०४०

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
ऋषिभिः पूजितस् तैस् तु
विवेश हरिर् ईश्वरः ।
पौराणं ब्रह्मसदनं
दिव्यं नारायणाश्रमम् ॥ ह्व्_४०।१ ॥

मूलम्

{वैशम्पायन उवाच}
ऋषिभिः पूजितस् तैस् तु
विवेश हरिर् ईश्वरः ।
पौराणं ब्रह्मसदनं
दिव्यं नारायणाश्रमम् ॥ ह्व्_४०।१ ॥

विश्वास-प्रस्तुतिः

स तत्र विविशे हृष्टस्
तान् आमन्त्र्य सदोगतान् ।
प्रणम्य चादिदेवाय
ब्रह्मणे पद्मयोनये ॥ ह्व्_४०।२ ॥

मूलम्

स तत्र विविशे हृष्टस्
तान् आमन्त्र्य सदोगतान् ।
प्रणम्य चादिदेवाय
ब्रह्मणे पद्मयोनये ॥ ह्व्_४०।२ ॥

विश्वास-प्रस्तुतिः

स्वेन नाम्ना परिज्ञातं
स तं नारायणाश्रमम् ।
प्रविशन्न् एव भगवान्
आयुधानि व्यसर्जयत् ॥ ह्व्_४०।३ ॥

मूलम्

स्वेन नाम्ना परिज्ञातं
स तं नारायणाश्रमम् ।
प्रविशन्न् एव भगवान्
आयुधानि व्यसर्जयत् ॥ ह्व्_४०।३ ॥

विश्वास-प्रस्तुतिः

स तत्राम्बुपतिप्रख्यं
ददर्शालयम् आत्मनः ।
स्वधिष्ठितं भूतगणैः
शाश्वतैश् च महर्षिभिः ॥ ह्व्_४०।४ ॥

मूलम्

स तत्राम्बुपतिप्रख्यं
ददर्शालयम् आत्मनः ।
स्वधिष्ठितं भूतगणैः
शाश्वतैश् च महर्षिभिः ॥ ह्व्_४०।४ ॥

विश्वास-प्रस्तुतिः

संवर्तकाम्बुदोपेतं
नक्षत्रस्थानसङ्कुलम् ।
तिमिरौघपरिक्षिप्तम्
अप्रधृष्यं सुरासुरैः ॥ ह्व्_४०।५ ॥

मूलम्

संवर्तकाम्बुदोपेतं
नक्षत्रस्थानसङ्कुलम् ।
तिमिरौघपरिक्षिप्तम्
अप्रधृष्यं सुरासुरैः ॥ ह्व्_४०।५ ॥

विश्वास-प्रस्तुतिः

न तत्र विषयो वायोर्
नेन्दोर् नापि विवस्वतः ।
वपुषा पद्मनाभस्य
स देशस् तेजसा वृतः ॥ ह्व्_४०।६ ॥

मूलम्

न तत्र विषयो वायोर्
नेन्दोर् नापि विवस्वतः ।
वपुषा पद्मनाभस्य
स देशस् तेजसा वृतः ॥ ह्व्_४०।६ ॥

विश्वास-प्रस्तुतिः

स तत्र प्रविशन्न् एव
जटाभारं समुद्वहन् ।
स सहस्रशिरा भूत्वा
शयनायोपचक्रमे ॥ ह्व्_४०।७ ॥

मूलम्

स तत्र प्रविशन्न् एव
जटाभारं समुद्वहन् ।
स सहस्रशिरा भूत्वा
शयनायोपचक्रमे ॥ ह्व्_४०।७ ॥

विश्वास-प्रस्तुतिः

लोकानाम् अन्तकालज्ञा
काली नयनशालिनी ।
उपतस्थे महात्मानं
निद्रा तं कालरूपिणी ॥ ह्व्_४०।८ ॥

मूलम्

लोकानाम् अन्तकालज्ञा
काली नयनशालिनी ।
उपतस्थे महात्मानं
निद्रा तं कालरूपिणी ॥ ह्व्_४०।८ ॥

विश्वास-प्रस्तुतिः

([क्: क्१ ins.: :क्])
विश्वस्य जगतः प्रभुम् । ह्व्_४०।८च्५३१:१ ।*
नारायणं विश्वबीजम् । ह्व्_४०।८च्५३१:२ ।*
स शिश्ये शयने दिव्ये
समुद्राम्भोदशीतले ।
हरिर् एकार्णवोक्तेन
व्रतेन व्रतिनां वरः ॥ ह्व्_४०।९ ॥

मूलम्

([क्: क्१ ins.: :क्])
विश्वस्य जगतः प्रभुम् । ह्व्_४०।८च्५३१:१ ।*
नारायणं विश्वबीजम् । ह्व्_४०।८च्५३१:२ ।*
स शिश्ये शयने दिव्ये
समुद्राम्भोदशीतले ।
हरिर् एकार्णवोक्तेन
व्रतेन व्रतिनां वरः ॥ ह्व्_४०।९ ॥

विश्वास-प्रस्तुतिः

तं शयानं महात्मानं
भवाय जगतः प्रभुम् ।
उपासां चक्रिरे विष्णुं
देवाः सर्षिगणास् तदा ॥ ह्व्_४०।१० ॥

मूलम्

तं शयानं महात्मानं
भवाय जगतः प्रभुम् ।
उपासां चक्रिरे विष्णुं
देवाः सर्षिगणास् तदा ॥ ह्व्_४०।१० ॥

विश्वास-प्रस्तुतिः

तस्य सुप्तस्य शुशुभे
नाभिमध्यात् समुत्थितम् ।
आद्यस्य सदनं पद्मं
ब्रह्मणः सूर्यसन्निभम् ॥ ह्व्_४०।११ ॥

मूलम्

तस्य सुप्तस्य शुशुभे
नाभिमध्यात् समुत्थितम् ।
आद्यस्य सदनं पद्मं
ब्रह्मणः सूर्यसन्निभम् ॥ ह्व्_४०।११ ॥

विश्वास-प्रस्तुतिः

([क्: क्१-३ Ñ२।३ व् ब् द्न् द्स् द्२-५ त्१।३।४ ग्३।५ ins.: :क्])
सहस्रपत्रं वर्णाढ्यं
सुकुमारं विभूषितम् । ह्व्_४०।११५३२ ।
ब्रह्मसूत्रोद्यतकरः
स्वपन्न् एव महामुनिः ।
आवर्तयति लोकानां
सर्वेषां कालपर्ययम् ॥ ह्व्_४०।१२ ॥

मूलम्

([क्: क्१-३ Ñ२।३ व् ब् द्न् द्स् द्२-५ त्१।३।४ ग्३।५ ins.: :क्])
सहस्रपत्रं वर्णाढ्यं
सुकुमारं विभूषितम् । ह्व्_४०।११५३२ ।
ब्रह्मसूत्रोद्यतकरः
स्वपन्न् एव महामुनिः ।
आवर्तयति लोकानां
सर्वेषां कालपर्ययम् ॥ ह्व्_४०।१२ ॥

विश्वास-प्रस्तुतिः

विवृतात् तस्य वदनान्
निःश्वासपवनेरिताः ।
प्रजानां पङ्क्तयो ह्य् ओघैर्
निष्पतन्ति विशन्ति च ॥ ह्व्_४०।१३ ॥

मूलम्

विवृतात् तस्य वदनान्
निःश्वासपवनेरिताः ।
प्रजानां पङ्क्तयो ह्य् ओघैर्
निष्पतन्ति विशन्ति च ॥ ह्व्_४०।१३ ॥

विश्वास-प्रस्तुतिः

ते सृष्टाः प्राणिनाम् ओघा
विभक्ता ब्रह्मणा स्वयम् ।
चतुर्धा स्वां गतिं जग्मुः
कृतान्तोक्तेन कर्मणा ॥ ह्व्_४०।१४ ॥

मूलम्

ते सृष्टाः प्राणिनाम् ओघा
विभक्ता ब्रह्मणा स्वयम् ।
चतुर्धा स्वां गतिं जग्मुः
कृतान्तोक्तेन कर्मणा ॥ ह्व्_४०।१४ ॥

विश्वास-प्रस्तुतिः

न तं वेद स्वयं ब्रह्मा
नापि ब्रह्मर्षयो ऽव्ययाः ।
विष्णुं निद्रामयं योगं
प्रविष्टं तमसावृतम् ॥ ह्व्_४०।१५ ॥

मूलम्

न तं वेद स्वयं ब्रह्मा
नापि ब्रह्मर्षयो ऽव्ययाः ।
विष्णुं निद्रामयं योगं
प्रविष्टं तमसावृतम् ॥ ह्व्_४०।१५ ॥

विश्वास-प्रस्तुतिः

ते तु ब्रह्मर्षयः सर्वे
पितामहपुरोगमाः ।
न विदुस् तं क्वचित् सुप्तं
क्वचिद् आसीनम् आसने ॥ ह्व्_४०।१६ ॥

मूलम्

ते तु ब्रह्मर्षयः सर्वे
पितामहपुरोगमाः ।
न विदुस् तं क्वचित् सुप्तं
क्वचिद् आसीनम् आसने ॥ ह्व्_४०।१६ ॥

विश्वास-प्रस्तुतिः

जागर्ति को ऽत्र कः शेते
कः श्वसन् कश् च नेङ्गते ।
को भोगवान् को द्युतिमान्
कृष्णात् कृष्णतरश् च कः ॥ ह्व्_४०।१७ ॥

मूलम्

जागर्ति को ऽत्र कः शेते
कः श्वसन् कश् च नेङ्गते ।
को भोगवान् को द्युतिमान्
कृष्णात् कृष्णतरश् च कः ॥ ह्व्_४०।१७ ॥

विश्वास-प्रस्तुतिः

विमृशन्ति स्म तं देवं
दिव्याभिर् उपपत्तिभिः ।
([क्: स् (एxचेप्त् त्३।४) ins.: :क्])
वाक्यैर् ब्रह्मपदैश् चापि
प्रमाणैः सर्वलक्षणैः । ह्व्_४०।१८५३३ ।
न चैनं शेकुर् अन्वेष्टुं
कर्मतो जन्मतो ऽपि वा ॥ ह्व्_४०।१८ ॥

मूलम्

विमृशन्ति स्म तं देवं
दिव्याभिर् उपपत्तिभिः ।
([क्: स् (एxचेप्त् त्३।४) ins.: :क्])
वाक्यैर् ब्रह्मपदैश् चापि
प्रमाणैः सर्वलक्षणैः । ह्व्_४०।१८५३३ ।
न चैनं शेकुर् अन्वेष्टुं
कर्मतो जन्मतो ऽपि वा ॥ ह्व्_४०।१८ ॥

विश्वास-प्रस्तुतिः

कथाभिस् तत्प्रदिष्टाभिर्
ये तस्य चरितं विदुः ।
पुराणं तं पुराणेषु
ऋषयः सम्प्रचक्षते ॥ ह्व्_४०।१९ ॥

मूलम्

कथाभिस् तत्प्रदिष्टाभिर्
ये तस्य चरितं विदुः ।
पुराणं तं पुराणेषु
ऋषयः सम्प्रचक्षते ॥ ह्व्_४०।१९ ॥

विश्वास-प्रस्तुतिः

श्रूयते चास्य चरितं
देवेष्व् अपि पुरातनम् ।
महापुराणात् प्रभृति
परं तस्य न विद्यते ॥ ह्व्_४०।२० ॥

मूलम्

श्रूयते चास्य चरितं
देवेष्व् अपि पुरातनम् ।
महापुराणात् प्रभृति
परं तस्य न विद्यते ॥ ह्व्_४०।२० ॥

विश्वास-प्रस्तुतिः

([क्: म्१-३ सुब्स्त्। फ़ोर् २०cd: :क्])
तत् पुराणाद् ऋते तस्य
चरितं नैव विद्यते । ह्व्_४०।२०५३४ ।
यच् चास्य वेद वेदो ऽपि
चरितं स्वप्रभावजम् ।
तेनेमाः श्रुतयो व्याप्ता
वैदिका लौकिकाश् च याः ॥ ह्व्_४०।२१ ॥

मूलम्

([क्: म्१-३ सुब्स्त्। फ़ोर् २०cd: :क्])
तत् पुराणाद् ऋते तस्य
चरितं नैव विद्यते । ह्व्_४०।२०५३४ ।
यच् चास्य वेद वेदो ऽपि
चरितं स्वप्रभावजम् ।
तेनेमाः श्रुतयो व्याप्ता
वैदिका लौकिकाश् च याः ॥ ह्व्_४०।२१ ॥

विश्वास-प्रस्तुतिः

भवकाले भवत्य् एष
लोकानां भूतभावनः ।
दानवानाम् अभावाय
जागर्ति मधुसूदनः ॥ ह्व्_४०।२२ ॥

मूलम्

भवकाले भवत्य् एष
लोकानां भूतभावनः ।
दानवानाम् अभावाय
जागर्ति मधुसूदनः ॥ ह्व्_४०।२२ ॥

विश्वास-प्रस्तुतिः

यदैनं वीक्षितुं देवा
न शेकुः सुप्तम् अच्युतम् ।
ततः स्वपिति घर्मान्ते
जागर्ति जलदक्षये ॥ ह्व्_४०।२३ ॥

मूलम्

यदैनं वीक्षितुं देवा
न शेकुः सुप्तम् अच्युतम् ।
ततः स्वपिति घर्मान्ते
जागर्ति जलदक्षये ॥ ह्व्_४०।२३ ॥

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् श्१ Ñ१; द्६ ॐ।) त्१।३।४ ग्३।५ ins.: :क्])
स हि यज्ञाश् च वेदाश् च
यज्ञाङ्गानि च सर्वशः । ह्व्_४०।२३५३५:१ ।
या तु यज्ञगतिः प्रोक्ता
स एष पुरुषोत्तमः । ह्व्_४०।२३५३५:२ ।
तस्मिन् सुप्ते न वर्तन्ते
मन्त्रपूताः क्रतुक्रियाः ।
शरत्प्रवृत्तयज्ञो हि
जागर्ति मधुसूदनः ॥ ह्व्_४०।२४ ॥

मूलम्

([क्: न् (एxचेप्त् श्१ Ñ१; द्६ ॐ।) त्१।३।४ ग्३।५ ins.: :क्])
स हि यज्ञाश् च वेदाश् च
यज्ञाङ्गानि च सर्वशः । ह्व्_४०।२३५३५:१ ।
या तु यज्ञगतिः प्रोक्ता
स एष पुरुषोत्तमः । ह्व्_४०।२३५३५:२ ।
तस्मिन् सुप्ते न वर्तन्ते
मन्त्रपूताः क्रतुक्रियाः ।
शरत्प्रवृत्तयज्ञो हि
जागर्ति मधुसूदनः ॥ ह्व्_४०।२४ ॥

विश्वास-प्रस्तुतिः

([क्: त्१।२ ग् म् सुब्स्त्। फ़ोर् २४cd: :क्])
शरत्प्रभृति यज्ञा हि
जाग्रति श्रीधरे हरौ । ह्व्_४०।२४५३६ ।
तद् इदं वार्षिकं चक्रं
कारयत्य् अम्बुदेश्वरः ।
वैष्णवं कर्म कुर्वाणः
सुप्ते विष्णौ पुरन्दरः ॥ ह्व्_४०।२५ ॥

मूलम्

([क्: त्१।२ ग् म् सुब्स्त्। फ़ोर् २४cd: :क्])
शरत्प्रभृति यज्ञा हि
जाग्रति श्रीधरे हरौ । ह्व्_४०।२४५३६ ।
तद् इदं वार्षिकं चक्रं
कारयत्य् अम्बुदेश्वरः ।
वैष्णवं कर्म कुर्वाणः
सुप्ते विष्णौ पुरन्दरः ॥ ह्व्_४०।२५ ॥

विश्वास-प्रस्तुतिः

या ह्य् एषा गह्वरी माया
निद्रेति जगति स्थिता ।
अकस्माद् द्वेषिणी घोरा
कालरात्रिर् महीक्षिताम् ॥ ह्व्_४०।२६ ॥

मूलम्

या ह्य् एषा गह्वरी माया
निद्रेति जगति स्थिता ।
अकस्माद् द्वेषिणी घोरा
कालरात्रिर् महीक्षिताम् ॥ ह्व्_४०।२६ ॥

विश्वास-प्रस्तुतिः

अस्यास् तनुस् तमोद्वारा
निशादिवसनाशिनी ।
जीवितार्धहरी घोरा
सर्वप्राणभृतां भुवि ॥ ह्व्_४०।२७ ॥

मूलम्

अस्यास् तनुस् तमोद्वारा
निशादिवसनाशिनी ।
जीवितार्धहरी घोरा
सर्वप्राणभृतां भुवि ॥ ह्व्_४०।२७ ॥

विश्वास-प्रस्तुतिः

नैतया कश्चिद् आविष्टो
जृम्भमाणो मुहुर् मुहुः ।
शक्तः प्रसहितुं वेगं
मज्जन्न् इव महार्णवे ॥ ह्व्_४०।२८ ॥

मूलम्

नैतया कश्चिद् आविष्टो
जृम्भमाणो मुहुर् मुहुः ।
शक्तः प्रसहितुं वेगं
मज्जन्न् इव महार्णवे ॥ ह्व्_४०।२८ ॥

विश्वास-प्रस्तुतिः

अन्नजा भुवि मर्त्यानां
श्रमजा वा कथञ्चन ।
नैशा भवति लोकस्य
निद्रा सर्वस्य लौकिकी ॥ ह्व्_४०।२९ ॥

मूलम्

अन्नजा भुवि मर्त्यानां
श्रमजा वा कथञ्चन ।
नैशा भवति लोकस्य
निद्रा सर्वस्य लौकिकी ॥ ह्व्_४०।२९ ॥

विश्वास-प्रस्तुतिः

स्वप्नान्ते क्षीयते ह्य् एषा
प्रायशो भुवि देहिनाम् ।
मृत्युकाले च भूतानां
प्राणान् नाशयते भृशम् ॥ ह्व्_४०।३० ॥

मूलम्

स्वप्नान्ते क्षीयते ह्य् एषा
प्रायशो भुवि देहिनाम् ।
मृत्युकाले च भूतानां
प्राणान् नाशयते भृशम् ॥ ह्व्_४०।३० ॥

विश्वास-प्रस्तुतिः

देवेष्व् अपि दधारैनां
नान्यो नारायणाद् ऋते ।
सखी सर्वहरस्यैषा
माया विष्णुशरीरजा ॥ ह्व्_४०।३१ ॥

मूलम्

देवेष्व् अपि दधारैनां
नान्यो नारायणाद् ऋते ।
सखी सर्वहरस्यैषा
माया विष्णुशरीरजा ॥ ह्व्_४०।३१ ॥

विश्वास-प्रस्तुतिः

सैषा नारायणमुखे
दृष्टा कमललोचना ।
लोकान् अल्पेन कालेन
भजते भूतमोहिनी ॥ ह्व्_४०।३२ ॥

मूलम्

सैषा नारायणमुखे
दृष्टा कमललोचना ।
लोकान् अल्पेन कालेन
भजते भूतमोहिनी ॥ ह्व्_४०।३२ ॥

विश्वास-प्रस्तुतिः

एवम् एषा हितार्थाय
लोकानां कृष्णवर्त्मना ।
ध्रियते सेवनीयेन
पतिनेव पतिव्रता ॥ ह्व्_४०।३३ ॥

मूलम्

एवम् एषा हितार्थाय
लोकानां कृष्णवर्त्मना ।
ध्रियते सेवनीयेन
पतिनेव पतिव्रता ॥ ह्व्_४०।३३ ॥

विश्वास-प्रस्तुतिः

स तया निद्रया छन्नस्
तस्मिन् नारायणाश्रमे ।
शेते स्म हि तदा विष्णुर्
मोहयञ् जगद् अव्ययः ॥ ह्व्_४०।३४ ॥

मूलम्

स तया निद्रया छन्नस्
तस्मिन् नारायणाश्रमे ।
शेते स्म हि तदा विष्णुर्
मोहयञ् जगद् अव्ययः ॥ ह्व्_४०।३४ ॥

विश्वास-प्रस्तुतिः

तस्य वर्षसहस्राणि
शयानस्य महात्मनः ।
जग्मुः कृतयुगं चैव
त्रेता चैव युगोत्तमम् ॥ ह्व्_४०।३५ ॥

मूलम्

तस्य वर्षसहस्राणि
शयानस्य महात्मनः ।
जग्मुः कृतयुगं चैव
त्रेता चैव युगोत्तमम् ॥ ह्व्_४०।३५ ॥

विश्वास-प्रस्तुतिः

स तु द्वापरपर्यन्ते
दृष्ट्वा लोकान् सुदुःखितान् ।
प्राबुध्यत महातेजाः
स्तूयमानो महर्षिभिः ॥ ह्व्_४०।३६ ॥

मूलम्

स तु द्वापरपर्यन्ते
दृष्ट्वा लोकान् सुदुःखितान् ।
प्राबुध्यत महातेजाः
स्तूयमानो महर्षिभिः ॥ ह्व्_४०।३६ ॥

विश्वास-प्रस्तुतिः

{ऋषय ऊचुः}
जहीहि निद्रां सहजां
भुक्तपूर्वाम् इव स्रजम् ।
इमे ते ब्रह्मणा सार्धं
देवा दर्शनकाङ्क्षिणः ॥ ह्व्_४०।३७ ॥

मूलम्

{ऋषय ऊचुः}
जहीहि निद्रां सहजां
भुक्तपूर्वाम् इव स्रजम् ।
इमे ते ब्रह्मणा सार्धं
देवा दर्शनकाङ्क्षिणः ॥ ह्व्_४०।३७ ॥

विश्वास-प्रस्तुतिः

इमे त्वां ब्रह्मविदुषो
ब्रह्मसंस्तववादिनः ।
वर्धयन्ति हृषीकेश
ऋषयः संशितव्रताः ॥ ह्व्_४०।३८ ॥

मूलम्

इमे त्वां ब्रह्मविदुषो
ब्रह्मसंस्तववादिनः ।
वर्धयन्ति हृषीकेश
ऋषयः संशितव्रताः ॥ ह्व्_४०।३८ ॥

विश्वास-प्रस्तुतिः

एतेषाम् आत्मभूतानां
भूतानां भूतभावन ।
शृणु विष्णो शुभां वाचं
भूव्योमाग्न्यनिलाम्भसाम् ॥ ह्व्_४०।३९ ॥

मूलम्

एतेषाम् आत्मभूतानां
भूतानां भूतभावन ।
शृणु विष्णो शुभां वाचं
भूव्योमाग्न्यनिलाम्भसाम् ॥ ह्व्_४०।३९ ॥

विश्वास-प्रस्तुतिः

इमे त्वा सप्त मुनयः
सहिता मुनिमण्डलैः ।
स्तुवन्ति देव दिव्याभिर्
गेयाभिर् गीर्भिर् अञ्जसा ॥ ह्व्_४०।४० ॥

मूलम्

इमे त्वा सप्त मुनयः
सहिता मुनिमण्डलैः ।
स्तुवन्ति देव दिव्याभिर्
गेयाभिर् गीर्भिर् अञ्जसा ॥ ह्व्_४०।४० ॥

विश्वास-प्रस्तुतिः

उत्तिष्ठ शतपत्राक्ष
पद्मनाभ महाद्युते ।
कारणं किञ्चिद् उत्पन्नं
देवानां कार्यगौरवात् ॥ ह्व्_४०।४१ ॥

मूलम्

उत्तिष्ठ शतपत्राक्ष
पद्मनाभ महाद्युते ।
कारणं किञ्चिद् उत्पन्नं
देवानां कार्यगौरवात् ॥ ह्व्_४०।४१ ॥

विश्वास-प्रस्तुतिः

([क्: त्१।२ ग् म् ins.: :क्])
जहि निद्रां जगद्धेतोः
केशवेश जनार्दन । ह्व्_४०।४१५३७:१ ।
त्वयि सुप्ते जगत् सुप्तं
त्वयि जाग्रति जागृतम् ॥ ह्व्_४०।४१५३७:२ ।

मूलम्

([क्: त्१।२ ग् म् ins.: :क्])
जहि निद्रां जगद्धेतोः
केशवेश जनार्दन । ह्व्_४०।४१५३७:१ ।
त्वयि सुप्ते जगत् सुप्तं
त्वयि जाग्रति जागृतम् ॥ ह्व्_४०।४१५३७:२ ।

मीलनं कुरु देवानां देवदेव जगत्पते । *ह्व्_४०।४१*५३७:३ । किं त्वं स्वपिषि गोविन्द नष्टे जगति साम्प्रतम् । *ह्व्_४०।४१*५३७:४ । नष्टप्रायं जगत् पश्य सदेवासुरमानुषम् । *ह्व्_४०।४१*५३७:५ ।
विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
स सङ्क्षिप्य जगत् सर्वं
तिमिरौघं विदारयन् ।
उदतिष्ठद् धृषीकेशः
श्रिया परमया ज्वलन् ॥ ह्व्_४०।४२ ॥

मूलम्

{वैशम्पायन उवाच}
स सङ्क्षिप्य जगत् सर्वं
तिमिरौघं विदारयन् ।
उदतिष्ठद् धृषीकेशः
श्रिया परमया ज्वलन् ॥ ह्व्_४०।४२ ॥

विश्वास-प्रस्तुतिः

स ददर्श सुरान् सर्वान्
समेतान् सपितामहान् ।
विवक्षतः प्रक्षुभिताञ्
जगदर्थे समागतान् ॥ ह्व्_४०।४३ ॥

मूलम्

स ददर्श सुरान् सर्वान्
समेतान् सपितामहान् ।
विवक्षतः प्रक्षुभिताञ्
जगदर्थे समागतान् ॥ ह्व्_४०।४३ ॥

विश्वास-प्रस्तुतिः

तान् उवाच हरिर् देवान्
निद्राविश्रान्तलोचनः ।
तत्त्वदृष्टार्थया वाचा
धर्महेत्वर्थयुक्तया ॥ ह्व्_४०।४४ ॥

मूलम्

तान् उवाच हरिर् देवान्
निद्राविश्रान्तलोचनः ।
तत्त्वदृष्टार्थया वाचा
धर्महेत्वर्थयुक्तया ॥ ह्व्_४०।४४ ॥

विश्वास-प्रस्तुतिः

कुतो वो विग्रहो देवाः
कुतो वो भयम् आगतम् ।
कस्य वा केन वा कार्यं
किं वा मयि न वर्तते ॥ ह्व्_४०।४५ ॥

मूलम्

कुतो वो विग्रहो देवाः
कुतो वो भयम् आगतम् ।
कस्य वा केन वा कार्यं
किं वा मयि न वर्तते ॥ ह्व्_४०।४५ ॥

विश्वास-प्रस्तुतिः

न खल्व् अकुशलं लोके
वर्तते दानवोत्थितम् ।
नृणाम् आयासजननं
शीघ्रम् इच्छामि वेदितुम् ॥ ह्व्_४०।४६ ॥

मूलम्

न खल्व् अकुशलं लोके
वर्तते दानवोत्थितम् ।
नृणाम् आयासजननं
शीघ्रम् इच्छामि वेदितुम् ॥ ह्व्_४०।४६ ॥

विश्वास-प्रस्तुतिः

एष ब्रह्मविदां मध्ये
विहाय शयनोत्तमम् ।
शिवाय भवताम् अर्थे
स्थितः किं करवाणि वः ॥ ह्व्_४०।४७ ॥

मूलम्

एष ब्रह्मविदां मध्ये
विहाय शयनोत्तमम् ।
शिवाय भवताम् अर्थे
स्थितः किं करवाणि वः ॥ ह्व्_४०।४७ ॥

[चोलोफोन्]