विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
भजमानस्य पुत्रो ऽथ
रथमुख्यो विदूरथः ।
राजाधिदेवः शूरस् तु
विदूरथसुतो ऽभवत् ॥ ह्व्_२८।१ ॥
मूलम्
{वैशम्पायन उवाच}
भजमानस्य पुत्रो ऽथ
रथमुख्यो विदूरथः ।
राजाधिदेवः शूरस् तु
विदूरथसुतो ऽभवत् ॥ ह्व्_२८।१ ॥
विश्वास-प्रस्तुतिः
राजाधिदेवस्य सुता
जज्ञिरे वीर्यवत्तराः ।
दत्तातिदत्तौ बलिनौ
शोणाश्वः श्वेतवाहनः ॥ ह्व्_२८।२ ॥
मूलम्
राजाधिदेवस्य सुता
जज्ञिरे वीर्यवत्तराः ।
दत्तातिदत्तौ बलिनौ
शोणाश्वः श्वेतवाहनः ॥ ह्व्_२८।२ ॥
विश्वास-प्रस्तुतिः
शमी च दण्डशर्मा च
दत्तशत्रुश् च शत्रुजित् ।
श्रवणा च श्रविष्ठा च
स्वसारौ सम्बभूवतुः ॥ ह्व्_२८।३ ॥
मूलम्
शमी च दण्डशर्मा च
दत्तशत्रुश् च शत्रुजित् ।
श्रवणा च श्रविष्ठा च
स्वसारौ सम्बभूवतुः ॥ ह्व्_२८।३ ॥
विश्वास-प्रस्तुतिः
शमीपुत्रः प्रतिक्षत्रः
प्रतिक्षत्रस्य चात्मजः ।
स्वयम्भोजः स्वयम्भोजाद्
धृदिकः सम्बभूव ह ॥ ह्व्_२८।४ ॥
मूलम्
शमीपुत्रः प्रतिक्षत्रः
प्रतिक्षत्रस्य चात्मजः ।
स्वयम्भोजः स्वयम्भोजाद्
धृदिकः सम्बभूव ह ॥ ह्व्_२८।४ ॥
विश्वास-प्रस्तुतिः
तस्य पुत्रा बभूवुर् हि
सर्वे भीमपराक्रमाः ।
कृतवर्माग्रजस् तेषां
शतधन्वा तु मध्यमः ॥ ह्व्_२८।५ ॥
मूलम्
तस्य पुत्रा बभूवुर् हि
सर्वे भीमपराक्रमाः ।
कृतवर्माग्रजस् तेषां
शतधन्वा तु मध्यमः ॥ ह्व्_२८।५ ॥
विश्वास-प्रस्तुतिः
देवान्तश् च नरान्तश् च
भिषग् वैतरणश् च यः ।
सुदान्तश् चाधिदान्तश् च
कीनाशो दामदम्भकौ ॥ ह्व्_२८।६ ॥
मूलम्
देवान्तश् च नरान्तश् च
भिषग् वैतरणश् च यः ।
सुदान्तश् चाधिदान्तश् च
कीनाशो दामदम्भकौ ॥ ह्व्_२८।६ ॥
विश्वास-प्रस्तुतिः
देवान्तस्याभवत् पुत्रो
विद्वान् कम्बलबर्हिषः ।
([क्: त्३ ins.: :क्])
क्रोष्टोः पुत्रो ऽनमित्रस् तु
तस्माद् वै देवमीढुषः । ह्व्_२८।७४३३ ।
असमौजास् तथा वीरो
नासमौजाश् च ताव् उभौ ॥ ह्व्_२८।७ ॥
मूलम्
देवान्तस्याभवत् पुत्रो
विद्वान् कम्बलबर्हिषः ।
([क्: त्३ ins.: :क्])
क्रोष्टोः पुत्रो ऽनमित्रस् तु
तस्माद् वै देवमीढुषः । ह्व्_२८।७४३३ ।
असमौजास् तथा वीरो
नासमौजाश् च ताव् उभौ ॥ ह्व्_२८।७ ॥
विश्वास-प्रस्तुतिः
अजातपुत्राय सुतान्
प्रददाव् असमौजसे ।
सुदंष्ट्रं च सुचारुं च
कृष्णम् इत्य् अन्धकाः स्मृताः ॥ ह्व्_२८।८ ॥
मूलम्
अजातपुत्राय सुतान्
प्रददाव् असमौजसे ।
सुदंष्ट्रं च सुचारुं च
कृष्णम् इत्य् अन्धकाः स्मृताः ॥ ह्व्_२८।८ ॥
विश्वास-प्रस्तुतिः
([क्: श्१ क्१।३।४ Ñ२।३ व्१।३ ब्२ द्न् द्३ ins.: :क्])
एते चान्ये च बहवो
अन्धकाः कथितास् तव । ह्व्_२८।८४३४:१ ।
अन्धकानाम् इमं वंशं
धारयेद् यस् तु नित्यशः । ह्व्_२८।८४३४:२ ।
आत्मनो विपुलं वंशं
लभते नात्र संशयः । ह्व्_२८।८४३४:३ ।
गान्धारी चैव माद्री च
क्रोष्टोर् भार्ये बभूवतुः ।
गान्धारी जनयाम् आस
सुमित्रं मित्रनन्दनम् ॥ ह्व्_२८।९ ॥
मूलम्
([क्: श्१ क्१।३।४ Ñ२।३ व्१।३ ब्२ द्न् द्३ ins.: :क्])
एते चान्ये च बहवो
अन्धकाः कथितास् तव । ह्व्_२८।८४३४:१ ।
अन्धकानाम् इमं वंशं
धारयेद् यस् तु नित्यशः । ह्व्_२८।८४३४:२ ।
आत्मनो विपुलं वंशं
लभते नात्र संशयः । ह्व्_२८।८४३४:३ ।
गान्धारी चैव माद्री च
क्रोष्टोर् भार्ये बभूवतुः ।
गान्धारी जनयाम् आस
सुमित्रं मित्रनन्दनम् ॥ ह्व्_२८।९ ॥
विश्वास-प्रस्तुतिः
माद्री युधाजितं पुत्रं
ततो वै देवमीढुषम् ।
अनमित्रम् अमित्राणां
जेतारं च महाबलम् ॥ ह्व्_२८।१० ॥
मूलम्
माद्री युधाजितं पुत्रं
ततो वै देवमीढुषम् ।
अनमित्रम् अमित्राणां
जेतारं च महाबलम् ॥ ह्व्_२८।१० ॥
विश्वास-प्रस्तुतिः
अनमित्रसुतो निघ्नो
निघ्नस्य द्वौ बभूवतुः ।
प्रसेनश् चाथ सत्राजिच्
छत्रुसेनाजिताव् उभौ ॥ ह्व्_२८।११ ॥
मूलम्
अनमित्रसुतो निघ्नो
निघ्नस्य द्वौ बभूवतुः ।
प्रसेनश् चाथ सत्राजिच्
छत्रुसेनाजिताव् उभौ ॥ ह्व्_२८।११ ॥
विश्वास-प्रस्तुतिः
प्रसेनो द्वारवत्यां तु
निविशन्त्यां महामणिम् ।
दिव्यं स्यमन्तकं नाम
समुद्राद् उपलब्धवान् ॥ ह्व्_२८।१२ ॥
मूलम्
प्रसेनो द्वारवत्यां तु
निविशन्त्यां महामणिम् ।
दिव्यं स्यमन्तकं नाम
समुद्राद् उपलब्धवान् ॥ ह्व्_२८।१२ ॥
विश्वास-प्रस्तुतिः
([क्: क्२।४ Ñ२।३ व् ब् द् त् ग् म्४ (क्१।३ after १९अब्) ins.: :क्])
तस्य सत्राजितः सूर्यः
सखा प्राणसमो ऽभवत् । ह्व्_२८।१२४३५:१ ।
स कदाचिन् निशापाये
रथेन रथिनां वरः । ह्व्_२८।१२४३५:२ ।
अब्धिकूलम् उपस्प्रष्टुम्
उपस्थातुं ययौ रविम् । ह्व्_२८।१२४३५:३ ।
तस्योपतिष्ठतः सूर्यं
विवस्वान् अग्रतः स्थितः । ह्व्_२८।१२४३५:४ ।
अस्पष्टमूर्तिर् भगवांस्
तेजोमण्डलवान् प्रभुः ॥ ह्व्_२८।१२४३५:५ ।
मूलम्
([क्: क्२।४ Ñ२।३ व् ब् द् त् ग् म्४ (क्१।३ after १९अब्) ins.: :क्])
तस्य सत्राजितः सूर्यः
सखा प्राणसमो ऽभवत् । ह्व्_२८।१२४३५:१ ।
स कदाचिन् निशापाये
रथेन रथिनां वरः । ह्व्_२८।१२४३५:२ ।
अब्धिकूलम् उपस्प्रष्टुम्
उपस्थातुं ययौ रविम् । ह्व्_२८।१२४३५:३ ।
तस्योपतिष्ठतः सूर्यं
विवस्वान् अग्रतः स्थितः । ह्व्_२८।१२४३५:४ ।
अस्पष्टमूर्तिर् भगवांस्
तेजोमण्डलवान् प्रभुः ॥ ह्व्_२८।१२४३५:५ ।
विश्वास-प्रस्तुतिः
अथ राजा विवस्वन्तम्
उवाच स्थितम् अग्रतः । ह्व्_२८।१२४३५:६ ।
यथैव व्योम्नि पश्यामि
सदा त्वां ज्योतिषां पते । ह्व्_२८।१२४३५:७ ।
तेजोमण्डलिनं देवं
तथैव पुरतः स्थितम् । ह्व्_२८।१२४३५:८ ।
को विशेषो ऽस्ति मे त्वत्तः
सख्येनोपागतस्य वै । ह्व्_२८।१२४३५:९ ।
एतच् छ्रुत्वा तु भगवान्
मणिरत्नं स्यमन्तकम् ॥ ह्व्_२८।१२४३५:१० ।
मूलम्
अथ राजा विवस्वन्तम्
उवाच स्थितम् अग्रतः । ह्व्_२८।१२४३५:६ ।
यथैव व्योम्नि पश्यामि
सदा त्वां ज्योतिषां पते । ह्व्_२८।१२४३५:७ ।
तेजोमण्डलिनं देवं
तथैव पुरतः स्थितम् । ह्व्_२८।१२४३५:८ ।
को विशेषो ऽस्ति मे त्वत्तः
सख्येनोपागतस्य वै । ह्व्_२८।१२४३५:९ ।
एतच् छ्रुत्वा तु भगवान्
मणिरत्नं स्यमन्तकम् ॥ ह्व्_२८।१२४३५:१० ।
विश्वास-प्रस्तुतिः
स्वकण्ठाद् अवमुच्यैव
एकान्ते न्यस्तवान् भुवि । ह्व्_२८।१२४३५:११ ।
ततो विग्रहवन्तं तं
ददर्श नृपतिस् तदा । ह्व्_२८।१२४३५:१२ ।
प्रीतिमान् अथ तं दृष्ट्वा
मुहूर्तं कृतवान् कथाम् । ह्व्_२८।१२४३५:१३ ।
तम् अभिप्रस्थितं भूयो
विवस्वन्तं स सत्रजित् । ह्व्_२८।१२४३५:१४ ।
लोकान् उद्भासयस्य् एतान्
येन त्वं सततं प्रभो ॥ ह्व्_२८।१२४३५:१५ ।
मूलम्
स्वकण्ठाद् अवमुच्यैव
एकान्ते न्यस्तवान् भुवि । ह्व्_२८।१२४३५:११ ।
ततो विग्रहवन्तं तं
ददर्श नृपतिस् तदा । ह्व्_२८।१२४३५:१२ ।
प्रीतिमान् अथ तं दृष्ट्वा
मुहूर्तं कृतवान् कथाम् । ह्व्_२८।१२४३५:१३ ।
तम् अभिप्रस्थितं भूयो
विवस्वन्तं स सत्रजित् । ह्व्_२८।१२४३५:१४ ।
लोकान् उद्भासयस्य् एतान्
येन त्वं सततं प्रभो ॥ ह्व्_२८।१२४३५:१५ ।
विश्वास-प्रस्तुतिः
तद् एतन् मणिरत्नं मे
भगवन् दातुम् अर्हसि । ह्व्_२८।१२४३५:१६ ।
ततः स्यमन्तकमणिं
दत्तवांस् तस्य भास्करः । ह्व्_२८।१२४३५:१७ ।
स तम् आबध्य नगरीं
प्रविवेश महीपतिः । ह्व्_२८।१२४३५:१८ ।
तं जनाः पर्यधावन्त
सूर्यो ऽयं गच्छतीति ह । ह्व्_२८।१२४३५:१९ ।
पुरीं विस्मापयित्वा स
राजा त्व् अन्तःपुरं ययौ ॥ ह्व्_२८।१२४३५:२० ।
मूलम्
तद् एतन् मणिरत्नं मे
भगवन् दातुम् अर्हसि । ह्व्_२८।१२४३५:१६ ।
ततः स्यमन्तकमणिं
दत्तवांस् तस्य भास्करः । ह्व्_२८।१२४३५:१७ ।
स तम् आबध्य नगरीं
प्रविवेश महीपतिः । ह्व्_२८।१२४३५:१८ ।
तं जनाः पर्यधावन्त
सूर्यो ऽयं गच्छतीति ह । ह्व्_२८।१२४३५:१९ ।
पुरीं विस्मापयित्वा स
राजा त्व् अन्तःपुरं ययौ ॥ ह्व्_२८।१२४३५:२० ।
विश्वास-प्रस्तुतिः
तत् प्रसेनजिते दिव्यं
मणिरत्नं स्यमन्तकम् । ह्व्_२८।१२४३५:२१ ।
ददौ भ्रात्रे नरपतिः
प्रेम्णा सत्राजिद् उत्तमम् । ह्व्_२८।१२४३५:२२ ।
([क्: after लिने २०, क्४ ins.: :क्])
सत्राजित् स्वगृहं श्रीमत्
कृतकौतुकमङ्गलम् । ह्व्_२८।१२४३५अ:१ ।
प्रविश्य देवसदने
मणिं विप्रैर् न्यवेदयत् ॥ ह्व्_२८।१२४३५अ:२ ।
मूलम्
तत् प्रसेनजिते दिव्यं
मणिरत्नं स्यमन्तकम् । ह्व्_२८।१२४३५:२१ ।
ददौ भ्रात्रे नरपतिः
प्रेम्णा सत्राजिद् उत्तमम् । ह्व्_२८।१२४३५:२२ ।
([क्: after लिने २०, क्४ ins.: :क्])
सत्राजित् स्वगृहं श्रीमत्
कृतकौतुकमङ्गलम् । ह्व्_२८।१२४३५अ:१ ।
प्रविश्य देवसदने
मणिं विप्रैर् न्यवेदयत् ॥ ह्व्_२८।१२४३५अ:२ ।
विश्वास-प्रस्तुतिः
दिने दिने स्वर्णभारान्
अष्टौ स स्रवति प्रभो । ह्व्_२८।१२४३५अ:३ ।
([क्: फ़ोर् lines ११-२१, म्४ सुब्स्त्।: :क्])
अवतार्य गलात् तूर्णम्
एकान्ते सन्न्यवेशयत् । ह्व्_२८।१२४३५ब्:१ ।
ततः सत्राजितः सूर्यं
ज्वलन्तं वपुषा तदा । ह्व्_२८।१२४३५ब्:२ ।
प्रणिपत्य महात्मानं
कृताञ्जलिर् अवस्थितः ॥ ह्व्_२८।१२४३५ब्:३ ।
मूलम्
दिने दिने स्वर्णभारान्
अष्टौ स स्रवति प्रभो । ह्व्_२८।१२४३५अ:३ ।
([क्: फ़ोर् lines ११-२१, म्४ सुब्स्त्।: :क्])
अवतार्य गलात् तूर्णम्
एकान्ते सन्न्यवेशयत् । ह्व्_२८।१२४३५ब्:१ ।
ततः सत्राजितः सूर्यं
ज्वलन्तं वपुषा तदा । ह्व्_२८।१२४३५ब्:२ ।
प्रणिपत्य महात्मानं
कृताञ्जलिर् अवस्थितः ॥ ह्व्_२८।१२४३५ब्:३ ।
विश्वास-प्रस्तुतिः
स्तुत्वा च विविधैः स्तोत्रैः
प्रीणयाम् आस भास्करम् । ह्व्_२८।१२४३५ब्:४ ।
ततः प्रसन्नो भगवान्
वृणीष्व वरम् ईप्सितम् ॥ ह्व्_२८।१२४३५ब्:५ ।
मूलम्
स्तुत्वा च विविधैः स्तोत्रैः
प्रीणयाम् आस भास्करम् । ह्व्_२८।१२४३५ब्:४ ।
ततः प्रसन्नो भगवान्
वृणीष्व वरम् ईप्सितम् ॥ ह्व्_२८।१२४३५ब्:५ ।
विश्वास-प्रस्तुतिः
इत्य् उवाच स राजानं
स च वव्रे मणिं तदा । ह्व्_२८।१२४३५ब्:६ ।
स चापि तं मणिं दत्त्वा
तत्रैवान्तरधीयत ॥ ह्व्_२८।१२४३५ब्:७ ।
मूलम्
इत्य् उवाच स राजानं
स च वव्रे मणिं तदा । ह्व्_२८।१२४३५ब्:६ ।
स चापि तं मणिं दत्त्वा
तत्रैवान्तरधीयत ॥ ह्व्_२८।१२४३५ब्:७ ।
विश्वास-प्रस्तुतिः
सत्राजिच् च महाराज
मणिरत्नं स्यमन्तकम् । ह्व्_२८।१२४३५ब्:८ ।
स मणिः स्यन्दते रुक्मं
वृष्ण्यन्धकनिवेशने ।
कालवर्षी च पर्जन्यो
न च व्याधिभयं भवेत् ॥ ह्व्_२८।१३ ॥
मूलम्
सत्राजिच् च महाराज
मणिरत्नं स्यमन्तकम् । ह्व्_२८।१२४३५ब्:८ ।
स मणिः स्यन्दते रुक्मं
वृष्ण्यन्धकनिवेशने ।
कालवर्षी च पर्जन्यो
न च व्याधिभयं भवेत् ॥ ह्व्_२८।१३ ॥
विश्वास-प्रस्तुतिः
लिप्सां चक्रे प्रसेनात् तु
मणिरत्नं स्यमन्तकम् ।
गोविन्दो न च तं लेभे
शक्तो ऽपि न जहार सः ॥ ह्व्_२८।१४ ॥
मूलम्
लिप्सां चक्रे प्रसेनात् तु
मणिरत्नं स्यमन्तकम् ।
गोविन्दो न च तं लेभे
शक्तो ऽपि न जहार सः ॥ ह्व्_२८।१४ ॥
विश्वास-प्रस्तुतिः
कदाचिन् मृगयां यातः
प्रसेनस् तेन भूषितः ।
स्यमन्तककृते सिंहाद्
वधं प्राप वनेचरात् ॥ ह्व्_२८।१५ ॥
मूलम्
कदाचिन् मृगयां यातः
प्रसेनस् तेन भूषितः ।
स्यमन्तककृते सिंहाद्
वधं प्राप वनेचरात् ॥ ह्व्_२८।१५ ॥
विश्वास-प्रस्तुतिः
अथ सिंहं प्रधावन्तम्
ऋक्षराजो महाबलः ।
निहत्य मणिरत्नं तम्
आदाय बिलम् आविशत् ॥ ह्व्_२८।१६ ॥
मूलम्
अथ सिंहं प्रधावन्तम्
ऋक्षराजो महाबलः ।
निहत्य मणिरत्नं तम्
आदाय बिलम् आविशत् ॥ ह्व्_२८।१६ ॥
विश्वास-प्रस्तुतिः
ततो वृष्ण्यन्धकाः कृष्णं
प्रसेनवधकारणात् ।
प्रार्थनां तां मणेर् बुद्ध्वा
सर्व एव शशङ्किरे ॥ ह्व्_२८।१७ ॥
मूलम्
ततो वृष्ण्यन्धकाः कृष्णं
प्रसेनवधकारणात् ।
प्रार्थनां तां मणेर् बुद्ध्वा
सर्व एव शशङ्किरे ॥ ह्व्_२८।१७ ॥
विश्वास-प्रस्तुतिः
स शङ्क्यमानो धर्मात्मा
नकारी तस्य कर्मणः ।
आहरिष्ये मणिम् इति
प्रतिज्ञाय वनं ययौ ॥ ह्व्_२८।१८ ॥
मूलम्
स शङ्क्यमानो धर्मात्मा
नकारी तस्य कर्मणः ।
आहरिष्ये मणिम् इति
प्रतिज्ञाय वनं ययौ ॥ ह्व्_२८।१८ ॥
विश्वास-प्रस्तुतिः
([क्: श्१ क्२ Ñ२।३ व् ब् द्स् द्२-५ ins.: :क्])
यत्र प्रसेनो भृगयाम्
आचरत् तत्र चाप्य् अथ । ह्व्_२८।१८४३७ ।
प्रसेनस्य पदं गृह्य
पुरुषैर् आप्तकारिभिः ।
ऋक्षवन्तं गिरिवरं
विन्ध्यं च गिरिम् उत्तमम् ॥ ह्व्_२८।१९ ॥
मूलम्
([क्: श्१ क्२ Ñ२।३ व् ब् द्स् द्२-५ ins.: :क्])
यत्र प्रसेनो भृगयाम्
आचरत् तत्र चाप्य् अथ । ह्व्_२८।१८४३७ ।
प्रसेनस्य पदं गृह्य
पुरुषैर् आप्तकारिभिः ।
ऋक्षवन्तं गिरिवरं
विन्ध्यं च गिरिम् उत्तमम् ॥ ह्व्_२८।१९ ॥
विश्वास-प्रस्तुतिः
अन्वेषयन् परिश्रान्तः
स ददर्श महामनाः ।
साश्वं हतं प्रसेनं तु
नाविन्दच् चैव तं मणिम् ॥ ह्व्_२८।२० ॥
मूलम्
अन्वेषयन् परिश्रान्तः
स ददर्श महामनाः ।
साश्वं हतं प्रसेनं तु
नाविन्दच् चैव तं मणिम् ॥ ह्व्_२८।२० ॥
विश्वास-प्रस्तुतिः
अथ सिंहः प्रसेनस्य
शरीरस्याविदूरतः ।
ऋक्षेन निहतो दृष्टः
पादैर् ऋक्षस्य सूचितः ॥ ह्व्_२८।२१ ॥
मूलम्
अथ सिंहः प्रसेनस्य
शरीरस्याविदूरतः ।
ऋक्षेन निहतो दृष्टः
पादैर् ऋक्षस्य सूचितः ॥ ह्व्_२८।२१ ॥
विश्वास-प्रस्तुतिः
पादैस् तैर् अन्वियायाथ
गुहाम् ऋक्षस्य माधवः ।
महत्य् ऋक्षबिले वाणीं
शुश्राव प्रमदेरिताम् ॥ ह्व्_२८।२२ ॥
मूलम्
पादैस् तैर् अन्वियायाथ
गुहाम् ऋक्षस्य माधवः ।
महत्य् ऋक्षबिले वाणीं
शुश्राव प्रमदेरिताम् ॥ ह्व्_२८।२२ ॥
विश्वास-प्रस्तुतिः
धात्र्या कुमारम् आदाय
सुतं जाम्बवतो नृप ।
क्रीडापयन्त्या मणिना
मा रोदीर् इत्य् अथेरिताम् ॥ ह्व्_२८।२३ ॥
मूलम्
धात्र्या कुमारम् आदाय
सुतं जाम्बवतो नृप ।
क्रीडापयन्त्या मणिना
मा रोदीर् इत्य् अथेरिताम् ॥ ह्व्_२८।२३ ॥
विश्वास-प्रस्तुतिः
{धात्र्य् उवाच}
सिंहः प्रसेनम् अवधीत्
सिंहो जाम्बवता हतः ।
सुकुमारक मा रोदीस्
तव ह्य् एष स्यमन्तकः ॥ ह्व्_२८।२४ ॥
मूलम्
{धात्र्य् उवाच}
सिंहः प्रसेनम् अवधीत्
सिंहो जाम्बवता हतः ।
सुकुमारक मा रोदीस्
तव ह्य् एष स्यमन्तकः ॥ ह्व्_२८।२४ ॥
विश्वास-प्रस्तुतिः
व्यक्तीकृतश् च शब्दः स
तूर्णं चापि ययौ बिलम् ।
([क्: अल्ल् म्स्स्। एxचेप्त् श्१ Ñ१ म्१-३ ins.: :क्])
प्रविश्य चापि भगवांस्
तम् ऋक्षबिलम् अञ्जसा । ह्व्_२८।२५४३८:१ ।
स्थापयित्वा बिलद्वारि
यदूंल् लाङ्गलिना सह । ह्व्_२८।२५४३८:२ ।
शार्ङ्गधन्वा बिलस्थं तु
जाम्बवन्तं ददर्श ह ॥ ह्व्_२८।२५ ॥
मूलम्
व्यक्तीकृतश् च शब्दः स
तूर्णं चापि ययौ बिलम् ।
([क्: अल्ल् म्स्स्। एxचेप्त् श्१ Ñ१ म्१-३ ins.: :क्])
प्रविश्य चापि भगवांस्
तम् ऋक्षबिलम् अञ्जसा । ह्व्_२८।२५४३८:१ ।
स्थापयित्वा बिलद्वारि
यदूंल् लाङ्गलिना सह । ह्व्_२८।२५४३८:२ ।
शार्ङ्गधन्वा बिलस्थं तु
जाम्बवन्तं ददर्श ह ॥ ह्व्_२८।२५ ॥
विश्वास-प्रस्तुतिः
युयुधे वासुदेवस् तु
बिले जाम्बवता सह ।
बाहुभ्याम् एव गोविन्दो
दिवसान् एकविंसतिम् ॥ ह्व्_२८।२६ ॥
मूलम्
युयुधे वासुदेवस् तु
बिले जाम्बवता सह ।
बाहुभ्याम् एव गोविन्दो
दिवसान् एकविंसतिम् ॥ ह्व्_२८।२६ ॥
विश्वास-प्रस्तुतिः
([क्: क्३।४ ins.: :क्])
स वै भगवतानेन
युयुधे स्वामिनात्मनः । ह्व्_२८।२६४३९:१ ।
पुरुषं प्राकृतो मत्वा
कुपितो नानुभाववित् । ह्व्_२८।२६४३९:२ ।
द्वन्द्वयुद्धं सुतुमुलम्
उभयोर् विजिगीषतोः । ह्व्_२८।२६४३९:३ ।
आयुधाश्मद्रुमैर् दोर्भिः
क्रव्यार्थे श्येनयोर् इव । ह्व्_२८।२६४३९:४ ।
प्रविष्टे तु बिलं कृष्णे
वसुदेवपुरःसराः ।
([क्: क्३ ins.: :क्])
अदृष्ट्वा निर्गमं शौरेः
प्रविष्टस्य बिलं जनाः । ह्व्_२८।२७४४०:१ ।
प्रतीक्ष्य द्वादशाहानि
दुःखिताः स्वपुरं ययुः । ह्व्_२८।२७४४०:२ ।
पुनर् द्वारवतीम् एत्य
हतं कृष्णं न्यवेदयन् ॥ ह्व्_२८।२७ ॥
मूलम्
([क्: क्३।४ ins.: :क्])
स वै भगवतानेन
युयुधे स्वामिनात्मनः । ह्व्_२८।२६४३९:१ ।
पुरुषं प्राकृतो मत्वा
कुपितो नानुभाववित् । ह्व्_२८।२६४३९:२ ।
द्वन्द्वयुद्धं सुतुमुलम्
उभयोर् विजिगीषतोः । ह्व्_२८।२६४३९:३ ।
आयुधाश्मद्रुमैर् दोर्भिः
क्रव्यार्थे श्येनयोर् इव । ह्व्_२८।२६४३९:४ ।
प्रविष्टे तु बिलं कृष्णे
वसुदेवपुरःसराः ।
([क्: क्३ ins.: :क्])
अदृष्ट्वा निर्गमं शौरेः
प्रविष्टस्य बिलं जनाः । ह्व्_२८।२७४४०:१ ।
प्रतीक्ष्य द्वादशाहानि
दुःखिताः स्वपुरं ययुः । ह्व्_२८।२७४४०:२ ।
पुनर् द्वारवतीम् एत्य
हतं कृष्णं न्यवेदयन् ॥ ह्व्_२८।२७ ॥
विश्वास-प्रस्तुतिः
([क्: क्३ ins.: :क्])
निशम्य देवकी राजन्
रुक्मिण्य् आनकदुन्दुभिः । ह्व्_२८।२७४४१:१ ।
सुहृदो ज्ञातयो ऽशोचन्
बिलात् कृष्णम् अनिर्गतम् । ह्व्_२८।२७४४१:२ ।
वासुदेवस् तु निर्जित्य
जाम्बवन्तं महाबलम् ।
([क्: फ़ोर् २८अब्, क्३ सुब्स्त्।: :क्])
जाम्बवन्तं विनिर्जित्य
वासुदेवो महाबलम् । ह्व्_२८।२८अब्४४२ ।
लेभे जाम्बवतीं कन्याम्
ऋक्षराजस्य सम्मताम् ॥ ह्व्_२८।२८ ॥
मूलम्
([क्: क्३ ins.: :क्])
निशम्य देवकी राजन्
रुक्मिण्य् आनकदुन्दुभिः । ह्व्_२८।२७४४१:१ ।
सुहृदो ज्ञातयो ऽशोचन्
बिलात् कृष्णम् अनिर्गतम् । ह्व्_२८।२७४४१:२ ।
वासुदेवस् तु निर्जित्य
जाम्बवन्तं महाबलम् ।
([क्: फ़ोर् २८अब्, क्३ सुब्स्त्।: :क्])
जाम्बवन्तं विनिर्जित्य
वासुदेवो महाबलम् । ह्व्_२८।२८अब्४४२ ।
लेभे जाम्बवतीं कन्याम्
ऋक्षराजस्य सम्मताम् ॥ ह्व्_२८।२८ ॥
विश्वास-प्रस्तुतिः
मणिं स्यमन्तकं चैव
जग्राहात्मविशुद्धये ।
अनुनीयर्क्षराजानं
निर्ययौ च तदा बिलात् ॥ ह्व्_२८।२९ ॥
मूलम्
मणिं स्यमन्तकं चैव
जग्राहात्मविशुद्धये ।
अनुनीयर्क्षराजानं
निर्ययौ च तदा बिलात् ॥ ह्व्_२८।२९ ॥
विश्वास-प्रस्तुतिः
([क्: अल्ल् म्स्स्। एxचेप्त् श्१ Ñ१ म्१-३ ins.: :क्])
द्वारकाम् अगमत् कृष्णः
श्रिया परमया युतः । ह्व्_२८।२९४४३ ।
एवं स मणिम् आहृत्य
विशोध्यात्मानम् अच्युतः ।
ददौ सत्राजिते तं वै
सर्वसात्वतसंसदि ॥ ह्व्_२८।३० ॥
मूलम्
([क्: अल्ल् म्स्स्। एxचेप्त् श्१ Ñ१ म्१-३ ins.: :क्])
द्वारकाम् अगमत् कृष्णः
श्रिया परमया युतः । ह्व्_२८।२९४४३ ।
एवं स मणिम् आहृत्य
विशोध्यात्मानम् अच्युतः ।
ददौ सत्राजिते तं वै
सर्वसात्वतसंसदि ॥ ह्व्_२८।३० ॥
विश्वास-प्रस्तुतिः
एवं मिथ्याभिशस्तेन
कृष्णेनामित्रघातिना ।
आत्मा विशोधितः पापाद्
विनिर्जित्य स्यमन्तकम् ॥ ह्व्_२८।३१ ॥
मूलम्
एवं मिथ्याभिशस्तेन
कृष्णेनामित्रघातिना ।
आत्मा विशोधितः पापाद्
विनिर्जित्य स्यमन्तकम् ॥ ह्व्_२८।३१ ॥
विश्वास-प्रस्तुतिः
सत्राजितो दश त्व् आसन्
भार्यास् तासां शतं सुताः ।
ख्यातिमन्तस् त्रयस् तेषां
भङ्गकारस् तु पूर्वजः ॥ ह्व्_२८।३२ ॥
मूलम्
सत्राजितो दश त्व् आसन्
भार्यास् तासां शतं सुताः ।
ख्यातिमन्तस् त्रयस् तेषां
भङ्गकारस् तु पूर्वजः ॥ ह्व्_२८।३२ ॥
विश्वास-प्रस्तुतिः
वीरो वातपतिश् चैव
उपस्वावांस् तथैव च ।
कुमार्यश् चापि तिस्रो वै
दिक्षु ख्याता नराधिप ॥ ह्व्_२८।३३ ॥
मूलम्
वीरो वातपतिश् चैव
उपस्वावांस् तथैव च ।
कुमार्यश् चापि तिस्रो वै
दिक्षु ख्याता नराधिप ॥ ह्व्_२८।३३ ॥
विश्वास-प्रस्तुतिः
सत्यभामोत्तमा स्त्रीणां
व्रतिनी च दृढव्रता ।
तथा पद्मावती चैव
भार्याः कृष्णस्य ता ददौ ॥ ह्व्_२८।३४ ॥
मूलम्
सत्यभामोत्तमा स्त्रीणां
व्रतिनी च दृढव्रता ।
तथा पद्मावती चैव
भार्याः कृष्णस्य ता ददौ ॥ ह्व्_२८।३४ ॥
विश्वास-प्रस्तुतिः
सभाक्षो भङ्गकारात् तु
नारेयश् च नरोत्तमौ ।
जज्ञाते गुणसम्पन्नौ
विश्रुतौ गुणसम्पदा ॥ ह्व्_२८।३५ ॥
मूलम्
सभाक्षो भङ्गकारात् तु
नारेयश् च नरोत्तमौ ।
जज्ञाते गुणसम्पन्नौ
विश्रुतौ गुणसम्पदा ॥ ह्व्_२८।३५ ॥
विश्वास-प्रस्तुतिः
मधोः पुत्रस्य जज्ञे ऽथ
पृश्निः पुत्रो युधाजितः ।
जज्ञाते तनयौ पृश्नेः
श्वफल्कश् चित्रकस् तथा ॥ ह्व्_२८।३६ ॥
मूलम्
मधोः पुत्रस्य जज्ञे ऽथ
पृश्निः पुत्रो युधाजितः ।
जज्ञाते तनयौ पृश्नेः
श्वफल्कश् चित्रकस् तथा ॥ ह्व्_२८।३६ ॥
विश्वास-प्रस्तुतिः
श्वफल्कः काशिराजस्य
सुतां भार्याम् अविन्दत ।
गान्दीं तस्यास् तु गान्दीत्वं
सदा गाः प्रददौ हि सा ॥ ह्व्_२८।३७ ॥
मूलम्
श्वफल्कः काशिराजस्य
सुतां भार्याम् अविन्दत ।
गान्दीं तस्यास् तु गान्दीत्वं
सदा गाः प्रददौ हि सा ॥ ह्व्_२८।३७ ॥
विश्वास-प्रस्तुतिः
तस्यां जज्ञे तदा वीरः
श्रुतवान् इति भारत ।
अक्रूरो ऽथ महाभागो
यज्वा विपुलदक्षिणः ॥ ह्व्_२८।३८ ॥
मूलम्
तस्यां जज्ञे तदा वीरः
श्रुतवान् इति भारत ।
अक्रूरो ऽथ महाभागो
यज्वा विपुलदक्षिणः ॥ ह्व्_२८।३८ ॥
विश्वास-प्रस्तुतिः
उपासङ्गस् तथा मद्गुर्
मृदुरश् चारिमर्दनः ।
गिरिक्षिपस् तथोपेक्षः
शत्रुहा चारिमेजयः ॥ ह्व्_२८।३९ ॥
मूलम्
उपासङ्गस् तथा मद्गुर्
मृदुरश् चारिमर्दनः ।
गिरिक्षिपस् तथोपेक्षः
शत्रुहा चारिमेजयः ॥ ह्व्_२८।३९ ॥
विश्वास-प्रस्तुतिः
चर्मभृच् चारिवर्मा च
गृध्रम् ओजा नरस् तथा ।
आवाहप्रतिवाहौ च
सुन्दरा च वराङ्गना ॥ ह्व्_२८।४० ॥
मूलम्
चर्मभृच् चारिवर्मा च
गृध्रम् ओजा नरस् तथा ।
आवाहप्रतिवाहौ च
सुन्दरा च वराङ्गना ॥ ह्व्_२८।४० ॥
विश्वास-प्रस्तुतिः
विश्रुता साम्बमहिषी
कन्या चास्य वसुन्धरा ।
रूपयौवनसम्पन्ना
सर्वसत्त्वमनोहरा ॥ ह्व्_२८।४१ ॥
मूलम्
विश्रुता साम्बमहिषी
कन्या चास्य वसुन्धरा ।
रूपयौवनसम्पन्ना
सर्वसत्त्वमनोहरा ॥ ह्व्_२८।४१ ॥
विश्वास-प्रस्तुतिः
अक्रूरेणौग्रसेन्यां तु
सुगात्र्यां कुरुनन्दन ।
सुदेवश् चोपदेवश् च
जज्ञाते देववर्चसौ ॥ ह्व्_२८।४२ ॥
मूलम्
अक्रूरेणौग्रसेन्यां तु
सुगात्र्यां कुरुनन्दन ।
सुदेवश् चोपदेवश् च
जज्ञाते देववर्चसौ ॥ ह्व्_२८।४२ ॥
विश्वास-प्रस्तुतिः
चित्रकस्याभवन् पुत्राः
पृथुर् विपृथुर् एव च ।
अश्वसेनो ऽश्वबाहुश् च
सुपार्श्वकगवेषणौ ॥ ह्व्_२८।४३ ॥
मूलम्
चित्रकस्याभवन् पुत्राः
पृथुर् विपृथुर् एव च ।
अश्वसेनो ऽश्वबाहुश् च
सुपार्श्वकगवेषणौ ॥ ह्व्_२८।४३ ॥
विश्वास-प्रस्तुतिः
अरिष्टनेमेस् तु सुता
धर्मो धर्मभृद् एव च ।
सुबाहुर् बहुबाहुश् च
श्रविष्ट्ःआश्रवणे स्त्रियौ ॥ ह्व्_२८।४४ ॥
मूलम्
अरिष्टनेमेस् तु सुता
धर्मो धर्मभृद् एव च ।
सुबाहुर् बहुबाहुश् च
श्रविष्ट्ःआश्रवणे स्त्रियौ ॥ ह्व्_२८।४४ ॥
विश्वास-प्रस्तुतिः
इमां मिथ्याभिशस्तिं यः
कृष्णस्य समुदाहृताम् ।
वेद मिथ्याभिशापास् तं
न स्पृशन्ति कदाचन ॥ ह्व्_२८।४५ ॥
मूलम्
इमां मिथ्याभिशस्तिं यः
कृष्णस्य समुदाहृताम् ।
वेद मिथ्याभिशापास् तं
न स्पृशन्ति कदाचन ॥ ह्व्_२८।४५ ॥