विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
तच् छ्रुत्वा विष्णुगदितं
ब्रह्मा लोकपितामहः ।
उवाच परमं वाक्यं
हितं सर्वदिवौकसाम् ॥ ह्व्_४१।१ ॥
मूलम्
{वैशम्पायन उवाच}
तच् छ्रुत्वा विष्णुगदितं
ब्रह्मा लोकपितामहः ।
उवाच परमं वाक्यं
हितं सर्वदिवौकसाम् ॥ ह्व्_४१।१ ॥
विश्वास-प्रस्तुतिः
नास्ति किञ्चिद् भयं विष्णो
सुराणाम् असुरान्तक ।
येषां भवान् अभयदः
कर्णधारो रणे रणे ॥ ह्व्_४१।२ ॥
मूलम्
नास्ति किञ्चिद् भयं विष्णो
सुराणाम् असुरान्तक ।
येषां भवान् अभयदः
कर्णधारो रणे रणे ॥ ह्व्_४१।२ ॥
विश्वास-प्रस्तुतिः
शक्रे जयति देवेशे
त्वयि चासुरसूदने ।
धर्मे प्रयतमानानां
मानवानां कुतो भयम् ॥ ह्व्_४१।३ ॥
मूलम्
शक्रे जयति देवेशे
त्वयि चासुरसूदने ।
धर्मे प्रयतमानानां
मानवानां कुतो भयम् ॥ ह्व्_४१।३ ॥
विश्वास-प्रस्तुतिः
सत्ये धर्मे च निरता
मानवा विगतज्वराः ।
नाकालधर्मणा मृत्युः
शक्नोति प्रसमीक्षितुम् ॥ ह्व्_४१।४ ॥
मूलम्
सत्ये धर्मे च निरता
मानवा विगतज्वराः ।
नाकालधर्मणा मृत्युः
शक्नोति प्रसमीक्षितुम् ॥ ह्व्_४१।४ ॥
विश्वास-प्रस्तुतिः
मानवानां च पतयः
पार्थिवाश् च परस्परम् ।
षड्भागम् उपयुञ्जाना
न भेदं कुर्वते मिथः ॥ ह्व्_४१।५ ॥
मूलम्
मानवानां च पतयः
पार्थिवाश् च परस्परम् ।
षड्भागम् उपयुञ्जाना
न भेदं कुर्वते मिथः ॥ ह्व्_४१।५ ॥
विश्वास-प्रस्तुतिः
ते प्रजानां शुभकराः
करदैर् अविगर्हिताः ।
अकरैर् विप्रयुक्तार्थाः
कोशम् आपूरयन् सदा ॥ ह्व्_४१।६ ॥
मूलम्
ते प्रजानां शुभकराः
करदैर् अविगर्हिताः ।
अकरैर् विप्रयुक्तार्थाः
कोशम् आपूरयन् सदा ॥ ह्व्_४१।६ ॥
विश्वास-प्रस्तुतिः
स्फीताञ्जनपदान् स्वान् स्वान्
पालयन्तः क्षमापराः ।
अतीक्ष्णद् अण्डाश् चतुरो
वर्णाञ् जुगुपुर् अञ्जसा ॥ ह्व्_४१।७ ॥
मूलम्
स्फीताञ्जनपदान् स्वान् स्वान्
पालयन्तः क्षमापराः ।
अतीक्ष्णद् अण्डाश् चतुरो
वर्णाञ् जुगुपुर् अञ्जसा ॥ ह्व्_४१।७ ॥
विश्वास-प्रस्तुतिः
नोद्वेजनीया भूतानां
सचिवैः साधु पूजिताः ।
चतुरङ्गबलैर् युक्ताः
षड्गुणान् उपयुञ्जते ॥ ह्व्_४१।८ ॥
मूलम्
नोद्वेजनीया भूतानां
सचिवैः साधु पूजिताः ।
चतुरङ्गबलैर् युक्ताः
षड्गुणान् उपयुञ्जते ॥ ह्व्_४१।८ ॥
विश्वास-प्रस्तुतिः
धनुर्वेदपराः सर्वे
सर्वे वेदेषु निष्ठिताः ।
यजन्ति च यथाकालं
यज्ञैर् विपुलदक्षिणैः ॥ ह्व्_४१।९ ॥
मूलम्
धनुर्वेदपराः सर्वे
सर्वे वेदेषु निष्ठिताः ।
यजन्ति च यथाकालं
यज्ञैर् विपुलदक्षिणैः ॥ ह्व्_४१।९ ॥
विश्वास-प्रस्तुतिः
वेदान् अधीत्य दीक्षाभिर्
महर्षीन् ब्रह्मचर्यया ।
श्राद्धैश् च मेध्यैः शतशस्
तर्पयन्ति पितामहान् ॥ ह्व्_४१।१० ॥
मूलम्
वेदान् अधीत्य दीक्षाभिर्
महर्षीन् ब्रह्मचर्यया ।
श्राद्धैश् च मेध्यैः शतशस्
तर्पयन्ति पितामहान् ॥ ह्व्_४१।१० ॥
विश्वास-प्रस्तुतिः
नैषाम् अविदितं किञ्चित्
त्रिविधं भुवि विद्यते ।
वैदिकं लौकिकं चैव
धर्मशास्त्रोक्तम् एव च ॥ ह्व्_४१।११ ॥
मूलम्
नैषाम् अविदितं किञ्चित्
त्रिविधं भुवि विद्यते ।
वैदिकं लौकिकं चैव
धर्मशास्त्रोक्तम् एव च ॥ ह्व्_४१।११ ॥
विश्वास-प्रस्तुतिः
ते परावरदृष्टार्था
महर्षिसमतेजसः ।
भूयः कृतयुगं कर्तुम्
उत्सहन्ते नराधिपाः ॥ ह्व्_४१।१२ ॥
मूलम्
ते परावरदृष्टार्था
महर्षिसमतेजसः ।
भूयः कृतयुगं कर्तुम्
उत्सहन्ते नराधिपाः ॥ ह्व्_४१।१२ ॥
विश्वास-प्रस्तुतिः
तेषाम् एव प्रभावेन
शिवं वर्षति वासवः ।
यथार्थं च ववुर् वाता
विरजस्का दिशो दश ॥ ह्व्_४१।१३ ॥
मूलम्
तेषाम् एव प्रभावेन
शिवं वर्षति वासवः ।
यथार्थं च ववुर् वाता
विरजस्का दिशो दश ॥ ह्व्_४१।१३ ॥
विश्वास-प्रस्तुतिः
([क्: after १३च्, श्१ ins.: :क्])
॥।
वाताः शिवसुगन्धिनः । ह्व्_४१।१३५३८:१ ।
निर्मलं चाभवद् व्योम
॥। । ह्व्_४१।१३५३८:२ ।
निरुत्पाता च वसुधा
सुप्रचाराश् च वै ग्रहाः ।
चन्द्रमाश् च सनक्षत्रः
सौम्यं चरति योगतः ॥ ह्व्_४१।१४ ॥
मूलम्
([क्: after १३च्, श्१ ins.: :क्])
॥।
वाताः शिवसुगन्धिनः । ह्व्_४१।१३५३८:१ ।
निर्मलं चाभवद् व्योम
॥। । ह्व्_४१।१३५३८:२ ।
निरुत्पाता च वसुधा
सुप्रचाराश् च वै ग्रहाः ।
चन्द्रमाश् च सनक्षत्रः
सौम्यं चरति योगतः ॥ ह्व्_४१।१४ ॥
विश्वास-प्रस्तुतिः
अनुलोमकरः सूर्यो
अयने द्वे चचार ह ।
हव्यैश् च विविधैस् तृप्तः
शुभगन्धो हुताशनः ॥ ह्व्_४१।१५ ॥
मूलम्
अनुलोमकरः सूर्यो
अयने द्वे चचार ह ।
हव्यैश् च विविधैस् तृप्तः
शुभगन्धो हुताशनः ॥ ह्व्_४१।१५ ॥
विश्वास-प्रस्तुतिः
एवं सम्यक्प्रवृत्तेषु
निवृत्तेष्व् अपराधतः ।
तर्पयत्सु महीं कृत्स्नां
नृणां कालभयं कुतः ॥ ह्व्_४१।१६ ॥
मूलम्
एवं सम्यक्प्रवृत्तेषु
निवृत्तेष्व् अपराधतः ।
तर्पयत्सु महीं कृत्स्नां
नृणां कालभयं कुतः ॥ ह्व्_४१।१६ ॥
विश्वास-प्रस्तुतिः
तेषां ज्वलितकीर्तीनाम्
अन्योन्यम् अनुवर्तिनाम् ।
राज्ञां बलैर् बलवतां
पीड्यते वसुधातलम् ॥ ह्व्_४१।१७ ॥
मूलम्
तेषां ज्वलितकीर्तीनाम्
अन्योन्यम् अनुवर्तिनाम् ।
राज्ञां बलैर् बलवतां
पीड्यते वसुधातलम् ॥ ह्व्_४१।१७ ॥
विश्वास-प्रस्तुतिः
सेयं भारपरिश्रान्ता
पीड्यमाना नराधिपैः ।
पृथिवी समनुप्राप्ता
नौर् इवासन्न् अविप्लवा ॥ ह्व्_४१।१८ ॥
मूलम्
सेयं भारपरिश्रान्ता
पीड्यमाना नराधिपैः ।
पृथिवी समनुप्राप्ता
नौर् इवासन्न् अविप्लवा ॥ ह्व्_४१।१८ ॥
विश्वास-प्रस्तुतिः
युगान्तसदृशं रूपं
शैलोच्चलितबन्धनम् ।
जलोत्पीडाकुला स्वेदं
दर्शयन्ती मुहुर् मुहुः ॥ ह्व्_४१।१९ ॥
मूलम्
युगान्तसदृशं रूपं
शैलोच्चलितबन्धनम् ।
जलोत्पीडाकुला स्वेदं
दर्शयन्ती मुहुर् मुहुः ॥ ह्व्_४१।१९ ॥
विश्वास-प्रस्तुतिः
क्षत्रियाणां वपुर्भिश् च
तेजसा च बलेन च ।
नृणां च राष्ट्रैर् विस्तीर्णैः
श्राम्यतीव वसुन्धरा ॥ ह्व्_४१।२० ॥
मूलम्
क्षत्रियाणां वपुर्भिश् च
तेजसा च बलेन च ।
नृणां च राष्ट्रैर् विस्तीर्णैः
श्राम्यतीव वसुन्धरा ॥ ह्व्_४१।२० ॥
विश्वास-प्रस्तुतिः
([क्: त्३ ins.: :क्])
यच् चोक्तं ब्रह्मसदने
ब्रह्मणा परमेष्ठिना । ह्व्_४१।२०५३९:१ ।
तच् छृणुष्व महाबाहो
रहस्यम् इदम् उत्तमम् । ह्व्_४१।२०५३९:२ ।
पुरे पुरे नरपतिः
कोटिसङ्ख्यैर् बलैर् वृतः ।
राष्ट्रे राष्ट्रे च बहवो
ग्रामाः शतसहस्रशः ॥ ह्व्_४१।२१ ॥
मूलम्
([क्: त्३ ins.: :क्])
यच् चोक्तं ब्रह्मसदने
ब्रह्मणा परमेष्ठिना । ह्व्_४१।२०५३९:१ ।
तच् छृणुष्व महाबाहो
रहस्यम् इदम् उत्तमम् । ह्व्_४१।२०५३९:२ ।
पुरे पुरे नरपतिः
कोटिसङ्ख्यैर् बलैर् वृतः ।
राष्ट्रे राष्ट्रे च बहवो
ग्रामाः शतसहस्रशः ॥ ह्व्_४१।२१ ॥
विश्वास-प्रस्तुतिः
भूमिपानां सहस्रैश् च
तेषां च बलिनां बलैः ।
ग्रामायुताढ्यै राष्ट्रैश् च
भूमिर् निर्विवरीकृता ॥ ह्व्_४१।२२ ॥
मूलम्
भूमिपानां सहस्रैश् च
तेषां च बलिनां बलैः ।
ग्रामायुताढ्यै राष्ट्रैश् च
भूमिर् निर्विवरीकृता ॥ ह्व्_४१।२२ ॥
विश्वास-प्रस्तुतिः
सेयं निरामिषं कृत्वा
निश्चेष्टं कालम् अग्रतः ।
प्राप्ता ममालयं विष्णो
भवांश् चास्याः परा गतिः ॥ ह्व्_४१।२३ ॥
मूलम्
सेयं निरामिषं कृत्वा
निश्चेष्टं कालम् अग्रतः ।
प्राप्ता ममालयं विष्णो
भवांश् चास्याः परा गतिः ॥ ह्व्_४१।२३ ॥
विश्वास-प्रस्तुतिः
कर्मभूमिर् इहस्थानां
भूमिर् एषा व्यथां गता ।
यथा न सीदेत् तत्कार्यं
जगत्य् एषा हि शाश्वती ॥ ह्व्_४१।२४ ॥
मूलम्
कर्मभूमिर् इहस्थानां
भूमिर् एषा व्यथां गता ।
यथा न सीदेत् तत्कार्यं
जगत्य् एषा हि शाश्वती ॥ ह्व्_४१।२४ ॥
विश्वास-प्रस्तुतिः
अस्या हि पीडने दोषो
महान् स्यान् मधुसूदन ।
क्रियालोपश् च लोकानां
दूषितं च जगद् भवेत् ॥ ह्व्_४१।२५ ॥
मूलम्
अस्या हि पीडने दोषो
महान् स्यान् मधुसूदन ।
क्रियालोपश् च लोकानां
दूषितं च जगद् भवेत् ॥ ह्व्_४१।२५ ॥
विश्वास-प्रस्तुतिः
श्राम्यते व्यक्तम् एवेयं
पार्थिवौघप्रपीडिता ।
सहजां या क्षमां त्यक्त्वा
चलत्वम् अचला गता ॥ ह्व्_४१।२६ ॥
मूलम्
श्राम्यते व्यक्तम् एवेयं
पार्थिवौघप्रपीडिता ।
सहजां या क्षमां त्यक्त्वा
चलत्वम् अचला गता ॥ ह्व्_४१।२६ ॥
विश्वास-प्रस्तुतिः
तद् अस्याः श्रुतवन्तः स्म
तच् चापि भवता श्रुतम् ।
भारावतरणार्थं हि
मन्त्रयामस् त्वया सह ॥ ह्व्_४१।२७ ॥
मूलम्
तद् अस्याः श्रुतवन्तः स्म
तच् चापि भवता श्रुतम् ।
भारावतरणार्थं हि
मन्त्रयामस् त्वया सह ॥ ह्व्_४१।२७ ॥
विश्वास-प्रस्तुतिः
सत्पथे हि स्थिताः सर्वे
राजानो राष्ट्रवर्धनाः ।
नराणां च त्रयो वर्णा
ब्राह्मणान् अनुयायिनः ॥ ह्व्_४१।२८ ॥
मूलम्
सत्पथे हि स्थिताः सर्वे
राजानो राष्ट्रवर्धनाः ।
नराणां च त्रयो वर्णा
ब्राह्मणान् अनुयायिनः ॥ ह्व्_४१।२८ ॥
विश्वास-प्रस्तुतिः
सर्वं सत्यमयं वाक्यं
वर्णा धर्मपरास् तथा ।
सर्वे वेदपरा विप्राः
सर्वे विप्रपरा नराः ॥ ह्व्_४१।२९ ॥
मूलम्
सर्वं सत्यमयं वाक्यं
वर्णा धर्मपरास् तथा ।
सर्वे वेदपरा विप्राः
सर्वे विप्रपरा नराः ॥ ह्व्_४१।२९ ॥
विश्वास-प्रस्तुतिः
एवं जगति वर्तन्ते
मनुष्या धर्मकारणात् ।
यथा धर्मवधो न स्यात्
तथा मन्त्रः प्रवर्तताम् ॥ ह्व्_४१।३० ॥
मूलम्
एवं जगति वर्तन्ते
मनुष्या धर्मकारणात् ।
यथा धर्मवधो न स्यात्
तथा मन्त्रः प्रवर्तताम् ॥ ह्व्_४१।३० ॥
विश्वास-प्रस्तुतिः
सतां गतिर् इयं नान्या
धर्मश् चास्याः सुसाधनम् ।
राज्ञां चैव वधः कार्यो
धरण्या भारनिर्णये ॥ ह्व्_४१।३१ ॥
मूलम्
सतां गतिर् इयं नान्या
धर्मश् चास्याः सुसाधनम् ।
राज्ञां चैव वधः कार्यो
धरण्या भारनिर्णये ॥ ह्व्_४१।३१ ॥
विश्वास-प्रस्तुतिः
तदागच्छ महाभाग
सह वै मन्त्रकारणात् ।
व्रजाम मेरुशिखरं
पुरस्कृत्य वसुन्धराम् ॥ ह्व्_४१।३२ ॥
मूलम्
तदागच्छ महाभाग
सह वै मन्त्रकारणात् ।
व्रजाम मेरुशिखरं
पुरस्कृत्य वसुन्धराम् ॥ ह्व्_४१।३२ ॥