विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
सोपसृत्य नदीतीरं
बद्ध्वा परिकरं दृढम् ।
आरोहच् चपलः कृष्णः
कदम्बशिखरं युवा ॥ ह्व्_५६।१ ॥
मूलम्
{वैशम्पायन उवाच}
सोपसृत्य नदीतीरं
बद्ध्वा परिकरं दृढम् ।
आरोहच् चपलः कृष्णः
कदम्बशिखरं युवा ॥ ह्व्_५६।१ ॥
विश्वास-प्रस्तुतिः
कृष्णः कदम्बशिखराल्
लम्बमानो ऽम्बुदाकृतिः ।
ह्रदमध्ये ऽकरोच् छब्दं
निपतन्न् अम्बुजेक्षणः ॥ ह्व्_५६।२ ॥
मूलम्
कृष्णः कदम्बशिखराल्
लम्बमानो ऽम्बुदाकृतिः ।
ह्रदमध्ये ऽकरोच् छब्दं
निपतन्न् अम्बुजेक्षणः ॥ ह्व्_५६।२ ॥
विश्वास-प्रस्तुतिः
([क्: after २, द्२ ins.: :क्])
नीलोत्पलदलश्यामो
ह्रदे तस्मिन् पपात ह । ह्व्_५६।२६७७ ।
स कृष्णेनावपतता
क्षोभितः स महाह्रदः ।
सम्प्राशिच्यत वेगेन
भिद्यमान इवार्णवः ॥ ह्व्_५६।३ ॥
मूलम्
([क्: after २, द्२ ins.: :क्])
नीलोत्पलदलश्यामो
ह्रदे तस्मिन् पपात ह । ह्व्_५६।२६७७ ।
स कृष्णेनावपतता
क्षोभितः स महाह्रदः ।
सम्प्राशिच्यत वेगेन
भिद्यमान इवार्णवः ॥ ह्व्_५६।३ ॥
विश्वास-प्रस्तुतिः
तेन शब्देन सङ्क्षुब्धं
तत्सर्पभवनं महत् ।
उत्तिष्ठद् उदकात् सर्पो
रोषपर्याकुलेक्षणः ॥ ह्व्_५६।४ ॥
मूलम्
तेन शब्देन सङ्क्षुब्धं
तत्सर्पभवनं महत् ।
उत्तिष्ठद् उदकात् सर्पो
रोषपर्याकुलेक्षणः ॥ ह्व्_५६।४ ॥
विश्वास-प्रस्तुतिः
स चोरगपतिः क्रुद्धो
मेघराशिसमप्रभः ।
ततो रक्तान्तनयनः
कालियः समदृश्यत ॥ ह्व्_५६।५ ॥
मूलम्
स चोरगपतिः क्रुद्धो
मेघराशिसमप्रभः ।
ततो रक्तान्तनयनः
कालियः समदृश्यत ॥ ह्व्_५६।५ ॥
विश्वास-प्रस्तुतिः
पञ्चास्यः पावकोच्छ्वासश्
चलज्जिह्वो ऽनलाननः ।
पृतुभिः पञ्चभिर् घोरैः
शिरोभिः परिवारितः ॥ ह्व्_५६।६ ॥
मूलम्
पञ्चास्यः पावकोच्छ्वासश्
चलज्जिह्वो ऽनलाननः ।
पृतुभिः पञ्चभिर् घोरैः
शिरोभिः परिवारितः ॥ ह्व्_५६।६ ॥
विश्वास-प्रस्तुतिः
पूरयित्वा ह्रदं सर्वं
भोगेनानलवर्चसा ।
स्फुरन्न् इव स रोषेण
ज्वलन्न् इव च तेजसा ॥ ह्व्_५६।७ ॥
मूलम्
पूरयित्वा ह्रदं सर्वं
भोगेनानलवर्चसा ।
स्फुरन्न् इव स रोषेण
ज्वलन्न् इव च तेजसा ॥ ह्व्_५६।७ ॥
विश्वास-प्रस्तुतिः
क्रोधेन तज्जलं तस्य
सर्वं शृतम् इवाभवत् ।
प्रतिश्रोताश् च भीतेव
जगाम यमुना नदी ॥
मूलम्
क्रोधेन तज्जलं तस्य
सर्वं शृतम् इवाभवत् ।
प्रतिश्रोताश् च भीतेव
जगाम यमुना नदी ॥
विश्वास-प्रस्तुतिः
तस्य क्रोधाग्निपूर्णेन
वक्त्रेणाभूच् च मारुतः ॥ ह्व्_५६।८ ॥
मूलम्
तस्य क्रोधाग्निपूर्णेन
वक्त्रेणाभूच् च मारुतः ॥ ह्व्_५६।८ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा कृष्णं ह्रदगतं
क्रीडन्तं शिशुलीलया ।
सधूमाः पन्नगेन्द्रस्य
मुखान् निश्चेरुर् अर्चिषः ॥ ह्व्_५६।९ ॥
मूलम्
दृष्ट्वा कृष्णं ह्रदगतं
क्रीडन्तं शिशुलीलया ।
सधूमाः पन्नगेन्द्रस्य
मुखान् निश्चेरुर् अर्चिषः ॥ ह्व्_५६।९ ॥
विश्वास-प्रस्तुतिः
सृजता तेन रोषाग्निं
समीपे तीरजा द्रुमाः ।
क्षणेन भस्मसान् नीता
युगान्तप्रतिमेन वै ॥ ह्व्_५६।१० ॥
मूलम्
सृजता तेन रोषाग्निं
समीपे तीरजा द्रुमाः ।
क्षणेन भस्मसान् नीता
युगान्तप्रतिमेन वै ॥ ह्व्_५६।१० ॥
विश्वास-प्रस्तुतिः
तस्य पुत्राश् च दाराश् च
भृत्याश् चान्ये महोरगाः ।
वमन्तः पावकं घोरं
वक्त्रेभ्यो विषसम्भवम् ॥
मूलम्
तस्य पुत्राश् च दाराश् च
भृत्याश् चान्ये महोरगाः ।
वमन्तः पावकं घोरं
वक्त्रेभ्यो विषसम्भवम् ॥
विश्वास-प्रस्तुतिः
सधूमाः पन्नगेन्द्रास् ते
निपेतुर् अमितौजसः ॥ ह्व्_५६।११ ॥
मूलम्
सधूमाः पन्नगेन्द्रास् ते
निपेतुर् अमितौजसः ॥ ह्व्_५६।११ ॥
विश्वास-प्रस्तुतिः
प्रवेशितश् च तैः सर्पैः
स कृष्णो भोगबन्धनम् ।
निर्यत्नचरणाकारस्
तस्थौ गिरिर् इवाचलः ॥ ह्व्_५६।१२ ॥
मूलम्
प्रवेशितश् च तैः सर्पैः
स कृष्णो भोगबन्धनम् ।
निर्यत्नचरणाकारस्
तस्थौ गिरिर् इवाचलः ॥ ह्व्_५६।१२ ॥
विश्वास-प्रस्तुतिः
ददंशुर् दशनैस् तीक्ष्णैर्
विषोत्पीडजलाविलैः ।
ते कृष्णं सर्पपतयो
न ममार च वीर्यवान् ॥ ह्व्_५६।१३ ॥
मूलम्
ददंशुर् दशनैस् तीक्ष्णैर्
विषोत्पीडजलाविलैः ।
ते कृष्णं सर्पपतयो
न ममार च वीर्यवान् ॥ ह्व्_५६।१३ ॥
विश्वास-प्रस्तुतिः
([क्: after १३, द्६,स् (औßएर् त्३।४,), ग्(एद्।) ins.: :क्])
सन्दश्यमानो दशनैर्
न चचाल स केशवः । ह्व्_५६।१३६७८:१ ।
व्यचरत् सुचिरं कालं
कृष्णो वै कालिये ह्रदे । ह्व्_५६।१३६७८:२ ।
एतस्मिन्न् अन्तरे भीता
गोपालाः सर्व एव ते ।
क्रन्दमाना व्रजं जग्मुर्
बाष्पसन्दिग्धया गिरा ॥ ह्व्_५६।१४ ॥
मूलम्
([क्: after १३, द्६,स् (औßएर् त्३।४,), ग्(एद्।) ins.: :क्])
सन्दश्यमानो दशनैर्
न चचाल स केशवः । ह्व्_५६।१३६७८:१ ।
व्यचरत् सुचिरं कालं
कृष्णो वै कालिये ह्रदे । ह्व्_५६।१३६७८:२ ।
एतस्मिन्न् अन्तरे भीता
गोपालाः सर्व एव ते ।
क्रन्दमाना व्रजं जग्मुर्
बाष्पसन्दिग्धया गिरा ॥ ह्व्_५६।१४ ॥
विश्वास-प्रस्तुतिः
एष मोहं गतः कृष्णो
मग्नो वै कालियह्रदे ।
भक्ष्यते सर्पराजेन
तद् आगच्छत माचिरम् ॥ ह्व्_५६।१५ ॥
मूलम्
एष मोहं गतः कृष्णो
मग्नो वै कालियह्रदे ।
भक्ष्यते सर्पराजेन
तद् आगच्छत माचिरम् ॥ ह्व्_५६।१५ ॥
विश्वास-प्रस्तुतिः
नन्दगोपाय वै क्षिप्रं
बल्लवाय निवेद्यताम् ।
एष ते कृष्यते पुत्रः
सर्पेणेति महाह्रदे ॥ ह्व्_५६।१६ ॥
मूलम्
नन्दगोपाय वै क्षिप्रं
बल्लवाय निवेद्यताम् ।
एष ते कृष्यते पुत्रः
सर्पेणेति महाह्रदे ॥ ह्व्_५६।१६ ॥
विश्वास-प्रस्तुतिः
नन्दगोपस् तु तच् छ्रुत्वा
वज्रपातोपमं वचः ।
आर्तः स्खलितविक्रान्तस्
तं जगाम ह्रदोत्तमम् ॥ ह्व्_५६।१७ ॥
मूलम्
नन्दगोपस् तु तच् छ्रुत्वा
वज्रपातोपमं वचः ।
आर्तः स्खलितविक्रान्तस्
तं जगाम ह्रदोत्तमम् ॥ ह्व्_५६।१७ ॥
विश्वास-प्रस्तुतिः
सबालयुवतीवृद्धः
स च सङ्कर्षणो युवा ।
आक्रीडं पन्नगेन्द्रस्य
जनस् तं समुपागमत् ॥ ह्व्_५६।१८ ॥
मूलम्
सबालयुवतीवृद्धः
स च सङ्कर्षणो युवा ।
आक्रीडं पन्नगेन्द्रस्य
जनस् तं समुपागमत् ॥ ह्व्_५६।१८ ॥
विश्वास-प्रस्तुतिः
नन्दगोपमुखा गोपास्
ते सर्वे साश्रुलोचनाः ।
([क्: after १९अब्, द्६,त्१।२,ग्१-३।५,म्१।२।४ ins.: :क्])
इदं किं त्व् इति सम्भ्रान्ताः
कस्येदं कर्म चेति वै । ह्व्_५६।१९अब्६७९ ।
हाहाकारं प्रकुर्वन्तस्
तस्थुस् तीरे ह्रदस्य वै ॥ ह्व्_५६।१९ ॥
मूलम्
नन्दगोपमुखा गोपास्
ते सर्वे साश्रुलोचनाः ।
([क्: after १९अब्, द्६,त्१।२,ग्१-३।५,म्१।२।४ ins.: :क्])
इदं किं त्व् इति सम्भ्रान्ताः
कस्येदं कर्म चेति वै । ह्व्_५६।१९अब्६७९ ।
हाहाकारं प्रकुर्वन्तस्
तस्थुस् तीरे ह्रदस्य वै ॥ ह्व्_५६।१९ ॥
विश्वास-प्रस्तुतिः
व्रीडिता विस्मिताश् चैव
शोकार्ताश् च पुनः पुनः ।
केचित् तु कृष्ण हा हेति
हा धिग् इत्य् अपरे पुनः ॥
मूलम्
व्रीडिता विस्मिताश् चैव
शोकार्ताश् च पुनः पुनः ।
केचित् तु कृष्ण हा हेति
हा धिग् इत्य् अपरे पुनः ॥
विश्वास-प्रस्तुतिः
अपरे हा हताः स्मेति
रुरुदुर् भृशदुःखिताः ॥ ह्व्_५६।२० ॥
मूलम्
अपरे हा हताः स्मेति
रुरुदुर् भृशदुःखिताः ॥ ह्व्_५६।२० ॥
विश्वास-प्रस्तुतिः
स्त्रियश् चैव यशोदां ताम्
हा हतासीति चुक्रुशुः ।
या पश्यसि प्रियं पुत्रं
सर्पराजवशङ्गतं ॥
मूलम्
स्त्रियश् चैव यशोदां ताम्
हा हतासीति चुक्रुशुः ।
या पश्यसि प्रियं पुत्रं
सर्पराजवशङ्गतं ॥
विश्वास-प्रस्तुतिः
सन्दितं सर्पभोगेन
कृष्यमाणं यथा मृगम् ॥ ह्व्_५६।२१ ॥
मूलम्
सन्दितं सर्पभोगेन
कृष्यमाणं यथा मृगम् ॥ ह्व्_५६।२१ ॥
विश्वास-प्रस्तुतिः
अश्मसारमयं नूनं
हृदयं ते ऽभिलक्ष्यते ।
पुत्रं कथम् इमं दृष्ट्वा
यशोदे नावदीर्यते ॥ ह्व्_५६।२२ ॥
मूलम्
अश्मसारमयं नूनं
हृदयं ते ऽभिलक्ष्यते ।
पुत्रं कथम् इमं दृष्ट्वा
यशोदे नावदीर्यते ॥ ह्व्_५६।२२ ॥
विश्वास-प्रस्तुतिः
दुःखितं बत पश्यामो
नन्दगोपं ह्रदान्तिके ।
न्यस्य पुत्रमुखे दृष्टिं
निश्चेतनम् अवस्थितम् ॥ ह्व्_५६।२३ ॥
मूलम्
दुःखितं बत पश्यामो
नन्दगोपं ह्रदान्तिके ।
न्यस्य पुत्रमुखे दृष्टिं
निश्चेतनम् अवस्थितम् ॥ ह्व्_५६।२३ ॥
विश्वास-प्रस्तुतिः
यशोदाम् अनुगच्छन्त्यः
सर्पावासम् इमं ह्रदम् ।
प्रविशामो न यास्यामः
सर्वा दामोदरं विना ॥ ह्व्_५६।२४ ॥
मूलम्
यशोदाम् अनुगच्छन्त्यः
सर्पावासम् इमं ह्रदम् ।
प्रविशामो न यास्यामः
सर्वा दामोदरं विना ॥ ह्व्_५६।२४ ॥
विश्वास-प्रस्तुतिः
दिवसः को विना सूर्यं
विना चन्द्रेण का निशा ।
विना वृषेण का गावो
विना कृष्णेन को व्रजः ॥
मूलम्
दिवसः को विना सूर्यं
विना चन्द्रेण का निशा ।
विना वृषेण का गावो
विना कृष्णेन को व्रजः ॥
विश्वास-प्रस्तुतिः
विना कृष्णं न यास्यामो
विवत्सा इव धेनवः ॥ ह्व्_५६।२५ ॥
मूलम्
विना कृष्णं न यास्यामो
विवत्सा इव धेनवः ॥ ह्व्_५६।२५ ॥
विश्वास-प्रस्तुतिः
तासां विलपितं श्रुत्वा
तेषाम् च व्रजवासिनाम् ।
([क्: after २६अब्, Ñ२।३,व्,ब्१।२,द्स्,द्३।५ ins.: :क्])
विलापं नन्दगोपस्य
यशोदां रुदतीं तथा । ह्व्_५६।२६अब्६८० ।
एकभावशरीरज्ञ
एकदेहो द्विधाकृतः ॥
मूलम्
तासां विलपितं श्रुत्वा
तेषाम् च व्रजवासिनाम् ।
([क्: after २६अब्, Ñ२।३,व्,ब्१।२,द्स्,द्३।५ ins.: :क्])
विलापं नन्दगोपस्य
यशोदां रुदतीं तथा । ह्व्_५६।२६अब्६८० ।
एकभावशरीरज्ञ
एकदेहो द्विधाकृतः ॥
विश्वास-प्रस्तुतिः
सङ्कर्षणस् तु सङ्क्रुद्धो
बभाषे कृष्णम् अव्ययम् ॥ ह्व्_५६।२६ ॥
मूलम्
सङ्कर्षणस् तु सङ्क्रुद्धो
बभाषे कृष्णम् अव्ययम् ॥ ह्व्_५६।२६ ॥
विश्वास-प्रस्तुतिः
कृष्ण कृष्ण महाबाहो
गोपानां नन्दिवर्धन ।
दम्यताम् एष वै क्षिप्रं
सर्पराजो विषायुधः ॥ ह्व्_५६।२७ ॥
मूलम्
कृष्ण कृष्ण महाबाहो
गोपानां नन्दिवर्धन ।
दम्यताम् एष वै क्षिप्रं
सर्पराजो विषायुधः ॥ ह्व्_५६।२७ ॥
विश्वास-प्रस्तुतिः
इमे नो बान्धवास् तात
त्वां मत्वा मानुषं प्रभो ।
परिदेवन्ति करुणम्
सर्वे मानुषबुद्धयः ॥ ह्व्_५६।२८ ॥
मूलम्
इमे नो बान्धवास् तात
त्वां मत्वा मानुषं प्रभो ।
परिदेवन्ति करुणम्
सर्वे मानुषबुद्धयः ॥ ह्व्_५६।२८ ॥
विश्वास-प्रस्तुतिः
तच् छ्रुत्वा रौहिणेयस्य
वाक्यं सञ्ज्ञासमीरितम् ।
विक्रीड्यास्फोटयद् बाहू
तद् भित्त्वा भोगबन्धनम् ॥ ह्व्_५६।२९ ॥
मूलम्
तच् छ्रुत्वा रौहिणेयस्य
वाक्यं सञ्ज्ञासमीरितम् ।
विक्रीड्यास्फोटयद् बाहू
तद् भित्त्वा भोगबन्धनम् ॥ ह्व्_५६।२९ ॥
विश्वास-प्रस्तुतिः
तस्य पद्भ्यां अथाक्रम्य
भोगराशिं जलोक्षितम् ।
शिरो ऽस्य कृष्णो जग्राह
स्वहस्तेनावनाम्य च ॥ ह्व्_५६।३० ॥
मूलम्
तस्य पद्भ्यां अथाक्रम्य
भोगराशिं जलोक्षितम् ।
शिरो ऽस्य कृष्णो जग्राह
स्वहस्तेनावनाम्य च ॥ ह्व्_५६।३० ॥
विश्वास-प्रस्तुतिः
तस्यारुरोह सहसा
मध्यमं तन् महच् छिरः ।
सो ऽस्य मूर्ध्नि स्थितः कृष्णो
ननर्त रुचिराङ्गदः ॥ ह्व्_५६।३१ ॥
मूलम्
तस्यारुरोह सहसा
मध्यमं तन् महच् छिरः ।
सो ऽस्य मूर्ध्नि स्थितः कृष्णो
ननर्त रुचिराङ्गदः ॥ ह्व्_५६।३१ ॥
विश्वास-प्रस्तुतिः
([क्: after ३१, द्६,स् ins.: :क्])
लास्यं बहुविधं कृष्णो
विदधे तस्य मूर्धनि ॥ ह्व्_५६।३१६८१:१ ।
मूलम्
([क्: after ३१, द्६,स् ins.: :क्])
लास्यं बहुविधं कृष्णो
विदधे तस्य मूर्धनि ॥ ह्व्_५६।३१६८१:१ ।
विश्वास-प्रस्तुतिः
तस्य नृत्तं स्मरन् विष्णोर्
हर्षो ऽद्य मम जायते । ह्व्_५६।३१६८१:२ ।
रोम्णां सर्वेषु गात्रेषु
राजन्न् उद्गमयन् सदा । ह्व्_५६।३१६८१:३ ।
मृद्यमानः स कृष्णेन
श्रान्तमूर्धा भुजङ्गमः ।
अस्यैः सरुधिरोद्गारैः
कातरं वाक्यम् अब्रवीत् ॥ ह्व्_५६।३२ ॥
मूलम्
तस्य नृत्तं स्मरन् विष्णोर्
हर्षो ऽद्य मम जायते । ह्व्_५६।३१६८१:२ ।
रोम्णां सर्वेषु गात्रेषु
राजन्न् उद्गमयन् सदा । ह्व्_५६।३१६८१:३ ।
मृद्यमानः स कृष्णेन
श्रान्तमूर्धा भुजङ्गमः ।
अस्यैः सरुधिरोद्गारैः
कातरं वाक्यम् अब्रवीत् ॥ ह्व्_५६।३२ ॥
विश्वास-प्रस्तुतिः
अविज्ञानान् मया कृष्ण
रोषो ऽयं सम्प्रदर्शितः ।
दमितो ऽहं हतविषो
वशगस् ते वरानन ॥ ह्व्_५६।३३ ॥
मूलम्
अविज्ञानान् मया कृष्ण
रोषो ऽयं सम्प्रदर्शितः ।
दमितो ऽहं हतविषो
वशगस् ते वरानन ॥ ह्व्_५६।३३ ॥
विश्वास-प्रस्तुतिः
तदाज्ञापय किं कुर्यां
सदारापत्यबान्धवः ।
कस्य वा वशतां यामि
जीवितं मे प्रदीयताम् ॥ ह्व्_५६।३४ ॥
मूलम्
तदाज्ञापय किं कुर्यां
सदारापत्यबान्धवः ।
कस्य वा वशतां यामि
जीवितं मे प्रदीयताम् ॥ ह्व्_५६।३४ ॥
विश्वास-प्रस्तुतिः
([क्: after ३४, द्६,त्१।२,ग्१।३।५,म्१।२।४ ins.: :क्])
नमस् ते ब्रह्मरुद्रेन्द्र+
+सुरासुरनमस्कृत । ह्व्_५६।३४६८२:१ ।
शरणं त्वां प्रपन्नो ऽस्मि
जीवितं मे प्रदीयताम् ॥ ह्व्_५६।३४६८२:२ ।
मूलम्
([क्: after ३४, द्६,त्१।२,ग्१।३।५,म्१।२।४ ins.: :क्])
नमस् ते ब्रह्मरुद्रेन्द्र+
+सुरासुरनमस्कृत । ह्व्_५६।३४६८२:१ ।
शरणं त्वां प्रपन्नो ऽस्मि
जीवितं मे प्रदीयताम् ॥ ह्व्_५६।३४६८२:२ ।
विश्वास-प्रस्तुतिः
अपराधं कृतं यत् तु
मूढेनाकृतबुद्धिना । ह्व्_५६।३४६८२:३ ।
दर्पान्वितेन च मया
न तत् संस्मर्तुम् अर्हसि ॥ ह्व्_५६।३४६८२:४ ।
मूलम्
अपराधं कृतं यत् तु
मूढेनाकृतबुद्धिना । ह्व्_५६।३४६८२:३ ।
दर्पान्वितेन च मया
न तत् संस्मर्तुम् अर्हसि ॥ ह्व्_५६।३४६८२:४ ।
विश्वास-प्रस्तुतिः
प्रसन्ने त्वयि देवेश
वैनतेयो न मां हरेत् । ह्व्_५६।३४६८२:५ ।
तस्माद् विधत्स्व यत् कार्यं
मया कर्तव्यम् ईश्वर । ह्व्_५६।३४६८२:६ ।
इत्य् उक्त्वा स शिरोभिस् तु
कृष्णपादाव् अपूजयत् । ह्व्_५६।३४६८२:७ ।
पञ्चमूर्धानतं दृष्ट्वा
सर्पं सर्पारिकेतनः ।
अक्रुद्ध एव भगवान्
प्रत्युवाचोरगेश्वरम् ॥ ह्व्_५६।३५ ॥
मूलम्
प्रसन्ने त्वयि देवेश
वैनतेयो न मां हरेत् । ह्व्_५६।३४६८२:५ ।
तस्माद् विधत्स्व यत् कार्यं
मया कर्तव्यम् ईश्वर । ह्व्_५६।३४६८२:६ ।
इत्य् उक्त्वा स शिरोभिस् तु
कृष्णपादाव् अपूजयत् । ह्व्_५६।३४६८२:७ ।
पञ्चमूर्धानतं दृष्ट्वा
सर्पं सर्पारिकेतनः ।
अक्रुद्ध एव भगवान्
प्रत्युवाचोरगेश्वरम् ॥ ह्व्_५६।३५ ॥
विश्वास-प्रस्तुतिः
तवास्मिन् यमुनातोये
नैव स्थानं ददाम्य् अहम् ।
गच्छार्णवजलं सर्प
सपुत्रः सहबान्धवः ॥ ह्व्_५६।३६ ॥
मूलम्
तवास्मिन् यमुनातोये
नैव स्थानं ददाम्य् अहम् ।
गच्छार्णवजलं सर्प
सपुत्रः सहबान्धवः ॥ ह्व्_५६।३६ ॥
विश्वास-प्रस्तुतिः
यश् चेह भूयो दृश्येत
स्थले वा यदि वा जले ।
तव भृत्यस् तनूजो वा
क्षिप्रं वध्यः स मे भवेत् ॥ ह्व्_५६।३७ ॥
मूलम्
यश् चेह भूयो दृश्येत
स्थले वा यदि वा जले ।
तव भृत्यस् तनूजो वा
क्षिप्रं वध्यः स मे भवेत् ॥ ह्व्_५६।३७ ॥
विश्वास-प्रस्तुतिः
शिवं चास्य जलस्यास्तु
त्वं च गच्छ महार्णवम् ।
स्थाने त्व् इह भवेद् दोषस्
तवान्तकरणो महान् ॥ ह्व्_५६।३८ ॥
मूलम्
शिवं चास्य जलस्यास्तु
त्वं च गच्छ महार्णवम् ।
स्थाने त्व् इह भवेद् दोषस्
तवान्तकरणो महान् ॥ ह्व्_५६।३८ ॥
विश्वास-प्रस्तुतिः
मत्पदानि च ते सर्प
दृष्ट्वा मूर्धनि सागरे ।
गरुदः पन्नगरिपुस्
त्वयि न प्रहरिष्यति ॥ ह्व्_५६।३९ ॥
मूलम्
मत्पदानि च ते सर्प
दृष्ट्वा मूर्धनि सागरे ।
गरुदः पन्नगरिपुस्
त्वयि न प्रहरिष्यति ॥ ह्व्_५६।३९ ॥
विश्वास-प्रस्तुतिः
([क्: *६८२ ओच्चुर्स् त्wइचे, after ५६।३४ अन्द् after ५६।३९; the सेचोन्द् ओच्चुर्रेन्चे हस् बेएन् नुम्बेरेद् *६८२अ। :क्])
गृह्य मूर्ध्ना तु चरणौ
कृष्णस्योरगपुङ्गवः ।
पश्यताम् एव गोपानां
जगामादर्शनं ह्रदात् ॥ ह्व्_५६।४० ॥
मूलम्
([क्: *६८२ ओच्चुर्स् त्wइचे, after ५६।३४ अन्द् after ५६।३९; the सेचोन्द् ओच्चुर्रेन्चे हस् बेएन् नुम्बेरेद् *६८२अ। :क्])
गृह्य मूर्ध्ना तु चरणौ
कृष्णस्योरगपुङ्गवः ।
पश्यताम् एव गोपानां
जगामादर्शनं ह्रदात् ॥ ह्व्_५६।४० ॥
विश्वास-प्रस्तुतिः
निर्जिते तु गते सर्पे
कृष्णम् उत्तीर्य विष्ठितम् ।
विस्मितास् तुष्टुवुर् गोपाश्
चक्रुश् चैव प्रदक्षिणम् ॥ ह्व्_५६।४१ ॥
मूलम्
निर्जिते तु गते सर्पे
कृष्णम् उत्तीर्य विष्ठितम् ।
विस्मितास् तुष्टुवुर् गोपाश्
चक्रुश् चैव प्रदक्षिणम् ॥ ह्व्_५६।४१ ॥
विश्वास-प्रस्तुतिः
ऊचुः सर्वे सुसम्प्रीता
नन्दगोपं वनेचराः ।
धन्यो ऽस्य् अनुगृहीतो ऽसि
यस्य ते पुत्र ईदृशः ॥ ह्व्_५६।४२ ॥
मूलम्
ऊचुः सर्वे सुसम्प्रीता
नन्दगोपं वनेचराः ।
धन्यो ऽस्य् अनुगृहीतो ऽसि
यस्य ते पुत्र ईदृशः ॥ ह्व्_५६।४२ ॥
विश्वास-प्रस्तुतिः
अद्यप्रभृति गोपानां
गवां घोषस्य चानघ ।
आपत्सु शरणं कृष्णः
प्रभुश् चायतलोचनः ॥ ह्व्_५६।४३ ॥
मूलम्
अद्यप्रभृति गोपानां
गवां घोषस्य चानघ ।
आपत्सु शरणं कृष्णः
प्रभुश् चायतलोचनः ॥ ह्व्_५६।४३ ॥
विश्वास-प्रस्तुतिः
जाता शिवजला सर्वा
यमुना मुनिसेविता ।
सर्वैस् तीर्थैः सुखं गावो
विचरिष्यन्ति नः सदा ॥ ह्व्_५६।४४ ॥
मूलम्
जाता शिवजला सर्वा
यमुना मुनिसेविता ।
सर्वैस् तीर्थैः सुखं गावो
विचरिष्यन्ति नः सदा ॥ ह्व्_५६।४४ ॥
विश्वास-प्रस्तुतिः
व्यक्तम् एव वयं गोपा
वने यत् कृष्णम् ईदृशम् ।
महद्भूतं न जानीमश्
छन्नम् अग्निम् इव व्रजे ॥ ह्व्_५६।४५ ॥
मूलम्
व्यक्तम् एव वयं गोपा
वने यत् कृष्णम् ईदृशम् ।
महद्भूतं न जानीमश्
छन्नम् अग्निम् इव व्रजे ॥ ह्व्_५६।४५ ॥
विश्वास-प्रस्तुतिः
एवं ते विस्मिताः सर्वे
स्तुवन्तः कृष्णम् अव्ययम् ।
जग्मुर् गोपगणा घोषं
देवाश् चैत्ररथं यथा ॥ ह्व्_५६।४६ ॥
मूलम्
एवं ते विस्मिताः सर्वे
स्तुवन्तः कृष्णम् अव्ययम् ।
जग्मुर् गोपगणा घोषं
देवाश् चैत्ररथं यथा ॥ ह्व्_५६।४६ ॥