०३८

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
पञ्च तं नाभ्यवर्तन्त
विपरीतेन कर्मणा ।
वेदो धर्मः क्षमा सत्यं
श्रीश् च नारायणाश्रया ॥ ह्व्_३८।१ ॥

मूलम्

{वैशम्पायन उवाच}
पञ्च तं नाभ्यवर्तन्त
विपरीतेन कर्मणा ।
वेदो धर्मः क्षमा सत्यं
श्रीश् च नारायणाश्रया ॥ ह्व्_३८।१ ॥

विश्वास-प्रस्तुतिः

स तेषाम् अनुपस्थानात्
सक्रोधो दानवेश्वरः ।
वैष्णवं पदम् अन्विच्छन्
ययौ नारायणान्तिकम् ॥ ह्व्_३८।२ ॥

मूलम्

स तेषाम् अनुपस्थानात्
सक्रोधो दानवेश्वरः ।
वैष्णवं पदम् अन्विच्छन्
ययौ नारायणान्तिकम् ॥ ह्व्_३८।२ ॥

विश्वास-प्रस्तुतिः

स ददर्श सुपर्णस्थं
शङ्खचक्रगदाधरम् ।
दानवानां विनाशाय
भ्रामयन्तं गदां शुभाम् ॥ ह्व्_३८।३ ॥

मूलम्

स ददर्श सुपर्णस्थं
शङ्खचक्रगदाधरम् ।
दानवानां विनाशाय
भ्रामयन्तं गदां शुभाम् ॥ ह्व्_३८।३ ॥

विश्वास-प्रस्तुतिः

सजलाम्भोदसदृशं
विद्युत्सदृशवाससम् ।
स्वारूढं स्वर्णपत्राढ्यं
शिखिनं काश्यपं खगम् ॥ ह्व्_३८।४ ॥

मूलम्

सजलाम्भोदसदृशं
विद्युत्सदृशवाससम् ।
स्वारूढं स्वर्णपत्राढ्यं
शिखिनं काश्यपं खगम् ॥ ह्व्_३८।४ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा दैत्यविनाशाय
रणे स्वस्थम् अवस्थितम् ।
दानवो विष्णुम् अक्षोभ्यं
बभाषे क्षुब्धमानसः ॥ ह्व्_३८।५ ॥

मूलम्

दृष्ट्वा दैत्यविनाशाय
रणे स्वस्थम् अवस्थितम् ।
दानवो विष्णुम् अक्षोभ्यं
बभाषे क्षुब्धमानसः ॥ ह्व्_३८।५ ॥

विश्वास-प्रस्तुतिः

अयं स रिपुर् अस्माकं
पूर्वेषां दानवर्षिणाम् ।
अर्णवावासिनश् चैव
मधोर् वै कैटभस्य च ॥ ह्व्_३८।६ ॥

मूलम्

अयं स रिपुर् अस्माकं
पूर्वेषां दानवर्षिणाम् ।
अर्णवावासिनश् चैव
मधोर् वै कैटभस्य च ॥ ह्व्_३८।६ ॥

विश्वास-प्रस्तुतिः

अयं स विग्रहो ऽस्माकम्
अशाम्यः किल कथ्यते ।
येन नः संयुगेष्व् अद्य
बहवो दानवा हताः ॥ ह्व्_३८।७ ॥

मूलम्

अयं स विग्रहो ऽस्माकम्
अशाम्यः किल कथ्यते ।
येन नः संयुगेष्व् अद्य
बहवो दानवा हताः ॥ ह्व्_३८।७ ॥

विश्वास-प्रस्तुतिः

अयं स निर्घृणो युद्धे
स्त्रीबालनिरपत्रपः ।
येन दानवनारीणां
सीमन्तोद्धरणं कृतम् ॥ ह्व्_३८।८ ॥

मूलम्

अयं स निर्घृणो युद्धे
स्त्रीबालनिरपत्रपः ।
येन दानवनारीणां
सीमन्तोद्धरणं कृतम् ॥ ह्व्_३८।८ ॥

विश्वास-प्रस्तुतिः

अयं स विष्णुर् देवानां
वैकुण्ठश् च दिवौकसाम् ।
अनन्तो भोगिनाम् अप्सु
स्वयम्भूश् च स्वयम्भुवः ॥ ह्व्_३८।९ ॥

मूलम्

अयं स विष्णुर् देवानां
वैकुण्ठश् च दिवौकसाम् ।
अनन्तो भोगिनाम् अप्सु
स्वयम्भूश् च स्वयम्भुवः ॥ ह्व्_३८।९ ॥

विश्वास-प्रस्तुतिः

अयं स नाथो देवानाम्
अस्माभिर् विप्रकृष्यताम् ।
अस्य क्रोधं समासाद्य
हिरण्यकशिपुर् हतः ॥ ह्व्_३८।१० ॥

मूलम्

अयं स नाथो देवानाम्
अस्माभिर् विप्रकृष्यताम् ।
अस्य क्रोधं समासाद्य
हिरण्यकशिपुर् हतः ॥ ह्व्_३८।१० ॥

विश्वास-प्रस्तुतिः

अस्य च्छायां समाश्रित्य
देवा मखमुखे स्थिताः ।
आज्यं महर्षिभिर् दत्तम्
अश्नुवन्ति त्रिधा हुतम् ॥ ह्व्_३८।११ ॥

मूलम्

अस्य च्छायां समाश्रित्य
देवा मखमुखे स्थिताः ।
आज्यं महर्षिभिर् दत्तम्
अश्नुवन्ति त्रिधा हुतम् ॥ ह्व्_३८।११ ॥

विश्वास-प्रस्तुतिः

अयं स निधने हेतुः
सर्वेषां दैतवद्विषाम् ।
अस्य चक्रं प्रविष्टानि
कुलान्य् अस्माकम् आहवे ॥ ह्व्_३८।१२ ॥

मूलम्

अयं स निधने हेतुः
सर्वेषां दैतवद्विषाम् ।
अस्य चक्रं प्रविष्टानि
कुलान्य् अस्माकम् आहवे ॥ ह्व्_३८।१२ ॥

विश्वास-प्रस्तुतिः

अयं स किल युद्धेषु
सुरार्थे त्यक्तजीवितः ।
सवितुस् तेजसा तुल्यं
चक्रं क्षिपति शत्रुषु ॥ ह्व्_३८।१३ ॥

मूलम्

अयं स किल युद्धेषु
सुरार्थे त्यक्तजीवितः ।
सवितुस् तेजसा तुल्यं
चक्रं क्षिपति शत्रुषु ॥ ह्व्_३८।१३ ॥

विश्वास-प्रस्तुतिः

अयं स कालो दैत्यानां
कालभूते मयि स्थिते ।
अतिक्रान्तस्य कालस्य
फलं प्राप्स्यति दुर्मतिः ॥ ह्व्_३८।१४ ॥

मूलम्

अयं स कालो दैत्यानां
कालभूते मयि स्थिते ।
अतिक्रान्तस्य कालस्य
फलं प्राप्स्यति दुर्मतिः ॥ ह्व्_३८।१४ ॥

विश्वास-प्रस्तुतिः

दिष्ट्येदानीं समक्षं मे
विष्णुर् एष समागतः ।
अद्य मद्बाणनिष्पिष्टो
मय्य् एव प्रणमिष्यति ॥ ह्व्_३८।१५ ॥

मूलम्

दिष्ट्येदानीं समक्षं मे
विष्णुर् एष समागतः ।
अद्य मद्बाणनिष्पिष्टो
मय्य् एव प्रणमिष्यति ॥ ह्व्_३८।१५ ॥

विश्वास-प्रस्तुतिः

यास्याम्य् अपचितिं दिष्ट्या
पूर्वेषाम् अद्य संयुगे ।
इमं नारायणं हत्वा
दानवानां भयावहम् ॥ ह्व्_३८।१६ ॥

मूलम्

यास्याम्य् अपचितिं दिष्ट्या
पूर्वेषाम् अद्य संयुगे ।
इमं नारायणं हत्वा
दानवानां भयावहम् ॥ ह्व्_३८।१६ ॥

विश्वास-प्रस्तुतिः

क्षिप्रम् एव वधिष्यामि
रणे नारायणं शैरैः ।
जात्यन्तरगतो ह्य् एष
मृधे बाधति दानवान् ॥ ह्व्_३८।१७ ॥

मूलम्

क्षिप्रम् एव वधिष्यामि
रणे नारायणं शैरैः ।
जात्यन्तरगतो ह्य् एष
मृधे बाधति दानवान् ॥ ह्व्_३८।१७ ॥

विश्वास-प्रस्तुतिः

एषो ऽन्तकः पुरा भूत्वा
पद्मनाभ इति स्मृतः ।
जघानैकार्णवे घोरे
ताव् उभौ मधुकैटभौ ॥ ह्व्_३८।१८ ॥

मूलम्

एषो ऽन्तकः पुरा भूत्वा
पद्मनाभ इति स्मृतः ।
जघानैकार्णवे घोरे
ताव् उभौ मधुकैटभौ ॥ ह्व्_३८।१८ ॥

विश्वास-प्रस्तुतिः

([क्: क्२ Ñ२।३ व् ब् द्न् द्स् द्४।६ ins.: :क्])
विनिवेश्य स्वके ऊरौ
निहतौ दानवेश्वरौ । ह्व्_३८।१८५२१ ।
द्विधाभूतं वपुः कृत्वा
सिंहार्धं नरसंस्थितम् ।
पितरं मे जघानैको
हिरण्यकशिपुं पुरा ॥ ह्व्_३८।१९ ॥

मूलम्

([क्: क्२ Ñ२।३ व् ब् द्न् द्स् द्४।६ ins.: :क्])
विनिवेश्य स्वके ऊरौ
निहतौ दानवेश्वरौ । ह्व्_३८।१८५२१ ।
द्विधाभूतं वपुः कृत्वा
सिंहार्धं नरसंस्थितम् ।
पितरं मे जघानैको
हिरण्यकशिपुं पुरा ॥ ह्व्_३८।१९ ॥

विश्वास-प्रस्तुतिः

शुभं गर्भम् अधत्तैनम्
अदितिर् देवतारणिः ।
([क्: Ñ२।३ व् ब् द्न् द्स् द्४।६ त्२ ग् म्४ ins.: :क्])
यज्ञकाले बलेर् यो वै
कृत्वा वामनरूपताम् । ह्व्_३८।२०५२२ ।
त्रींल् लोकांश् च जहारैष
क्रममाणस् त्रिभिः क्रमैः ॥ ह्व्_३८।२० ॥

मूलम्

शुभं गर्भम् अधत्तैनम्
अदितिर् देवतारणिः ।
([क्: Ñ२।३ व् ब् द्न् द्स् द्४।६ त्२ ग् म्४ ins.: :क्])
यज्ञकाले बलेर् यो वै
कृत्वा वामनरूपताम् । ह्व्_३८।२०५२२ ।
त्रींल् लोकांश् च जहारैष
क्रममाणस् त्रिभिः क्रमैः ॥ ह्व्_३८।२० ॥

विश्वास-प्रस्तुतिः

भूयस् त्व् इदानीं समरे
सम्प्राप्ते तारकामये ।
मया सह समागम्य
सदेवो विनशिष्यति ॥ ह्व्_३८।२१ ॥

मूलम्

भूयस् त्व् इदानीं समरे
सम्प्राप्ते तारकामये ।
मया सह समागम्य
सदेवो विनशिष्यति ॥ ह्व्_३८।२१ ॥

विश्वास-प्रस्तुतिः

स एवम् उक्त्वा बहुधा
क्षिपन् नारायणं रणे ।
वाग्भिर् अप्रतिरूपाभिर्
युद्धम् एवाभ्यरोचयत् ॥ ह्व्_३८।२२ ॥

मूलम्

स एवम् उक्त्वा बहुधा
क्षिपन् नारायणं रणे ।
वाग्भिर् अप्रतिरूपाभिर्
युद्धम् एवाभ्यरोचयत् ॥ ह्व्_३८।२२ ॥

विश्वास-प्रस्तुतिः

क्षिप्यमाणो ऽसुरेन्द्रेण
य चुकोप गदाधरः ।
क्षमाबलेन मनसा
सस्मितं वाक्यम् अब्रवीत् ॥ ह्व्_३८।२३ ॥

मूलम्

क्षिप्यमाणो ऽसुरेन्द्रेण
य चुकोप गदाधरः ।
क्षमाबलेन मनसा
सस्मितं वाक्यम् अब्रवीत् ॥ ह्व्_३८।२३ ॥

विश्वास-प्रस्तुतिः

अलं दर्पबलं दैत्य
स्थिरं मत्क्रोधजं बलम् ।
हतस् त्वं दर्पजैर् दोषैः
क्षमां यो ऽतीत्य भाषसे ॥ ह्व्_३८।२४ ॥

मूलम्

अलं दर्पबलं दैत्य
स्थिरं मत्क्रोधजं बलम् ।
हतस् त्वं दर्पजैर् दोषैः
क्षमां यो ऽतीत्य भाषसे ॥ ह्व्_३८।२४ ॥

विश्वास-प्रस्तुतिः

अधमस् त्वं मम मतो
धिग् एतत् तव वाग्बलम् ।
न तत्र पुरुषाः सन्ति
यत्र गर्जन्ति योषितः ॥ ह्व्_३८।२५ ॥

मूलम्

अधमस् त्वं मम मतो
धिग् एतत् तव वाग्बलम् ।
न तत्र पुरुषाः सन्ति
यत्र गर्जन्ति योषितः ॥ ह्व्_३८।२५ ॥

विश्वास-प्रस्तुतिः

अहं त्वां दैत्य पश्यामि
पूर्वेषां मार्गगामिनम् ।
प्रजापतिकृतं सेतुं
को भित्त्वा स्वस्तिमान् व्रजेत् ॥ ह्व्_३८।२६ ॥

मूलम्

अहं त्वां दैत्य पश्यामि
पूर्वेषां मार्गगामिनम् ।
प्रजापतिकृतं सेतुं
को भित्त्वा स्वस्तिमान् व्रजेत् ॥ ह्व्_३८।२६ ॥

विश्वास-प्रस्तुतिः

अद्य त्वां नाशयिष्यामि
देवव्याघातकारिणम् ।
स्वेषु स्वेषु च स्थानेषु
स्थापयिष्यामि देवताः ॥ ह्व्_३८।२७ ॥

मूलम्

अद्य त्वां नाशयिष्यामि
देवव्याघातकारिणम् ।
स्वेषु स्वेषु च स्थानेषु
स्थापयिष्यामि देवताः ॥ ह्व्_३८।२७ ॥

विश्वास-प्रस्तुतिः

एवं ब्रुवति वाक्यं तु
मृधे श्रीवत्सधारिणि ।
जहास दानवः क्रोधाद्
धस्तांश् चक्रे च सायुधान् ॥ ह्व्_३८।२८ ॥

मूलम्

एवं ब्रुवति वाक्यं तु
मृधे श्रीवत्सधारिणि ।
जहास दानवः क्रोधाद्
धस्तांश् चक्रे च सायुधान् ॥ ह्व्_३८।२८ ॥

विश्वास-प्रस्तुतिः

स बाहुशतम् उद्यम्य
सर्वास्त्रग्रहणं रणे ।
क्रोधाद् रुधिररक्ताक्षो
विष्णोर् वक्षस्य् अताडयत् ॥ ह्व्_३८।२९ ॥

मूलम्

स बाहुशतम् उद्यम्य
सर्वास्त्रग्रहणं रणे ।
क्रोधाद् रुधिररक्ताक्षो
विष्णोर् वक्षस्य् अताडयत् ॥ ह्व्_३८।२९ ॥

विश्वास-प्रस्तुतिः

दानवाश् चापि समरे
मयतारपुरोगमाः ।
उद्यतायुधनिस्त्रिंशाः
सर्वे विष्णुम् अभिद्रवन् ॥ ह्व्_३८।३० ॥

मूलम्

दानवाश् चापि समरे
मयतारपुरोगमाः ।
उद्यतायुधनिस्त्रिंशाः
सर्वे विष्णुम् अभिद्रवन् ॥ ह्व्_३८।३० ॥

विश्वास-प्रस्तुतिः

स ताड्यमानो ऽतिबलैर्
दैत्यैः सर्वायुधोद्यतैः ।
न चचाल हरिर् युद्धे
ऽकम्प्यमान इवाचलः ॥ ह्व्_३८।३१ ॥

मूलम्

स ताड्यमानो ऽतिबलैर्
दैत्यैः सर्वायुधोद्यतैः ।
न चचाल हरिर् युद्धे
ऽकम्प्यमान इवाचलः ॥ ह्व्_३८।३१ ॥

विश्वास-प्रस्तुतिः

संसक्तश् च सुपर्णेन
कालनेमिर् महासुरः ।
सर्वप्राणेन महतीं
गदाम् उद्यम्य बाहुभिः ॥

मूलम्

संसक्तश् च सुपर्णेन
कालनेमिर् महासुरः ।
सर्वप्राणेन महतीं
गदाम् उद्यम्य बाहुभिः ॥

विश्वास-प्रस्तुतिः

मुमोच ज्वलितां घोरां
संरब्धो गरुडोपरि ॥ ह्व्_३८।३२ ॥

मूलम्

मुमोच ज्वलितां घोरां
संरब्धो गरुडोपरि ॥ ह्व्_३८।३२ ॥

विश्वास-प्रस्तुतिः

कर्मणा तेन दैत्यस्य
विष्णुर् विस्मयम् आगमत् ।
([क्: त्१।२ ग्३-५ म् ग्१।२ (after ३२) ins.: :क्])
स तेन ताडितः पक्षी
चचाल च पुनः पुनः । ह्व्_३८।३३५२३:१ ।
हरिणा वर्धितबलो
न मोहम् उपगच्छति । ह्व्_३८।३३५२३:२ ।
येन तस्य सुपर्णस्य
पतिता मूर्ध्नि सा गदा ॥ ह्व्_३८।३३ ॥

मूलम्

कर्मणा तेन दैत्यस्य
विष्णुर् विस्मयम् आगमत् ।
([क्: त्१।२ ग्३-५ म् ग्१।२ (after ३२) ins.: :क्])
स तेन ताडितः पक्षी
चचाल च पुनः पुनः । ह्व्_३८।३३५२३:१ ।
हरिणा वर्धितबलो
न मोहम् उपगच्छति । ह्व्_३८।३३५२३:२ ।
येन तस्य सुपर्णस्य
पतिता मूर्ध्नि सा गदा ॥ ह्व्_३८।३३ ॥

([क्: क्१-३ Ñ२।३ व् ब् द् (एxचेप्त् द्१) त्३।४ ins.: :क्]) तदागमत् पदा भूमिं पक्षी व्यथितविग्रहः । *ह्व्_३८।३३*५२४ ।
विश्वास-प्रस्तुतिः

([क्: Ñ२ व्३ द्न् द्५।६ चोन्त्।: :क्])
लोष्टैः सर्ष्टिशिलाभिश् च
वज्रप्रहरणैस् ततः । ह्व्_३८।३३५२५:१ ।
जघ्नुस् ते समरे विष्णुं
गोपालं च महारणे । ह्व्_३८।३३५२५:२ ।
भ्रमन्तं घूर्णमानं च
स्तुतिं देवाः प्रचक्रिरे । ह्व्_३८।३३५२५:३ ।
जय देव महाबाहो
मधुकैटभनाशन । ह्व्_३८।३३५२५:४ ।
हिरण्यकशिपोर् वक्षो
नखलाङ्गलदारण । ह्व्_३८।३३५२५:५ ।
उत्तस्थौ च रणाद् विष्णुर्
अमरैः संस्तुतः पुरा । ह्व्_३८।३३५२५:६ ।
हतं विष्णुं समाज्ञाय
शङ्खं दध्मौ स दानवः । ह्व्_३८।३३५२५:७ ।
मृदङ्गांश् च त्रिधा तत्र
वादयन्तो महासुराः । ह्व्_३८।३३५२५:८ ।
तालाश्रयाश् च ननृतुर्
महोत्सव इवाबभौ । ह्व्_३८।३३५२५:९ ।
सुपर्णं व्यथितं दृष्ट्वा
क्षतं च वपुर् आत्मनः ।
क्रोधात् संरक्तनयनो
वैकुण्ठश् चक्रमाददे ॥ ह्व्_३८।३४ ॥

मूलम्

([क्: Ñ२ व्३ द्न् द्५।६ चोन्त्।: :क्])
लोष्टैः सर्ष्टिशिलाभिश् च
वज्रप्रहरणैस् ततः । ह्व्_३८।३३५२५:१ ।
जघ्नुस् ते समरे विष्णुं
गोपालं च महारणे । ह्व्_३८।३३५२५:२ ।
भ्रमन्तं घूर्णमानं च
स्तुतिं देवाः प्रचक्रिरे । ह्व्_३८।३३५२५:३ ।
जय देव महाबाहो
मधुकैटभनाशन । ह्व्_३८।३३५२५:४ ।
हिरण्यकशिपोर् वक्षो
नखलाङ्गलदारण । ह्व्_३८।३३५२५:५ ।
उत्तस्थौ च रणाद् विष्णुर्
अमरैः संस्तुतः पुरा । ह्व्_३८।३३५२५:६ ।
हतं विष्णुं समाज्ञाय
शङ्खं दध्मौ स दानवः । ह्व्_३८।३३५२५:७ ।
मृदङ्गांश् च त्रिधा तत्र
वादयन्तो महासुराः । ह्व्_३८।३३५२५:८ ।
तालाश्रयाश् च ननृतुर्
महोत्सव इवाबभौ । ह्व्_३८।३३५२५:९ ।
सुपर्णं व्यथितं दृष्ट्वा
क्षतं च वपुर् आत्मनः ।
क्रोधात् संरक्तनयनो
वैकुण्ठश् चक्रमाददे ॥ ह्व्_३८।३४ ॥

विश्वास-प्रस्तुतिः

व्यवर्धत च वेगेन
सुपर्णेन समं विभुः ।
भुजाश् चास्य व्यवर्धन्त
व्याप्नुवन्तो दिशो दश ॥ ह्व्_३८।३५ ॥

मूलम्

व्यवर्धत च वेगेन
सुपर्णेन समं विभुः ।
भुजाश् चास्य व्यवर्धन्त
व्याप्नुवन्तो दिशो दश ॥ ह्व्_३८।३५ ॥

विश्वास-प्रस्तुतिः

स दिशः प्रदिशश् चैव
खं च गां चैव पूरयन् ।
ववृधे स पुनर् लोकान्
क्रान्तुकाम इवौजसा ॥ ह्व्_३८।३६ ॥

मूलम्

स दिशः प्रदिशश् चैव
खं च गां चैव पूरयन् ।
ववृधे स पुनर् लोकान्
क्रान्तुकाम इवौजसा ॥ ह्व्_३८।३६ ॥

विश्वास-प्रस्तुतिः

तं जयाय सुरेन्द्राणां
वर्धमानं नभस्तले ।
ऋषयः सह गन्धर्वैस्
तुष्टुवुर् मधुसूदनम् ॥ ह्व्_३८।३७ ॥

मूलम्

तं जयाय सुरेन्द्राणां
वर्धमानं नभस्तले ।
ऋषयः सह गन्धर्वैस्
तुष्टुवुर् मधुसूदनम् ॥ ह्व्_३८।३७ ॥

विश्वास-प्रस्तुतिः

([क्: त् ग्१-३।५ म्४ ins.: :क्])
नमो ऽस्तु देवदेवेश
शङ्खचक्रगदाधर । ह्व्_३८।३७५२६:१ ।
विष्णो कृष्ण हृषीकेश
जहि दैत्यं महाबलम् । ह्व्_३८।३७५२६:२ ।
नमस् तुभ्यं विरूपाक्ष
शङ्करस्य जगत्पते । ह्व्_३८।३७५२६:३ ।
पाहि नः सकलान् अस्माञ्
जहि दैत्यं महाबलम् । ह्व्_३८।३७५२६:४ ।
स द्यां किरीटेन लिखन्
साभ्रम् अम्बरम् अम्बरैः ।
पद्भ्याम् आक्रम्य वसुधां
दिशः प्रच्छाद्य बाहुभिः ॥ ह्व्_३८।३८ ॥

मूलम्

([क्: त् ग्१-३।५ म्४ ins.: :क्])
नमो ऽस्तु देवदेवेश
शङ्खचक्रगदाधर । ह्व्_३८।३७५२६:१ ।
विष्णो कृष्ण हृषीकेश
जहि दैत्यं महाबलम् । ह्व्_३८।३७५२६:२ ।
नमस् तुभ्यं विरूपाक्ष
शङ्करस्य जगत्पते । ह्व्_३८।३७५२६:३ ।
पाहि नः सकलान् अस्माञ्
जहि दैत्यं महाबलम् । ह्व्_३८।३७५२६:४ ।
स द्यां किरीटेन लिखन्
साभ्रम् अम्बरम् अम्बरैः ।
पद्भ्याम् आक्रम्य वसुधां
दिशः प्रच्छाद्य बाहुभिः ॥ ह्व्_३८।३८ ॥

विश्वास-प्रस्तुतिः

स सूर्यकरतुल्याभं
सहस्रारम् अरिक्षयम् ।
दीप्ताग्निसदृशं घोरं
दर्शनीयं सुदर्शनम् ॥ ह्व्_३८।३९ ॥

मूलम्

स सूर्यकरतुल्याभं
सहस्रारम् अरिक्षयम् ।
दीप्ताग्निसदृशं घोरं
दर्शनीयं सुदर्शनम् ॥ ह्व्_३८।३९ ॥

विश्वास-प्रस्तुतिः

सुवर्णरेणुपर्यन्तं
वज्रनाभं भयावहम् ।
मेदोस्थिमज्जारुधिरैः
सिक्तं दानवसम्भवैः ॥ ह्व्_३८।४० ॥

मूलम्

सुवर्णरेणुपर्यन्तं
वज्रनाभं भयावहम् ।
मेदोस्थिमज्जारुधिरैः
सिक्तं दानवसम्भवैः ॥ ह्व्_३८।४० ॥

विश्वास-प्रस्तुतिः

अद्वितीयं प्रहारेषु
क्षुरपर्यन्तमण्डलम् ।
स्रग्दाममालाविततं
कामगं कामरूपिणम् ॥ ह्व्_३८।४१ ॥

मूलम्

अद्वितीयं प्रहारेषु
क्षुरपर्यन्तमण्डलम् ।
स्रग्दाममालाविततं
कामगं कामरूपिणम् ॥ ह्व्_३८।४१ ॥

विश्वास-प्रस्तुतिः

स्वयं स्वयम्भुवा सृष्टं
भयदं सर्वविद्विषाम् ।
महर्षिरोषैर् आविष्टं
नित्यम् आहवदर्पितम् ॥ ह्व्_३८।४२ ॥

मूलम्

स्वयं स्वयम्भुवा सृष्टं
भयदं सर्वविद्विषाम् ।
महर्षिरोषैर् आविष्टं
नित्यम् आहवदर्पितम् ॥ ह्व्_३८।४२ ॥

विश्वास-प्रस्तुतिः

क्षेपणाद्यस्य मुह्यन्ति
लोकाः सस्थाणुजङ्गमाः ।
क्रव्यादानि च भूतानि
तृप्तिं यान्ति महामृधे ॥ ह्व्_३८।४३ ॥

मूलम्

क्षेपणाद्यस्य मुह्यन्ति
लोकाः सस्थाणुजङ्गमाः ।
क्रव्यादानि च भूतानि
तृप्तिं यान्ति महामृधे ॥ ह्व्_३८।४३ ॥

विश्वास-प्रस्तुतिः

तम् अप्रतिमकर्माणं
समानं सूर्यवर्चसा ।
चक्रम् उद्यस्य समरे
क्रोधदीप्तो गदाधरः ॥ ह्व्_३८।४४ ॥

मूलम्

तम् अप्रतिमकर्माणं
समानं सूर्यवर्चसा ।
चक्रम् उद्यस्य समरे
क्रोधदीप्तो गदाधरः ॥ ह्व्_३८।४४ ॥

विश्वास-प्रस्तुतिः

सम्मुष्णन् दानवं तेजः
समरे स्वेन तेजसा ।
चिच्छेद बाहूंश् चक्रेण
श्रीधरः कालनेमिनः ॥ ह्व्_३८।४५ ॥

मूलम्

सम्मुष्णन् दानवं तेजः
समरे स्वेन तेजसा ।
चिच्छेद बाहूंश् चक्रेण
श्रीधरः कालनेमिनः ॥ ह्व्_३८।४५ ॥

विश्वास-प्रस्तुतिः

तच् च वक्त्रशतं घोरं
साग्निचूर्णाट्टहासि यत् ।
तस्य दैत्यस्य चक्रेण
प्रममाथ बलाद् धरिः ॥ ह्व्_३८।४६ ॥

मूलम्

तच् च वक्त्रशतं घोरं
साग्निचूर्णाट्टहासि यत् ।
तस्य दैत्यस्य चक्रेण
प्रममाथ बलाद् धरिः ॥ ह्व्_३८।४६ ॥

विश्वास-प्रस्तुतिः

स च्छिन्नबाहुर् विशिरा
न प्राकम्पत दानवः ।
कबन्धावस्थितः सङ्ख्ये
विशाख इव पादपः ॥ ह्व्_३८।४७ ॥

मूलम्

स च्छिन्नबाहुर् विशिरा
न प्राकम्पत दानवः ।
कबन्धावस्थितः सङ्ख्ये
विशाख इव पादपः ॥ ह्व्_३८।४७ ॥

विश्वास-प्रस्तुतिः

तं वितत्य महापक्षौ
वायोः कृत्वा समं जवम् ।
उरसा पातयाम् आस
गरुडः कालनेमिनम् ॥ ह्व्_३८।४८ ॥

मूलम्

तं वितत्य महापक्षौ
वायोः कृत्वा समं जवम् ।
उरसा पातयाम् आस
गरुडः कालनेमिनम् ॥ ह्व्_३८।४८ ॥

विश्वास-प्रस्तुतिः

स तस्य देहो विमुखो
विशाखः खात् परिभ्रमन् ।
निपपात दिवं त्यक्त्वा
क्षोभयन् धरणीतलम् ॥ ह्व्_३८।४९ ॥

मूलम्

स तस्य देहो विमुखो
विशाखः खात् परिभ्रमन् ।
निपपात दिवं त्यक्त्वा
क्षोभयन् धरणीतलम् ॥ ह्व्_३८।४९ ॥

विश्वास-प्रस्तुतिः

तस्मिन् निपतिते दैत्ये
देवाः सर्षिगणास् तदा ।
साधु साध्व् इति वैकुण्ठं
समेताः प्रत्यपूजयन् ॥ ह्व्_३८।५० ॥

मूलम्

तस्मिन् निपतिते दैत्ये
देवाः सर्षिगणास् तदा ।
साधु साध्व् इति वैकुण्ठं
समेताः प्रत्यपूजयन् ॥ ह्व्_३८।५० ॥

विश्वास-प्रस्तुतिः

अपरे ये तु दैत्या वै
युद्धे दृष्टपराक्रमाः ।
ते सर्वे बाहुभिर् व्याप्ता
न शेकुश् चलितुं रणे ॥ ह्व्_३८।५१ ॥

मूलम्

अपरे ये तु दैत्या वै
युद्धे दृष्टपराक्रमाः ।
ते सर्वे बाहुभिर् व्याप्ता
न शेकुश् चलितुं रणे ॥ ह्व्_३८।५१ ॥

विश्वास-प्रस्तुतिः

कांश्चित् केशेषु जग्राह
कांश्चित् कण्ठे न्यपीडयत् ।
पाटयन् कस्यचिद् वक्त्रं
मध्ये कांश्चिद् अगृह्यत ॥ ह्व्_३८।५२ ॥

मूलम्

कांश्चित् केशेषु जग्राह
कांश्चित् कण्ठे न्यपीडयत् ।
पाटयन् कस्यचिद् वक्त्रं
मध्ये कांश्चिद् अगृह्यत ॥ ह्व्_३८।५२ ॥

विश्वास-प्रस्तुतिः

ते गदाचक्रनिर्दग्धा
गतसत्त्वा गतासवः ।
गगनाद् भ्रष्टसर्वाङ्गा
निपेतुर् धरणीतले ॥ ह्व्_३८।५३ ॥

मूलम्

ते गदाचक्रनिर्दग्धा
गतसत्त्वा गतासवः ।
गगनाद् भ्रष्टसर्वाङ्गा
निपेतुर् धरणीतले ॥ ह्व्_३८।५३ ॥

विश्वास-प्रस्तुतिः

तेषु सर्वेषु दैत्येषु
हतेषु पुरुषोत्तमः ।
तस्थौ शक्रप्रियं कृत्वा
कृतकर्मा गदाधरः ॥ ह्व्_३८।५४ ॥

मूलम्

तेषु सर्वेषु दैत्येषु
हतेषु पुरुषोत्तमः ।
तस्थौ शक्रप्रियं कृत्वा
कृतकर्मा गदाधरः ॥ ह्व्_३८।५४ ॥

विश्वास-प्रस्तुतिः

तस्मिन् विमर्दे निर्वृत्ते
सङ्ग्रामे तारकामये ।
तं देशम् आजगामाशु
ब्रह्मा लोकपितामहः ॥ ह्व्_३८।५५ ॥

मूलम्

तस्मिन् विमर्दे निर्वृत्ते
सङ्ग्रामे तारकामये ।
तं देशम् आजगामाशु
ब्रह्मा लोकपितामहः ॥ ह्व्_३८।५५ ॥

विश्वास-प्रस्तुतिः

सर्वैर् ब्रह्मर्षिभिः सार्धं
गन्धर्वैः साप्सरोगणैः ।
देवदेवो हरिं देवं
पूजयन् वाक्यम् अब्रवीत् ॥ ह्व्_३८।५६ ॥

मूलम्

सर्वैर् ब्रह्मर्षिभिः सार्धं
गन्धर्वैः साप्सरोगणैः ।
देवदेवो हरिं देवं
पूजयन् वाक्यम् अब्रवीत् ॥ ह्व्_३८।५६ ॥

विश्वास-प्रस्तुतिः

कृतं देव महत्कर्म
सुराणां शल्यम् उद्धृतम् ।
वधेनानेन दैत्यानां
वयं च परितोषिताः ॥ ह्व्_३८।५७ ॥

मूलम्

कृतं देव महत्कर्म
सुराणां शल्यम् उद्धृतम् ।
वधेनानेन दैत्यानां
वयं च परितोषिताः ॥ ह्व्_३८।५७ ॥

विश्वास-प्रस्तुतिः

यो ऽयं त्वया हतो विष्णो
कालनेमिर् महासुरः ।
त्वम् एको ऽस्य मृधे हन्ता
नान्यः कश्चन विद्यते ॥ ह्व्_३८।५८ ॥

मूलम्

यो ऽयं त्वया हतो विष्णो
कालनेमिर् महासुरः ।
त्वम् एको ऽस्य मृधे हन्ता
नान्यः कश्चन विद्यते ॥ ह्व्_३८।५८ ॥

विश्वास-प्रस्तुतिः

एष देवान् परिभवंल्
लोकांश् च सचराचरान् ।
ऋषीणां कदनं कृत्वा
माम् अपि प्रतिगर्जति ॥ ह्व्_३८।५९ ॥

मूलम्

एष देवान् परिभवंल्
लोकांश् च सचराचरान् ।
ऋषीणां कदनं कृत्वा
माम् अपि प्रतिगर्जति ॥ ह्व्_३८।५९ ॥

विश्वास-प्रस्तुतिः

तद् अनेन तवोग्रेण
परितुष्टो ऽस्मि कर्मणा ।
यद् अयं कालतुल्याभः
कालनेमिर् निपातितः ॥ ह्व्_३८।६० ॥

मूलम्

तद् अनेन तवोग्रेण
परितुष्टो ऽस्मि कर्मणा ।
यद् अयं कालतुल्याभः
कालनेमिर् निपातितः ॥ ह्व्_३८।६० ॥

विश्वास-प्रस्तुतिः

तदागच्छस्व भद्रं ते
गच्छाम दिवम् उत्तमम् ।
ब्रह्मर्षयस् त्वां तत्रस्थाः
प्रतीक्षन्ते सदोगताः ॥ ह्व्_३८।६१ ॥

मूलम्

तदागच्छस्व भद्रं ते
गच्छाम दिवम् उत्तमम् ।
ब्रह्मर्षयस् त्वां तत्रस्थाः
प्रतीक्षन्ते सदोगताः ॥ ह्व्_३८।६१ ॥

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् श्१ Ñ१) स् (एxचेप्त् म्१-३) ins.: :क्])
अहं महर्षयश् चैव
तत्र त्वां वदतां वर । ह्व्_३८।६१५२७:१ ।
विधिवच् चार्चयिष्यन्ति
गीर्भिर् दिव्याभिर् अच्युत । ह्व्_३८।६१५२७:२ ।
किं चाहं तव दास्यामि
वरं वरभृतां वर ।
सुरेष्व् अपि सदैत्येषु
वराणां वरदो भवान् ॥ ह्व्_३८।६२ ॥

मूलम्

([क्: न् (एxचेप्त् श्१ Ñ१) स् (एxचेप्त् म्१-३) ins.: :क्])
अहं महर्षयश् चैव
तत्र त्वां वदतां वर । ह्व्_३८।६१५२७:१ ।
विधिवच् चार्चयिष्यन्ति
गीर्भिर् दिव्याभिर् अच्युत । ह्व्_३८।६१५२७:२ ।
किं चाहं तव दास्यामि
वरं वरभृतां वर ।
सुरेष्व् अपि सदैत्येषु
वराणां वरदो भवान् ॥ ह्व्_३८।६२ ॥

विश्वास-प्रस्तुतिः

निर्यातयैतत् त्रैलोक्यं
स्फीतं निहतकण्टकम् ।
अस्मिन्न् एव मृधे विष्णो
शक्राय सुमहात्मने ॥ ह्व्_३८।६३ ॥

मूलम्

निर्यातयैतत् त्रैलोक्यं
स्फीतं निहतकण्टकम् ।
अस्मिन्न् एव मृधे विष्णो
शक्राय सुमहात्मने ॥ ह्व्_३८।६३ ॥

विश्वास-प्रस्तुतिः

एवम् उक्तो भगवता
ब्रह्मणा हरिर् ईश्वरः ।
देवाञ् शक्रमुखान् सर्वान्
उवाच शुभया गिरा ॥ ह्व्_३८।६४ ॥

मूलम्

एवम् उक्तो भगवता
ब्रह्मणा हरिर् ईश्वरः ।
देवाञ् शक्रमुखान् सर्वान्
उवाच शुभया गिरा ॥ ह्व्_३८।६४ ॥

विश्वास-प्रस्तुतिः

श्रूयतां त्रिदशाः सर्वे
यावन्तः स्थ समागताः ।
श्रवणावहितैर् देवैः
पुरस्कृत्य पुरन्दरम् ॥ ह्व्_३८।६५ ॥

मूलम्

श्रूयतां त्रिदशाः सर्वे
यावन्तः स्थ समागताः ।
श्रवणावहितैर् देवैः
पुरस्कृत्य पुरन्दरम् ॥ ह्व्_३८।६५ ॥

विश्वास-प्रस्तुतिः

अस्मिन् नः समरे सर्वे
कालनेमिमुखा हताः ।
दानवा विक्रमोपेताः
शक्राद् अपि महत्तराः ॥ ह्व्_३८।६६ ॥

मूलम्

अस्मिन् नः समरे सर्वे
कालनेमिमुखा हताः ।
दानवा विक्रमोपेताः
शक्राद् अपि महत्तराः ॥ ह्व्_३८।६६ ॥

विश्वास-प्रस्तुतिः

अस्मिन् महति सङ्क्रन्दे
द्वाव् एव तु विनिःसृतौ ।
वैरोचनिश् च दैत्येन्द्रः
स्वर्भानुश् च महाग्रहः ॥ ह्व्_३८।६७ ॥

मूलम्

अस्मिन् महति सङ्क्रन्दे
द्वाव् एव तु विनिःसृतौ ।
वैरोचनिश् च दैत्येन्द्रः
स्वर्भानुश् च महाग्रहः ॥ ह्व्_३८।६७ ॥

विश्वास-प्रस्तुतिः

तद् इष्टां भजतां शक्रो
दिशं वरुण एव च ।
याम्यां यमः पालयताम्
उत्तरां च धनाधिपः ॥ ह्व्_३८।६८ ॥

मूलम्

तद् इष्टां भजतां शक्रो
दिशं वरुण एव च ।
याम्यां यमः पालयताम्
उत्तरां च धनाधिपः ॥ ह्व्_३८।६८ ॥

विश्वास-प्रस्तुतिः

ऋक्षैः सह यथायोगं
कालं चरतु चन्द्रमाः ।
अब्दं ह्य् ऋतुमुखं सूर्यो
भजताम् अयनैः सह ॥ ह्व्_३८।६९ ॥

मूलम्

ऋक्षैः सह यथायोगं
कालं चरतु चन्द्रमाः ।
अब्दं ह्य् ऋतुमुखं सूर्यो
भजताम् अयनैः सह ॥ ह्व्_३८।६९ ॥

विश्वास-प्रस्तुतिः

आज्यभागाः प्रवर्तन्तां
सदस्यैर् अभिपूजिताः ।
हूयन्ताम् अग्नयो विप्रैर्
वेददृष्टेन कर्मणा ॥ ह्व्_३८।७० ॥

मूलम्

आज्यभागाः प्रवर्तन्तां
सदस्यैर् अभिपूजिताः ।
हूयन्ताम् अग्नयो विप्रैर्
वेददृष्टेन कर्मणा ॥ ह्व्_३८।७० ॥

विश्वास-प्रस्तुतिः

देवाश् च बलिहोमेन
स्वाध्यायेन महर्षयः ।
श्राद्धेन पितरश् चैव
तृप्तिं यान्तु यथासुखम् ॥ ह्व्_३८।७१ ॥

मूलम्

देवाश् च बलिहोमेन
स्वाध्यायेन महर्षयः ।
श्राद्धेन पितरश् चैव
तृप्तिं यान्तु यथासुखम् ॥ ह्व्_३८।७१ ॥

विश्वास-प्रस्तुतिः

वायुश् चरतु मार्गस्थस्
त्रिधा दीप्यतु पावकः ।
त्रयो वर्णाश् च लोकांस् त्रींस्
तर्पयन्त्व् आत्मजैर् गुणैः ॥ ह्व्_३८।७२ ॥

मूलम्

वायुश् चरतु मार्गस्थस्
त्रिधा दीप्यतु पावकः ।
त्रयो वर्णाश् च लोकांस् त्रींस्
तर्पयन्त्व् आत्मजैर् गुणैः ॥ ह्व्_३८।७२ ॥

विश्वास-प्रस्तुतिः

क्रतवः सम्प्रवर्तन्तां
दीक्षणीयैर् द्विजातिभिः ।
दक्षिणाश् चापि वर्तन्तां
यथोक्तं सर्वसत्रिणाम् ॥ ह्व्_३८।७३ ॥

मूलम्

क्रतवः सम्प्रवर्तन्तां
दीक्षणीयैर् द्विजातिभिः ।
दक्षिणाश् चापि वर्तन्तां
यथोक्तं सर्वसत्रिणाम् ॥ ह्व्_३८।७३ ॥

विश्वास-प्रस्तुतिः

गाश् च सूर्यो रसान् सोमो
वायुः प्राणांश् च प्राणिषु ।
तर्पयन्तः प्रवर्तन्तां
शिवैः सौम्यैश् च कर्मभिः ॥ ह्व्_३८।७४ ॥

मूलम्

गाश् च सूर्यो रसान् सोमो
वायुः प्राणांश् च प्राणिषु ।
तर्पयन्तः प्रवर्तन्तां
शिवैः सौम्यैश् च कर्मभिः ॥ ह्व्_३८।७४ ॥

विश्वास-प्रस्तुतिः

यथावद् अनुपूर्वेण
महेन्द्र सलिलोद्वहाः ।
त्रैलोक्यमातरः सर्वाः
सागरं यान्तु निम्नगाः ॥ ह्व्_३८।७५ ॥

मूलम्

यथावद् अनुपूर्वेण
महेन्द्र सलिलोद्वहाः ।
त्रैलोक्यमातरः सर्वाः
सागरं यान्तु निम्नगाः ॥ ह्व्_३८।७५ ॥

विश्वास-प्रस्तुतिः

दैत्येभ्यस् त्यज्यतां भीतिः
शान्तिं व्रजत देवताः ।
स्वस्ति वो ऽस्तु गमिष्यामि
ब्रह्मलोकं सनातनम् ॥ ह्व्_३८।७६ ॥

मूलम्

दैत्येभ्यस् त्यज्यतां भीतिः
शान्तिं व्रजत देवताः ।
स्वस्ति वो ऽस्तु गमिष्यामि
ब्रह्मलोकं सनातनम् ॥ ह्व्_३८।७६ ॥

विश्वास-प्रस्तुतिः

स्वगृहे स्वर्गलोके वा
सङ्ग्रामे वा विशेषतः ।
विस्रम्भो वो न गन्तव्यो
नित्यं क्षुद्रा हि दानवाः ॥ ह्व्_३८।७७ ॥

मूलम्

स्वगृहे स्वर्गलोके वा
सङ्ग्रामे वा विशेषतः ।
विस्रम्भो वो न गन्तव्यो
नित्यं क्षुद्रा हि दानवाः ॥ ह्व्_३८।७७ ॥

विश्वास-प्रस्तुतिः

छिद्रेषु प्रहरन्त्य् एते
न चैषां संस्थितिर् ध्रुवा ।
सौम्यानाम् ऋजुभावानां
भवतां चार्जवा मतिः ॥ ह्व्_३८।७८ ॥

मूलम्

छिद्रेषु प्रहरन्त्य् एते
न चैषां संस्थितिर् ध्रुवा ।
सौम्यानाम् ऋजुभावानां
भवतां चार्जवा मतिः ॥ ह्व्_३८।७८ ॥

विश्वास-प्रस्तुतिः

([क्: न्(एxचेप्त् श्१ Ñ१) स्(एxचेप्त् म्१-३) ins.: :क्])
अहं तु दुष्टभावानां
युष्मासु सुदुरात्मनाम् । ह्व्_३८।७८५२८:१ ।
असम्यग् वर्तमानानां
मोहं दास्यामि देवताः । ह्व्_३८।७८५२८:२ ।
यदा च सुदुराधर्षं
दानवेभ्यो भयं भवेत् । ह्व्_३८।७८५२८:३ ।
तदा समुपगम्याशु
विधास्ये वस् ततो ऽभयम् । ह्व्_३८।७८५२८:४ ।
एवम् उक्त्वा सुरगणान्
विष्णुः सत्यपराक्रमः ।
जगाम ब्रह्मणा सार्धं
ब्रह्मलोकं महायशाः ॥ ह्व्_३८।७९ ॥

मूलम्

([क्: न्(एxचेप्त् श्१ Ñ१) स्(एxचेप्त् म्१-३) ins.: :क्])
अहं तु दुष्टभावानां
युष्मासु सुदुरात्मनाम् । ह्व्_३८।७८५२८:१ ।
असम्यग् वर्तमानानां
मोहं दास्यामि देवताः । ह्व्_३८।७८५२८:२ ।
यदा च सुदुराधर्षं
दानवेभ्यो भयं भवेत् । ह्व्_३८।७८५२८:३ ।
तदा समुपगम्याशु
विधास्ये वस् ततो ऽभयम् । ह्व्_३८।७८५२८:४ ।
एवम् उक्त्वा सुरगणान्
विष्णुः सत्यपराक्रमः ।
जगाम ब्रह्मणा सार्धं
ब्रह्मलोकं महायशाः ॥ ह्व्_३८।७९ ॥

विश्वास-प्रस्तुतिः

एतद् आश्चर्यम् अभवत्
सङ्ग्रामे तारकामये ।
दानवानां च विष्णोश् च
यन् मां त्वं परिपृच्छसि ॥ ह्व्_३८।८० ॥

मूलम्

एतद् आश्चर्यम् अभवत्
सङ्ग्रामे तारकामये ।
दानवानां च विष्णोश् च
यन् मां त्वं परिपृच्छसि ॥ ह्व्_३८।८० ॥

[चोलोफोन्]