विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
ततो भयं विष्णुमयं
श्रुत्वा दैतेयदानवाः ।
उद्योगं विपुलं चक्रुर्
युद्धाय युधि दुर्जयाः ॥ ह्व्_३३।१ ॥
मूलम्
{वैशम्पायन उवाच}
ततो भयं विष्णुमयं
श्रुत्वा दैतेयदानवाः ।
उद्योगं विपुलं चक्रुर्
युद्धाय युधि दुर्जयाः ॥ ह्व्_३३।१ ॥
विश्वास-प्रस्तुतिः
मयस् तु काञ्चनमयं
त्रिनल्वान्तरम् अव्ययम् ।
चतुश्चक्रं सुवपुषं
सुकल्पितमहायुधम् ॥ ह्व्_३३।२ ॥
मूलम्
मयस् तु काञ्चनमयं
त्रिनल्वान्तरम् अव्ययम् ।
चतुश्चक्रं सुवपुषं
सुकल्पितमहायुधम् ॥ ह्व्_३३।२ ॥
विश्वास-प्रस्तुतिः
किङ्किणीजालनिर्घोषं
द्वीपिचर्मपरिष्कृतम् ।
रचितं रत्नजालैश् च
हेमजालैश् च शोभितम् ॥ ह्व्_३३।३ ॥
मूलम्
किङ्किणीजालनिर्घोषं
द्वीपिचर्मपरिष्कृतम् ।
रचितं रत्नजालैश् च
हेमजालैश् च शोभितम् ॥ ह्व्_३३।३ ॥
विश्वास-प्रस्तुतिः
ईहामृगगणाकीर्णं
पक्षिभिश् च विराजितम् ।
दिव्यास्त्रतूणीरधरं
पयोधरनिनादितम् ॥ ह्व्_३३।४ ॥
मूलम्
ईहामृगगणाकीर्णं
पक्षिभिश् च विराजितम् ।
दिव्यास्त्रतूणीरधरं
पयोधरनिनादितम् ॥ ह्व्_३३।४ ॥
विश्वास-प्रस्तुतिः
स्वक्षं रथवरोदारं
सूपस्थम् अगमोपमम् ।
गदापरिघसम्पूर्णं
मूर्तिमन्तम् इवार्णवम् ॥ ह्व्_३३।५ ॥
मूलम्
स्वक्षं रथवरोदारं
सूपस्थम् अगमोपमम् ।
गदापरिघसम्पूर्णं
मूर्तिमन्तम् इवार्णवम् ॥ ह्व्_३३।५ ॥
विश्वास-प्रस्तुतिः
हेमकेयूरवलयं
स्वर्णकुण्डलकूबरम् ।
सपताकध्वजोदग्रं
सादित्यम् इव मन्दरम् ॥ ह्व्_३३।६ ॥
मूलम्
हेमकेयूरवलयं
स्वर्णकुण्डलकूबरम् ।
सपताकध्वजोदग्रं
सादित्यम् इव मन्दरम् ॥ ह्व्_३३।६ ॥
विश्वास-प्रस्तुतिः
गजेन्द्राम्भोदवपुषं
क्वचित् केसरवर्चसम् ।
युक्तम् ऋक्षसहस्रेण
सहस्राम्बुदनादितम् ॥ ह्व्_३३।७ ॥
मूलम्
गजेन्द्राम्भोदवपुषं
क्वचित् केसरवर्चसम् ।
युक्तम् ऋक्षसहस्रेण
सहस्राम्बुदनादितम् ॥ ह्व्_३३।७ ॥
विश्वास-प्रस्तुतिः
दीप्तम् आकाशगं दिव्यं
रथं पररथारुजम् ।
अतिष्ठत् समराकाङ्क्षी
मेरुं दीप्त इवांशुमान् ॥ ह्व्_३३।८ ॥
मूलम्
दीप्तम् आकाशगं दिव्यं
रथं पररथारुजम् ।
अतिष्ठत् समराकाङ्क्षी
मेरुं दीप्त इवांशुमान् ॥ ह्व्_३३।८ ॥
विश्वास-प्रस्तुतिः
तारस् तु क्रोषविस्तारम्
आयसं वाहयन् रथम् ।
शैलोत्करिमसङ्काशं
नीलाञ्जनचयोपमम् ॥ ह्व्_३३।९ ॥
मूलम्
तारस् तु क्रोषविस्तारम्
आयसं वाहयन् रथम् ।
शैलोत्करिमसङ्काशं
नीलाञ्जनचयोपमम् ॥ ह्व्_३३।९ ॥
विश्वास-प्रस्तुतिः
काललोहाष्टचरणं
लोहेषायुगकूबरम् ।
तिमिरोद्गारिकिरणं
गर्जन्तम् इव तोयदम् ॥ ह्व्_३३।१० ॥
मूलम्
काललोहाष्टचरणं
लोहेषायुगकूबरम् ।
तिमिरोद्गारिकिरणं
गर्जन्तम् इव तोयदम् ॥ ह्व्_३३।१० ॥
विश्वास-प्रस्तुतिः
लोहजालेन महता
सगवाक्षेण दंशितम् ।
आयसैः परिघैः पूर्णं
क्षेपणीयैश् च मुद्गरैः ॥ ह्व्_३३।११ ॥
मूलम्
लोहजालेन महता
सगवाक्षेण दंशितम् ।
आयसैः परिघैः पूर्णं
क्षेपणीयैश् च मुद्गरैः ॥ ह्व्_३३।११ ॥
विश्वास-प्रस्तुतिः
प्रासैः पाशैश् च विततैर्
अवसक्तैश् च मुद्गरैः ।
शोभितं त्रासनीयैश् च
तोमरैः सपरश्वधैः ॥ ह्व्_३३।१२ ॥
मूलम्
प्रासैः पाशैश् च विततैर्
अवसक्तैश् च मुद्गरैः ।
शोभितं त्रासनीयैश् च
तोमरैः सपरश्वधैः ॥ ह्व्_३३।१२ ॥
विश्वास-प्रस्तुतिः
उद्यतं द्विषतां हेतोर्
द्वितीयम् इव मन्दरम् ।
युक्तं खरसहस्रेण
सो ऽध्यारोहद् रथोत्तमम् ॥ ह्व्_३३।१३ ॥
मूलम्
उद्यतं द्विषतां हेतोर्
द्वितीयम् इव मन्दरम् ।
युक्तं खरसहस्रेण
सो ऽध्यारोहद् रथोत्तमम् ॥ ह्व्_३३।१३ ॥
विश्वास-प्रस्तुतिः
विरोचनस् तु सङ्क्रुद्धो
गदापाणिर् अवस्थितः ।
प्रमुखे तस्य सैन्यस्य
दीप्तशृङ्ग इवाचलः ॥ ह्व्_३३।१४ ॥
मूलम्
विरोचनस् तु सङ्क्रुद्धो
गदापाणिर् अवस्थितः ।
प्रमुखे तस्य सैन्यस्य
दीप्तशृङ्ग इवाचलः ॥ ह्व्_३३।१४ ॥
विश्वास-प्रस्तुतिः
युक्तं हयसहस्रेण
हयग्रीवस् तु दानवः ।
स्यन्दनं वाहयाम् आस
सपत्नानीकमर्दनम् ॥ ह्व्_३३।१५ ॥
मूलम्
युक्तं हयसहस्रेण
हयग्रीवस् तु दानवः ।
स्यन्दनं वाहयाम् आस
सपत्नानीकमर्दनम् ॥ ह्व्_३३।१५ ॥
विश्वास-प्रस्तुतिः
व्यायतं बहुसहस्रं
धनुर् विस्फारयन् महत् ।
वराहः प्रमुखे तस्थौ
सावरोह इवाचलः ॥ ह्व्_३३।१६ ॥
मूलम्
व्यायतं बहुसहस्रं
धनुर् विस्फारयन् महत् ।
वराहः प्रमुखे तस्थौ
सावरोह इवाचलः ॥ ह्व्_३३।१६ ॥
विश्वास-प्रस्तुतिः
क्षरस् तु विक्षरन् दर्पान्
नेत्राभ्यां रोषजं जलम् ।
स्फुरद्दन्तौष्ठवदनः
सङ्ग्रामं सो ऽभ्यकाङ्क्षत ॥ ह्व्_३३।१७ ॥
मूलम्
क्षरस् तु विक्षरन् दर्पान्
नेत्राभ्यां रोषजं जलम् ।
स्फुरद्दन्तौष्ठवदनः
सङ्ग्रामं सो ऽभ्यकाङ्क्षत ॥ ह्व्_३३।१७ ॥
विश्वास-प्रस्तुतिः
त्वष्टा त्व् अष्टादशहयं
यानम् आस्थाय दानवः ।
व्यूहितो दानवैर् व्यूहैः
परिचक्राम वीर्यवान् ॥ ह्व्_३३।१८ ॥
मूलम्
त्वष्टा त्व् अष्टादशहयं
यानम् आस्थाय दानवः ।
व्यूहितो दानवैर् व्यूहैः
परिचक्राम वीर्यवान् ॥ ह्व्_३३।१८ ॥
विश्वास-प्रस्तुतिः
विप्रचित्तिसुतः श्वेतः
श्वेतकुण्डलभूषणः ।
श्वेतशैलप्रतीकाशो
युद्धायाभिमुखः स्थितः ॥ ह्व्_३३।१९ ॥
मूलम्
विप्रचित्तिसुतः श्वेतः
श्वेतकुण्डलभूषणः ।
श्वेतशैलप्रतीकाशो
युद्धायाभिमुखः स्थितः ॥ ह्व्_३३।१९ ॥
विश्वास-प्रस्तुतिः
अरिष्टो बलिपुत्रस् तु
वरिष्ठो ऽद्रिशिलायुधः ।
युद्धायातिष्ठद् आयस्तो
धराधर इवापरः ॥ ह्व्_३३।२० ॥
मूलम्
अरिष्टो बलिपुत्रस् तु
वरिष्ठो ऽद्रिशिलायुधः ।
युद्धायातिष्ठद् आयस्तो
धराधर इवापरः ॥ ह्व्_३३।२० ॥
विश्वास-प्रस्तुतिः
किशोरस् त्व् अतिसंहर्षात्
किशोर इव चोदितः ।
अभवद् दैत्यसैन्यस्य
मध्ये रविर् इवोदितः ॥ ह्व्_३३।२१ ॥
मूलम्
किशोरस् त्व् अतिसंहर्षात्
किशोर इव चोदितः ।
अभवद् दैत्यसैन्यस्य
मध्ये रविर् इवोदितः ॥ ह्व्_३३।२१ ॥
विश्वास-प्रस्तुतिः
लम्बस् तु लम्बमेघाभः
प्रलम्बाम्बरभूषणः ।
दैत्यव्यूहगतो भाति
सनीहार इवांशुमान् ॥ ह्व्_३३।२२ ॥
मूलम्
लम्बस् तु लम्बमेघाभः
प्रलम्बाम्बरभूषणः ।
दैत्यव्यूहगतो भाति
सनीहार इवांशुमान् ॥ ह्व्_३३।२२ ॥
विश्वास-प्रस्तुतिः
स्वर्भानुरास्ययोधी तु
दशनौष्ठेक्षणायुधः ।
([क्: त्३ ins.: :क्])
प्रमुखे देवसेनाय
रराज गिरिसन्निभः । ह्व्_३३।२३४९० ।
हसंस् तिष्ठति दैत्यानां
प्रमुखे सुमुखो ग्रहः ॥ ह्व्_३३।२३ ॥
मूलम्
स्वर्भानुरास्ययोधी तु
दशनौष्ठेक्षणायुधः ।
([क्: त्३ ins.: :क्])
प्रमुखे देवसेनाय
रराज गिरिसन्निभः । ह्व्_३३।२३४९० ।
हसंस् तिष्ठति दैत्यानां
प्रमुखे सुमुखो ग्रहः ॥ ह्व्_३३।२३ ॥
विश्वास-प्रस्तुतिः
अन्ये हयगता भान्ति
नागस्कन्धगताः परे ।
सिंहव्याघ्रगताश् चान्ये
वराहर्क्षगताः परे ॥ ह्व्_३३।२४ ॥
मूलम्
अन्ये हयगता भान्ति
नागस्कन्धगताः परे ।
सिंहव्याघ्रगताश् चान्ये
वराहर्क्षगताः परे ॥ ह्व्_३३।२४ ॥
विश्वास-प्रस्तुतिः
केचित् खरोष्ट्रयातारः
केचित् तोयदवाहनाः ।
नानापक्षिगताः केचित्
केचित् पवनवाहनाः ॥ ह्व्_३३।२५ ॥
मूलम्
केचित् खरोष्ट्रयातारः
केचित् तोयदवाहनाः ।
नानापक्षिगताः केचित्
केचित् पवनवाहनाः ॥ ह्व्_३३।२५ ॥
विश्वास-प्रस्तुतिः
पत्तिनस् त्व् अपरे दैत्या
भीषणा विकृताननाः ।
एकपादा द्विपादाश् च
ननृतुर् युद्धकङ्क्षिणः ॥ ह्व्_३३।२६ ॥
मूलम्
पत्तिनस् त्व् अपरे दैत्या
भीषणा विकृताननाः ।
एकपादा द्विपादाश् च
ननृतुर् युद्धकङ्क्षिणः ॥ ह्व्_३३।२६ ॥
विश्वास-प्रस्तुतिः
प्रक्ष्वेडमाना बहवः
स्फोटयन्तश् च दानवाः ।
दृप्तशार्दूलनिर्घोषा
नेदुर् दानवपुङ्गवाः ॥ ह्व्_३३।२७ ॥
मूलम्
प्रक्ष्वेडमाना बहवः
स्फोटयन्तश् च दानवाः ।
दृप्तशार्दूलनिर्घोषा
नेदुर् दानवपुङ्गवाः ॥ ह्व्_३३।२७ ॥
विश्वास-प्रस्तुतिः
ते गदापरिघैर् उग्रैर्
धनुर् व्यायामशालिनः ।
बाहुभिः परिघाकारैस्
तर्जयन्ति स्म दानवाः ॥ ह्व्_३३।२८ ॥
मूलम्
ते गदापरिघैर् उग्रैर्
धनुर् व्यायामशालिनः ।
बाहुभिः परिघाकारैस्
तर्जयन्ति स्म दानवाः ॥ ह्व्_३३।२८ ॥
विश्वास-प्रस्तुतिः
प्रासैः पाशैश् च खड्गैश् च
तोमराङ्कुशपट्टिसैः ।
चिक्रीडुस् ते शतघ्नीभिः
शितधारैश् च मुद्गरैः ॥ ह्व्_३३।२९ ॥
मूलम्
प्रासैः पाशैश् च खड्गैश् च
तोमराङ्कुशपट्टिसैः ।
चिक्रीडुस् ते शतघ्नीभिः
शितधारैश् च मुद्गरैः ॥ ह्व्_३३।२९ ॥
विश्वास-प्रस्तुतिः
गण्डशैलैश् च शैलैश् च
परिघैश् चोत्तमायुधैः ।
चक्रैश् च दैत्यप्रवराश्
चक्रुर् आनन्दितं बलम् ॥ ह्व्_३३।३० ॥
मूलम्
गण्डशैलैश् च शैलैश् च
परिघैश् चोत्तमायुधैः ।
चक्रैश् च दैत्यप्रवराश्
चक्रुर् आनन्दितं बलम् ॥ ह्व्_३३।३० ॥
विश्वास-प्रस्तुतिः
([क्: क्१।२ Ñ२ द्न्१ द्३।४ ins.: :क्])
काङ्क्षन्तो विजयं युद्धे
दानवा युद्धदुर्मदाः । ह्व्_३३।३०४९१ ।
एवं तद् दानवं सैन्यं
सर्वं युद्धमदोत्कटम् ।
देवान् अभिमुखं तस्थौ
मेघानीकम् इवोद्धतम् ॥ ह्व्_३३।३१ ॥
मूलम्
([क्: क्१।२ Ñ२ द्न्१ द्३।४ ins.: :क्])
काङ्क्षन्तो विजयं युद्धे
दानवा युद्धदुर्मदाः । ह्व्_३३।३०४९१ ।
एवं तद् दानवं सैन्यं
सर्वं युद्धमदोत्कटम् ।
देवान् अभिमुखं तस्थौ
मेघानीकम् इवोद्धतम् ॥ ह्व्_३३।३१ ॥
विश्वास-प्रस्तुतिः
तदद्भुतं दैत्यसहस्रगाढं
वाय्वग्नितोयाम्बुदशैलकल्पम् ।
बलं रणौघाभ्युदयाभ्युदीर्णं
युयुत्सयोन्मत्तम् इवाबभासे ॥ ह्व्_३३।३२ ॥
मूलम्
तदद्भुतं दैत्यसहस्रगाढं
वाय्वग्नितोयाम्बुदशैलकल्पम् ।
बलं रणौघाभ्युदयाभ्युदीर्णं
युयुत्सयोन्मत्तम् इवाबभासे ॥ ह्व्_३३।३२ ॥