०४८

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
कृते गर्भविधाने तु
देवकी देवतोपमा ।
जग्राह सप्त तान् गर्भान्
यथावत् समुदाहृतान् ॥ ह्व्_४८।१ ॥

मूलम्

{वैशम्पायन उवाच}
कृते गर्भविधाने तु
देवकी देवतोपमा ।
जग्राह सप्त तान् गर्भान्
यथावत् समुदाहृतान् ॥ ह्व्_४८।१ ॥

विश्वास-प्रस्तुतिः

षड्गर्भान् निःसृतान् कंसस्
ताञ् जघान शिलातले ।
आपन्नं सप्तमं गर्भं
सा निनायाथ रोहिणीम् ॥ ह्व्_४८।२ ॥

मूलम्

षड्गर्भान् निःसृतान् कंसस्
ताञ् जघान शिलातले ।
आपन्नं सप्तमं गर्भं
सा निनायाथ रोहिणीम् ॥ ह्व्_४८।२ ॥

विश्वास-प्रस्तुतिः

सार्धरात्रे स्थितं गर्भं
शातयन्ती रजस्वला ।
निद्रया सहसाविष्टा
पपात धरणीतले ॥ ह्व्_४८।३ ॥

मूलम्

सार्धरात्रे स्थितं गर्भं
शातयन्ती रजस्वला ।
निद्रया सहसाविष्टा
पपात धरणीतले ॥ ह्व्_४८।३ ॥

विश्वास-प्रस्तुतिः

सा स्वप्नम् इव तं दृष्ट्वा
गर्भं निःसृतम् आत्मनः ।
अपश्यन्ती च तं गर्भं
मुहूर्तं व्यथिताभवत् ॥ ह्व्_४८।४ ॥

मूलम्

सा स्वप्नम् इव तं दृष्ट्वा
गर्भं निःसृतम् आत्मनः ।
अपश्यन्ती च तं गर्भं
मुहूर्तं व्यथिताभवत् ॥ ह्व्_४८।४ ॥

विश्वास-प्रस्तुतिः

ताम् आह निद्रा संविग्नां
नैशे तमसि रोहिणीम् ।
रोहिणीम् इव सोमस्य
वसुदेवस्य रोहिणीम् ॥ ह्व्_४८।५ ॥

मूलम्

ताम् आह निद्रा संविग्नां
नैशे तमसि रोहिणीम् ।
रोहिणीम् इव सोमस्य
वसुदेवस्य रोहिणीम् ॥ ह्व्_४८।५ ॥

विश्वास-प्रस्तुतिः

कर्सणेनास्य गर्भस्य
स्वगर्भे चाहितस्य वै ।
सङ्कर्षणो नाम शुभे
तव पुत्रो भविष्यति ॥ ह्व्_४८।६ ॥

मूलम्

कर्सणेनास्य गर्भस्य
स्वगर्भे चाहितस्य वै ।
सङ्कर्षणो नाम शुभे
तव पुत्रो भविष्यति ॥ ह्व्_४८।६ ॥

विश्वास-प्रस्तुतिः

सा तं पुत्रम् अवाप्यैव
हृष्टा किञ्चिद् अवाङ्मुखी ।
विवेश रोहिणी वेश्म
सुप्रभा रोहिणी यथा ॥ ह्व्_४८।७ ॥

मूलम्

सा तं पुत्रम् अवाप्यैव
हृष्टा किञ्चिद् अवाङ्मुखी ।
विवेश रोहिणी वेश्म
सुप्रभा रोहिणी यथा ॥ ह्व्_४८।७ ॥

विश्वास-प्रस्तुतिः

तस्य गर्भस्य मार्गेण
गर्भम् आधत्त देवकी ।
यदर्थं सप्त ते गर्भाः
कंसेन विनिपातिताः ॥ ह्व्_४८।८ ॥

मूलम्

तस्य गर्भस्य मार्गेण
गर्भम् आधत्त देवकी ।
यदर्थं सप्त ते गर्भाः
कंसेन विनिपातिताः ॥ ह्व्_४८।८ ॥

विश्वास-प्रस्तुतिः

तं तु गर्भं प्रयत्नेन
ररक्षुर् तस्य रक्षिणः ।
([क्: द्६ त् ग्१।२।४।५ म् ins. after ९अब्: :क्])
जाग्रतः प्रयताः सर्वे
मासान् सङ्ख्याय शस्त्रिणः । ह्व्_४८।९अब्५९५ ।
स तत्र गर्भवसतिं
वसत्य् आत्मेच्छया हरिः ॥ ह्व्_४८।९ ॥

मूलम्

तं तु गर्भं प्रयत्नेन
ररक्षुर् तस्य रक्षिणः ।
([क्: द्६ त् ग्१।२।४।५ म् ins. after ९अब्: :क्])
जाग्रतः प्रयताः सर्वे
मासान् सङ्ख्याय शस्त्रिणः । ह्व्_४८।९अब्५९५ ।
स तत्र गर्भवसतिं
वसत्य् आत्मेच्छया हरिः ॥ ह्व्_४८।९ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ त् ग्१।२।४।५ म् ins. after ९: :क्])
यस्मिन्न् अहनि देवेशं
गर्भम् आदत्त देवकी । ह्व्_४८।९५९६ ।
यशोदापि समाधत्त
गर्भं तदहर् एव तु ।
विष्णोः शरीरजां निद्रां
विष्णोर् निर्देशकारिणीम् ॥ ह्व्_४८।१० ॥

मूलम्

([क्: द्६ त् ग्१।२।४।५ म् ins. after ९: :क्])
यस्मिन्न् अहनि देवेशं
गर्भम् आदत्त देवकी । ह्व्_४८।९५९६ ।
यशोदापि समाधत्त
गर्भं तदहर् एव तु ।
विष्णोः शरीरजां निद्रां
विष्णोर् निर्देशकारिणीम् ॥ ह्व्_४८।१० ॥

विश्वास-प्रस्तुतिः

गर्भकाले त्व् असम्पूर्णे
अष्टमे मासि ते स्त्रियौ ।
देवकी च यशोदा च
सुषुवाते समं तदा ॥ ह्व्_४८।११ ॥

मूलम्

गर्भकाले त्व् असम्पूर्णे
अष्टमे मासि ते स्त्रियौ ।
देवकी च यशोदा च
सुषुवाते समं तदा ॥ ह्व्_४८।११ ॥

विश्वास-प्रस्तुतिः

याम् एव रजनीं कृष्णो
जज्ञे वृष्णिकुले प्रभुः ।
ताम् एव रजनीं कन्यां
यशोदापि व्यजायत ॥

मूलम्

याम् एव रजनीं कृष्णो
जज्ञे वृष्णिकुले प्रभुः ।
ताम् एव रजनीं कन्यां
यशोदापि व्यजायत ॥

विश्वास-प्रस्तुतिः

नन्दगोपस्य भार्या वै
कंसगोपस्य सम्मता ॥ ह्व्_४८।१२ ॥

मूलम्

नन्दगोपस्य भार्या वै
कंसगोपस्य सम्मता ॥ ह्व्_४८।१२ ॥

विश्वास-प्रस्तुतिः

तुल्यकालं हि गर्भिण्यौ
यशोदा देवकी तथा ।
([क्: after १३अब्, द्६ त्२ ग्१।३-५ म्४ ins.: :क्])
अष्टम्यां श्रावणे मासे
कृष्णपक्षे महातिथौ । ह्व्_४८।१३अब्५९७:१ ।
रोहिण्याम् अर्धरात्रे च
सुधांशोर् उदये तथा । ह्व्_४८।१३अब्५९७:२ ।
देवक्य् अजनयद् विष्णुं
यशोदा तां तु कन्यकाम् ॥

मूलम्

तुल्यकालं हि गर्भिण्यौ
यशोदा देवकी तथा ।
([क्: after १३अब्, द्६ त्२ ग्१।३-५ म्४ ins.: :क्])
अष्टम्यां श्रावणे मासे
कृष्णपक्षे महातिथौ । ह्व्_४८।१३अब्५९७:१ ।
रोहिण्याम् अर्धरात्रे च
सुधांशोर् उदये तथा । ह्व्_४८।१३अब्५९७:२ ।
देवक्य् अजनयद् विष्णुं
यशोदा तां तु कन्यकाम् ॥

विश्वास-प्रस्तुतिः

मुहूर्ते ऽभिजिते प्राप्ते
सार्धरात्रे विभूषिते ॥ ह्व्_४८।१३ ॥

मूलम्

मुहूर्ते ऽभिजिते प्राप्ते
सार्धरात्रे विभूषिते ॥ ह्व्_४८।१३ ॥

विश्वास-प्रस्तुतिः

सागराः समकम्पन्त
चेलुश् च धरणीधराः ।
जज्वलुश् चाग्नयः शान्ता
जायमाने जनार्दने ॥ ह्व्_४८।१४ ॥

मूलम्

सागराः समकम्पन्त
चेलुश् च धरणीधराः ।
जज्वलुश् चाग्नयः शान्ता
जायमाने जनार्दने ॥ ह्व्_४८।१४ ॥

विश्वास-प्रस्तुतिः

शिवाः सम्प्रववुर् वाताः
प्रशान्तम् अभवद् रजः ।
ज्योतींसि च प्रकाशन्त
जायमाने जनार्दने ॥ ह्व्_४८।१५ ॥

मूलम्

शिवाः सम्प्रववुर् वाताः
प्रशान्तम् अभवद् रजः ।
ज्योतींसि च प्रकाशन्त
जायमाने जनार्दने ॥ ह्व्_४८।१५ ॥

विश्वास-प्रस्तुतिः

([क्: क्१।२,व्१।२,ब्,द्स्,द्२।४।५ ins. after १५; Ñ२,द्न् after लिने १ of *६०१; Ñ३ after १६अब्; द्३ after १४: :क्])
अभिजिन् नाम नक्षत्रं
जयन्ती नाम शर्वरी । ह्व्_४८।१५५९८:१ ।
मुहूर्तो विजयो नाम
यत्र जातो जनार्दनः ॥ ह्व्_४८।१५५९८:२ ।

मूलम्

([क्: क्१।२,व्१।२,ब्,द्स्,द्२।४।५ ins. after १५; Ñ२,द्न् after लिने १ of *६०१; Ñ३ after १६अब्; द्३ after १४: :क्])
अभिजिन् नाम नक्षत्रं
जयन्ती नाम शर्वरी । ह्व्_४८।१५५९८:१ ।
मुहूर्तो विजयो नाम
यत्र जातो जनार्दनः ॥ ह्व्_४८।१५५९८:२ ।

विश्वास-प्रस्तुतिः

अव्यक्तः शाश्वतः सूक्ष्मो
हरिनारायणः प्रभुः । ह्व्_४८।१५५९८:३ ।
जायते भगवांस् तत्र
नयनैर् मोहयञ् जगत् । ह्व्_४८।१५५९८:४ ।
अनाहता दुन्दुभयो
देवानां प्राणदन् दिवि ।
आकाशात् पुष्पवर्षं च
ववर्ष त्रिदिवेश्वरः ॥ ह्व्_४८।१६ ॥

मूलम्

अव्यक्तः शाश्वतः सूक्ष्मो
हरिनारायणः प्रभुः । ह्व्_४८।१५५९८:३ ।
जायते भगवांस् तत्र
नयनैर् मोहयञ् जगत् । ह्व्_४८।१५५९८:४ ।
अनाहता दुन्दुभयो
देवानां प्राणदन् दिवि ।
आकाशात् पुष्पवर्षं च
ववर्ष त्रिदिवेश्वरः ॥ ह्व्_४८।१६ ॥

विश्वास-प्रस्तुतिः

([क्: द्६,त्२-४,ग्,म् ins. after १६; त्१ after लिने २ of *६०१: :क्])
अन्तर्धानगताः सर्वे
मुनयः संशितव्रताः । ह्व्_४८।१६५९९:१ ।
अस्तुवन् निशि देवेशं
जायमानं जनार्दनम् ॥ ह्व्_४८।१६५९९:२ ।

मूलम्

([क्: द्६,त्२-४,ग्,म् ins. after १६; त्१ after लिने २ of *६०१: :क्])
अन्तर्धानगताः सर्वे
मुनयः संशितव्रताः । ह्व्_४८।१६५९९:१ ।
अस्तुवन् निशि देवेशं
जायमानं जनार्दनम् ॥ ह्व्_४८।१६५९९:२ ।

विश्वास-प्रस्तुतिः

एष एव जगत्स्वामी
वसुदेवस्य वेश्मनि । ह्व्_४८।१६५९९:३ ।
बाल्यं वपुः समास्थाय
तूष्णीम् आस्ते ऽथ पश्यत ॥ ह्व्_४८।१६५९९:४ ।

मूलम्

एष एव जगत्स्वामी
वसुदेवस्य वेश्मनि । ह्व्_४८।१६५९९:३ ।
बाल्यं वपुः समास्थाय
तूष्णीम् आस्ते ऽथ पश्यत ॥ ह्व्_४८।१६५९९:४ ।

विश्वास-प्रस्तुतिः

पश्यतैनं सुविश्रब्धाः
साक्षाल् लोकेश्वरं प्रभुम् । ह्व्_४८।१६५९९:५ ।
मानुषीं तनुम् आस्थाय
लम्बन्तं देवकीकरे ॥ ह्व्_४८।१६५९९:६ ।

मूलम्

पश्यतैनं सुविश्रब्धाः
साक्षाल् लोकेश्वरं प्रभुम् । ह्व्_४८।१६५९९:५ ।
मानुषीं तनुम् आस्थाय
लम्बन्तं देवकीकरे ॥ ह्व्_४८।१६५९९:६ ।

विश्वास-प्रस्तुतिः

एष हन्तुं दुरात्मानं
कंसम् आविर्भविष्यति ॥ ह्व्_४८।१६५९९:७ ।

मूलम्

एष हन्तुं दुरात्मानं
कंसम् आविर्भविष्यति ॥ ह्व्_४८।१६५९९:७ ।

विश्वास-प्रस्तुतिः

नमस् तस्मै जगद्धात्रे
विष्णवे कृष्णरूपिणे । ह्व्_४८।१६५९९:८ ।
अचिन्त्यविभवे तस्मै
विश्वकर्त्रे नमो नमः । ह्व्_४८।१६५९९:९ ।
गीर्भिर् मङ्गलयुक्ताभिः
स्तुवन्तो मधुसूदनम् ।
([क्: फ़ोर् १७अब् द्६ स् सुब्स्त्।: :क्])
अर्थ्याभिर् गीर्भिर् एवं तं
जायमानं जनार्दनम् । ह्व्_४८।१७अब्६०० ।
महर्षयः सगन्धर्वा
उपतस्थुः सहाप्सराः ॥ ह्व्_४८।१७ ॥

मूलम्

नमस् तस्मै जगद्धात्रे
विष्णवे कृष्णरूपिणे । ह्व्_४८।१६५९९:८ ।
अचिन्त्यविभवे तस्मै
विश्वकर्त्रे नमो नमः । ह्व्_४८।१६५९९:९ ।
गीर्भिर् मङ्गलयुक्ताभिः
स्तुवन्तो मधुसूदनम् ।
([क्: फ़ोर् १७अब् द्६ स् सुब्स्त्।: :क्])
अर्थ्याभिर् गीर्भिर् एवं तं
जायमानं जनार्दनम् । ह्व्_४८।१७अब्६०० ।
महर्षयः सगन्धर्वा
उपतस्थुः सहाप्सराः ॥ ह्व्_४८।१७ ॥

विश्वास-प्रस्तुतिः

([क्: श्१,क्१-३,Ñ२।३,व्,ब्,द्न्,द्स्,द्२-४,त्१।३।४,ग्४ ins. after १७; द्५ after १७अब्: :क्])
जायमाने हृषीकेशे
प्रहृष्टम् अभवज् जगत् । ह्व्_४८।१७६०१:१ ।
इन्द्रश् च त्रिदशैः सार्धं
तुष्टाव मधुसूदनम् ॥ ह्व्_४८।१७६०१:२ ।

मूलम्

([क्: श्१,क्१-३,Ñ२।३,व्,ब्,द्न्,द्स्,द्२-४,त्१।३।४,ग्४ ins. after १७; द्५ after १७अब्: :क्])
जायमाने हृषीकेशे
प्रहृष्टम् अभवज् जगत् । ह्व्_४८।१७६०१:१ ।
इन्द्रश् च त्रिदशैः सार्धं
तुष्टाव मधुसूदनम् ॥ ह्व्_४८।१७६०१:२ ।

विश्वास-प्रस्तुतिः

वसुदेवस् तु तं रात्रौ
जातं पुत्रम् अधोक्षजम् । ह्व्_४८।१७६०१:३ ।
श्रीवत्सलक्षणं दृष्ट्वा
युतं दिव्यैश् च लक्षणैः । ह्व्_४८।१७६०१:४ ।
([क्: ब्२ ins. after लिने २ of *६०१: :क्])
देवकी च ततो दीना
तम् उवाच शुचिस्मिता । ह्व्_४८।१७६०१अ:१ ।
उपसंहर सर्वासु
दिव्यं रूपम् इदं हरे ॥ ह्व्_४८।१७६०१अ:२ ।

मूलम्

वसुदेवस् तु तं रात्रौ
जातं पुत्रम् अधोक्षजम् । ह्व्_४८।१७६०१:३ ।
श्रीवत्सलक्षणं दृष्ट्वा
युतं दिव्यैश् च लक्षणैः । ह्व्_४८।१७६०१:४ ।
([क्: ब्२ ins. after लिने २ of *६०१: :क्])
देवकी च ततो दीना
तम् उवाच शुचिस्मिता । ह्व्_४८।१७६०१अ:१ ।
उपसंहर सर्वासु
दिव्यं रूपम् इदं हरे ॥ ह्व्_४८।१७६०१अ:२ ।

विश्वास-प्रस्तुतिः

जानातु मावतारं ते
कंसो ऽयं दितिजान्तक । ह्व्_४८।१७६०१अ:३ ।
([क्: क्१-३,Ñ२।३,व्,ब्,द्न्,द्स्,द्२-५,त्१।३।४,ग्४ चोन्त्।; द्६,त्२,ग्१-३।५,म्४ चोन्त्। after *६०४: :क्])
उवाच वसुदेवस् तं
रूपं संहर वै प्रभो । ह्व्_४८।१७६०२:१ ।
भीतो ऽहं देव कंसस्य
तस्माद् एवं वदाम्य् अहम् । ह्व्_४८।१७६०२:२ ।
मम पुत्रा हतास् तेन
तव ज्येष्ठाम्बुजेक्षण ॥ ह्व्_४८।१७६०२:३ ।

मूलम्

जानातु मावतारं ते
कंसो ऽयं दितिजान्तक । ह्व्_४८।१७६०१अ:३ ।
([क्: क्१-३,Ñ२।३,व्,ब्,द्न्,द्स्,द्२-५,त्१।३।४,ग्४ चोन्त्।; द्६,त्२,ग्१-३।५,म्४ चोन्त्। after *६०४: :क्])
उवाच वसुदेवस् तं
रूपं संहर वै प्रभो । ह्व्_४८।१७६०२:१ ।
भीतो ऽहं देव कंसस्य
तस्माद् एवं वदाम्य् अहम् । ह्व्_४८।१७६०२:२ ।
मम पुत्रा हतास् तेन
तव ज्येष्ठाम्बुजेक्षण ॥ ह्व्_४८।१७६०२:३ ।

वसुदेववचः श्रुत्वा रूपं संहरद् अच्युतः । *ह्व्_४८।१७*६०२:४ । अनुज्ञाप्य पितृत्वेन नन्दगोपगृहं नय । *ह्व्_४८।१७*६०२:५ । ([क्: क्१ Ñ२।३ व्१ द्३ चोन्त्। *६०२: :क्]) उग्रसेनमते तिष्ठन् यशोदायै ददौ तदा । *ह्व्_४८।१७*६०३ ।
विश्वास-प्रस्तुतिः

([क्: द्६,त्२,ग्१-३।५,म् ins. after १७; त्१।३।४,ग्४ चोन्त्। after *६०२: :क्])
एवं समाकुले काले
सुषुपू रक्षिणस् तदा ॥ ह्व्_४८।१७६०४:१ ।

मूलम्

([क्: द्६,त्२,ग्१-३।५,म् ins. after १७; त्१।३।४,ग्४ चोन्त्। after *६०२: :क्])
एवं समाकुले काले
सुषुपू रक्षिणस् तदा ॥ ह्व्_४८।१७६०४:१ ।

विश्वास-प्रस्तुतिः

न केवलं रक्षितारः
सायुधा मोहिताः किल । ह्व्_४८।१७६०४:२ ।
सा पुरी मधुरा सर्वा
सुष्वाप हरिमायया । ह्व्_४८।१७६०४:३ ।
वसुदेवाद् ऋते तस्माद्
देवक्याश् च महीपते ॥ ह्व्_४८।१७६०४:४ ।

मूलम्

न केवलं रक्षितारः
सायुधा मोहिताः किल । ह्व्_४८।१७६०४:२ ।
सा पुरी मधुरा सर्वा
सुष्वाप हरिमायया । ह्व्_४८।१७६०४:३ ।
वसुदेवाद् ऋते तस्माद्
देवक्याश् च महीपते ॥ ह्व्_४८।१७६०४:४ ।

विश्वास-प्रस्तुतिः

वसुदेवस् ततो गत्वा
देवकीगर्भवेश्म तत् । ह्व्_४८।१७६०४:५ ।
ददर्श देवदेवेशं
रात्रौ जातम् अधोक्षजम् ॥ ह्व्_४८।१७६०४:६ ।

मूलम्

वसुदेवस् ततो गत्वा
देवकीगर्भवेश्म तत् । ह्व्_४८।१७६०४:५ ।
ददर्श देवदेवेशं
रात्रौ जातम् अधोक्षजम् ॥ ह्व्_४८।१७६०४:६ ।

विश्वास-प्रस्तुतिः

नीलकुञ्चितकेशान्तम्
उन्निद्राम्बुजवक्त्रकम् । ह्व्_४८।१७६०४:७ ।
नीलमेघनिभं कान्तं
तेजोरशिम् अमानुषम् ॥ ह्व्_४८।१७६०४:८ ।

मूलम्

नीलकुञ्चितकेशान्तम्
उन्निद्राम्बुजवक्त्रकम् । ह्व्_४८।१७६०४:७ ।
नीलमेघनिभं कान्तं
तेजोरशिम् अमानुषम् ॥ ह्व्_४८।१७६०४:८ ।

विश्वास-प्रस्तुतिः

शयानम् अम्बुजे पत्रे
वटपत्रे यथा पुरा । ह्व्_४८।१७६०४:९ ।
प्राचीनशिरसं कृष्णं
पश्चिमन्यस्तपादकम् ॥ ह्व्_४८।१७६०४:१० ।

मूलम्

शयानम् अम्बुजे पत्रे
वटपत्रे यथा पुरा । ह्व्_४८।१७६०४:९ ।
प्राचीनशिरसं कृष्णं
पश्चिमन्यस्तपादकम् ॥ ह्व्_४८।१७६०४:१० ।

विश्वास-प्रस्तुतिः

तत्र दृष्टो जरायुर् न
न च प्रसववेदना ॥ ह्व्_४८।१७६०४:११ ।

मूलम्

तत्र दृष्टो जरायुर् न
न च प्रसववेदना ॥ ह्व्_४८।१७६०४:११ ।

विश्वास-प्रस्तुतिः

देवकी सुमुखी दृष्ट्वा
सासीना पुत्रलोकिनी । ह्व्_४८।१७६०४:१२ ।
अत्यन्तविस्मयाविष्टा
वसुदेवेन साभवत् । ह्व्_४८।१७६०४:१३ ।
वसुदेवस् तु सङ्गृह्य
दारकं क्षिप्रम् एव तु ।
([क्: द्६ त्१।३ ग् म्४ ins. after १८अब्; म्१-३ सुब्स्त्। फ़ोर् १८अब्: :क्])
शयानम् अङ्के देवक्या
रात्राव् आदाय यादवः । ह्व्_४८।१८अब्६०५ ।
यशोदाया गृहं भीतो
विवेश सुतवत्सलः ॥ ह्व्_४८।१८ ॥

मूलम्

देवकी सुमुखी दृष्ट्वा
सासीना पुत्रलोकिनी । ह्व्_४८।१७६०४:१२ ।
अत्यन्तविस्मयाविष्टा
वसुदेवेन साभवत् । ह्व्_४८।१७६०४:१३ ।
वसुदेवस् तु सङ्गृह्य
दारकं क्षिप्रम् एव तु ।
([क्: द्६ त्१।३ ग् म्४ ins. after १८अब्; म्१-३ सुब्स्त्। फ़ोर् १८अब्: :क्])
शयानम् अङ्के देवक्या
रात्राव् आदाय यादवः । ह्व्_४८।१८अब्६०५ ।
यशोदाया गृहं भीतो
विवेश सुतवत्सलः ॥ ह्व्_४८।१८ ॥

विश्वास-प्रस्तुतिः

([क्: after १८, क्३ द्२ ins.: :क्])
तया हृतप्रत्ययसर्ववृत्तिषु । ह्व्_४८।१८६०६:१ ।*
द्वाःस्थेषु पौरेष्व् अनुशायितेष्व् अथ । ह्व्_४८।१८६०६:२ ।*
द्वारस् तु सरवाः पिहिता दुरत्यया । ह्व्_४८।१८६०६:३ ।*
बृहत्कपाटायसकीलशृङ्खलैः ॥ ह्व्_४८।१८६०६:४ ।*

मूलम्

([क्: after १८, क्३ द्२ ins.: :क्])
तया हृतप्रत्ययसर्ववृत्तिषु । ह्व्_४८।१८६०६:१ ।*
द्वाःस्थेषु पौरेष्व् अनुशायितेष्व् अथ । ह्व्_४८।१८६०६:२ ।*
द्वारस् तु सरवाः पिहिता दुरत्यया । ह्व्_४८।१८६०६:३ ।*
बृहत्कपाटायसकीलशृङ्खलैः ॥ ह्व्_४८।१८६०६:४ ।*

विश्वास-प्रस्तुतिः

ताः कृष्णवाहे वसुदेव आगते । ह्व्_४८।१८६०६:५ ।*
स्वयं विशीर्यन्त तमो यथा रवेः । ह्व्_४८।१८६०६:६ ।*
ववर्ष पर्जन्य उपांशुगर्जितं । ह्व्_४८।१८६०६:७ ।*
शेषो ऽन्वगाद् वारि निवारयन् फणैः ॥ ह्व्_४८।१८६०६:८ ।*

मूलम्

ताः कृष्णवाहे वसुदेव आगते । ह्व्_४८।१८६०६:५ ।*
स्वयं विशीर्यन्त तमो यथा रवेः । ह्व्_४८।१८६०६:६ ।*
ववर्ष पर्जन्य उपांशुगर्जितं । ह्व्_४८।१८६०६:७ ।*
शेषो ऽन्वगाद् वारि निवारयन् फणैः ॥ ह्व्_४८।१८६०६:८ ।*

विश्वास-प्रस्तुतिः

मघो ऽतिवर्षत्य् असकृद् यमानुजा । ह्व्_४८।१८६०६:९ ।*
गम्भीरतोयौघजवोर्मिफेनिला । ह्व्_४८।१८६०६:१० ।*
भयानकावर्तशताकुला नदी । ह्व्_४८।१८६०६:११ ।*
मार्गं ददौ सिन्धुर् इव श्रियः पतेः ॥ ह्व्_४८।१८६०६:१२ ।*

मूलम्

मघो ऽतिवर्षत्य् असकृद् यमानुजा । ह्व्_४८।१८६०६:९ ।*
गम्भीरतोयौघजवोर्मिफेनिला । ह्व्_४८।१८६०६:१० ।*
भयानकावर्तशताकुला नदी । ह्व्_४८।१८६०६:११ ।*
मार्गं ददौ सिन्धुर् इव श्रियः पतेः ॥ ह्व्_४८।१८६०६:१२ ।*

विश्वास-प्रस्तुतिः

नन्दव्रजं शौरिर् उपेत्य तत्र तान् । ह्व्_४८।१८६०६:१३ ।*
गोपान् प्रसुप्तान् उपलभ्य निद्रया । ह्व्_४८।१८६०६:१४ ।*
सुतं यशोदाशयने निधाय तम् । ह्व्_४८।१८६०६:१५ ।*
सुताम् उपादाय पुनर् गृहान् अगात् ॥ ह्व्_४८।१८६०६:१६ ।*

मूलम्

नन्दव्रजं शौरिर् उपेत्य तत्र तान् । ह्व्_४८।१८६०६:१३ ।*
गोपान् प्रसुप्तान् उपलभ्य निद्रया । ह्व्_४८।१८६०६:१४ ।*
सुतं यशोदाशयने निधाय तम् । ह्व्_४८।१८६०६:१५ ।*
सुताम् उपादाय पुनर् गृहान् अगात् ॥ ह्व्_४८।१८६०६:१६ ।*

विश्वास-प्रस्तुतिः

यशोदायास् त्व् अविज्ञातं
तत्र निक्षिप्य दारकम् ।
गृह्य तां दारिकां चापि
देवकीशयने ऽन्यसत् ॥ ह्व्_४८।१९ ॥

मूलम्

यशोदायास् त्व् अविज्ञातं
तत्र निक्षिप्य दारकम् ।
गृह्य तां दारिकां चापि
देवकीशयने ऽन्यसत् ॥ ह्व्_४८।१९ ॥

विश्वास-प्रस्तुतिः

([क्: द्६,स् (एxचेप्त् त्३।४) ins.: :क्])
सुप्ता एव तदा सर्वे
रक्षिणो विष्णुमायया । ह्व्_४८।१९६०७ ।
परिवर्ते कृते ताभ्यां
गर्भाभ्यां भयविक्लवः ।
वसुदेवः कृतार्थो वै
निर्जगाम निवेशनात् ॥ ह्व्_४८।२० ॥

मूलम्

([क्: द्६,स् (एxचेप्त् त्३।४) ins.: :क्])
सुप्ता एव तदा सर्वे
रक्षिणो विष्णुमायया । ह्व्_४८।१९६०७ ।
परिवर्ते कृते ताभ्यां
गर्भाभ्यां भयविक्लवः ।
वसुदेवः कृतार्थो वै
निर्जगाम निवेशनात् ॥ ह्व्_४८।२० ॥

विश्वास-प्रस्तुतिः

([क्: after २०, क्३ द्२ ins.: :क्])
बहिर् अन्तः पुरद्वारः
सर्वाः पूर्ववद् आवृताः । ह्व्_४८।२०६०८:१ ।
ततो बालध्वनिं श्रुत्वा
गृहपालाः समुत्थिताः ॥ ह्व्_४८।२०६०८:२ ।

मूलम्

([क्: after २०, क्३ द्२ ins.: :क्])
बहिर् अन्तः पुरद्वारः
सर्वाः पूर्ववद् आवृताः । ह्व्_४८।२०६०८:१ ।
ततो बालध्वनिं श्रुत्वा
गृहपालाः समुत्थिताः ॥ ह्व्_४८।२०६०८:२ ।

विश्वास-प्रस्तुतिः

ते तु तूर्णम् उपव्रज्य
देवक्या गर्भजन्म तत् । ह्व्_४८।२०६०८:३ ।
आचख्युर् भोजराजाय
यद् उद्विग्नः प्रतीक्षते । ह्व्_४८।२०६०८:४ ।
उग्रसेनसुतायाथ
कंसायानकदुन्दुभिः ।
निवेदयाम्_आस तदा
कन्यां तां वरवर्णिनीम् ॥ ह्व्_४८।२१ ॥

मूलम्

ते तु तूर्णम् उपव्रज्य
देवक्या गर्भजन्म तत् । ह्व्_४८।२०६०८:३ ।
आचख्युर् भोजराजाय
यद् उद्विग्नः प्रतीक्षते । ह्व्_४८।२०६०८:४ ।
उग्रसेनसुतायाथ
कंसायानकदुन्दुभिः ।
निवेदयाम्_आस तदा
कन्यां तां वरवर्णिनीम् ॥ ह्व्_४८।२१ ॥

विश्वास-प्रस्तुतिः

([क्: फ़ोर् २१cd, म्१-३ सुब्स्त्।: :क्])
भीतो निवेदयाम् आस
जाता नः कन्यकेति ह । ह्व्_४८।२१६०९ ।
तच् छ्रुत्वा त्वरितः कंसो
रक्षिभिः सह वेगितः ।
आजगाम गृहद्वारं
वसुदेवस्य वीर्यवान् ॥ ह्व्_४८।२२ ॥

मूलम्

([क्: फ़ोर् २१cd, म्१-३ सुब्स्त्।: :क्])
भीतो निवेदयाम् आस
जाता नः कन्यकेति ह । ह्व्_४८।२१६०९ ।
तच् छ्रुत्वा त्वरितः कंसो
रक्षिभिः सह वेगितः ।
आजगाम गृहद्वारं
वसुदेवस्य वीर्यवान् ॥ ह्व्_४८।२२ ॥

विश्वास-प्रस्तुतिः

स तत्र त्वरितो द्वारि
किं जातम् इति चाब्रवीत् ।
दीयतां शीघ्रम् इत्य् एवं
वाग्भिः समभितर्जयत् ॥ ह्व्_४८।२३ ॥

मूलम्

स तत्र त्वरितो द्वारि
किं जातम् इति चाब्रवीत् ।
दीयतां शीघ्रम् इत्य् एवं
वाग्भिः समभितर्जयत् ॥ ह्व्_४८।२३ ॥

विश्वास-प्रस्तुतिः

ततो हाहाकृताः सर्वा
देवकीप्रमुखाः स्त्रियः ।
([क्: after २४अब्, न् (एxचेप्त् श्१ द्६) त्१।३।४ ins.: :क्])
उवाच देवकी दीना
बाष्पविक्लवया गिरा । ह्व्_४८।२४अब्६१० ।
दारिका पुत्र जातेति
कंसं तूवाच देवकी ॥ ह्व्_४८।२४ ॥

मूलम्

ततो हाहाकृताः सर्वा
देवकीप्रमुखाः स्त्रियः ।
([क्: after २४अब्, न् (एxचेप्त् श्१ द्६) त्१।३।४ ins.: :क्])
उवाच देवकी दीना
बाष्पविक्लवया गिरा । ह्व्_४८।२४अब्६१० ।
दारिका पुत्र जातेति
कंसं तूवाच देवकी ॥ ह्व्_४८।२४ ॥

विश्वास-प्रस्तुतिः

श्रीमन्तो मे हताः सप्त
पुत्रगर्भास् त्वया विभो ।
दारिकेयं हतैवैषा
पश्यस्व यदि मन्यसे ॥ ह्व्_४८।२५ ॥

मूलम्

श्रीमन्तो मे हताः सप्त
पुत्रगर्भास् त्वया विभो ।
दारिकेयं हतैवैषा
पश्यस्व यदि मन्यसे ॥ ह्व्_४८।२५ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा कंसस् तु तां कन्याम्
अहृष्यत मुदा युतः ।
हतैवैषा यदा कन्या
जातेत्य् उक्त्वा वृथामतिः ॥ ह्व्_४८।२६ ॥

मूलम्

दृष्ट्वा कंसस् तु तां कन्याम्
अहृष्यत मुदा युतः ।
हतैवैषा यदा कन्या
जातेत्य् उक्त्वा वृथामतिः ॥ ह्व्_४८।२६ ॥

विश्वास-प्रस्तुतिः

सा गर्भशयने क्लिष्टा
गर्भाम्बुक्लिन्नमूर्धजा ।
कंसस्य पुरतो न्यस्ता
पृथिव्यां पृथिवीसमा ॥ ह्व्_४८।२७ ॥

मूलम्

सा गर्भशयने क्लिष्टा
गर्भाम्बुक्लिन्नमूर्धजा ।
कंसस्य पुरतो न्यस्ता
पृथिव्यां पृथिवीसमा ॥ ह्व्_४८।२७ ॥

विश्वास-प्रस्तुतिः

पादे तां गृह्य पुरुषः
समाविध्यावधूय च ।
उद्यच्छन्न् एव सहसा
शिलायां समपोथयत् ॥

मूलम्

पादे तां गृह्य पुरुषः
समाविध्यावधूय च ।
उद्यच्छन्न् एव सहसा
शिलायां समपोथयत् ॥

विश्वास-प्रस्तुतिः

सावधूता शिलापृष्ठे
ऽनिष्पिष्टा दिवम् उत्पतत् ॥ ह्व्_४८।२८ ॥

मूलम्

सावधूता शिलापृष्ठे
ऽनिष्पिष्टा दिवम् उत्पतत् ॥ ह्व्_४८।२८ ॥

विश्वास-प्रस्तुतिः

हित्वा गर्भतनुं चापि
सहसा मुक्तमूर्धजा ।
जगामाकाशम् आविश्य
दिव्यस्रगनुलेपना ॥

मूलम्

हित्वा गर्भतनुं चापि
सहसा मुक्तमूर्धजा ।
जगामाकाशम् आविश्य
दिव्यस्रगनुलेपना ॥

विश्वास-प्रस्तुतिः

([क्: द्न् द्२।५ ins. (द्न्: “मुकुटाटोपभूषिता”): :क्])
हारशोभितसर्वाङ्गी
मुकुटोज्ज्वलभूषिता । ह्व्_४८।२९६११ ।
कन्यैव चाभवन् नित्यं
दिव्या देवैर् अभिष्टुता ॥ ह्व्_४८।२९ ॥

मूलम्

([क्: द्न् द्२।५ ins. (द्न्: “मुकुटाटोपभूषिता”): :क्])
हारशोभितसर्वाङ्गी
मुकुटोज्ज्वलभूषिता । ह्व्_४८।२९६११ ।
कन्यैव चाभवन् नित्यं
दिव्या देवैर् अभिष्टुता ॥ ह्व्_४८।२९ ॥

विश्वास-प्रस्तुतिः

नीलपीताम्बरधरा
गजकुम्भोपमस्तनी ।
रथविस्तीर्णजघना
चन्द्रवक्त्रा चतुर्भुजा ॥ ह्व्_४८।३० ॥

मूलम्

नीलपीताम्बरधरा
गजकुम्भोपमस्तनी ।
रथविस्तीर्णजघना
चन्द्रवक्त्रा चतुर्भुजा ॥ ह्व्_४८।३० ॥

विश्वास-प्रस्तुतिः

विद्युद्विस्पष्टवर्णाभा
बालार्कसदृशेक्षणा ।
पयोधरस्वनवती
सन्ध्येव सपयोधरा ॥ ह्व्_४८।३१ ॥

मूलम्

विद्युद्विस्पष्टवर्णाभा
बालार्कसदृशेक्षणा ।
पयोधरस्वनवती
सन्ध्येव सपयोधरा ॥ ह्व्_४८।३१ ॥

विश्वास-प्रस्तुतिः

सा वै निशि तमोग्रस्ते
बभौ भूतगणाकुले ।
नृत्यती हसती चैव
विपरीतेन भास्वती ॥ ह्व्_४८।३२ ॥

मूलम्

सा वै निशि तमोग्रस्ते
बभौ भूतगणाकुले ।
नृत्यती हसती चैव
विपरीतेन भास्वती ॥ ह्व्_४८।३२ ॥

विश्वास-प्रस्तुतिः

विहायसगता रौद्रा
पपौ पानम् अनुत्तमम् ।
जहास च महाहासं
कंसं च रुषिताब्रवीत् ॥ ह्व्_४८।३३ ॥

मूलम्

विहायसगता रौद्रा
पपौ पानम् अनुत्तमम् ।
जहास च महाहासं
कंसं च रुषिताब्रवीत् ॥ ह्व्_४८।३३ ॥

विश्वास-प्रस्तुतिः

कम्स कम्स विनाशाय
यद् अहं घातिता त्वया ।
सहसा च समुत्क्षिप्य
शिलायां विनिपातिता ॥ ह्व्_४८।३४ ॥

मूलम्

कम्स कम्स विनाशाय
यद् अहं घातिता त्वया ।
सहसा च समुत्क्षिप्य
शिलायां विनिपातिता ॥ ह्व्_४८।३४ ॥

विश्वास-प्रस्तुतिः

तस्मात् तवान्तकाले ऽहं
कृष्यमाणस्य शत्रुणा ।
पाटयित्वा करैर् देहम्
उष्णं पास्यामि शोणितम् ॥ ह्व्_४८।३५ ॥

मूलम्

तस्मात् तवान्तकाले ऽहं
कृष्यमाणस्य शत्रुणा ।
पाटयित्वा करैर् देहम्
उष्णं पास्यामि शोणितम् ॥ ह्व्_४८।३५ ॥

विश्वास-प्रस्तुतिः

एवम् उक्त्वा वचो घोरं
सा यथेष्टेन वर्त्मना ।
खं सा देवालयं देवी
सगणा विचचार ह ॥ ह्व्_४८।३६ ॥

मूलम्

एवम् उक्त्वा वचो घोरं
सा यथेष्टेन वर्त्मना ।
खं सा देवालयं देवी
सगणा विचचार ह ॥ ह्व्_४८।३६ ॥

विश्वास-प्रस्तुतिः

ःक्,Ñ२।३,व्,ब्,द्न्,द्स्,द्१।२।४-६,त्,ग् ins. after ३६, द्३ after ३६च्, म्४ after ३६ब्ः
सा कन्या ववृधे अत्र
वृष्णिसद्मनि पूजिता । ह्व्_४८।३६६१२:१ ।
पुत्रवत् पाल्यमाना सा
देवी देवाज्ञया तदा ॥ ह्व्_४८।३६६१२:२ ।

मूलम्

ःक्,Ñ२।३,व्,ब्,द्न्,द्स्,द्१।२।४-६,त्,ग् ins. after ३६, द्३ after ३६च्, म्४ after ३६ब्ः
सा कन्या ववृधे अत्र
वृष्णिसद्मनि पूजिता । ह्व्_४८।३६६१२:१ ।
पुत्रवत् पाल्यमाना सा
देवी देवाज्ञया तदा ॥ ह्व्_४८।३६६१२:२ ।

विश्वास-प्रस्तुतिः

विद्धि चैनां अथोत्पन्नाम्
अंशाद् देवीं प्रजापतेः । ह्व्_४८।३६६१२:३ ।
एकानंशां योगकन्यां
रक्षार्थं केशवस्य तु ॥ ह्व्_४८।३६६१२:४ ।

मूलम्

विद्धि चैनां अथोत्पन्नाम्
अंशाद् देवीं प्रजापतेः । ह्व्_४८।३६६१२:३ ।
एकानंशां योगकन्यां
रक्षार्थं केशवस्य तु ॥ ह्व्_४८।३६६१२:४ ।

तां वै सर्वे सुमनसः पूजयन्ति सा यादवाः । *ह्व्_४८।३६*६१२:५ । देववद्दिव्यवपुषं कृष्णः संरक्षितो यया । *ह्व्_४८।३६*६१२:६ ।
विश्वास-प्रस्तुतिः

ःक्२,Ñ२,द्स्,द्५ ins. after लिने ३ः
एकानंशेति याम् आहुर्
उत्पन्नां मानवा भुवि । ह्व्_४८।३६६१२अ ।
तस्यां गतायां कंसस् तु
तां मेने मृत्युम् आत्मनः ।
विविक्ते देवकीं चैव
व्रीडितः प्रत्यभाषत ॥ ह्व्_४८।३७ ॥

मूलम्

ःक्२,Ñ२,द्स्,द्५ ins. after लिने ३ः
एकानंशेति याम् आहुर्
उत्पन्नां मानवा भुवि । ह्व्_४८।३६६१२अ ।
तस्यां गतायां कंसस् तु
तां मेने मृत्युम् आत्मनः ।
विविक्ते देवकीं चैव
व्रीडितः प्रत्यभाषत ॥ ह्व्_४८।३७ ॥

विश्वास-प्रस्तुतिः

पितृष्वसः कृतो यत्नस्
तव गर्भा हता मया ।
अन्यथैवान्यतो देवि
मम मृत्युः समुत्थितः ॥ ह्व्_४८।३८ ॥

मूलम्

पितृष्वसः कृतो यत्नस्
तव गर्भा हता मया ।
अन्यथैवान्यतो देवि
मम मृत्युः समुत्थितः ॥ ह्व्_४८।३८ ॥

विश्वास-प्रस्तुतिः

नैराश्येन कृतो यत्नः
स्वजने प्रहृतं मया ।
दैवं पुरुषकारेण
न चातिक्रान्तवान् अहम् ॥ ह्व्_४८।३९ ॥

मूलम्

नैराश्येन कृतो यत्नः
स्वजने प्रहृतं मया ।
दैवं पुरुषकारेण
न चातिक्रान्तवान् अहम् ॥ ह्व्_४८।३९ ॥

विश्वास-प्रस्तुतिः

त्यज गर्भकृतां चिन्तां
त्वम् इमां शोककारिकाम् ।
हेतुभूतस् त्व् अहं तेषां
सति कालविपर्यये ॥ ह्व्_४८।४० ॥

मूलम्

त्यज गर्भकृतां चिन्तां
त्वम् इमां शोककारिकाम् ।
हेतुभूतस् त्व् अहं तेषां
सति कालविपर्यये ॥ ह्व्_४८।४० ॥

विश्वास-प्रस्तुतिः

काल एव नृणां शत्रुः
कालश् च परिणामकः ।
कालो नयति सर्वं वै
हेतुभूतश् च मद्विधः ॥ ह्व्_४८।४१ ॥

मूलम्

काल एव नृणां शत्रुः
कालश् च परिणामकः ।
कालो नयति सर्वं वै
हेतुभूतश् च मद्विधः ॥ ह्व्_४८।४१ ॥

विश्वास-प्रस्तुतिः

([क्: क्१।३।४ Ñ२।३ व् ब् द् स् (एxचेप्त् म्१-३) ins.: :क्])
आगमिष्यन्ति वै देवि
यथाभागम् उपद्रवः । ह्व्_४८।४१६१३:१ ।
इदं तु कष्टं यज् जन्तुः
कर्ताहम् इति मन्यते । ह्व्_४८।४१६१३:२ ।
मा कार्षीः पुत्रजां चिन्तां
विलापं शोकजं त्यज ।
एवम्प्राया नृणां योनिर्
नास्ति कालस्य संस्थितिः ॥ ह्व्_४८।४२ ॥

मूलम्

([क्: क्१।३।४ Ñ२।३ व् ब् द् स् (एxचेप्त् म्१-३) ins.: :क्])
आगमिष्यन्ति वै देवि
यथाभागम् उपद्रवः । ह्व्_४८।४१६१३:१ ।
इदं तु कष्टं यज् जन्तुः
कर्ताहम् इति मन्यते । ह्व्_४८।४१६१३:२ ।
मा कार्षीः पुत्रजां चिन्तां
विलापं शोकजं त्यज ।
एवम्प्राया नृणां योनिर्
नास्ति कालस्य संस्थितिः ॥ ह्व्_४८।४२ ॥

विश्वास-प्रस्तुतिः

पतामि पादयोर् मूर्ध्ना
पुत्रवत् तव देवकि ।
मद्गतस् त्यज्यतां रोषो
जानाम्य् अपकृतं स्वयम् ॥ ह्व्_४८।४३ ॥

मूलम्

पतामि पादयोर् मूर्ध्ना
पुत्रवत् तव देवकि ।
मद्गतस् त्यज्यतां रोषो
जानाम्य् अपकृतं स्वयम् ॥ ह्व्_४८।४३ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ Ñ२ व्२।३ ब् द्स् द्६ त्१।३ ग् म्४ ins.: :क्])
इत्य् उक्तवन्तं कंसं सा
देवकी वाक्यम् अब्रवीत् । ह्व्_४८।४३६१४ ।
साश्रुपूर्णमुखी दीना
भर्तारम् अभिवीक्षती ।
उत्तिष्ठोत्तिष्ठ वत्सेति
कंसं मातेव जल्पती ॥ ह्व्_४८।४४ ॥

मूलम्

([क्: क्४ Ñ२ व्२।३ ब् द्स् द्६ त्१।३ ग् म्४ ins.: :क्])
इत्य् उक्तवन्तं कंसं सा
देवकी वाक्यम् अब्रवीत् । ह्व्_४८।४३६१४ ।
साश्रुपूर्णमुखी दीना
भर्तारम् अभिवीक्षती ।
उत्तिष्ठोत्तिष्ठ वत्सेति
कंसं मातेव जल्पती ॥ ह्व्_४८।४४ ॥

विश्वास-प्रस्तुतिः

{देवक्य् उवाच}
ममाग्रतो हता गर्भा
ये त्वया कालरूपिणा ।
कारणं त्वं न वै पुत्र
कृतान्तो ह्य् अत्र कारणम् ॥ ह्व्_४८।४५ ॥

मूलम्

{देवक्य् उवाच}
ममाग्रतो हता गर्भा
ये त्वया कालरूपिणा ।
कारणं त्वं न वै पुत्र
कृतान्तो ह्य् अत्र कारणम् ॥ ह्व्_४८।४५ ॥

विश्वास-प्रस्तुतिः

गर्भकृन्तनम् एतन् मे
सहनीयं त्वया कृतम् ।
मूर्ध्ना पद्भ्यां निपतता
स्वं च कर्म जुगुप्सता ॥ ह्व्_४८।४६ ॥

मूलम्

गर्भकृन्तनम् एतन् मे
सहनीयं त्वया कृतम् ।
मूर्ध्ना पद्भ्यां निपतता
स्वं च कर्म जुगुप्सता ॥ ह्व्_४८।४६ ॥

विश्वास-प्रस्तुतिः

गर्भे ऽपि नियतो मृत्युर्
बाल्ये ऽपि न निवर्तते ।
युवापि मृत्योर् वशगः
स्थविरो मृत एव तु ॥ ह्व्_४८।४७ ॥

मूलम्

गर्भे ऽपि नियतो मृत्युर्
बाल्ये ऽपि न निवर्तते ।
युवापि मृत्योर् वशगः
स्थविरो मृत एव तु ॥ ह्व्_४८।४७ ॥

विश्वास-प्रस्तुतिः

कालमूलम् इदं सर्वं
हेतुभूतस् त्वम् एव हि । ह्व्_४८।४७६१५ ।
अजाते दर्शनं नास्ति
यथा नास्ति तथैव सः ।
जातो ऽप्य् अजाततां याति
विधात्रा यत्र नीयते ॥ ह्व्_४८।४८ ॥

मूलम्

कालमूलम् इदं सर्वं
हेतुभूतस् त्वम् एव हि । ह्व्_४८।४७६१५ ।
अजाते दर्शनं नास्ति
यथा नास्ति तथैव सः ।
जातो ऽप्य् अजाततां याति
विधात्रा यत्र नीयते ॥ ह्व्_४८।४८ ॥

विश्वास-प्रस्तुतिः

तद् गच्छ पुत्र मा ते भून्
मद्गतं मन्युकारणम् ।
मृत्युनापहृते पूर्वं
शेषो हेतुः प्रवर्तते ॥ ह्व्_४८।४९ ॥

मूलम्

तद् गच्छ पुत्र मा ते भून्
मद्गतं मन्युकारणम् ।
मृत्युनापहृते पूर्वं
शेषो हेतुः प्रवर्तते ॥ ह्व्_४८।४९ ॥

विश्वास-प्रस्तुतिः

विधिना पूर्वदृष्टेन
प्रजासर्गेण तत्त्वतः ।
मातापित्रोस् तु कार्येण
जन्मतस् तूपपद्यते ॥ ह्व्_४८।५० ॥

मूलम्

विधिना पूर्वदृष्टेन
प्रजासर्गेण तत्त्वतः ।
मातापित्रोस् तु कार्येण
जन्मतस् तूपपद्यते ॥ ह्व्_४८।५० ॥

विश्वास-प्रस्तुतिः

निशम्य देवकीवाक्यं
स कंसः स्वम् निवेशनम् ।
([क्: क्२-४ Ñ२।३ व् ब् द् स् एxचेप्त् म्१-३ ins. after ५१अब्: :क्])
प्रविवेश सुसंरब्धो
दह्यमानेन चेतसा । ह्व्_४८।५१अब्६१६ ।
कृत्ये प्रतिहते दीनो
जगाम विमना भृशम् ॥ ह्व्_४८।५१ ॥

मूलम्

निशम्य देवकीवाक्यं
स कंसः स्वम् निवेशनम् ।
([क्: क्२-४ Ñ२।३ व् ब् द् स् एxचेप्त् म्१-३ ins. after ५१अब्: :क्])
प्रविवेश सुसंरब्धो
दह्यमानेन चेतसा । ह्व्_४८।५१अब्६१६ ।
कृत्ये प्रतिहते दीनो
जगाम विमना भृशम् ॥ ह्व्_४८।५१ ॥

([क्: after ५१, Ñ२ व्३ ब्१ ins.: :क्]) स्ववधं चिन्त्यमानस् तु कन्यावाक्यम् अनुस्मरन् । *ह्व्_४८।५१*६१७ ।