश् चात्यन्तदुर्गमैः ।
व्यावृत्तदेहः स गिरी
रम्य एवोपलक्ष्यते ॥ ह्व्_६१।४३ ॥

मूलम्

विषमैश् च समीभूतैः
समैश् चात्यन्तदुर्गमैः ।
व्यावृत्तदेहः स गिरी
रम्य एवोपलक्ष्यते ॥ ह्व्_६१।४३ ॥

विश्वास-प्रस्तुतिः

अभिवृष्टस्य तैर् मेघैस्
तस्य रूपं बभूव ह ।
स्तम्भितस्येव रुद्रेण
त्रिपुरस्य विहायसि ॥ ह्व्_६१।४४ ॥

मूलम्

अभिवृष्टस्य तैर् मेघैस्
तस्य रूपं बभूव ह ।
स्तम्भितस्येव रुद्रेण
त्रिपुरस्य विहायसि ॥ ह्व्_६१।४४ ॥

विश्वास-प्रस्तुतिः

बाहुदण्डेन कृष्णस्य
विधृतं सुमहत् तदा ।
नीलाभ्रपटलच् छन्नं
तद्गिरिच्छत्रम् आबभौ ॥ ह्व्_६१।४५ ॥

मूलम्

बाहुदण्डेन कृष्णस्य
विधृतं सुमहत् तदा ।
नीलाभ्रपटलच् छन्नं
तद्गिरिच्छत्रम् आबभौ ॥ ह्व्_६१।४५ ॥

विश्वास-प्रस्तुतिः

स्वप्नायमानो जलदैर्
निमीलितगुहामुखः ।
बाहूपधाने कृष्णस्य
प्रसुप्त इव खे गिरिः ॥ ह्व्_६१।४६ ॥

मूलम्

स्वप्नायमानो जलदैर्
निमीलितगुहामुखः ।
बाहूपधाने कृष्णस्य
प्रसुप्त इव खे गिरिः ॥ ह्व्_६१।४६ ॥

विश्वास-प्रस्तुतिः

निर्विहङ्गरुतैर् वृक्षैर्
निर्मयूररुतैर् वनैः ।
निरालम्ब इवाभाति
गिरिः स शिखरैर् वृतः ॥ ह्व्_६१।४७ ॥

मूलम्

निर्विहङ्गरुतैर् वृक्षैर्
निर्मयूररुतैर् वनैः ।
निरालम्ब इवाभाति
गिरिः स शिखरैर् वृतः ॥ ह्व्_६१।४७ ॥

विश्वास-प्रस्तुतिः

पर्यस्तैर् घूर्णमानैश् च
प्रचलद्भिश् च सानुभिः ।
सज्वराणीव शैलस्य
वनानि शिखराणि च ॥ ह्व्_६१।४८ ॥

मूलम्

पर्यस्तैर् घूर्णमानैश् च
प्रचलद्भिश् च सानुभिः ।
सज्वराणीव शैलस्य
वनानि शिखराणि च ॥ ह्व्_६१।४८ ॥

विश्वास-प्रस्तुतिः

उत्तमाङ्गगतास् तस्य
मेघाः पवनवाहनाः ।
त्वर्यमाणा महेन्द्रेण
तोयं मुमुचुर् अक्षयम् ॥ ह्व्_६१।४९ ॥

मूलम्

उत्तमाङ्गगतास् तस्य
मेघाः पवनवाहनाः ।
त्वर्यमाणा महेन्द्रेण
तोयं मुमुचुर् अक्षयम् ॥ ह्व्_६१।४९ ॥

विश्वास-प्रस्तुतिः

स लम्बमानः कृष्णस्य
भुजाग्रे सघनो गिरिः ।
चक्रारूढ इवाभाति
देशो नृपतिपीडितः ॥ ह्व्_६१।५० ॥

मूलम्

स लम्बमानः कृष्णस्य
भुजाग्रे सघनो गिरिः ।
चक्रारूढ इवाभाति
देशो नृपतिपीडितः ॥ ह्व्_६१।५० ॥

विश्वास-प्रस्तुतिः

स मेघनिचयस् तस्थौ
गिरिं तं परिवार्य ह ।
पुरं पुरस्कृत्य यथा
स्फीतो जनपदो महान् ॥ ह्व्_६१।५१ ॥

मूलम्

स मेघनिचयस् तस्थौ
गिरिं तं परिवार्य ह ।
पुरं पुरस्कृत्य यथा
स्फीतो जनपदो महान् ॥ ह्व्_६१।५१ ॥

विश्वास-प्रस्तुतिः

निवेश्य तं करे शैलं
तुलयित्वा च सस्मितम् ।
प्रोवाच गोप्ता गोपानां
प्रजापतिर् इव स्थितः ॥ ह्व्_६१।५२ ॥

मूलम्

निवेश्य तं करे शैलं
तुलयित्वा च सस्मितम् ।
प्रोवाच गोप्ता गोपानां
प्रजापतिर् इव स्थितः ॥ ह्व्_६१।५२ ॥

विश्वास-प्रस्तुतिः

एतद् देवैर् असम्भाव्यं
दिव्येन विधिना मया ।
कृतं गिरिगृहं गोपा
निवातशरणं गवाम् ॥ ह्व्_६१।५३ ॥

मूलम्

एतद् देवैर् असम्भाव्यं
दिव्येन विधिना मया ।
कृतं गिरिगृहं गोपा
निवातशरणं गवाम् ॥ ह्व्_६१।५३ ॥

विश्वास-प्रस्तुतिः

([क्: after ५३, क्४ ins.: :क्])
न त्रास इह वः कार्यो
मद्धस्ताद् धि निपातने । ह्व्_६१।५३७१७:१ ।
वातवर्षभयेनालं
तत्त्राणं विहितं हि वः । ह्व्_६१।५३७१७:२ ।
([क्: = भ्प् १०,२५।२१ :क्])
क्षिप्रं विशन्तु यूथानि
गवाम् इह हि शान्तये ।
निवातेषु च देशेषु
निवसन्तु यथासुखम् ॥

मूलम्

([क्: after ५३, क्४ ins.: :क्])
न त्रास इह वः कार्यो
मद्धस्ताद् धि निपातने । ह्व्_६१।५३७१७:१ ।
वातवर्षभयेनालं
तत्त्राणं विहितं हि वः । ह्व्_६१।५३७१७:२ ।
([क्: = भ्प् १०,२५।२१ :क्])
क्षिप्रं विशन्तु यूथानि
गवाम् इह हि शान्तये ।
निवातेषु च देशेषु
निवसन्तु यथासुखम् ॥

विश्वास-प्रस्तुतिः

यथाव्रजं यथायूथं
यथासारं च वै सुखम् ॥ ह्व्_६१।५४ ॥

मूलम्

यथाव्रजं यथायूथं
यथासारं च वै सुखम् ॥ ह्व्_६१।५४ ॥

विश्वास-प्रस्तुतिः

विभज्यताम् अयं देशः
कृतो वर्षनिवारणः ।
शैलोत्पाटनभूर् एषा
महती निर्मिता मया ॥

मूलम्

विभज्यताम् अयं देशः
कृतो वर्षनिवारणः ।
शैलोत्पाटनभूर् एषा
महती निर्मिता मया ॥

विश्वास-प्रस्तुतिः

([क्: after ५५cd, द्स् द्५ बोम्। पोओन एद्स्। ins.: :क्])
युथशश् च विभज्याथ
वसध्वं गोपसत्तमाः । ह्व्_६१।५५cd७१८:१ ।
पञ्चक्रोशप्रमाणेन
क्रौशैकं विस्तरो महान् । ह्व्_६१।५५cd७१८:२ ।
त्रैलोक्यम् अप्य् उत्सहते
ग्रसितुं किं पुनर् व्रजम् ॥ ह्व्_६१।५५ ॥

मूलम्

([क्: after ५५cd, द्स् द्५ बोम्। पोओन एद्स्। ins.: :क्])
युथशश् च विभज्याथ
वसध्वं गोपसत्तमाः । ह्व्_६१।५५cd७१८:१ ।
पञ्चक्रोशप्रमाणेन
क्रौशैकं विस्तरो महान् । ह्व्_६१।५५cd७१८:२ ।
त्रैलोक्यम् अप्य् उत्सहते
ग्रसितुं किं पुनर् व्रजम् ॥ ह्व्_६१।५५ ॥

विश्वास-प्रस्तुतिः

ततः किलकिलाशब्दो
गवां हम्भारवाश्रितः ।
गोपानां तुमुलो जज्ञे
मेघनादश् च बाह्यतः ॥ ह्व्_६१।५६ ॥

मूलम्

ततः किलकिलाशब्दो
गवां हम्भारवाश्रितः ।
गोपानां तुमुलो जज्ञे
मेघनादश् च बाह्यतः ॥ ह्व्_६१।५६ ॥

विश्वास-प्रस्तुतिः

प्रविशन्ति ततो गावो
गोपैर् यूथप्रकल्पिताः ।
तस्य शैलस्य विपुलं
प्रदरं गह्वरोदरम् ॥ ह्व्_६१।५७ ॥

मूलम्

प्रविशन्ति ततो गावो
गोपैर् यूथप्रकल्पिताः ।
तस्य शैलस्य विपुलं
प्रदरं गह्वरोदरम् ॥ ह्व्_६१।५७ ॥

विश्वास-प्रस्तुतिः

कृष्णो ऽपि मूले शैलस्य
शैलस्तम्भ इवोच्छ्रितः ।
दधारैकेन हस्तेन
शैलं प्रियम् इवातिथिम् ॥ ह्व्_६१।५८ ॥

मूलम्

कृष्णो ऽपि मूले शैलस्य
शैलस्तम्भ इवोच्छ्रितः ।
दधारैकेन हस्तेन
शैलं प्रियम् इवातिथिम् ॥ ह्व्_६१।५८ ॥

विश्वास-प्रस्तुतिः

ततो व्रजस्य भाण्डानि
युक्तानि शकटानि च ।
विविशुर् वर्षभीतानि
तद् गृहं गिरिनिर्मितम् ॥ ह्व्_६१।५९ ॥

मूलम्

ततो व्रजस्य भाण्डानि
युक्तानि शकटानि च ।
विविशुर् वर्षभीतानि
तद् गृहं गिरिनिर्मितम् ॥ ह्व्_६१।५९ ॥

विश्वास-प्रस्तुतिः

अतिदैवं तु कृष्णस्य
दृष्ट्वा तत् कर्म वज्रभृत् ।
मिथ्याप्रतिज्ञो जलदान्
वारयामास वै विभुः ॥ ह्व्_६१।६० ॥

मूलम्

अतिदैवं तु कृष्णस्य
दृष्ट्वा तत् कर्म वज्रभृत् ।
मिथ्याप्रतिज्ञो जलदान्
वारयामास वै विभुः ॥ ह्व्_६१।६० ॥

विश्वास-प्रस्तुतिः

सप्तरात्रे तु निर्वृत्ते
धरण्यां विगतोत्सवे ।
जगाम संवृतो मेघैर्
वृत्रहा स्वर्गम् उत्तमम् ॥ ह्व्_६१।६१ ॥

मूलम्

सप्तरात्रे तु निर्वृत्ते
धरण्यां विगतोत्सवे ।
जगाम संवृतो मेघैर्
वृत्रहा स्वर्गम् उत्तमम् ॥ ह्व्_६१।६१ ॥

विश्वास-प्रस्तुतिः

निवृत्ते सप्तरात्रे तु
तिष्ये स्कन्ने शतक्रतौ ।
गताभ्रे विमले व्योम्नि
दिवसे दीप्तभास्करे ॥ ह्व्_६१।६२ ॥

मूलम्

निवृत्ते सप्तरात्रे तु
तिष्ये स्कन्ने शतक्रतौ ।
गताभ्रे विमले व्योम्नि
दिवसे दीप्तभास्करे ॥ ह्व्_६१।६२ ॥

विश्वास-प्रस्तुतिः

गावस् तेनैव मार्गेण
परिजग्मुर् गतश्रमाः ।
खं च स्थानं ततो घोषः
प्रत्ययात् पुनर् एव सः ॥ ह्व्_६१।६३ ॥

मूलम्

गावस् तेनैव मार्गेण
परिजग्मुर् गतश्रमाः ।
खं च स्थानं ततो घोषः
प्रत्ययात् पुनर् एव सः ॥ ह्व्_६१।६३ ॥

विश्वास-प्रस्तुतिः

कृष्णो ऽपि तं गिरिश्रेष्ठं
स्वस्थाने स्थावरात्मवान् ।
प्रीतो निवेशयामास
ध्रुवाय वरदो विभुः ॥ ह्व्_६१।६४ ॥

मूलम्

कृष्णो ऽपि तं गिरिश्रेष्ठं
स्वस्थाने स्थावरात्मवान् ।
प्रीतो निवेशयामास
ध्रुवाय वरदो विभुः ॥ ह्व्_६१।६४ ॥