विश्वास-प्रस्तुतिः
तयोः प्रवृत्तयोर् एवं
कृष्णस्य च बलस्य च ।
वने विचरतोर् मासौ
व्यतियातौ स्म वार्षिकौ ॥ ह्व्_५९।१ ॥
मूलम्
तयोः प्रवृत्तयोर् एवं
कृष्णस्य च बलस्य च ।
वने विचरतोर् मासौ
व्यतियातौ स्म वार्षिकौ ॥ ह्व्_५९।१ ॥
विश्वास-प्रस्तुतिः
व्रजम् आजग्मतुस् तौ तु
व्रजे शुश्रुवतुस् तदा ।
प्राप्तं शक्रमहं वीरौ
गोपांश् चोत्सवलालसान् ॥ ह्व्_५९।२ ॥
मूलम्
व्रजम् आजग्मतुस् तौ तु
व्रजे शुश्रुवतुस् तदा ।
प्राप्तं शक्रमहं वीरौ
गोपांश् चोत्सवलालसान् ॥ ह्व्_५९।२ ॥
विश्वास-प्रस्तुतिः
कौतूहलाद् इदं वाक्यं
कृष्णः प्रोवाच तत्र वै ।
को ऽयं शक्रमहो नाम
येन वो हर्ष आगतः ॥ ह्व्_५९।३ ॥
मूलम्
कौतूहलाद् इदं वाक्यं
कृष्णः प्रोवाच तत्र वै ।
को ऽयं शक्रमहो नाम
येन वो हर्ष आगतः ॥ ह्व्_५९।३ ॥
विश्वास-प्रस्तुतिः
तत्र वृद्धतमस् त्व् एको
गोपो वाक्यम् उवाच ह ।
श्रूयतां तात शक्रस्य
यदर्थं मह इष्यते ॥ ह्व्_५९।४ ॥
मूलम्
तत्र वृद्धतमस् त्व् एको
गोपो वाक्यम् उवाच ह ।
श्रूयतां तात शक्रस्य
यदर्थं मह इष्यते ॥ ह्व्_५९।४ ॥
विश्वास-प्रस्तुतिः
देवानाम् ईश्वरः शक्रो
मेघानां चारिसूदन ।
तस्य चायं क्रतुः कृष्ण
लोकपालस्य शाश्वतः ॥ ह्व्_५९।५ ॥
मूलम्
देवानाम् ईश्वरः शक्रो
मेघानां चारिसूदन ।
तस्य चायं क्रतुः कृष्ण
लोकपालस्य शाश्वतः ॥ ह्व्_५९।५ ॥
विश्वास-प्रस्तुतिः
तेन सञ्चोदिता मेघास्
तस्यायुधविभूषिताः ।
तस्यैवाज्ञाकराः सस्यं
जनयन्ति नवाम्बुभिः ॥ ह्व्_५९।६ ॥
मूलम्
तेन सञ्चोदिता मेघास्
तस्यायुधविभूषिताः ।
तस्यैवाज्ञाकराः सस्यं
जनयन्ति नवाम्बुभिः ॥ ह्व्_५९।६ ॥
विश्वास-प्रस्तुतिः
मेघस्य पयसो दाता
पुरुहूतः पुरन्दरः ।
सम्प्रहृष्टः स भगवान्
प्रीणयत्य् अखिलं जगत् ॥ ह्व्_५९।७ ॥
मूलम्
मेघस्य पयसो दाता
पुरुहूतः पुरन्दरः ।
सम्प्रहृष्टः स भगवान्
प्रीणयत्य् अखिलं जगत् ॥ ह्व्_५९।७ ॥
विश्वास-प्रस्तुतिः
तेन सम्पादितं सस्यं
वयम् अन्ये च मानवाः ।
वर्तयामोपभुज्जानास्
तर्पयामश् च देवताः ॥ ह्व्_५९।८ ॥
मूलम्
तेन सम्पादितं सस्यं
वयम् अन्ये च मानवाः ।
वर्तयामोपभुज्जानास्
तर्पयामश् च देवताः ॥ ह्व्_५९।८ ॥
विश्वास-प्रस्तुतिः
देवो वर्षति लोकेषु
ततः सस्यं प्रवर्तते ।
पृथिव्यां तर्पितायां च
सामृतं लक्ष्यते जगत् ॥ ह्व्_५९।९ ॥
मूलम्
देवो वर्षति लोकेषु
ततः सस्यं प्रवर्तते ।
पृथिव्यां तर्पितायां च
सामृतं लक्ष्यते जगत् ॥ ह्व्_५९।९ ॥
विश्वास-प्रस्तुतिः
क्षीरवत्य इमा गावो
वत्सवत्यश् च निर्वृताः ।
तेन संवर्धिता गावस्
तृणैः पुष्टाः सपुङ्गवाः ॥ ह्व्_५९।१० ॥
मूलम्
क्षीरवत्य इमा गावो
वत्सवत्यश् च निर्वृताः ।
तेन संवर्धिता गावस्
तृणैः पुष्टाः सपुङ्गवाः ॥ ह्व्_५९।१० ॥
विश्वास-प्रस्तुतिः
नासस्या नातृणा गावो
न बुभुक्षार्दितो जनः ।
दृश्यते यत्र दृश्यन्ते
वृष्टिमन्तो बलाहकाः ॥ ह्व्_५९।११ ॥
मूलम्
नासस्या नातृणा गावो
न बुभुक्षार्दितो जनः ।
दृश्यते यत्र दृश्यन्ते
वृष्टिमन्तो बलाहकाः ॥ ह्व्_५९।११ ॥
विश्वास-प्रस्तुतिः
दुदोह सवितुर् गा वै
शक्रो दिव्याः पयस्वलाः ।
ताः क्षरन्ति नवं क्षीरं
मेध्यं मेघौघधारितम् ॥ ह्व्_५९।१२ ॥
मूलम्
दुदोह सवितुर् गा वै
शक्रो दिव्याः पयस्वलाः ।
ताः क्षरन्ति नवं क्षीरं
मेध्यं मेघौघधारितम् ॥ ह्व्_५९।१२ ॥
विश्वास-प्रस्तुतिः
वाय्वीरितं तु मेघेषु
करोति निनदं महत् ।
जवेनावर्जितं चैव
गर्जतीति जना विदुः ॥ ह्व्_५९।१३ ॥
मूलम्
वाय्वीरितं तु मेघेषु
करोति निनदं महत् ।
जवेनावर्जितं चैव
गर्जतीति जना विदुः ॥ ह्व्_५९।१३ ॥
विश्वास-प्रस्तुतिः
तस्य चैवोह्यमानस्य
वातयुक्तैर् बलाहकैः ।
वज्राशनिसमाः शब्दा
भवन्त्य् अगमभेदिनः ॥ ह्व्_५९।१४ ॥
मूलम्
तस्य चैवोह्यमानस्य
वातयुक्तैर् बलाहकैः ।
वज्राशनिसमाः शब्दा
भवन्त्य् अगमभेदिनः ॥ ह्व्_५९।१४ ॥
विश्वास-प्रस्तुतिः
([क्: फ़ोर् १४cd, द्६ सुब्स्त्।: :क्])
वज्राशनिसमाञ् शब्दान्
गर्जन्तो गगने स्थिताः । ह्व्_५९।१४६९२ ।
तज् जलं वज्रनिष्पेषैर्
विमुञ्चति नभोगतम् ।
बहुभिः कामगैर् मेघैः
शक्रो भृत्यैर् इवेश्वरः ॥ ह्व्_५९।१५ ॥
मूलम्
([क्: फ़ोर् १४cd, द्६ सुब्स्त्।: :क्])
वज्राशनिसमाञ् शब्दान्
गर्जन्तो गगने स्थिताः । ह्व्_५९।१४६९२ ।
तज् जलं वज्रनिष्पेषैर्
विमुञ्चति नभोगतम् ।
बहुभिः कामगैर् मेघैः
शक्रो भृत्यैर् इवेश्वरः ॥ ह्व्_५९।१५ ॥
विश्वास-प्रस्तुतिः
क्वचिद् दुर्दिनसङ्काशैः
क्वचिच् छन्नाभ्रसंस्थितैः ।
क्वचिच् छीकरमुक्ताभं
कुर्वद्भिर् गगनं घनैः ॥ ह्व्_५९।१६ ॥
मूलम्
क्वचिद् दुर्दिनसङ्काशैः
क्वचिच् छन्नाभ्रसंस्थितैः ।
क्वचिच् छीकरमुक्ताभं
कुर्वद्भिर् गगनं घनैः ॥ ह्व्_५९।१६ ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२।३,व्,ब्,द्२।३,त्३ ins. after १६अब्; द्स् after १६: :क्])
क्वचिद्भिन्नाञ्जनाकारैः
क्वचिच्छीकरवर्षिभिः । ह्व्_५९।१६६९३:१ ।
मण्डयत्य् एव देवेन्द्रो
विश्वम् एव नभो घनैः । ह्व्_५९।१६६९३:२ ।
एवम् एतत् पयो दुग्धं
गोभिः सूर्यस्य वारिदः ।
पर्जन्यः सर्वलोकानां
भवाय भुवि वर्षति ॥ ह्व्_५९।१७ ॥
मूलम्
([क्: Ñ२।३,व्,ब्,द्२।३,त्३ ins. after १६अब्; द्स् after १६: :क्])
क्वचिद्भिन्नाञ्जनाकारैः
क्वचिच्छीकरवर्षिभिः । ह्व्_५९।१६६९३:१ ।
मण्डयत्य् एव देवेन्द्रो
विश्वम् एव नभो घनैः । ह्व्_५९।१६६९३:२ ।
एवम् एतत् पयो दुग्धं
गोभिः सूर्यस्य वारिदः ।
पर्जन्यः सर्वलोकानां
भवाय भुवि वर्षति ॥ ह्व्_५९।१७ ॥
विश्वास-प्रस्तुतिः
([क्: after १७, क्,Ñ२।३,व्,ब्,द् (एxचेप्त् द्६,),त्३ ins.: :क्])
यस्मात् प्रावृड् इयं कृष्ण
शक्रस्य भुवि भाविनी । ह्व्_५९।१७६९४ ।
तस्मात् प्रावृषि राजानः
सर्वे शक्रं मुदा युताः ।
महैः सुरेशम् अर्चन्ति
वयम् अन्ये च मानवाः ॥ ह्व्_५९।१८ ॥
मूलम्
([क्: after १७, क्,Ñ२।३,व्,ब्,द् (एxचेप्त् द्६,),त्३ ins.: :क्])
यस्मात् प्रावृड् इयं कृष्ण
शक्रस्य भुवि भाविनी । ह्व्_५९।१७६९४ ।
तस्मात् प्रावृषि राजानः
सर्वे शक्रं मुदा युताः ।
महैः सुरेशम् अर्चन्ति
वयम् अन्ये च मानवाः ॥ ह्व्_५९।१८ ॥
विश्वास-प्रस्तुतिः
गोपवृद्धस्य वचनं
श्रुत्वा शक्रपरिग्रहे ।
प्रभावज्ञो ऽपि शक्रस्य
वाक्यं दामोदरो ऽब्रवीत् ॥ ह्व्_५९।१९ ॥
मूलम्
गोपवृद्धस्य वचनं
श्रुत्वा शक्रपरिग्रहे ।
प्रभावज्ञो ऽपि शक्रस्य
वाक्यं दामोदरो ऽब्रवीत् ॥ ह्व्_५९।१९ ॥
विश्वास-प्रस्तुतिः
वयं वनचरा गोप
गोपा गोधनजीविनः ।
गावो ऽस्मद्दैवतं विद्धि
गिरयश् च वनानि च ॥ ह्व्_५९।२० ॥
मूलम्
वयं वनचरा गोप
गोपा गोधनजीविनः ।
गावो ऽस्मद्दैवतं विद्धि
गिरयश् च वनानि च ॥ ह्व्_५९।२० ॥
विश्वास-प्रस्तुतिः
कर्षकाणां कृषिर् वृत्तिः
पण्यं विपणिजीविनाम् ।
अस्माकं गौः परा वृत्तिर्
एतत् त्रैविध्यम् उच्यते ॥
मूलम्
कर्षकाणां कृषिर् वृत्तिः
पण्यं विपणिजीविनाम् ।
अस्माकं गौः परा वृत्तिर्
एतत् त्रैविध्यम् उच्यते ॥
विश्वास-प्रस्तुतिः
विद्यया यो यया युक्तस्
तस्य सा दैवतं परम् ॥ ह्व्_५९।२१ ॥
मूलम्
विद्यया यो यया युक्तस्
तस्य सा दैवतं परम् ॥ ह्व्_५९।२१ ॥
विश्वास-प्रस्तुतिः
([क्: after २१, Ñ२।३ व् ब्१।२ द्न् द्स् त्३।४ ins.: :क्])
सैव पूज्यार्चनीया च
सैव तस्योपकारिणी । ह्व्_५९।२१६९५ ।
यो ऽन्यस्य फलम् अश्नानः
करोत्य् अन्यस्य सत्क्रियाम् ।
द्वाव् अनर्थौ स लभते
प्रेत्य चेह च मानवः ॥ ह्व्_५९।२२ ॥
मूलम्
([क्: after २१, Ñ२।३ व् ब्१।२ द्न् द्स् त्३।४ ins.: :क्])
सैव पूज्यार्चनीया च
सैव तस्योपकारिणी । ह्व्_५९।२१६९५ ।
यो ऽन्यस्य फलम् अश्नानः
करोत्य् अन्यस्य सत्क्रियाम् ।
द्वाव् अनर्थौ स लभते
प्रेत्य चेह च मानवः ॥ ह्व्_५९।२२ ॥
विश्वास-प्रस्तुतिः
कृष्यन्ताः प्रथिताः सीमाः
सीमान्तं श्रूयते वनम् ।
वनान्ता गिरयः सर्वे
सा चास्माकं गतिर् ध्रुवा ॥ ह्व्_५९।२३ ॥
मूलम्
कृष्यन्ताः प्रथिताः सीमाः
सीमान्तं श्रूयते वनम् ।
वनान्ता गिरयः सर्वे
सा चास्माकं गतिर् ध्रुवा ॥ ह्व्_५९।२३ ॥
विश्वास-प्रस्तुतिः
श्रूयन्ते गिरयश् चापि
वने ऽस्मिन् कामरूपिणः ।
प्रविश्य तास् तास् तनवो
रमन्ते स्वेषु सानुषु ॥ ह्व्_५९।२४ ॥
मूलम्
श्रूयन्ते गिरयश् चापि
वने ऽस्मिन् कामरूपिणः ।
प्रविश्य तास् तास् तनवो
रमन्ते स्वेषु सानुषु ॥ ह्व्_५९।२४ ॥
विश्वास-प्रस्तुतिः
भूत्वा केसरिणः सिंहा
व्याघ्राश् च नखिनां वराः ।
वनानि स्वानि रक्षन्ति
त्रासयन्तो द्रुमच्छिदः ॥ ह्व्_५९।२५ ॥
मूलम्
भूत्वा केसरिणः सिंहा
व्याघ्राश् च नखिनां वराः ।
वनानि स्वानि रक्षन्ति
त्रासयन्तो द्रुमच्छिदः ॥ ह्व्_५९।२५ ॥
विश्वास-प्रस्तुतिः
यदा चैषां विकुर्वन्ति
ते वनालयजीविनः ।
घ्नन्ति तान् एव दुर्वृत्तान्
पौरुषादेन कर्मणा ॥ ह्व्_५९।२६ ॥
मूलम्
यदा चैषां विकुर्वन्ति
ते वनालयजीविनः ।
घ्नन्ति तान् एव दुर्वृत्तान्
पौरुषादेन कर्मणा ॥ ह्व्_५९।२६ ॥
विश्वास-प्रस्तुतिः
मन्त्रयज्ञपरा विप्राः
सीतायज्ञाश् च कर्षकाः ।
गिरियज्ञा वयं गोपा
इज्यो ऽस्माभिर् गिरिर् वने ॥ ह्व्_५९।२७ ॥
मूलम्
मन्त्रयज्ञपरा विप्राः
सीतायज्ञाश् च कर्षकाः ।
गिरियज्ञा वयं गोपा
इज्यो ऽस्माभिर् गिरिर् वने ॥ ह्व्_५९।२७ ॥
विश्वास-प्रस्तुतिः
तन् मह्यं रोचते गोपा
गिरियज्ञं वयं वने ।
कुर्मः कृत्वा सुखं स्थानं
पादपे वाथ वा गिरौ ॥ ह्व्_५९।२८ ॥
मूलम्
तन् मह्यं रोचते गोपा
गिरियज्ञं वयं वने ।
कुर्मः कृत्वा सुखं स्थानं
पादपे वाथ वा गिरौ ॥ ह्व्_५९।२८ ॥
विश्वास-प्रस्तुतिः
तत्र हत्वा पशून् मेध्यान्
वितत्यायतने कृते ।
सर्वघोषस्य सन्दोहः
क्रियतां किं विचार्यते ॥ ह्व्_५९।२९ ॥
मूलम्
तत्र हत्वा पशून् मेध्यान्
वितत्यायतने कृते ।
सर्वघोषस्य सन्दोहः
क्रियतां किं विचार्यते ॥ ह्व्_५९।२९ ॥
विश्वास-प्रस्तुतिः
तं शरत्कुसुमापीडाः
परिवार्य प्रदक्षिणम् ।
गावो गिरिवरं सर्वास्
ततो यान्तु वनं पुनः ॥ ह्व्_५९।३० ॥
मूलम्
तं शरत्कुसुमापीडाः
परिवार्य प्रदक्षिणम् ।
गावो गिरिवरं सर्वास्
ततो यान्तु वनं पुनः ॥ ह्व्_५९।३० ॥
विश्वास-प्रस्तुतिः
प्राप्ता किलेयं हि गवां
स्वादुवीर्यतृणा गुणैः ।
शरत्प्रमुदिता रम्या
गतमेघजलाशया ॥ ह्व्_५९।३१ ॥
मूलम्
प्राप्ता किलेयं हि गवां
स्वादुवीर्यतृणा गुणैः ।
शरत्प्रमुदिता रम्या
गतमेघजलाशया ॥ ह्व्_५९।३१ ॥
विश्वास-प्रस्तुतिः
प्रियकैः पुष्पितैर् गौरं
श्यामं बाणवनैः क्वचित् ।
कठोरतृणम् आभाति
निर्मयूररुतं वनम् ॥ ह्व्_५९।३२ ॥
मूलम्
प्रियकैः पुष्पितैर् गौरं
श्यामं बाणवनैः क्वचित् ।
कठोरतृणम् आभाति
निर्मयूररुतं वनम् ॥ ह्व्_५९।३२ ॥
विश्वास-प्रस्तुतिः
विमला विजला व्योम्नि
विबलाका विविद्युतः ।
विवर्तन्ते जलधरा
विमदा इव कुञ्जराः ॥ ह्व्_५९।३३ ॥
मूलम्
विमला विजला व्योम्नि
विबलाका विविद्युतः ।
विवर्तन्ते जलधरा
विमदा इव कुञ्जराः ॥ ह्व्_५९।३३ ॥
विश्वास-प्रस्तुतिः
पटुना मेघवातेन
वार्षिकेणावकम्पिताः ।
पर्णोत्करघनाः सर्वे
प्रसादं यान्ति पादपाः ॥ ह्व्_५९।३४ ॥
मूलम्
पटुना मेघवातेन
वार्षिकेणावकम्पिताः ।
पर्णोत्करघनाः सर्वे
प्रसादं यान्ति पादपाः ॥ ह्व्_५९।३४ ॥
विश्वास-प्रस्तुतिः
([क्: फ़ोर् ३४, त्२ सुब्स्त्।: :क्])
विना च मेघनादेन
निर्मयूररुतं वनम् । ह्व्_५९।३४६९६:१ ।
नद्यो बहुविधाकारा
जलं स्वच्छं वहन्ति च । ह्व्_५९।३४६९६:२ ।
सितवर्णाम्बुदोष्णीषं
हंसचामरवीजितम् ।
पूर्णचन्द्रामलच्छत्रं
साभिषेकम् इवाम्बरम् ॥ ह्व्_५९।३५ ॥
मूलम्
([क्: फ़ोर् ३४, त्२ सुब्स्त्।: :क्])
विना च मेघनादेन
निर्मयूररुतं वनम् । ह्व्_५९।३४६९६:१ ।
नद्यो बहुविधाकारा
जलं स्वच्छं वहन्ति च । ह्व्_५९।३४६९६:२ ।
सितवर्णाम्बुदोष्णीषं
हंसचामरवीजितम् ।
पूर्णचन्द्रामलच्छत्रं
साभिषेकम् इवाम्बरम् ॥ ह्व्_५९।३५ ॥
विश्वास-प्रस्तुतिः
हंसैर् विहसितानीव
सुमुत्कुष्टानि सारसैः ।
सर्वाणि तनुतां यान्ति
जलानि जलदक्षये ॥ ह्व्_५९।३६ ॥
मूलम्
हंसैर् विहसितानीव
सुमुत्कुष्टानि सारसैः ।
सर्वाणि तनुतां यान्ति
जलानि जलदक्षये ॥ ह्व्_५९।३६ ॥
विश्वास-प्रस्तुतिः
चक्रवाकस्तनतटाः
पुलिनश्रोणिमण्डलाः ।
हंसलक्षणहासिन्यः
पतिं यान्ति समुद्रगाः ॥ ह्व्_५९।३७ ॥
मूलम्
चक्रवाकस्तनतटाः
पुलिनश्रोणिमण्डलाः ।
हंसलक्षणहासिन्यः
पतिं यान्ति समुद्रगाः ॥ ह्व्_५९।३७ ॥
विश्वास-प्रस्तुतिः
कुमुदोत्फुल्लम् उदकं
ताराभिश् चत्रम् अम्बरम् ।
समम् अभ्युत्स्मयन्तीव
शर्वरीष्व् इतरेतरम् ॥ ह्व्_५९।३८ ॥
मूलम्
कुमुदोत्फुल्लम् उदकं
ताराभिश् चत्रम् अम्बरम् ।
समम् अभ्युत्स्मयन्तीव
शर्वरीष्व् इतरेतरम् ॥ ह्व्_५९।३८ ॥
विश्वास-प्रस्तुतिः
मत्तक्रौञ्चावघुष्टेषु
कलमापक्वपाण्डुषु ।
निर्विष्टरमणीयेषु
वनेषु रमते मनः ॥ ह्व्_५९।३९ ॥
मूलम्
मत्तक्रौञ्चावघुष्टेषु
कलमापक्वपाण्डुषु ।
निर्विष्टरमणीयेषु
वनेषु रमते मनः ॥ ह्व्_५९।३९ ॥
विश्वास-प्रस्तुतिः
पुष्करिण्यस् तडागानि
वाप्यश् च विकचोत्पलाः ।
केदाराः सरितश् चैव
सरांसि च श्रियाज्वलन् ॥ ह्व्_५९।४० ॥
मूलम्
पुष्करिण्यस् तडागानि
वाप्यश् च विकचोत्पलाः ।
केदाराः सरितश् चैव
सरांसि च श्रियाज्वलन् ॥ ह्व्_५९।४० ॥
विश्वास-प्रस्तुतिः
पङ्कजानि च पद्मानि
तथान्यानि सितानि च ।
([क्: फ़ोर् ४१अब्, ग्३-५ सुब्स्त्।: :क्])
श्रिया ज्वलत्पङ्कजानि
ताम्राणि च सितानि च । ह्व्_५९।४१६९७ ।
उत्पलानि च नीलानि
भेजिरे वारिजां श्रियम् ॥ ह्व्_५९।४१ ॥
मूलम्
पङ्कजानि च पद्मानि
तथान्यानि सितानि च ।
([क्: फ़ोर् ४१अब्, ग्३-५ सुब्स्त्।: :क्])
श्रिया ज्वलत्पङ्कजानि
ताम्राणि च सितानि च । ह्व्_५९।४१६९७ ।
उत्पलानि च नीलानि
भेजिरे वारिजां श्रियम् ॥ ह्व्_५९।४१ ॥
विश्वास-प्रस्तुतिः
मदं जहुः सितापाङ्गा
मन्दं ववृधिरे ऽनिलाः ।
अभवद् व्यभ्रमाकाशम्
अभूच् च निभृतो र्णवः ॥ ह्व्_५९।४२ ॥
मूलम्
मदं जहुः सितापाङ्गा
मन्दं ववृधिरे ऽनिलाः ।
अभवद् व्यभ्रमाकाशम्
अभूच् च निभृतो र्णवः ॥ ह्व्_५९।४२ ॥
विश्वास-प्रस्तुतिः
ऋतुपर्यायशिथिलैर्
वृत्तनृत्तसमुज्झितैः ।
मयूराङ्गरुहैर् भूमिर्
बहुनेत्रेव लक्ष्यते ॥ ह्व्_५९।४३ ॥
मूलम्
ऋतुपर्यायशिथिलैर्
वृत्तनृत्तसमुज्झितैः ।
मयूराङ्गरुहैर् भूमिर्
बहुनेत्रेव लक्ष्यते ॥ ह्व्_५९।४३ ॥
विश्वास-प्रस्तुतिः
स्वपङ्कमलिनैस् तीरैः
काशपुष्पलताकुलैः ।
हंससारसविन्यासैर्
यमुना याति संयता ॥ ह्व्_५९।४४ ॥
मूलम्
स्वपङ्कमलिनैस् तीरैः
काशपुष्पलताकुलैः ।
हंससारसविन्यासैर्
यमुना याति संयता ॥ ह्व्_५९।४४ ॥
विश्वास-प्रस्तुतिः
कलमापक्वसस्येषु
केदारेषु वनेषु च ।
सस्यादा जलजादाश् च
मत्ता विरुरुवुः खगाः ॥ ह्व्_५९।४५ ॥
मूलम्
कलमापक्वसस्येषु
केदारेषु वनेषु च ।
सस्यादा जलजादाश् च
मत्ता विरुरुवुः खगाः ॥ ह्व्_५९।४५ ॥
विश्वास-प्रस्तुतिः
सिषिचुर् यानि जलदा
जलेन जलदागमे ।
तानि शष्पाण्य् अबालानि
कठिनत्वं गतानि वै ॥ ह्व्_५९।४६ ॥
मूलम्
सिषिचुर् यानि जलदा
जलेन जलदागमे ।
तानि शष्पाण्य् अबालानि
कठिनत्वं गतानि वै ॥ ह्व्_५९।४६ ॥
विश्वास-प्रस्तुतिः
त्यक्त्वा मेघमयं वासः
शरद्गुणविदीपितः ।
एष वीतमले व्योम्नि
हृष्टो वसति चन्द्रमाः ॥ ह्व्_५९।४७ ॥
मूलम्
त्यक्त्वा मेघमयं वासः
शरद्गुणविदीपितः ।
एष वीतमले व्योम्नि
हृष्टो वसति चन्द्रमाः ॥ ह्व्_५९।४७ ॥
विश्वास-प्रस्तुतिः
क्षीरिण्यो द्विगुणं गावः
प्रमत्ता द्विगुणं वृषाः ।
वनानां द्विगुणा लक्ष्मीः
सस्यैर् गुणवती मही ॥ ह्व्_५९।४८ ॥
मूलम्
क्षीरिण्यो द्विगुणं गावः
प्रमत्ता द्विगुणं वृषाः ।
वनानां द्विगुणा लक्ष्मीः
सस्यैर् गुणवती मही ॥ ह्व्_५९।४८ ॥
विश्वास-प्रस्तुतिः
ज्योतींषि घनमुक्तानि
पद्मवन्ति जलानि च ।
मनांसि च मनुष्याणां
प्रसादम् उपयान्ति वै ॥ ह्व्_५९।४९ ॥
मूलम्
ज्योतींषि घनमुक्तानि
पद्मवन्ति जलानि च ।
मनांसि च मनुष्याणां
प्रसादम् उपयान्ति वै ॥ ह्व्_५९।४९ ॥
विश्वास-प्रस्तुतिः
असृजत् सविता व्योम्नि
निर्मुक्तजलदे भृशम् ।
शरत्प्रज्वलितं तेजस्
तीक्ष्णरश्मिर् विशोषयन् ॥ ह्व्_५९।५० ॥
मूलम्
असृजत् सविता व्योम्नि
निर्मुक्तजलदे भृशम् ।
शरत्प्रज्वलितं तेजस्
तीक्ष्णरश्मिर् विशोषयन् ॥ ह्व्_५९।५० ॥
विश्वास-प्रस्तुतिः
नीराजयित्वा सैन्यानि
निर्यान्ति विजिगीषवः ।
अन्योन्यराष्ट्राभिमुखाः
पार्थिवाः पृथिवीक्षितः ॥ ह्व्_५९।५१ ॥
मूलम्
नीराजयित्वा सैन्यानि
निर्यान्ति विजिगीषवः ।
अन्योन्यराष्ट्राभिमुखाः
पार्थिवाः पृथिवीक्षितः ॥ ह्व्_५९।५१ ॥
विश्वास-प्रस्तुतिः
बन्धुजीवाभिताम्रासु
बद्धपङ्कवतीषु च ।
मनस् तिष्ठति कान्तासु
चित्रासु वनराजिषु ॥ ह्व्_५९।५२ ॥
मूलम्
बन्धुजीवाभिताम्रासु
बद्धपङ्कवतीषु च ।
मनस् तिष्ठति कान्तासु
चित्रासु वनराजिषु ॥ ह्व्_५९।५२ ॥
विश्वास-प्रस्तुतिः
वनेषु च विराजन्ते
पादपा वनशोभिनः ।
असनाह् सप्तपर्णाश् च
कोविदाराश् च पुष्पिताः ॥ ह्व्_५९।५३ ॥
मूलम्
वनेषु च विराजन्ते
पादपा वनशोभिनः ।
असनाह् सप्तपर्णाश् च
कोविदाराश् च पुष्पिताः ॥ ह्व्_५९।५३ ॥
विश्वास-प्रस्तुतिः
इषुसाह्वा निकुम्भाश् च
प्रियकाः स्वर्णकास् तथा ।
([क्: फ़ोर् ५४अब्, द्६ त्१।२ ग् म् सुब्स्त्।: :क्])
इक्षुसस्या निकुप्याश् च
प्रियङ्गुश् च विशेषतः । ह्व्_५९।५४अब्६९८ ।
सृमराः पिचुकाश् चैव
केतक्यश् च समन्ततः ॥ ह्व्_५९।५४ ॥
मूलम्
इषुसाह्वा निकुम्भाश् च
प्रियकाः स्वर्णकास् तथा ।
([क्: फ़ोर् ५४अब्, द्६ त्१।२ ग् म् सुब्स्त्।: :क्])
इक्षुसस्या निकुप्याश् च
प्रियङ्गुश् च विशेषतः । ह्व्_५९।५४अब्६९८ ।
सृमराः पिचुकाश् चैव
केतक्यश् च समन्ततः ॥ ह्व्_५९।५४ ॥
विश्वास-प्रस्तुतिः
व्रजेपु च विशेषेण
गर्गरोद्गारहासिषु ।
शरत्प्रकाशयोषेव
गोष्ठेष्व् अटति रूपिणी ॥ ह्व्_५९।५५ ॥
मूलम्
व्रजेपु च विशेषेण
गर्गरोद्गारहासिषु ।
शरत्प्रकाशयोषेव
गोष्ठेष्व् अटति रूपिणी ॥ ह्व्_५९।५५ ॥
विश्वास-प्रस्तुतिः
नूनं त्रिदशलोकस्थं
मेघकालसुखोषितम् ।
पतत्रिकेतनं देवं
बोधयन्ति दिवौकसः ॥ ह्व्_५९।५६ ॥
मूलम्
नूनं त्रिदशलोकस्थं
मेघकालसुखोषितम् ।
पतत्रिकेतनं देवं
बोधयन्ति दिवौकसः ॥ ह्व्_५९।५६ ॥
विश्वास-प्रस्तुतिः
शरद्य् एवं सुसस्यायां
प्राप्तायां प्रावृषः क्षये ।
([क्: व्३,ब्१ ins. after ५७अब्; व्२,द्२-५ after ५६अब्; द्न्,द्स्२ after ५३: :क्])
नीलचन्द्रार्कवर्णैश् च
रचितं बहुभिर् द्विजैः । ह्व्_५९।५७६९९:१ ।
फलैः प्रवालैश् च घनम्
इन्द्रचापघनोपमम् । ह्व्_५९।५७६९९:२ ।
भवनाकारविटपं
लतापरम् अमण्डितम् । ह्व्_५९।५७६९९:३ ।
विशालमूलावनतं
पवनाभोगमण्डितम् । ह्व्_५९।५७६९९:४ ।
अर्चयाम गिरिं देवं
गाश् चैव सविशेषतः ॥ ह्व्_५९।५७ ॥
मूलम्
शरद्य् एवं सुसस्यायां
प्राप्तायां प्रावृषः क्षये ।
([क्: व्३,ब्१ ins. after ५७अब्; व्२,द्२-५ after ५६अब्; द्न्,द्स्२ after ५३: :क्])
नीलचन्द्रार्कवर्णैश् च
रचितं बहुभिर् द्विजैः । ह्व्_५९।५७६९९:१ ।
फलैः प्रवालैश् च घनम्
इन्द्रचापघनोपमम् । ह्व्_५९।५७६९९:२ ।
भवनाकारविटपं
लतापरम् अमण्डितम् । ह्व्_५९।५७६९९:३ ।
विशालमूलावनतं
पवनाभोगमण्डितम् । ह्व्_५९।५७६९९:४ ।
अर्चयाम गिरिं देवं
गाश् चैव सविशेषतः ॥ ह्व्_५९।५७ ॥
विश्वास-प्रस्तुतिः
सावतंसैर् विषाणैश् च
बर्हापीडैश् च दंशितैः ।
घण्टाभिश् च प्रलम्बाभिः
पुष्पैः शारदिकैस् तथा ॥ ह्व्_५९।५८ ॥
मूलम्
सावतंसैर् विषाणैश् च
बर्हापीडैश् च दंशितैः ।
घण्टाभिश् च प्रलम्बाभिः
पुष्पैः शारदिकैस् तथा ॥ ह्व्_५९।५८ ॥
विश्वास-प्रस्तुतिः
शिवाय गावः पूज्यन्तां
गिरियज्ञः प्रवर्तताम् ।
पूज्यन्तां त्रिदशैः शक्रो
गिरिर् अस्माभिर् इज्यताम् ॥ ह्व्_५९।५९ ॥
मूलम्
शिवाय गावः पूज्यन्तां
गिरियज्ञः प्रवर्तताम् ।
पूज्यन्तां त्रिदशैः शक्रो
गिरिर् अस्माभिर् इज्यताम् ॥ ह्व्_५९।५९ ॥
विश्वास-प्रस्तुतिः
कारिष्यामि गोयज्ञं
बलाद् अपि न संशयः ।
यदास्ति मयि वः प्रीतिर्
यदि वा सुहृदो वयम् ॥ ह्व्_५९।६० ॥
मूलम्
कारिष्यामि गोयज्ञं
बलाद् अपि न संशयः ।
यदास्ति मयि वः प्रीतिर्
यदि वा सुहृदो वयम् ॥ ह्व्_५९।६० ॥
विश्वास-प्रस्तुतिः
गावो हि पूज्याः सततं
सर्वेषां नात्र संशयः ।
स्यात् तु साम्ना भवेत् प्रीतिर्
भवतां वैभवाय च ॥
मूलम्
गावो हि पूज्याः सततं
सर्वेषां नात्र संशयः ।
स्यात् तु साम्ना भवेत् प्रीतिर्
भवतां वैभवाय च ॥
विश्वास-प्रस्तुतिः
तत एतन् मम वचः
क्रियताम् अविचारितम् ॥ ह्व्_५९।६१ ॥
मूलम्
तत एतन् मम वचः
क्रियताम् अविचारितम् ॥ ह्व्_५९।६१ ॥