विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
श्रुतस् ते दैत्यसैन्यस्य
विस्तरस् तात विग्रहे ।
सुराणां सर्वसैन्यस्य
विस्तरं वैष्णवं शृणु ॥ ह्व्_३४।१ ॥
मूलम्
{वैशम्पायन उवाच}
श्रुतस् ते दैत्यसैन्यस्य
विस्तरस् तात विग्रहे ।
सुराणां सर्वसैन्यस्य
विस्तरं वैष्णवं शृणु ॥ ह्व्_३४।१ ॥
विश्वास-प्रस्तुतिः
आदित्या वसवो रुद्रा
अश्विनौ च महाबलौ ।
सबलाः सानुगाश् चैव
सन्नह्यन्त यथाक्रमम् ॥ ह्व्_३४।२ ॥
मूलम्
आदित्या वसवो रुद्रा
अश्विनौ च महाबलौ ।
सबलाः सानुगाश् चैव
सन्नह्यन्त यथाक्रमम् ॥ ह्व्_३४।२ ॥
विश्वास-प्रस्तुतिः
पुरुहूतस् तु पुरतो
लोकपालः सहस्रदृक् ।
ग्रामणीः सर्वदेवानाम्
आरुरोह सुरद्विपम् ॥ ह्व्_३४।३ ॥
मूलम्
पुरुहूतस् तु पुरतो
लोकपालः सहस्रदृक् ।
ग्रामणीः सर्वदेवानाम्
आरुरोह सुरद्विपम् ॥ ह्व्_३४।३ ॥
विश्वास-प्रस्तुतिः
सव्ये चास्य रथः पार्श्वे
पक्षिप्रवरवेगवान् ।
सुचारुचक्रचरणो
हेमवज्रपरिष्कृतः ॥ ह्व्_३४।४ ॥
मूलम्
सव्ये चास्य रथः पार्श्वे
पक्षिप्रवरवेगवान् ।
सुचारुचक्रचरणो
हेमवज्रपरिष्कृतः ॥ ह्व्_३४।४ ॥
विश्वास-प्रस्तुतिः
देवगन्धर्वयक्षौघैर्
अनुयातः सहस्रशः ।
दीप्तिमद्भिः सदस्यैश् च
ब्रह्मर्षिभिर् अभिष्टुतः ॥ ह्व्_३४।५ ॥
मूलम्
देवगन्धर्वयक्षौघैर्
अनुयातः सहस्रशः ।
दीप्तिमद्भिः सदस्यैश् च
ब्रह्मर्षिभिर् अभिष्टुतः ॥ ह्व्_३४।५ ॥
विश्वास-प्रस्तुतिः
वज्रविस्फूर्जितोद्धूतैर्
विद्युदिन्द्रायुधार्पितैः ।
गुप्तो बलाहकगणैः
पर्वतैर् इव कामगैः ॥ ह्व्_३४।६ ॥
मूलम्
वज्रविस्फूर्जितोद्धूतैर्
विद्युदिन्द्रायुधार्पितैः ।
गुप्तो बलाहकगणैः
पर्वतैर् इव कामगैः ॥ ह्व्_३४।६ ॥
विश्वास-प्रस्तुतिः
यम् आरूढः स भगवान्
पर्येति मघवान् गजम् ।
हविर् धानेषु गायन्ति
विप्रा मखमुखे स्थिताः ॥ ह्व्_३४।७ ॥
मूलम्
यम् आरूढः स भगवान्
पर्येति मघवान् गजम् ।
हविर् धानेषु गायन्ति
विप्रा मखमुखे स्थिताः ॥ ह्व्_३४।७ ॥
विश्वास-प्रस्तुतिः
स्वर्गे शक्रानुयातेषु
देवतूर्यानुनादिषु ।
इन्द्रं समुपनृत्यन्ति
शतशो ह्य् अप्सरोगणाः ॥ ह्व्_३४।८ ॥
मूलम्
स्वर्गे शक्रानुयातेषु
देवतूर्यानुनादिषु ।
इन्द्रं समुपनृत्यन्ति
शतशो ह्य् अप्सरोगणाः ॥ ह्व्_३४।८ ॥
विश्वास-प्रस्तुतिः
केतुना वंशराजेन
भ्राजमानो यथा रविः ।
युक्तो हयसहस्रेण
मनोमारुतरंहसा ॥ ह्व्_३४।९ ॥
मूलम्
केतुना वंशराजेन
भ्राजमानो यथा रविः ।
युक्तो हयसहस्रेण
मनोमारुतरंहसा ॥ ह्व्_३४।९ ॥
विश्वास-प्रस्तुतिः
स स्यन्दनवरो भाति
युक्तो मातलिना तदा ।
कृत्स्नः परिवृतो मेरुर्
भास्करस्येव तेजसा ॥ ह्व्_३४।१० ॥
मूलम्
स स्यन्दनवरो भाति
युक्तो मातलिना तदा ।
कृत्स्नः परिवृतो मेरुर्
भास्करस्येव तेजसा ॥ ह्व्_३४।१० ॥
विश्वास-प्रस्तुतिः
यमस् तु दण्डम् उद्यम्य
कालयुक्तं च मुद्गरम् ।
तस्थौ सुरगणानीके
दैत्यान् नादेन भीषयन् ॥ ह्व्_३४।११ ॥
मूलम्
यमस् तु दण्डम् उद्यम्य
कालयुक्तं च मुद्गरम् ।
तस्थौ सुरगणानीके
दैत्यान् नादेन भीषयन् ॥ ह्व्_३४।११ ॥
विश्वास-प्रस्तुतिः
चतुर्भिः सागरैर् गुप्तो
लेलिहद्भिश् च पन्नगैः ।
शङ्खमुक्ताङ्गदधरो
बिभ्रत् तोयमयं वपुः ॥ ह्व्_३४।१२ ॥
मूलम्
चतुर्भिः सागरैर् गुप्तो
लेलिहद्भिश् च पन्नगैः ।
शङ्खमुक्ताङ्गदधरो
बिभ्रत् तोयमयं वपुः ॥ ह्व्_३४।१२ ॥
विश्वास-प्रस्तुतिः
([क्: म्१।२ सुब्स्त्। फ़ोर् १२cd: :क्])
शङ्खमुक्तामलतनुः
शीतीभूतो ऽयम् अम्बुपः । ह्व्_३४।१२४९२ ।
कालपाशान् समाविध्य
हयैः शशिकरोपमैः ।
वाय्वीरितजलोद्गारैः
कुर्वंल् लीलाः सहस्रशः ॥ ह्व्_३४।१३ ॥
मूलम्
([क्: म्१।२ सुब्स्त्। फ़ोर् १२cd: :क्])
शङ्खमुक्तामलतनुः
शीतीभूतो ऽयम् अम्बुपः । ह्व्_३४।१२४९२ ।
कालपाशान् समाविध्य
हयैः शशिकरोपमैः ।
वाय्वीरितजलोद्गारैः
कुर्वंल् लीलाः सहस्रशः ॥ ह्व्_३४।१३ ॥
विश्वास-प्रस्तुतिः
पाण्डुरोद्धूतवसनः
प्रवालरुचिराङ्गदः ।
मणिश्यामोत्तमवपुर्
हारभारार्पितोदरः ॥ ह्व्_३४।१४ ॥
मूलम्
पाण्डुरोद्धूतवसनः
प्रवालरुचिराङ्गदः ।
मणिश्यामोत्तमवपुर्
हारभारार्पितोदरः ॥ ह्व्_३४।१४ ॥
विश्वास-प्रस्तुतिः
वरुणः पाशभृन्मध्ये
देवानीकस्य तस्थिवान् ।
([क्: त्३ सुब्स्त्। फ़ोर् १५अब्: :क्])
वरुणः पाशहस्तः सन्
देवानीके व्यतिष्ठत । ह्व्_३४।१५४९३ ।
युद्धवेलाम् अभिलषन्
भिन्नवेल इवार्णवः ॥ ह्व्_३४।१५ ॥
मूलम्
वरुणः पाशभृन्मध्ये
देवानीकस्य तस्थिवान् ।
([क्: त्३ सुब्स्त्। फ़ोर् १५अब्: :क्])
वरुणः पाशहस्तः सन्
देवानीके व्यतिष्ठत । ह्व्_३४।१५४९३ ।
युद्धवेलाम् अभिलषन्
भिन्नवेल इवार्णवः ॥ ह्व्_३४।१५ ॥
विश्वास-प्रस्तुतिः
यक्षराक्षससैन्येन
गुह्यकानां गणैर् अपि ।
([क्: न् (एxचेप्त् श्१) त्१।३।४ ग्१।४ (ग्२ after १४अब्) ins.: :क्])
मणिश्यामोत्तमवपुः
कुबेरो नरवाहनः । ह्व्_३४।१६४९४ ।
युक्तश् च शङ्खपद्माभ्यां
निधीनाम् अधिपः प्रभुः ॥
मूलम्
यक्षराक्षससैन्येन
गुह्यकानां गणैर् अपि ।
([क्: न् (एxचेप्त् श्१) त्१।३।४ ग्१।४ (ग्२ after १४अब्) ins.: :क्])
मणिश्यामोत्तमवपुः
कुबेरो नरवाहनः । ह्व्_३४।१६४९४ ।
युक्तश् च शङ्खपद्माभ्यां
निधीनाम् अधिपः प्रभुः ॥
विश्वास-प्रस्तुतिः
राजराजेश्वरः श्रीमान्
गदापाणिर् अदृश्यत ॥ ह्व्_३४।१६ ॥
मूलम्
राजराजेश्वरः श्रीमान्
गदापाणिर् अदृश्यत ॥ ह्व्_३४।१६ ॥
विश्वास-प्रस्तुतिः
विमानयोधी धनदो
विमाने पुष्पके स्थितः ।
स राजराजः शुशुभे
युद्धार्थी नरवाहनः ॥
मूलम्
विमानयोधी धनदो
विमाने पुष्पके स्थितः ।
स राजराजः शुशुभे
युद्धार्थी नरवाहनः ॥
विश्वास-प्रस्तुतिः
प्रेक्षमाणः शिवसखः
साक्षाद् इव शिवः स्वयम् ॥ ह्व्_३४।१७ ॥
मूलम्
प्रेक्षमाणः शिवसखः
साक्षाद् इव शिवः स्वयम् ॥ ह्व्_३४।१७ ॥
विश्वास-प्रस्तुतिः
([क्: ग्२ सुब्स्त्। फ़ोर् १७एफ़्: :क्])
क्षौमवासाः शिवः साक्षाच्
छिवरूपः स्वयं स्वयम् । ह्व्_३४।१७४९५ ।
पूर्वं पक्षं सहस्राक्षः
पितृराजस् तु दक्षिणम् ।
वरुणः पश्चिमं पक्षम्
उत्तरं नरवाहनः ॥ ह्व्_३४।१८ ॥
मूलम्
([क्: ग्२ सुब्स्त्। फ़ोर् १७एफ़्: :क्])
क्षौमवासाः शिवः साक्षाच्
छिवरूपः स्वयं स्वयम् । ह्व्_३४।१७४९५ ।
पूर्वं पक्षं सहस्राक्षः
पितृराजस् तु दक्षिणम् ।
वरुणः पश्चिमं पक्षम्
उत्तरं नरवाहनः ॥ ह्व्_३४।१८ ॥
विश्वास-प्रस्तुतिः
चतुर्षु युक्ताश् चत्वारो
लोकपाला बलोत्कटाः ।
स्वां स्वां दिशं ररक्षुस् ते
तस्य देवबलस्य ह ॥ ह्व्_३४।१९ ॥
मूलम्
चतुर्षु युक्ताश् चत्वारो
लोकपाला बलोत्कटाः ।
स्वां स्वां दिशं ररक्षुस् ते
तस्य देवबलस्य ह ॥ ह्व्_३४।१९ ॥
विश्वास-प्रस्तुतिः
सूर्यः सप्ताश्वयुक्तेन
रथेनाम्बरगामिना ।
श्रिया जाज्वल्यमानेन
दीप्यमानैश् च रश्मिभिः ॥ ह्व्_३४।२० ॥
मूलम्
सूर्यः सप्ताश्वयुक्तेन
रथेनाम्बरगामिना ।
श्रिया जाज्वल्यमानेन
दीप्यमानैश् च रश्मिभिः ॥ ह्व्_३४।२० ॥
विश्वास-प्रस्तुतिः
उदयास्तगचक्रेण
मेरुपर्यन्तगामिना ।
त्रिदिवद्वारचित्रेण
तपता लोकम् अव्ययम् ॥ ह्व्_३४।२१ ॥
मूलम्
उदयास्तगचक्रेण
मेरुपर्यन्तगामिना ।
त्रिदिवद्वारचित्रेण
तपता लोकम् अव्ययम् ॥ ह्व्_३४।२१ ॥
विश्वास-प्रस्तुतिः
सहस्ररश्मियुक्तेन
भ्राजमानेन तेजसा ।
चचार मध्ये देवानां
द्वादशात्मा दिनेश्वरः ॥ ह्व्_३४।२२ ॥
मूलम्
सहस्ररश्मियुक्तेन
भ्राजमानेन तेजसा ।
चचार मध्ये देवानां
द्वादशात्मा दिनेश्वरः ॥ ह्व्_३४।२२ ॥
विश्वास-प्रस्तुतिः
सोमः श्वेतहयो भाति
स्यन्दने शीतरश्मिवान् ।
हिमतोयप्रपूर्णाभिर्
भाभिर् आप्लावयञ् जगत् ॥ ह्व्_३४।२३ ॥
मूलम्
सोमः श्वेतहयो भाति
स्यन्दने शीतरश्मिवान् ।
हिमतोयप्रपूर्णाभिर्
भाभिर् आप्लावयञ् जगत् ॥ ह्व्_३४।२३ ॥
विश्वास-प्रस्तुतिः
तम् ऋक्षयोगानुगतं
शिशिरांशुं द्विजेश्वरम् ।
शशच्छायाङ्किततनुं
नैशस्य तमसः क्षयम् ॥ ह्व्_३४।२४ ॥
मूलम्
तम् ऋक्षयोगानुगतं
शिशिरांशुं द्विजेश्वरम् ।
शशच्छायाङ्किततनुं
नैशस्य तमसः क्षयम् ॥ ह्व्_३४।२४ ॥
विश्वास-प्रस्तुतिः
ज्योतिषाम् ईरणं व्योम्नि
रसानां रसनं प्रभुम् ।
ओषधीनां परित्राणं
निधानम् अमृतस्य च ॥ ह्व्_३४।२५ ॥
मूलम्
ज्योतिषाम् ईरणं व्योम्नि
रसानां रसनं प्रभुम् ।
ओषधीनां परित्राणं
निधानम् अमृतस्य च ॥ ह्व्_३४।२५ ॥
विश्वास-प्रस्तुतिः
जगतः प्रथमं भागं
सौम्यं शैत्यमयं रसम् ।
ददृशुर् दानवाः सोमं
हिमप्रहरणं स्थितम् ॥ ह्व्_३४।२६ ॥
मूलम्
जगतः प्रथमं भागं
सौम्यं शैत्यमयं रसम् ।
ददृशुर् दानवाः सोमं
हिमप्रहरणं स्थितम् ॥ ह्व्_३४।२६ ॥
विश्वास-प्रस्तुतिः
यः प्राणः सर्वभूतानां
पञ्चधा भिद्यते नृषु ।
सप्तस्कन्धगतो लोकांस्
त्रीन् दधार चचार च ॥ ह्व्_३४।२७ ॥
मूलम्
यः प्राणः सर्वभूतानां
पञ्चधा भिद्यते नृषु ।
सप्तस्कन्धगतो लोकांस्
त्रीन् दधार चचार च ॥ ह्व्_३४।२७ ॥
विश्वास-प्रस्तुतिः
यम् आहुर् अग्नेर् यन्तारं
सर्वप्रभवम् ईश्वरम् ।
सप्तस्वरगता यस्य
योनिर् गीभिर् उदीर्यते ॥ ह्व्_३४।२८ ॥
मूलम्
यम् आहुर् अग्नेर् यन्तारं
सर्वप्रभवम् ईश्वरम् ।
सप्तस्वरगता यस्य
योनिर् गीभिर् उदीर्यते ॥ ह्व्_३४।२८ ॥
विश्वास-प्रस्तुतिः
यं वदन्त्य् उत्तमं भूतं
यं वदन्त्य् अशरीरिणम् ।
यम् आहुर् आकाशगमं
शीघ्रगं शब्दयोनिनम् ॥ ह्व्_३४।२९ ॥
मूलम्
यं वदन्त्य् उत्तमं भूतं
यं वदन्त्य् अशरीरिणम् ।
यम् आहुर् आकाशगमं
शीघ्रगं शब्दयोनिनम् ॥ ह्व्_३४।२९ ॥
विश्वास-प्रस्तुतिः
स वायुः सर्वभूतायुर्
उद्धतः स्वेन तेजसा ।
प्रववौ व्यथयन् दैत्यान्
प्रतिलोमः सतोयदः ॥ ह्व्_३४।३० ॥
मूलम्
स वायुः सर्वभूतायुर्
उद्धतः स्वेन तेजसा ।
प्रववौ व्यथयन् दैत्यान्
प्रतिलोमः सतोयदः ॥ ह्व्_३४।३० ॥
विश्वास-प्रस्तुतिः
मरुतो देवगन्धर्वा
विद्याधरगणैः सह ।
चिक्रीडुर् असिभिः शुभ्रैर्
निर्मुक्तैर् इव पन्नगैः ॥ ह्व्_३४।३१ ॥
मूलम्
मरुतो देवगन्धर्वा
विद्याधरगणैः सह ।
चिक्रीडुर् असिभिः शुभ्रैर्
निर्मुक्तैर् इव पन्नगैः ॥ ह्व्_३४।३१ ॥
विश्वास-प्रस्तुतिः
([क्: त्३ सुब्स्त्। फ़ोर् ३१cd: :क्])
यक्षैश् च सुमहाभोगैः
पन्नगैर् गरुडैर् अपि । ह्व्_३४।३१४९६ ।
सृजन्तः सर्पपतयस्
तीव्रं रोषमयं विषम् ।
शरभूताः सुरेन्द्राणां
चेरुर् व्यात्तमुखा दिवि ॥ ह्व्_३४।३२ ॥
मूलम्
([क्: त्३ सुब्स्त्। फ़ोर् ३१cd: :क्])
यक्षैश् च सुमहाभोगैः
पन्नगैर् गरुडैर् अपि । ह्व्_३४।३१४९६ ।
सृजन्तः सर्पपतयस्
तीव्रं रोषमयं विषम् ।
शरभूताः सुरेन्द्राणां
चेरुर् व्यात्तमुखा दिवि ॥ ह्व्_३४।३२ ॥
विश्वास-प्रस्तुतिः
पर्वतास् तु शिलाशृङ्गैः
शतशाखैश् च पादपैः ।
उपतस्थुः सुरगणान्
प्रहर्तुं दानवं बलम् ॥ ह्व्_३४।३३ ॥
मूलम्
पर्वतास् तु शिलाशृङ्गैः
शतशाखैश् च पादपैः ।
उपतस्थुः सुरगणान्
प्रहर्तुं दानवं बलम् ॥ ह्व्_३४।३३ ॥
विश्वास-प्रस्तुतिः
यः स देवो हृषीकेशः
पद्मनाभस् त्रिविक्रमः ।
कृष्णवर्त्मा युगान्ताभो
विश्वस्य जगतः प्रभुः ॥ ह्व्_३४।३४ ॥
मूलम्
यः स देवो हृषीकेशः
पद्मनाभस् त्रिविक्रमः ।
कृष्णवर्त्मा युगान्ताभो
विश्वस्य जगतः प्रभुः ॥ ह्व्_३४।३४ ॥
विश्वास-प्रस्तुतिः
समुद्रयोनिर् मधुहा
हव्यभुक् क्रतुसत्कृतः ।
भूम्यापोव्योमभूतात्मा
स्यामः शान्तिकरो ऽरिहा ॥ ह्व्_३४।३५ ॥
मूलम्
समुद्रयोनिर् मधुहा
हव्यभुक् क्रतुसत्कृतः ।
भूम्यापोव्योमभूतात्मा
स्यामः शान्तिकरो ऽरिहा ॥ ह्व्_३४।३५ ॥
विश्वास-प्रस्तुतिः
([क्: क्२-४ Ñ२।३ व् ब्१।२ द्न् द्स् द्२-६ त्१।३।४ ग्१।३।४ ins.: :क्])
जगयोनिर् जगद्बीजो
जगद्गुरुर् उदारधीः । ह्व्_३४।३५४९७ ।
सो ऽर्कम् अग्नाव् इवोद्यन्तम्
उद्यम्योत्तमतेजसम् ।
अरिघ्नम् असुरानीके
चक्रं चक्रगदाधरः ॥
मूलम्
([क्: क्२-४ Ñ२।३ व् ब्१।२ द्न् द्स् द्२-६ त्१।३।४ ग्१।३।४ ins.: :क्])
जगयोनिर् जगद्बीजो
जगद्गुरुर् उदारधीः । ह्व्_३४।३५४९७ ।
सो ऽर्कम् अग्नाव् इवोद्यन्तम्
उद्यम्योत्तमतेजसम् ।
अरिघ्नम् असुरानीके
चक्रं चक्रगदाधरः ॥
विश्वास-प्रस्तुतिः
सपरीवेषम् उद्यन्तं
सवितुर् मण्डलं यथा ॥ ह्व्_३४।३६ ॥
मूलम्
सपरीवेषम् उद्यन्तं
सवितुर् मण्डलं यथा ॥ ह्व्_३४।३६ ॥
विश्वास-प्रस्तुतिः
सव्येनालम्ब्य महतीं
सर्वासुरविनाशिनीम् ।
करेण कालीं वपुषा
शत्रुकालप्रदां गदाम् ॥ ह्व्_३४।३७ ॥
मूलम्
सव्येनालम्ब्य महतीं
सर्वासुरविनाशिनीम् ।
करेण कालीं वपुषा
शत्रुकालप्रदां गदाम् ॥ ह्व्_३४।३७ ॥
विश्वास-प्रस्तुतिः
शेषैर् भुजैः प्रदीप्तानि
भुजगारिध्वजः प्रभुः ।
दधारायुधजातानि
शार्ङ्गादीनि महायशाः ॥ ह्व्_३४।३८ ॥
मूलम्
शेषैर् भुजैः प्रदीप्तानि
भुजगारिध्वजः प्रभुः ।
दधारायुधजातानि
शार्ङ्गादीनि महायशाः ॥ ह्व्_३४।३८ ॥
विश्वास-प्रस्तुतिः
स कश्यपस्यात्मभुवं
द्विजं भुजगभोजनम् ।
पवनाधिकसम्पातं
गगनक्षोभणं खगम् ॥ ह्व्_३४।३९ ॥
मूलम्
स कश्यपस्यात्मभुवं
द्विजं भुजगभोजनम् ।
पवनाधिकसम्पातं
गगनक्षोभणं खगम् ॥ ह्व्_३४।३९ ॥
विश्वास-प्रस्तुतिः
भुजगेन्द्रेण वदने
निविष्टेन विराजितम् ।
अमृतारम्भनिर्मुक्तं
मन्दराद्रिम् इवोच्छ्रितम् ॥ ह्व्_३४।४० ॥
मूलम्
भुजगेन्द्रेण वदने
निविष्टेन विराजितम् ।
अमृतारम्भनिर्मुक्तं
मन्दराद्रिम् इवोच्छ्रितम् ॥ ह्व्_३४।४० ॥
विश्वास-प्रस्तुतिः
देवासुरविमर्देषु
शतशो दृष्टविक्रमम् ।
महेन्द्रेणामृतस्यार्थे
वज्रेण कृतलक्षणम् ॥ ह्व्_३४।४१ ॥
मूलम्
देवासुरविमर्देषु
शतशो दृष्टविक्रमम् ।
महेन्द्रेणामृतस्यार्थे
वज्रेण कृतलक्षणम् ॥ ह्व्_३४।४१ ॥
विश्वास-प्रस्तुतिः
शिखिनं चूडिनं चैव
तप्तकुण्डलभूषणम् ।
विचित्रपत्रवसनं
धातुमन्तम् इवाचलम् ॥ ह्व्_३४।४२ ॥
मूलम्
शिखिनं चूडिनं चैव
तप्तकुण्डलभूषणम् ।
विचित्रपत्रवसनं
धातुमन्तम् इवाचलम् ॥ ह्व्_३४।४२ ॥
विश्वास-प्रस्तुतिः
([क्: क्१ Ñ२।३ व्१ द्स्२ द्३-५ (क्३ द्२ after ४१) ins.: :क्])
तीक्ष्णतुण्डोग्रनखरं
चलत्पक्षसमाकुलम् । ह्व्_३४।४२४९८ ।
स्फीतक्रोडावलम्बेन
शीतांशुसमतेजसा ।
भोगिभोगावसक्तेन
मणिरत्नेन भास्वता ॥ ह्व्_३४।४३ ॥
मूलम्
([क्: क्१ Ñ२।३ व्१ द्स्२ द्३-५ (क्३ द्२ after ४१) ins.: :क्])
तीक्ष्णतुण्डोग्रनखरं
चलत्पक्षसमाकुलम् । ह्व्_३४।४२४९८ ।
स्फीतक्रोडावलम्बेन
शीतांशुसमतेजसा ।
भोगिभोगावसक्तेन
मणिरत्नेन भास्वता ॥ ह्व्_३४।४३ ॥
विश्वास-प्रस्तुतिः
पक्षाभ्यां चारुपत्राभ्याम्
आवृत्य दिवि लीलया ।
युगान्ते सेन्द्रचापाभ्यां
तोयदाभ्याम् इवाम्बरम् ॥ ह्व्_३४।४४ ॥
मूलम्
पक्षाभ्यां चारुपत्राभ्याम्
आवृत्य दिवि लीलया ।
युगान्ते सेन्द्रचापाभ्यां
तोयदाभ्याम् इवाम्बरम् ॥ ह्व्_३४।४४ ॥
विश्वास-प्रस्तुतिः
नीललोहितपीताभिः
पताकाभिर् अलङ्कृतम् ।
केतुवेषप्रतिच्छन्नं
महाकायनिकेतनम् ॥ ह्व्_३४।४५ ॥
मूलम्
नीललोहितपीताभिः
पताकाभिर् अलङ्कृतम् ।
केतुवेषप्रतिच्छन्नं
महाकायनिकेतनम् ॥ ह्व्_३४।४५ ॥
विश्वास-प्रस्तुतिः
अरुणावरजं श्रीमान्
आरुरोह रणे हरिः ।
([क्: Ñ३ व्१ त्३।४ ins.: :क्])
स्थितः समरदुर्जेयो
दैत्यसैन्यं विलोकयन् । ह्व्_३४।४६४९९ ।
सुपर्णः स्वेन वपुषा
सुपर्णं खेचरोत्तमम् ॥ ह्व्_३४।४६ ॥
मूलम्
अरुणावरजं श्रीमान्
आरुरोह रणे हरिः ।
([क्: Ñ३ व्१ त्३।४ ins.: :क्])
स्थितः समरदुर्जेयो
दैत्यसैन्यं विलोकयन् । ह्व्_३४।४६४९९ ।
सुपर्णः स्वेन वपुषा
सुपर्णं खेचरोत्तमम् ॥ ह्व्_३४।४६ ॥
विश्वास-प्रस्तुतिः
([क्: Ñ३ त्४ ins.: :क्])
दहंस् तस्थौ सुरानीके
दैत्यान् अतिविभीषयन् । ह्व्_३४।४६५०० ।
तम् अन्वयुर् देवगणा
मुनयश् च समाहिताः ।
गीर्भिः परममन्त्राभिस्
तुष्टुवुश् च गदाधरम् ॥ ह्व्_३४।४७ ॥
मूलम्
([क्: Ñ३ त्४ ins.: :क्])
दहंस् तस्थौ सुरानीके
दैत्यान् अतिविभीषयन् । ह्व्_३४।४६५०० ।
तम् अन्वयुर् देवगणा
मुनयश् च समाहिताः ।
गीर्भिः परममन्त्राभिस्
तुष्टुवुश् च गदाधरम् ॥ ह्व्_३४।४७ ॥
विश्वास-प्रस्तुतिः
([क्: त् ग् म्४ ins.: :क्])
नमस् ते ऽस्तु हृषीकेश
जहि दैत्यबलं विभो । ह्व्_३४।४७५०१:१ ।
नमस् त्रिमूर्तये तुभ्यं
हरिब्रह्मशिवात्मने । ह्व्_३४।४७५०१:२ ।
नमस् त्रैविद्यरूपाय
ऋक्सामयजुषे नमः । ह्व्_३४।४७५०१:३ ।
नमो ऽस्तु योगिचिन्त्याय
तेषां योगप्रदायिने । ह्व्_३४।४७५०१:४ ।
नमो विकल्पशून्याय
नमो विज्ञप्तिरूपिने । ह्व्_३४।४७५०१:५ ।
यं च ज्ञानमयं तेजः
प्रवदन्ति मनीषिणः । ह्व्_३४।४७५०१:६ ।
तं नताः स्म जगन्नाथं
जहि दैत्यगणान् हरे । ह्व्_३४।४७५०१:७ ।
त्वां स्तोतुं हि वयं देव
शक्ता वर्षशतैर् अपि । ह्व्_३४।४७५०१:८ ।
न हि देव जगन्नाथ
जयस्व पुरुषोत्तम । ह्व्_३४।४७५०१:९ ।
इतीरितां गिरिं श्रुत्वा
गन्तुम् अभ्युद्यतो हरिः । ह्व्_३४।४७५०१:१० ।
तद् वैश्रवणसुश्लिष्टं
वैवस्वतपुरःसरम् ।
वारिराजपरिक्षिप्तं
देवराजविराजितम् ॥ ह्व्_३४।४८ ॥
मूलम्
([क्: त् ग् म्४ ins.: :क्])
नमस् ते ऽस्तु हृषीकेश
जहि दैत्यबलं विभो । ह्व्_३४।४७५०१:१ ।
नमस् त्रिमूर्तये तुभ्यं
हरिब्रह्मशिवात्मने । ह्व्_३४।४७५०१:२ ।
नमस् त्रैविद्यरूपाय
ऋक्सामयजुषे नमः । ह्व्_३४।४७५०१:३ ।
नमो ऽस्तु योगिचिन्त्याय
तेषां योगप्रदायिने । ह्व्_३४।४७५०१:४ ।
नमो विकल्पशून्याय
नमो विज्ञप्तिरूपिने । ह्व्_३४।४७५०१:५ ।
यं च ज्ञानमयं तेजः
प्रवदन्ति मनीषिणः । ह्व्_३४।४७५०१:६ ।
तं नताः स्म जगन्नाथं
जहि दैत्यगणान् हरे । ह्व्_३४।४७५०१:७ ।
त्वां स्तोतुं हि वयं देव
शक्ता वर्षशतैर् अपि । ह्व्_३४।४७५०१:८ ।
न हि देव जगन्नाथ
जयस्व पुरुषोत्तम । ह्व्_३४।४७५०१:९ ।
इतीरितां गिरिं श्रुत्वा
गन्तुम् अभ्युद्यतो हरिः । ह्व्_३४।४७५०१:१० ।
तद् वैश्रवणसुश्लिष्टं
वैवस्वतपुरःसरम् ।
वारिराजपरिक्षिप्तं
देवराजविराजितम् ॥ ह्व्_३४।४८ ॥
विश्वास-प्रस्तुतिः
चन्द्रप्रभाभिर् विमलं
युद्धाय समवस्थितम् ।
([क्: Ñ२।३ व्१।३ ins.: :क्])
ययौ हितं देवपथं
दीप्तभास्करतेजसम् । ह्व्_३४।४९५०२ ।
पवनाविद्धनिर्घोषं
सम्प्रदीप्तहुताशनम् ॥ ह्व्_३४।४९ ॥
मूलम्
चन्द्रप्रभाभिर् विमलं
युद्धाय समवस्थितम् ।
([क्: Ñ२।३ व्१।३ ins.: :क्])
ययौ हितं देवपथं
दीप्तभास्करतेजसम् । ह्व्_३४।४९५०२ ।
पवनाविद्धनिर्घोषं
सम्प्रदीप्तहुताशनम् ॥ ह्व्_३४।४९ ॥
विश्वास-प्रस्तुतिः
विष्णोर् जिष्णोः सहिष्णोश् च
भ्राजिष्णोस् तेजसा वृतम् ।
बलं बलवदुद्धूतं
युद्धाय समवर्तत ॥ ह्व्_३४।५० ॥
मूलम्
विष्णोर् जिष्णोः सहिष्णोश् च
भ्राजिष्णोस् तेजसा वृतम् ।
बलं बलवदुद्धूतं
युद्धाय समवर्तत ॥ ह्व्_३४।५० ॥
विश्वास-प्रस्तुतिः
स्वस्त्य् अस्तु देवेभ्य इति
स्तुवंस् तत्राङ्गिराब्रवीत् ।
([क्: त्२, ग्१।३।५ सुब्स्त्। फ़ोर् ५१अब्: :क्])
स्वस्त्य् अस्त्व् इति स्तुवंस् तत्र
देवान् आङ्गिरसो ऽब्रवीत् । ह्व्_३४।५१५०३ ।
स्वस्त्य् अस्तु दैत्येभ्य इति
उशना वाक्यम् अब्रवीत् ॥ ह्व्_३४।५१ ॥
मूलम्
स्वस्त्य् अस्तु देवेभ्य इति
स्तुवंस् तत्राङ्गिराब्रवीत् ।
([क्: त्२, ग्१।३।५ सुब्स्त्। फ़ोर् ५१अब्: :क्])
स्वस्त्य् अस्त्व् इति स्तुवंस् तत्र
देवान् आङ्गिरसो ऽब्रवीत् । ह्व्_३४।५१५०३ ।
स्वस्त्य् अस्तु दैत्येभ्य इति
उशना वाक्यम् अब्रवीत् ॥ ह्व्_३४।५१ ॥