विश्वास-प्रस्तुतिः
{जनमेजय उवाच}
विस्तरेणैव सर्वाणि
कर्माणि रिपुघातिनः ।
श्रोतुम् इच्छाम्य् अशेषेण
हरेः कृष्णस्य धीमतः ॥ ह्व्_३०।१ ॥
मूलम्
{जनमेजय उवाच}
विस्तरेणैव सर्वाणि
कर्माणि रिपुघातिनः ।
श्रोतुम् इच्छाम्य् अशेषेण
हरेः कृष्णस्य धीमतः ॥ ह्व्_३०।१ ॥
विश्वास-प्रस्तुतिः
([क्: after the रेफ़्।, न् (एxचेप्त् श्१) त्१।३।४ ins.: :क्])
प्रादुर्भावः पुराणेषु
विष्णोर् अमिततेजसः । ह्व्_३०।१४४९:१ ।
सतां कथयतां एव
वाराह इति नः श्रुतम् । ह्व्_३०।१४४९:२ ।
न जाने तस्य चरितं
विधिं नैव च विस्तरम् । ह्व्_३०।१४४९:३ ।
न कर्मगुणसन्तानं
न हेतुं न मनीषितम् । ह्व्_३०।१४४९:४ ।
किमात्मको वराहः स
का मूर्तिः का च देवता । ह्व्_३०।१४४९:५ ।
किमाचारः प्रभावो वा
किं वा तेन पुरा कृतम् । ह्व्_३०।१४४९:६ ।
यज्ञार्थं समवेतानां
मिषतां च द्विजन्मनाम् । ह्व्_३०।१४४९:७ ।
महावराहचरितं
कृष्णद्वैपायनेरितम् । ह्व्_३०।१४४९:८ ।
यथा नारायणो ब्रह्मन्
वाराहं रूपम् आस्थितः । ह्व्_३०।१४४९:९ ।
दंष्ट्रया गां समुद्रस्थां
उज्जहारारिसूदनः । ह्व्_३०।१४४९:१० ।
कर्मणाम् आनुपूर्व्या च
प्रादुर्भावाश् च ये विभोः ।
या चास्य प्रकृतिर् ब्रह्मंस्
तां च व्याख्यातुम् अर्हसि ॥ ह्व्_३०।२ ॥
मूलम्
([क्: after the रेफ़्।, न् (एxचेप्त् श्१) त्१।३।४ ins.: :क्])
प्रादुर्भावः पुराणेषु
विष्णोर् अमिततेजसः । ह्व्_३०।१४४९:१ ।
सतां कथयतां एव
वाराह इति नः श्रुतम् । ह्व्_३०।१४४९:२ ।
न जाने तस्य चरितं
विधिं नैव च विस्तरम् । ह्व्_३०।१४४९:३ ।
न कर्मगुणसन्तानं
न हेतुं न मनीषितम् । ह्व्_३०।१४४९:४ ।
किमात्मको वराहः स
का मूर्तिः का च देवता । ह्व्_३०।१४४९:५ ।
किमाचारः प्रभावो वा
किं वा तेन पुरा कृतम् । ह्व्_३०।१४४९:६ ।
यज्ञार्थं समवेतानां
मिषतां च द्विजन्मनाम् । ह्व्_३०।१४४९:७ ।
महावराहचरितं
कृष्णद्वैपायनेरितम् । ह्व्_३०।१४४९:८ ।
यथा नारायणो ब्रह्मन्
वाराहं रूपम् आस्थितः । ह्व्_३०।१४४९:९ ।
दंष्ट्रया गां समुद्रस्थां
उज्जहारारिसूदनः । ह्व्_३०।१४४९:१० ।
कर्मणाम् आनुपूर्व्या च
प्रादुर्भावाश् च ये विभोः ।
या चास्य प्रकृतिर् ब्रह्मंस्
तां च व्याख्यातुम् अर्हसि ॥ ह्व्_३०।२ ॥
विश्वास-प्रस्तुतिः
कथं च भगवान् विष्णुः
सुरेशो ऽरिनिषूदनः ।
वसुदेवकुले धीमान्
वासुदेवत्वम् आगतः ॥ ह्व्_३०।३ ॥
मूलम्
कथं च भगवान् विष्णुः
सुरेशो ऽरिनिषूदनः ।
वसुदेवकुले धीमान्
वासुदेवत्वम् आगतः ॥ ह्व्_३०।३ ॥
विश्वास-प्रस्तुतिः
अमरैर् आवृतं पुण्यं
पुण्यकृद्भिर् अलङ्कृतम् ।
देवलोकं समुत्सृज्य
मर्त्यलोकम् इहागतः ॥ ह्व्_३०।४ ॥
मूलम्
अमरैर् आवृतं पुण्यं
पुण्यकृद्भिर् अलङ्कृतम् ।
देवलोकं समुत्सृज्य
मर्त्यलोकम् इहागतः ॥ ह्व्_३०।४ ॥
विश्वास-प्रस्तुतिः
देवमानुषयोर् नेता
द्योर् भुवः प्रभवो विभुः ।
किमर्थं दिव्व्यम् आत्मानं
मानुष्ये सन्न्ययोजयत् ॥ ह्व्_३०।५ ॥
मूलम्
देवमानुषयोर् नेता
द्योर् भुवः प्रभवो विभुः ।
किमर्थं दिव्व्यम् आत्मानं
मानुष्ये सन्न्ययोजयत् ॥ ह्व्_३०।५ ॥
विश्वास-प्रस्तुतिः
यश् चक्रं वर्तयत्य् एको
मानुषाणाम् अनामयम् ।
मानुष्ये स कथं बुद्धिं
चक्रे चक्रभृतां वरः ॥ ह्व्_३०।६ ॥
मूलम्
यश् चक्रं वर्तयत्य् एको
मानुषाणाम् अनामयम् ।
मानुष्ये स कथं बुद्धिं
चक्रे चक्रभृतां वरः ॥ ह्व्_३०।६ ॥
विश्वास-प्रस्तुतिः
गोपायनं यः कुरुते
जगतः सार्वलौकिकम् ।
स कथं गां गतो विष्णुर्
गोपत्वम् अगमद् विभुः ॥ ह्व्_३०।७ ॥
मूलम्
गोपायनं यः कुरुते
जगतः सार्वलौकिकम् ।
स कथं गां गतो विष्णुर्
गोपत्वम् अगमद् विभुः ॥ ह्व्_३०।७ ॥
विश्वास-प्रस्तुतिः
महाभूतानि भूतात्मा
यो दधार चकार च ।
श्रीगर्भः स कथं गर्भे
स्त्रिया भूचरया धृतः ॥ ह्व्_३०।८ ॥
मूलम्
महाभूतानि भूतात्मा
यो दधार चकार च ।
श्रीगर्भः स कथं गर्भे
स्त्रिया भूचरया धृतः ॥ ह्व्_३०।८ ॥
विश्वास-प्रस्तुतिः
येन लोकान् क्रमैर् जित्वा
त्रिभिस् त्रींस् त्रिदशेप्सया ।
स्थापिता जगतो मार्गास्
त्रिवर्गप्रभवास् त्रयः ॥ ह्व्_३०।९ ॥
मूलम्
येन लोकान् क्रमैर् जित्वा
त्रिभिस् त्रींस् त्रिदशेप्सया ।
स्थापिता जगतो मार्गास्
त्रिवर्गप्रभवास् त्रयः ॥ ह्व्_३०।९ ॥
विश्वास-प्रस्तुतिः
यो ऽन्तकाले जगत् पीत्वा
कृत्वा तोयमयं वपुः ।
लोकम् एकार्णवं चक्रे
दृश्यादृश्येन वर्त्मना ॥ ह्व्_३०।१० ॥
मूलम्
यो ऽन्तकाले जगत् पीत्वा
कृत्वा तोयमयं वपुः ।
लोकम् एकार्णवं चक्रे
दृश्यादृश्येन वर्त्मना ॥ ह्व्_३०।१० ॥
विश्वास-प्रस्तुतिः
यः पुराणे पुराणात्मा
वाराहं वपुर् आस्थितः ।
विषाणाग्रेण वसुधाम्
उज्जहारारिसूदनः ॥ ह्व्_३०।११ ॥
मूलम्
यः पुराणे पुराणात्मा
वाराहं वपुर् आस्थितः ।
विषाणाग्रेण वसुधाम्
उज्जहारारिसूदनः ॥ ह्व्_३०।११ ॥
विश्वास-प्रस्तुतिः
यः पुरा पुरुहूतार्थे
त्रैलोक्यम् इदम् अव्ययम् ।
ददौ जित्वा वसुमतीं
सुराणां सुरसत्तमः ॥ ह्व्_३०।१२ ॥
मूलम्
यः पुरा पुरुहूतार्थे
त्रैलोक्यम् इदम् अव्ययम् ।
ददौ जित्वा वसुमतीं
सुराणां सुरसत्तमः ॥ ह्व्_३०।१२ ॥
विश्वास-प्रस्तुतिः
येन सैंहं वपुः कृत्वा
द्विधा कृत्वा च तत् पुनः ।
पूर्वदैत्यो महावीर्यो
हिरण्यकशिपुर् हतः ॥ ह्व्_३०।१३ ॥
मूलम्
येन सैंहं वपुः कृत्वा
द्विधा कृत्वा च तत् पुनः ।
पूर्वदैत्यो महावीर्यो
हिरण्यकशिपुर् हतः ॥ ह्व्_३०।१३ ॥
विश्वास-प्रस्तुतिः
यः पुरा ह्य् अनलो भूत्वा
और्वः संवर्तको विभुः ।
पातालस्थो ऽर्णवगतं
पपौ तोयमयं हविः ॥ ह्व्_३०।१४ ॥
मूलम्
यः पुरा ह्य् अनलो भूत्वा
और्वः संवर्तको विभुः ।
पातालस्थो ऽर्णवगतं
पपौ तोयमयं हविः ॥ ह्व्_३०।१४ ॥
विश्वास-प्रस्तुतिः
सहस्रचरणं ब्रह्मन्
सहस्रांशुं सहस्रशः ।
सहस्रशिरसं देवं
यम् आहुर् वै युगे युगे ॥ ह्व्_३०।१५ ॥
मूलम्
सहस्रचरणं ब्रह्मन्
सहस्रांशुं सहस्रशः ।
सहस्रशिरसं देवं
यम् आहुर् वै युगे युगे ॥ ह्व्_३०।१५ ॥
विश्वास-प्रस्तुतिः
नाभ्यरण्यां समुत्पन्नं
यस्य पैतामहं गृहम् ।
एकार्णवगते लोके
तत् पङ्कजम् अपङ्कजम् ॥ ह्व्_३०।१६ ॥
मूलम्
नाभ्यरण्यां समुत्पन्नं
यस्य पैतामहं गृहम् ।
एकार्णवगते लोके
तत् पङ्कजम् अपङ्कजम् ॥ ह्व्_३०।१६ ॥
विश्वास-प्रस्तुतिः
येन ते निहता दैत्याः
सङ्ग्रामे तारकामये ।
सर्वदेवमयं कृत्वा
सर्वायुधधरं वपुः ॥
मूलम्
येन ते निहता दैत्याः
सङ्ग्रामे तारकामये ।
सर्वदेवमयं कृत्वा
सर्वायुधधरं वपुः ॥
विश्वास-प्रस्तुतिः
गरुडस्थेन चोत्सिक्तः
कालनेमिर् निपातितः ॥ ह्व्_३०।१७ ॥
मूलम्
गरुडस्थेन चोत्सिक्तः
कालनेमिर् निपातितः ॥ ह्व्_३०।१७ ॥
विश्वास-प्रस्तुतिः
([क्: क्२।३ Ñ२।३ व् ब् द्न् द्स् द्२।४ ins.: :क्])
निर्जितश् च महादैत्यस्
तारकश् च महासुरः । ह्व्_३०।१७४५० ।
उत्तरान्ते समुद्रस्य
क्षीरोदस्यामृतोदधेः ।
यः शेते शाश्वतं योगम्
आस्थाय तिमिरं महत् ॥ ह्व्_३०।१८ ॥
मूलम्
([क्: क्२।३ Ñ२।३ व् ब् द्न् द्स् द्२।४ ins.: :क्])
निर्जितश् च महादैत्यस्
तारकश् च महासुरः । ह्व्_३०।१७४५० ।
उत्तरान्ते समुद्रस्य
क्षीरोदस्यामृतोदधेः ।
यः शेते शाश्वतं योगम्
आस्थाय तिमिरं महत् ॥ ह्व्_३०।१८ ॥
विश्वास-प्रस्तुतिः
सुरारणिर् गर्भम् अधत्त दिव्यं
तपःप्रकर्षाद् अदितिः पुराणम् ।
शक्रं च यो दैत्यगणावरुद्धं
गर्भावसाने नकृशं चकार ॥ ह्व्_३०।१९ ॥
मूलम्
सुरारणिर् गर्भम् अधत्त दिव्यं
तपःप्रकर्षाद् अदितिः पुराणम् ।
शक्रं च यो दैत्यगणावरुद्धं
गर्भावसाने नकृशं चकार ॥ ह्व्_३०।१९ ॥
विश्वास-प्रस्तुतिः
पदानि यो लोकपदानि कृत्वा
चकार दैत्यान् सलिलाशयस्थान् ।
कृत्वा च देवांस् त्रिदिवस्य देवांश्
चक्रे सुरेशं पुरुहूतम् एव ॥ ह्व्_३०।२० ॥
मूलम्
पदानि यो लोकपदानि कृत्वा
चकार दैत्यान् सलिलाशयस्थान् ।
कृत्वा च देवांस् त्रिदिवस्य देवांश्
चक्रे सुरेशं पुरुहूतम् एव ॥ ह्व्_३०।२० ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१) त् ग्१।३।४ (ग्५ after २१) ins.: :क्])
पात्राणि दक्षिणा दीक्षा
चमसोलूखलानि च । ह्व्_३०।२०४५१ ।
गार्हपत्येन विधिना
अन्वाहार्येण कर्मणा ।
अग्निम् आहवनीयं च
वेदीं चैव कुशान् स्रुवम् ॥ ह्व्_३०।२१ ॥
मूलम्
([क्: न् (एxचेप्त् श्१) त् ग्१।३।४ (ग्५ after २१) ins.: :क्])
पात्राणि दक्षिणा दीक्षा
चमसोलूखलानि च । ह्व्_३०।२०४५१ ।
गार्हपत्येन विधिना
अन्वाहार्येण कर्मणा ।
अग्निम् आहवनीयं च
वेदीं चैव कुशान् स्रुवम् ॥ ह्व्_३०।२१ ॥
विश्वास-प्रस्तुतिः
प्रोक्षणीयं ध्रुवां चैव
आवभृथ्यं तथैव च ।
अरांस् त्रीणि च यश् चक्रे
हव्यकव्यप्रदान् मखे ॥ ह्व्_३०।२२ ॥
मूलम्
प्रोक्षणीयं ध्रुवां चैव
आवभृथ्यं तथैव च ।
अरांस् त्रीणि च यश् चक्रे
हव्यकव्यप्रदान् मखे ॥ ह्व्_३०।२२ ॥
विश्वास-प्रस्तुतिः
हव्यादांश् च सुरांश् चक्रे
कव्यादांश् च पितॄन् अपि ।
भागार्थे यज्ञविधिना
योगज्ञो यज्ञकर्मणि ॥ ह्व्_३०।२३ ॥
मूलम्
हव्यादांश् च सुरांश् चक्रे
कव्यादांश् च पितॄन् अपि ।
भागार्थे यज्ञविधिना
योगज्ञो यज्ञकर्मणि ॥ ह्व्_३०।२३ ॥
विश्वास-प्रस्तुतिः
यूपान् समित् स्रुचं सोमं
पवित्रं परिधीन् अपि ।
यज्ञियानि च द्रव्याणि
यज्ञांश् च चयनानलान् ॥
मूलम्
यूपान् समित् स्रुचं सोमं
पवित्रं परिधीन् अपि ।
यज्ञियानि च द्रव्याणि
यज्ञांश् च चयनानलान् ॥
विश्वास-प्रस्तुतिः
सदस्यान्य् अजमानांश् च
मेधादींश् च क्रतूत्तमान् ॥ ह्व्_३०।२४ ॥
मूलम्
सदस्यान्य् अजमानांश् च
मेधादींश् च क्रतूत्तमान् ॥ ह्व्_३०।२४ ॥
विश्वास-प्रस्तुतिः
विबभाज पुरा यश् च
पारमेष्ठ्येन कर्मणा ।
युगानुरूपं यः कृत्वा
लोकान् अनु परिक्रमन् ॥ ह्व्_३०।२५ ॥
मूलम्
विबभाज पुरा यश् च
पारमेष्ठ्येन कर्मणा ।
युगानुरूपं यः कृत्वा
लोकान् अनु परिक्रमन् ॥ ह्व्_३०।२५ ॥
विश्वास-प्रस्तुतिः
क्षणा निमेषाः काष्ठाश् च
कलास् त्रैकाल्यम् एव च ।
मुहूर्तास् तिथयो मासा
दिनसंवत्सरास् तथा ॥ ह्व्_३०।२६ ॥
मूलम्
क्षणा निमेषाः काष्ठाश् च
कलास् त्रैकाल्यम् एव च ।
मुहूर्तास् तिथयो मासा
दिनसंवत्सरास् तथा ॥ ह्व्_३०।२६ ॥
विश्वास-प्रस्तुतिः
ऋतवः कालयोगाश् च
प्रमाणं विविधं नृषु ।
आयुः क्षेत्राण्य् उपचयो
लक्षणं रूपसौष्ठवम् ॥ ह्व्_३०।२७ ॥
मूलम्
ऋतवः कालयोगाश् च
प्रमाणं विविधं नृषु ।
आयुः क्षेत्राण्य् उपचयो
लक्षणं रूपसौष्ठवम् ॥ ह्व्_३०।२७ ॥
विश्वास-प्रस्तुतिः
त्रयो वर्णास् त्रयो लोकास्
त्रैविद्यं पावकास् त्रयः ।
त्रैकाल्यं त्रीणि कर्माणि
त्रयो ऽपायास् त्रयो गुणाः ॥
मूलम्
त्रयो वर्णास् त्रयो लोकास्
त्रैविद्यं पावकास् त्रयः ।
त्रैकाल्यं त्रीणि कर्माणि
त्रयो ऽपायास् त्रयो गुणाः ॥
विश्वास-प्रस्तुतिः
सृष्टा लोकास् त्रयो ऽनन्ता
येनानन्त्येन वर्त्मना ॥ ह्व्_३०।२८ ॥
मूलम्
सृष्टा लोकास् त्रयो ऽनन्ता
येनानन्त्येन वर्त्मना ॥ ह्व्_३०।२८ ॥
विश्वास-प्रस्तुतिः
सर्वभूतगुणस्रष्टा
सर्वभूतगुणात्मकः ।
नृणाम् इन्द्रियपूर्वेण
योगेन रमते च यः ॥
मूलम्
सर्वभूतगुणस्रष्टा
सर्वभूतगुणात्मकः ।
नृणाम् इन्द्रियपूर्वेण
योगेन रमते च यः ॥
विश्वास-प्रस्तुतिः
गतागताभ्यां यो नेता
तत्रेह च विधीश्वरः ॥ ह्व्_३०।२९ ॥
मूलम्
गतागताभ्यां यो नेता
तत्रेह च विधीश्वरः ॥ ह्व्_३०।२९ ॥
विश्वास-प्रस्तुतिः
यो गतिर् धर्मयुक्तानाम्
अगतिः पापकर्मणाम् ।
चातुर्वर्ण्यस्य प्रभवश्
चातुर्वर्ण्यस्य रक्षिता ॥ ह्व्_३०।३० ॥
मूलम्
यो गतिर् धर्मयुक्तानाम्
अगतिः पापकर्मणाम् ।
चातुर्वर्ण्यस्य प्रभवश्
चातुर्वर्ण्यस्य रक्षिता ॥ ह्व्_३०।३० ॥
विश्वास-प्रस्तुतिः
चातुर्विद्यस्य यो वेत्ता
चातुराश्रम्यसंश्रयः ।
दिगन्तरो नभोभूतो
वायुर् वायुविभावनः ॥ ह्व्_३०।३१ ॥
मूलम्
चातुर्विद्यस्य यो वेत्ता
चातुराश्रम्यसंश्रयः ।
दिगन्तरो नभोभूतो
वायुर् वायुविभावनः ॥ ह्व्_३०।३१ ॥
विश्वास-प्रस्तुतिः
चन्द्रसूर्यद्वयं ज्योतिर्
योगीशः क्षणदातनुः ।
यः परं श्रूयते ज्योतिर्
यः परं श्रूयते तपः ॥ ह्व्_३०।३२ ॥
मूलम्
चन्द्रसूर्यद्वयं ज्योतिर्
योगीशः क्षणदातनुः ।
यः परं श्रूयते ज्योतिर्
यः परं श्रूयते तपः ॥ ह्व्_३०।३२ ॥
विश्वास-प्रस्तुतिः
यः परं प्राह परतः
परं यः परमात्मवान् ।
([क्: Ñ२ व्२।३ ब् द्न् द्स् द्३।४।६ ins.: :क्])
नारायणपरा वेदा
नारायणपराः क्रियाः । ह्व्_३०।३३४५२:१ ।
नारायणपरो धर्मो
नारायणपरा गतिः । ह्व्_३०।३३४५२:२ ।
नारायणपरं सत्यं
नारायणपरं तपः । ह्व्_३०।३३४५२:३ ।
नारायणपरो मोक्षो
नारायणपरं परम् । ह्व्_३०।३३४५२:४ ।
आदित्यादिस् तु यो दिव्यो
यश् च दैत्यान्तको विभुः ॥ ह्व्_३०।३३ ॥
मूलम्
यः परं प्राह परतः
परं यः परमात्मवान् ।
([क्: Ñ२ व्२।३ ब् द्न् द्स् द्३।४।६ ins.: :क्])
नारायणपरा वेदा
नारायणपराः क्रियाः । ह्व्_३०।३३४५२:१ ।
नारायणपरो धर्मो
नारायणपरा गतिः । ह्व्_३०।३३४५२:२ ।
नारायणपरं सत्यं
नारायणपरं तपः । ह्व्_३०।३३४५२:३ ।
नारायणपरो मोक्षो
नारायणपरं परम् । ह्व्_३०।३३४५२:४ ।
आदित्यादिस् तु यो दिव्यो
यश् च दैत्यान्तको विभुः ॥ ह्व्_३०।३३ ॥
विश्वास-प्रस्तुतिः
युगान्तेष्व् अन्तको यश् च
यश् च लोकान्तकान्तकः ।
सेतुर् यो लोकसेतूनां
मेध्यो यो मेध्यकर्मणाम् ॥ ह्व्_३०।३४ ॥
मूलम्
युगान्तेष्व् अन्तको यश् च
यश् च लोकान्तकान्तकः ।
सेतुर् यो लोकसेतूनां
मेध्यो यो मेध्यकर्मणाम् ॥ ह्व्_३०।३४ ॥
विश्वास-प्रस्तुतिः
वेद्यो यो वेदविदुषां
प्रभुर् यः प्रभवात्मनाम् ।
सोमभूतश् च भूतानाम्
अग्निभूतो ऽग्निवर्चसाम् ॥ ह्व्_३०।३५ ॥
मूलम्
वेद्यो यो वेदविदुषां
प्रभुर् यः प्रभवात्मनाम् ।
सोमभूतश् च भूतानाम्
अग्निभूतो ऽग्निवर्चसाम् ॥ ह्व्_३०।३५ ॥
विश्वास-प्रस्तुतिः
मनुष्याणां मनोभूतस्
तपोभूतस् तपस्विनाम् ।
विनयो नयवृत्तानां
तेजस् तेजस्विनाम् अपि ॥ ह्व्_३०।३६ ॥
मूलम्
मनुष्याणां मनोभूतस्
तपोभूतस् तपस्विनाम् ।
विनयो नयवृत्तानां
तेजस् तेजस्विनाम् अपि ॥ ह्व्_३०।३६ ॥
विश्वास-प्रस्तुतिः
सर्गकारश् च सर्गाणां
लोकहेतुर् अनुत्तमः ।
विग्रहो विग्रहार्हाणां
गतिर् गतिमताम् अपि ॥ ह्व्_३०।३७ ॥
मूलम्
सर्गकारश् च सर्गाणां
लोकहेतुर् अनुत्तमः ।
विग्रहो विग्रहार्हाणां
गतिर् गतिमताम् अपि ॥ ह्व्_३०।३७ ॥
विश्वास-प्रस्तुतिः
आकाशप्रभवो वायुर्
वायुप्राणो हुताशनः ।
देवा हुताशनप्राणाः
प्राणो ऽग्नेर् मधुसूदनः ॥ ह्व्_३०।३८ ॥
मूलम्
आकाशप्रभवो वायुर्
वायुप्राणो हुताशनः ।
देवा हुताशनप्राणाः
प्राणो ऽग्नेर् मधुसूदनः ॥ ह्व्_३०।३८ ॥
विश्वास-प्रस्तुतिः
रसाद् वै शोणितं भवति
शोणितान् मांसम् उच्यते ।
मांसात् तु मेदसो जन्म
मेदसो ऽस्थि निरुच्यते ॥ ह्व्_३०।३९ ॥
मूलम्
रसाद् वै शोणितं भवति
शोणितान् मांसम् उच्यते ।
मांसात् तु मेदसो जन्म
मेदसो ऽस्थि निरुच्यते ॥ ह्व्_३०।३९ ॥
विश्वास-प्रस्तुतिः
अस्थ्नो मज्जा समभवन्
मज्जायाः शुक्रसम्भवः ।
शुक्राद् नर्भः समभवद्
रसमूलेन कर्मणा ॥ ह्व्_३०।४० ॥
मूलम्
अस्थ्नो मज्जा समभवन्
मज्जायाः शुक्रसम्भवः ।
शुक्राद् नर्भः समभवद्
रसमूलेन कर्मणा ॥ ह्व्_३०।४० ॥
विश्वास-प्रस्तुतिः
तत्रापां प्रथमो भागः
स सौम्यो राशिर् उच्यते ।
गर्भोष्मसम्भवो ज्ञेयो
द्वितीयो राशिर् उच्यते ॥ ह्व्_३०।४१ ॥
मूलम्
तत्रापां प्रथमो भागः
स सौम्यो राशिर् उच्यते ।
गर्भोष्मसम्भवो ज्ञेयो
द्वितीयो राशिर् उच्यते ॥ ह्व्_३०।४१ ॥
विश्वास-प्रस्तुतिः
शुक्रं सोमात्मकं विद्याद्
आर्तवं पावकात्मकम् ।
भावौ रसानुगाव् एतौ
वीर्यं च शशिपावकौ ॥ ह्व्_३०।४२ ॥
मूलम्
शुक्रं सोमात्मकं विद्याद्
आर्तवं पावकात्मकम् ।
भावौ रसानुगाव् एतौ
वीर्यं च शशिपावकौ ॥ ह्व्_३०।४२ ॥
विश्वास-प्रस्तुतिः
कफवर्गे भवेच् छुक्रं
पित्तवर्गे च शोणितम् ।
कफस्य हृदयं स्थानं
नाभ्यां पित्तं प्रतिष्ठितम् ॥ ह्व्_३०।४३ ॥
मूलम्
कफवर्गे भवेच् छुक्रं
पित्तवर्गे च शोणितम् ।
कफस्य हृदयं स्थानं
नाभ्यां पित्तं प्रतिष्ठितम् ॥ ह्व्_३०।४३ ॥
विश्वास-प्रस्तुतिः
देहस्य मध्ये हृदयं
स्थानं तु मनसः स्मृतम् ।
नाभिकण्ठान्तरस्थस् तु
तत्र देवो हुताशनः ॥ ह्व्_३०।४४ ॥
मूलम्
देहस्य मध्ये हृदयं
स्थानं तु मनसः स्मृतम् ।
नाभिकण्ठान्तरस्थस् तु
तत्र देवो हुताशनः ॥ ह्व्_३०।४४ ॥
विश्वास-प्रस्तुतिः
मनः प्रजापतिर् ज्ञेयः
कफः सोमो विभाव्यते ।
पित्तम् अग्निः स्मृतस् त्व् एवम्
अग्नीषोममयं जगत् ॥ ह्व्_३०।४५ ॥
मूलम्
मनः प्रजापतिर् ज्ञेयः
कफः सोमो विभाव्यते ।
पित्तम् अग्निः स्मृतस् त्व् एवम्
अग्नीषोममयं जगत् ॥ ह्व्_३०।४५ ॥
विश्वास-प्रस्तुतिः
एवं प्रवर्तिते गर्भे
वर्तिते ऽर्बुदसन्निभे ।
वायुः प्रवेशनं चक्रे
सङ्गतः परमात्मना ॥ ह्व्_३०।४६ ॥
मूलम्
एवं प्रवर्तिते गर्भे
वर्तिते ऽर्बुदसन्निभे ।
वायुः प्रवेशनं चक्रे
सङ्गतः परमात्मना ॥ ह्व्_३०।४६ ॥
विश्वास-प्रस्तुतिः
([क्: after ४६, क्२-६ Ñ व् ब्१।२ द्न् द्स् द्१-४।५ (मर्ग्।) त् ग्१।३-५ ins.: :क्])
ततो ऽङ्गानि विसृजति
बिभर्ति परिवर्तयन् । ह्व्_३०।४६४५३ ।
स पञ्चधा शरीरस्थो
भिद्यते वर्धते पुनः ।
प्राणापानौ समानश् च
उदानो व्यान एव च ॥ ह्व्_३०।४७ ॥
मूलम्
([क्: after ४६, क्२-६ Ñ व् ब्१।२ द्न् द्स् द्१-४।५ (मर्ग्।) त् ग्१।३-५ ins.: :क्])
ततो ऽङ्गानि विसृजति
बिभर्ति परिवर्तयन् । ह्व्_३०।४६४५३ ।
स पञ्चधा शरीरस्थो
भिद्यते वर्धते पुनः ।
प्राणापानौ समानश् च
उदानो व्यान एव च ॥ ह्व्_३०।४७ ॥
विश्वास-प्रस्तुतिः
प्राणो ऽस्य प्रथमं स्थानं
वर्धयन् परिवर्तते ।
अपानः पश्चिमं कायम्
उदानोर्ध्वं शरीरिणः ॥ ह्व्_३०।४८ ॥
मूलम्
प्राणो ऽस्य प्रथमं स्थानं
वर्धयन् परिवर्तते ।
अपानः पश्चिमं कायम्
उदानोर्ध्वं शरीरिणः ॥ ह्व्_३०।४८ ॥
विश्वास-प्रस्तुतिः
व्यानो व्यायच्छते येन
समानः सन्निवर्तते ।
भूतावाप्तिस् ततस् तस्य
जायतेन्द्रियगोचरा ॥ ह्व्_३०।४९ ॥
मूलम्
व्यानो व्यायच्छते येन
समानः सन्निवर्तते ।
भूतावाप्तिस् ततस् तस्य
जायतेन्द्रियगोचरा ॥ ह्व्_३०।४९ ॥
विश्वास-प्रस्तुतिः
पृथिवी वायुर् आकाशम्
आपो ज्योतिश् च पञ्चमम् ।
तस्येन्द्रियाणि शिष्टानि
स्वं स्वं योगं प्रचक्रिरे ॥ ह्व्_३०।५० ॥
मूलम्
पृथिवी वायुर् आकाशम्
आपो ज्योतिश् च पञ्चमम् ।
तस्येन्द्रियाणि शिष्टानि
स्वं स्वं योगं प्रचक्रिरे ॥ ह्व्_३०।५० ॥
विश्वास-प्रस्तुतिः
पार्थिवं देहम् आहुस् तु
प्राणात्मानं च मारुतम् ।
छिद्राण्य् आकाशयोनीनि
जलस्रावः प्रवर्तते ॥ ह्व्_३०।५१ ॥
मूलम्
पार्थिवं देहम् आहुस् तु
प्राणात्मानं च मारुतम् ।
छिद्राण्य् आकाशयोनीनि
जलस्रावः प्रवर्तते ॥ ह्व्_३०।५१ ॥
विश्वास-प्रस्तुतिः
ज्योतिश् चक्षुषि तेजश् च
तेषां यन्तृ मनः स्मृतम् ।
ग्राम्याश् च विषयाश् चैव
यस्य वीर्यात् प्रवर्तिताः ॥ ह्व्_३०।५२ ॥
मूलम्
ज्योतिश् चक्षुषि तेजश् च
तेषां यन्तृ मनः स्मृतम् ।
ग्राम्याश् च विषयाश् चैव
यस्य वीर्यात् प्रवर्तिताः ॥ ह्व्_३०।५२ ॥
विश्वास-प्रस्तुतिः
इत्य् एतान् पुरुषः सर्वान्
सृजंल् लोकान् सनातनान् ।
नैधने ऽस्मिन् कथं लोके
नरत्वं विष्णुर् आगतः ॥ ह्व्_३०।५३ ॥
मूलम्
इत्य् एतान् पुरुषः सर्वान्
सृजंल् लोकान् सनातनान् ।
नैधने ऽस्मिन् कथं लोके
नरत्वं विष्णुर् आगतः ॥ ह्व्_३०।५३ ॥
विश्वास-प्रस्तुतिः
एष मे संशयो ब्रह्मन्न्
एष मे विस्मयो महान् ।
कथं गतिर् गतिमताम्
आपन्नो मानुषीं तनुम् ॥ ह्व्_३०।५४ ॥
मूलम्
एष मे संशयो ब्रह्मन्न्
एष मे विस्मयो महान् ।
कथं गतिर् गतिमताम्
आपन्नो मानुषीं तनुम् ॥ ह्व्_३०।५४ ॥
विश्वास-प्रस्तुतिः
श्रुतो मे स्वस्य वंशस्य
पूर्वजानां च सम्भवः ।
श्रोतुम् इच्छामि विष्णोस् तु
वृष्णीनां च यथाक्रमम् ॥ ह्व्_३०।५५ ॥
मूलम्
श्रुतो मे स्वस्य वंशस्य
पूर्वजानां च सम्भवः ।
श्रोतुम् इच्छामि विष्णोस् तु
वृष्णीनां च यथाक्रमम् ॥ ह्व्_३०।५५ ॥
विश्वास-प्रस्तुतिः
आश्चर्यं परमं विष्णुर्
देवैर् दैत्यैश् च कथ्यते ।
विष्णोर् उत्पत्तिम् आश्चर्यं
ममाचक्ष्व महामुने ॥ ह्व्_३०।५६ ॥
मूलम्
आश्चर्यं परमं विष्णुर्
देवैर् दैत्यैश् च कथ्यते ।
विष्णोर् उत्पत्तिम् आश्चर्यं
ममाचक्ष्व महामुने ॥ ह्व्_३०।५६ ॥
विश्वास-प्रस्तुतिः
एतद् आश्चर्यम् आख्यानं
कथयस्व सुखावहम् ।
प्रख्यातबलवीर्यस्य
विष्णोर् अमिततेजसः ॥
मूलम्
एतद् आश्चर्यम् आख्यानं
कथयस्व सुखावहम् ।
प्रख्यातबलवीर्यस्य
विष्णोर् अमिततेजसः ॥
विश्वास-प्रस्तुतिः
कर्मणाश्चर्यभूतस्य
विष्णोस् तत्त्वम् इहोच्यताम् ॥ ह्व्_३०।५७ ॥
मूलम्
कर्मणाश्चर्यभूतस्य
विष्णोस् तत्त्वम् इहोच्यताम् ॥ ह्व्_३०।५७ ॥