०३२

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
विश्वत्वं शृणु मे विष्णोर्
हरित्वं च कृते युगे ।
वैकुण्ठत्वं च देवेषु
कृष्णत्वं मानुषेषु च ॥ ह्व्_३२।१ ॥

मूलम्

{वैशम्पायन उवाच}
विश्वत्वं शृणु मे विष्णोर्
हरित्वं च कृते युगे ।
वैकुण्ठत्वं च देवेषु
कृष्णत्वं मानुषेषु च ॥ ह्व्_३२।१ ॥

विश्वास-प्रस्तुतिः

ईश्वरस्य हि तस्येमां
कर्मणां गहनां गतिम् ।
सम्प्रत्यतीतां भाव्यां च
शृणु राजन् यथातथम् ॥ ह्व्_३२।२ ॥

मूलम्

ईश्वरस्य हि तस्येमां
कर्मणां गहनां गतिम् ।
सम्प्रत्यतीतां भाव्यां च
शृणु राजन् यथातथम् ॥ ह्व्_३२।२ ॥

विश्वास-प्रस्तुतिः

अव्यक्तो व्यक्तलिङ्गस्थो
य एष भगवान् प्रभुः ।
नारायणो ह्य् अनन्तात्मा
प्रभवो ऽव्यय एव च ॥ ह्व्_३२।३ ॥

मूलम्

अव्यक्तो व्यक्तलिङ्गस्थो
य एष भगवान् प्रभुः ।
नारायणो ह्य् अनन्तात्मा
प्रभवो ऽव्यय एव च ॥ ह्व्_३२।३ ॥

विश्वास-प्रस्तुतिः

एष नारायणो भूत्वा
हरिर् आसीत् सनातनः ।
ब्रह्मा शक्रश् च सोमश् च
धर्मः शुक्रो बृहस्पतिः ॥ ह्व्_३२।४ ॥

मूलम्

एष नारायणो भूत्वा
हरिर् आसीत् सनातनः ।
ब्रह्मा शक्रश् च सोमश् च
धर्मः शुक्रो बृहस्पतिः ॥ ह्व्_३२।४ ॥

विश्वास-प्रस्तुतिः

अदितेर् अपि पुत्रत्वम्
एत्य यादवनन्दनः ।
एष विष्णुर् इति ख्यात
इन्द्राद् अवरजो ऽभवत् ॥ ह्व्_३२।५ ॥

मूलम्

अदितेर् अपि पुत्रत्वम्
एत्य यादवनन्दनः ।
एष विष्णुर् इति ख्यात
इन्द्राद् अवरजो ऽभवत् ॥ ह्व्_३२।५ ॥

विश्वास-प्रस्तुतिः

प्रसादजं ह्य् अस्य विभोर्
अदित्यां पुत्रजन्म तत् ।
वधार्थं सुरशत्रूणां
दैत्यदानवरक्षसाम् ॥ ह्व्_३२।६ ॥

मूलम्

प्रसादजं ह्य् अस्य विभोर्
अदित्यां पुत्रजन्म तत् ।
वधार्थं सुरशत्रूणां
दैत्यदानवरक्षसाम् ॥ ह्व्_३२।६ ॥

विश्वास-प्रस्तुतिः

प्रधानात्मा पुरा ह्य् एष
ब्रह्माणम् असृजत् प्रभुः ।
सो ऽसृजत् पूर्वपुरुषः
पुराकल्पे प्रजापतीन् ॥ ह्व्_३२।७ ॥

मूलम्

प्रधानात्मा पुरा ह्य् एष
ब्रह्माणम् असृजत् प्रभुः ।
सो ऽसृजत् पूर्वपुरुषः
पुराकल्पे प्रजापतीन् ॥ ह्व्_३२।७ ॥

विश्वास-प्रस्तुतिः

ते तन्वानास् तनूस् तत्र
ब्रह्मवंशान् अनुत्तमान् ।
तेभ्यो ऽभवन् महात्मभ्यो
बहुधा ब्रह्म शाश्वतम् ॥ ह्व्_३२।८ ॥

मूलम्

ते तन्वानास् तनूस् तत्र
ब्रह्मवंशान् अनुत्तमान् ।
तेभ्यो ऽभवन् महात्मभ्यो
बहुधा ब्रह्म शाश्वतम् ॥ ह्व्_३२।८ ॥

विश्वास-प्रस्तुतिः

एतद् आश्चर्यभूतस्य
विष्णोः कर्मानुकीर्तनम् ।
कीर्तितं कीर्तनीयस्य
कीर्त्यमानं निबोध मे ॥ ह्व्_३२।९ ॥

मूलम्

एतद् आश्चर्यभूतस्य
विष्णोः कर्मानुकीर्तनम् ।
कीर्तितं कीर्तनीयस्य
कीर्त्यमानं निबोध मे ॥ ह्व्_३२।९ ॥

विश्वास-प्रस्तुतिः

वृत्ते वृत्रवधे तात
वर्तमाने कृते युगे ।
आसीत् त्रैलोक्यविख्यातः
सङ्ग्रामस् तारकामयः ॥ ह्व्_३२।१० ॥

मूलम्

वृत्ते वृत्रवधे तात
वर्तमाने कृते युगे ।
आसीत् त्रैलोक्यविख्यातः
सङ्ग्रामस् तारकामयः ॥ ह्व्_३२।१० ॥

विश्वास-प्रस्तुतिः

तत्र स्म दानवा घोराः
सर्वे सङ्ग्रामदर्पिताः ।
घ्नन्ति देवान् सगन्धर्वान्
सयक्षोरगचारणान् ॥ ह्व्_३२।११ ॥

मूलम्

तत्र स्म दानवा घोराः
सर्वे सङ्ग्रामदर्पिताः ।
घ्नन्ति देवान् सगन्धर्वान्
सयक्षोरगचारणान् ॥ ह्व्_३२।११ ॥

विश्वास-प्रस्तुतिः

ते वध्यमाना विमुखाः
क्षीणप्रहरणा रणे ।
त्रातारं मनसा जग्मुर्
देवं नारायणं प्रभुम् ॥ ह्व्_३२।१२ ॥

मूलम्

ते वध्यमाना विमुखाः
क्षीणप्रहरणा रणे ।
त्रातारं मनसा जग्मुर्
देवं नारायणं प्रभुम् ॥ ह्व्_३२।१२ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्न् अन्तरे मेघा
निर्वाणाङ्गारवर्चसः ।
सार्कचन्द्रग्रहगणं
छादयन्तो नभस्तलम् ॥ ह्व्_३२।१३ ॥

मूलम्

एतस्मिन्न् अन्तरे मेघा
निर्वाणाङ्गारवर्चसः ।
सार्कचन्द्रग्रहगणं
छादयन्तो नभस्तलम् ॥ ह्व्_३२।१३ ॥

विश्वास-प्रस्तुतिः

चञ्चद्विद्युद्गणाविद्धा
घोरा निह्रादकारिणः ।
अन्योन्यवेगाभिहताः
प्रववुः सप्त मारुताः ॥ ह्व्_३२।१४ ॥

मूलम्

चञ्चद्विद्युद्गणाविद्धा
घोरा निह्रादकारिणः ।
अन्योन्यवेगाभिहताः
प्रववुः सप्त मारुताः ॥ ह्व्_३२।१४ ॥

विश्वास-प्रस्तुतिः

दीप्ततोयाशनीपातैर्
वज्रवेगानलानिलैः ।
ररास घोरैर् उत्पातैर्
दह्यमानम् इवाम्बरम् ॥ ह्व्_३२।१५ ॥

मूलम्

दीप्ततोयाशनीपातैर्
वज्रवेगानलानिलैः ।
ररास घोरैर् उत्पातैर्
दह्यमानम् इवाम्बरम् ॥ ह्व्_३२।१५ ॥

विश्वास-प्रस्तुतिः

पेतुर् उल्कासहस्राणि
पेतुर् आकाशगान्य् अपि ।
न्युब्जानि च विमानानि
प्रपतन्त्य् उत्पतन्ति च ॥ ह्व्_३२।१६ ॥

मूलम्

पेतुर् उल्कासहस्राणि
पेतुर् आकाशगान्य् अपि ।
न्युब्जानि च विमानानि
प्रपतन्त्य् उत्पतन्ति च ॥ ह्व्_३२।१६ ॥

विश्वास-प्रस्तुतिः

चतुर्युगान्तपर्याये
लोकानां यद्भयं भवेत् ।
अरूपवन्ति रूपाणि
तस्मिन्न् उत्पातलक्षणे ॥ ह्व्_३२।१७ ॥

मूलम्

चतुर्युगान्तपर्याये
लोकानां यद्भयं भवेत् ।
अरूपवन्ति रूपाणि
तस्मिन्न् उत्पातलक्षणे ॥ ह्व्_३२।१७ ॥

विश्वास-प्रस्तुतिः

तमसा निष्प्रभं सर्वं
न प्राज्ञायत किञ्चन ।
तिमिरौघपरिक्षिप्ता
न रेजुश् च दिषो दश ॥ ह्व्_३२।१८ ॥

मूलम्

तमसा निष्प्रभं सर्वं
न प्राज्ञायत किञ्चन ।
तिमिरौघपरिक्षिप्ता
न रेजुश् च दिषो दश ॥ ह्व्_३२।१८ ॥

विश्वास-प्रस्तुतिः

विवेश रूपिणी काली
कालमेघावगुण्ठिता ।
द्यौर् न भात्य् अभिभूतार्का
घोरेण तमसा वृता ॥ ह्व्_३२।१९ ॥

मूलम्

विवेश रूपिणी काली
कालमेघावगुण्ठिता ।
द्यौर् न भात्य् अभिभूतार्का
घोरेण तमसा वृता ॥ ह्व्_३२।१९ ॥

विश्वास-प्रस्तुतिः

तान् घनौघान् सतिमिरान्
दोर्भ्यां विक्षिप्य स प्रभुः ।
वपुः सन्दर्शयाम् आस
दिव्यं कृष्णवपुर् हरिः ॥ ह्व्_३२।२० ॥

मूलम्

तान् घनौघान् सतिमिरान्
दोर्भ्यां विक्षिप्य स प्रभुः ।
वपुः सन्दर्शयाम् आस
दिव्यं कृष्णवपुर् हरिः ॥ ह्व्_३२।२० ॥

विश्वास-प्रस्तुतिः

बलाहकाञ्जननिभं
बलाहकतनूरुहम् ।
तेजसा वपुषा चैव
कृष्णं कृष्णम् इवाचलम् ॥ ह्व्_३२।२१ ॥

मूलम्

बलाहकाञ्जननिभं
बलाहकतनूरुहम् ।
तेजसा वपुषा चैव
कृष्णं कृष्णम् इवाचलम् ॥ ह्व्_३२।२१ ॥

विश्वास-प्रस्तुतिः

दीप्तपीताम्बरधरं
तप्तकाञ्चनभूषणम् ।
धूमान्धकारवपुषं
युगान्ताग्निम् इवोत्थितम् ॥ ह्व्_३२।२२ ॥

मूलम्

दीप्तपीताम्बरधरं
तप्तकाञ्चनभूषणम् ।
धूमान्धकारवपुषं
युगान्ताग्निम् इवोत्थितम् ॥ ह्व्_३२।२२ ॥

विश्वास-प्रस्तुतिः

चतुर्द्विगुणपीनांसां
किरीटच्छन्नमूर्धजम् ।
चामीकरकरासक्तम्
आयुधैर् उपशोभितम् ॥ ह्व्_३२।२३ ॥

मूलम्

चतुर्द्विगुणपीनांसां
किरीटच्छन्नमूर्धजम् ।
चामीकरकरासक्तम्
आयुधैर् उपशोभितम् ॥ ह्व्_३२।२३ ॥

विश्वास-प्रस्तुतिः

चन्द्रार्ककिरणोपेतं
गिरिकूटम् इवोच्छ्रितम् ।
नन्दकानन्दितकरं
शराशीविषधारिणम् ॥ ह्व्_३२।२४ ॥

मूलम्

चन्द्रार्ककिरणोपेतं
गिरिकूटम् इवोच्छ्रितम् ।
नन्दकानन्दितकरं
शराशीविषधारिणम् ॥ ह्व्_३२।२४ ॥

विश्वास-प्रस्तुतिः

शक्तिचित्रं हलोदग्रं
शङ्खचक्रगदाधरम् ।
विष्णुशैलं क्षमामूलं
श्रीवृक्षं शार्ङ्गशृङ्गिणम् ॥ ह्व्_३२।२५ ॥

मूलम्

शक्तिचित्रं हलोदग्रं
शङ्खचक्रगदाधरम् ।
विष्णुशैलं क्षमामूलं
श्रीवृक्षं शार्ङ्गशृङ्गिणम् ॥ ह्व्_३२।२५ ॥

विश्वास-प्रस्तुतिः

हर्यश्वरथसंयुक्ते
सुपर्णध्वजशोभिते ।
चन्द्रार्कचक्ररचिते
मन्दराक्षधृतान्तरे ॥ ह्व्_३२।२६ ॥

मूलम्

हर्यश्वरथसंयुक्ते
सुपर्णध्वजशोभिते ।
चन्द्रार्कचक्ररचिते
मन्दराक्षधृतान्तरे ॥ ह्व्_३२।२६ ॥

विश्वास-प्रस्तुतिः

अनन्तरश्मिसंयुक्ते
दुर्दर्शे मेरुकूबरे ।
तारकाचित्रकुसुमे
ग्रहनक्षत्रवन्धुरे ॥ ह्व्_३२।२७ ॥

मूलम्

अनन्तरश्मिसंयुक्ते
दुर्दर्शे मेरुकूबरे ।
तारकाचित्रकुसुमे
ग्रहनक्षत्रवन्धुरे ॥ ह्व्_३२।२७ ॥

विश्वास-प्रस्तुतिः

भयेष्व् अभयदं व्योम्नि
देवा दैत्यपराजिताः ।
ददृशुस् ते स्थितं देवं
दिव्यलोकमये रथे ॥ ह्व्_३२।२८ ॥

मूलम्

भयेष्व् अभयदं व्योम्नि
देवा दैत्यपराजिताः ।
ददृशुस् ते स्थितं देवं
दिव्यलोकमये रथे ॥ ह्व्_३२।२८ ॥

विश्वास-प्रस्तुतिः

ते कृताञ्जलयः सर्वे
देवाः शक्रपुरोगमाः ।
जयशब्दं पुरस्कृत्य
शरण्यं शरणं गताः ॥ ह्व्_३२।२९ ॥

मूलम्

ते कृताञ्जलयः सर्वे
देवाः शक्रपुरोगमाः ।
जयशब्दं पुरस्कृत्य
शरण्यं शरणं गताः ॥ ह्व्_३२।२९ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ स् (एxचेप्त् ग्४ म्३) ins.: :क्])
तुष्टुवुश् च जगन्नाथं
देवं नारायणं हरिम् । ह्व्_३२।२९४८५:१ ।
जय देव जगन्नाथ
जय देव जनार्दन । ह्व्_३२।२९४८५:२ ।
जय देव प्रभो विष्णो
जय शङ्खगदाधर । ह्व्_३२।२९४८५:३ ।
नमस् तुभ्यं हृषीकेश
नमो देव जनार्दन । ह्व्_३२।२९४८५:४ ।
आदिदेव जगन्नाथ
भूतभावनभावन । ह्व्_३२।२९४८५:५ ।
नमस् तुभ्यं प्रभो विष्णो
भूतादिपतये नमः । ह्व्_३२।२९४८५:६ ।
नम आद्याय बीजाय
पुरुषाय नमो नमः । ह्व्_३२।२९४८५:७ ।
नमो ऽस्तु ते जगन्नाथ
नमो भूयो महात्मने । ह्व्_३२।२९४८५:८ ।
किं वानेन जगन्नाथ
नमस्कारेण केशव । ह्व्_३२।२९४८५:९ ।
रक्ष नः सकलान् देवान्
दैत्यपाशविपाशितान् । ह्व्_३२।२९४८५:१० ।
स तेषां तां गिरं श्रुत्वा
विष्णुर् दयितदैवतः ।
मनश् चक्रे विनाशाय
दानवानां महामृधे ॥ ह्व्_३२।३० ॥

मूलम्

([क्: द्६ स् (एxचेप्त् ग्४ म्३) ins.: :क्])
तुष्टुवुश् च जगन्नाथं
देवं नारायणं हरिम् । ह्व्_३२।२९४८५:१ ।
जय देव जगन्नाथ
जय देव जनार्दन । ह्व्_३२।२९४८५:२ ।
जय देव प्रभो विष्णो
जय शङ्खगदाधर । ह्व्_३२।२९४८५:३ ।
नमस् तुभ्यं हृषीकेश
नमो देव जनार्दन । ह्व्_३२।२९४८५:४ ।
आदिदेव जगन्नाथ
भूतभावनभावन । ह्व्_३२।२९४८५:५ ।
नमस् तुभ्यं प्रभो विष्णो
भूतादिपतये नमः । ह्व्_३२।२९४८५:६ ।
नम आद्याय बीजाय
पुरुषाय नमो नमः । ह्व्_३२।२९४८५:७ ।
नमो ऽस्तु ते जगन्नाथ
नमो भूयो महात्मने । ह्व्_३२।२९४८५:८ ।
किं वानेन जगन्नाथ
नमस्कारेण केशव । ह्व्_३२।२९४८५:९ ।
रक्ष नः सकलान् देवान्
दैत्यपाशविपाशितान् । ह्व्_३२।२९४८५:१० ।
स तेषां तां गिरं श्रुत्वा
विष्णुर् दयितदैवतः ।
मनश् चक्रे विनाशाय
दानवानां महामृधे ॥ ह्व्_३२।३० ॥

विश्वास-प्रस्तुतिः

आकाशे तु स्थितो विष्णुर्
उत्तमं वपुर् आस्थितः ।
उवाच देवताः सर्वाः
सप्रतिज्ञम् इदं वचः ॥ ह्व्_३२।३१ ॥

मूलम्

आकाशे तु स्थितो विष्णुर्
उत्तमं वपुर् आस्थितः ।
उवाच देवताः सर्वाः
सप्रतिज्ञम् इदं वचः ॥ ह्व्_३२।३१ ॥

विश्वास-प्रस्तुतिः

शान्तिं व्रजत भद्रं वो
मा भैष्ट मरुतां गणाः ।
जिता मे दानवाः सर्वे
त्रैलोक्यं प्रतिगृह्यताम् ॥ ह्व्_३२।३२ ॥

मूलम्

शान्तिं व्रजत भद्रं वो
मा भैष्ट मरुतां गणाः ।
जिता मे दानवाः सर्वे
त्रैलोक्यं प्रतिगृह्यताम् ॥ ह्व्_३२।३२ ॥

विश्वास-प्रस्तुतिः

ते तस्य सत्यसन्धस्य
विष्णोर् वाक्येन तोषिताः ।
देवाः प्रीतिं परां जग्मुः
प्राप्येवामृतम् उत्तमम् ॥ ह्व्_३२।३३ ॥

मूलम्

ते तस्य सत्यसन्धस्य
विष्णोर् वाक्येन तोषिताः ।
देवाः प्रीतिं परां जग्मुः
प्राप्येवामृतम् उत्तमम् ॥ ह्व्_३२।३३ ॥

विश्वास-प्रस्तुतिः

ततस् तमः संह्रियते
विनेशुश् च बलाहकाः ।
प्रववुश् च शिवा वाताः
प्रसन्नाश् च दिशो दश ॥ ह्व्_३२।३४ ॥

मूलम्

ततस् तमः संह्रियते
विनेशुश् च बलाहकाः ।
प्रववुश् च शिवा वाताः
प्रसन्नाश् च दिशो दश ॥ ह्व्_३२।३४ ॥

विश्वास-प्रस्तुतिः

सुप्रभाणि च ज्योतिंषि
चन्द्रं चक्रुः प्रदक्षिणम् ।
दीप्तिमन्ति च तेजांसि
चक्रुर् अर्कं प्रदक्षिणम् ॥ ह्व्_३२।३५ ॥

मूलम्

सुप्रभाणि च ज्योतिंषि
चन्द्रं चक्रुः प्रदक्षिणम् ।
दीप्तिमन्ति च तेजांसि
चक्रुर् अर्कं प्रदक्षिणम् ॥ ह्व्_३२।३५ ॥

विश्वास-प्रस्तुतिः

न विग्रहं ग्रहाश् चक्रुः
प्रसेदुश् चापि सिन्धवः ।
विरजस्का बभुर् मार्गा
नाकमार्गादयस् त्रयः ॥ ह्व्_३२।३६ ॥

मूलम्

न विग्रहं ग्रहाश् चक्रुः
प्रसेदुश् चापि सिन्धवः ।
विरजस्का बभुर् मार्गा
नाकमार्गादयस् त्रयः ॥ ह्व्_३२।३६ ॥

विश्वास-प्रस्तुतिः

यथार्थम् ऊहुः सरितो
नापि चुक्षुभिरे ऽर्णवाः ।
आसञ् शुभानीन्द्रियाणि
नराणाम् अन्तरात्मसु ॥ ह्व्_३२।३७ ॥

मूलम्

यथार्थम् ऊहुः सरितो
नापि चुक्षुभिरे ऽर्णवाः ।
आसञ् शुभानीन्द्रियाणि
नराणाम् अन्तरात्मसु ॥ ह्व्_३२।३७ ॥

विश्वास-प्रस्तुतिः

महर्षयो वीतशोका
वेदानुच्चैर् अधीयिरे ।
यज्ञेषु च हविः स्वादु
शिवम् आप च पावकः ॥ ह्व्_३२।३८ ॥

मूलम्

महर्षयो वीतशोका
वेदानुच्चैर् अधीयिरे ।
यज्ञेषु च हविः स्वादु
शिवम् आप च पावकः ॥ ह्व्_३२।३८ ॥

विश्वास-प्रस्तुतिः

प्रवृत्तधर्माः संवृत्ता
लोका मुदितमानसाः ।
([क्: व्२ ins.: :क्])
सर्वे लोका मुदान्विताः । ह्व्_३२।३९अ४८६:१ ।*
बभूवुर् अधिकाश् चैव । ह्व्_३२।३९अ४८६:२ ।*
([क्: क्१ Ñ२ व्२ द्५ ins.: :क्])
प्रीत्या परमया युक्ता
देवदेवस्य भूपतेः । ह्व्_३२।३९४८७ ।
विष्णोर् दत्तप्रतिज्ञस्य
श्रुत्वारिनिधने गिरम् ॥ ह्व्_३२।३९ ॥

मूलम्

प्रवृत्तधर्माः संवृत्ता
लोका मुदितमानसाः ।
([क्: व्२ ins.: :क्])
सर्वे लोका मुदान्विताः । ह्व्_३२।३९अ४८६:१ ।*
बभूवुर् अधिकाश् चैव । ह्व्_३२।३९अ४८६:२ ।*
([क्: क्१ Ñ२ व्२ द्५ ins.: :क्])
प्रीत्या परमया युक्ता
देवदेवस्य भूपतेः । ह्व्_३२।३९४८७ ।
विष्णोर् दत्तप्रतिज्ञस्य
श्रुत्वारिनिधने गिरम् ॥ ह्व्_३२।३९ ॥

([क्: द्६ त्१।२।४ ग् ins.: :क्]) निहन्मि दानवान्दृप्तान् युष्माकं विग्रहैः सह । *ह्व्_३२।३९*४८८ ।

([क्: त्३ ins.: :क्])
गिरं ते दानवान् उग्रान्
मेनिरे निहतान् युधि । ह्व्_३२।३९४८९ ।
[चोलोफोन्]