विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
पौरवी रोहिणी नाम
बाह्लिकस्यात्मजा नृप ।
ज्येष्ठा पत्नी महाराज
दयितानकदुन्दुभेः ॥ ह्व्_२५।१ ॥
मूलम्
{वैशम्पायन उवाच}
पौरवी रोहिणी नाम
बाह्लिकस्यात्मजा नृप ।
ज्येष्ठा पत्नी महाराज
दयितानकदुन्दुभेः ॥ ह्व्_२५।१ ॥
विश्वास-प्रस्तुतिः
([क्: after the रेफ़्।, अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
याः पत्न्यो वसुदेवस्य
चतुर्दश वराङ्गनाः । ह्व्_२५।०४१५:१ ।
पौरवी रोहिणी नाम
मदिरापि तथापरा । ह्व्_२५।०४१५:२ ।
वैशाखी च तथा भद्रा
सुनाम्नी चैव पञ्चमी ॥ ह्व्_२५।०४१५:३ ।
मूलम्
([क्: after the रेफ़्।, अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
याः पत्न्यो वसुदेवस्य
चतुर्दश वराङ्गनाः । ह्व्_२५।०४१५:१ ।
पौरवी रोहिणी नाम
मदिरापि तथापरा । ह्व्_२५।०४१५:२ ।
वैशाखी च तथा भद्रा
सुनाम्नी चैव पञ्चमी ॥ ह्व्_२५।०४१५:३ ।
विश्वास-प्रस्तुतिः
सहदेवा शान्तिदेवा
श्रीदेवा देवरक्षिता । ह्व्_२५।०४१५:४ ।
वृकदेव्य् उपदेवी च
देवकी चैव सप्तमी ॥ ह्व्_२५।०४१५:५ ।
मूलम्
सहदेवा शान्तिदेवा
श्रीदेवा देवरक्षिता । ह्व्_२५।०४१५:४ ।
वृकदेव्य् उपदेवी च
देवकी चैव सप्तमी ॥ ह्व्_२५।०४१५:५ ।
विश्वास-प्रस्तुतिः
सुतनुर् वडवा चैव
द्वे एते परिचारिके । ह्व्_२५।०४१५:६ ।
लेभे ज्येष्ठं सुतं रामं
शारणं शठम् एव च ।
दुर्दमं दमनं श्वभ्रं
पिण्डारककुशीनरौ ॥ ह्व्_२५।२ ॥
मूलम्
सुतनुर् वडवा चैव
द्वे एते परिचारिके । ह्व्_२५।०४१५:६ ।
लेभे ज्येष्ठं सुतं रामं
शारणं शठम् एव च ।
दुर्दमं दमनं श्वभ्रं
पिण्डारककुशीनरौ ॥ ह्व्_२५।२ ॥
विश्वास-प्रस्तुतिः
चित्रां नाम कुमारीं च
रोहिणीतनया नव ।
चित्रा सुभद्रेति पुनर्
विख्याता कुरुनन्दन ॥ ह्व्_२५।३ ॥
मूलम्
चित्रां नाम कुमारीं च
रोहिणीतनया नव ।
चित्रा सुभद्रेति पुनर्
विख्याता कुरुनन्दन ॥ ह्व्_२५।३ ॥
विश्वास-प्रस्तुतिः
वसुदेवाच् च देवक्यां
जज्ञे शौरिर् महायशाः ।
([क्: द्२ ins.: :क्])
कीर्तिमन्तं सुषेणं च
भद्रसेनम् उदारधी । ह्व्_२५।४४१६:१ ।
मृत्युं समर्दनं भद्रं
सङ्कर्षणम् अहीश्वरम् । ह्व्_२५।४४१६:२ ।
विपुलं तेष्व् अष्टतमो
स्वयम् एव हरिः किल । ह्व्_२५।४४१६:३ ।
रामाच् च निशठो जज्ञे
रेवत्यां दयितः सुतः ॥ ह्व्_२५।४ ॥
मूलम्
वसुदेवाच् च देवक्यां
जज्ञे शौरिर् महायशाः ।
([क्: द्२ ins.: :क्])
कीर्तिमन्तं सुषेणं च
भद्रसेनम् उदारधी । ह्व्_२५।४४१६:१ ।
मृत्युं समर्दनं भद्रं
सङ्कर्षणम् अहीश्वरम् । ह्व्_२५।४४१६:२ ।
विपुलं तेष्व् अष्टतमो
स्वयम् एव हरिः किल । ह्व्_२५।४४१६:३ ।
रामाच् च निशठो जज्ञे
रेवत्यां दयितः सुतः ॥ ह्व्_२५।४ ॥
विश्वास-प्रस्तुतिः
सुभद्रायां रथी पार्थाद्
अभिमन्युर् अजायत ।
अक्रूरात् काशिकन्यायां
सत्यकेतुर् अजायत ॥ ह्व्_२५।५ ॥
मूलम्
सुभद्रायां रथी पार्थाद्
अभिमन्युर् अजायत ।
अक्रूरात् काशिकन्यायां
सत्यकेतुर् अजायत ॥ ह्व्_२५।५ ॥
विश्वास-प्रस्तुतिः
वसुदेवस्य भार्यासु
महाभागासु सप्तसु ।
ये पुत्रा जज्ञिरे शूरा
नमतस् तान् निबोधत ॥ ह्व्_२५।६ ॥
मूलम्
वसुदेवस्य भार्यासु
महाभागासु सप्तसु ।
ये पुत्रा जज्ञिरे शूरा
नमतस् तान् निबोधत ॥ ह्व्_२५।६ ॥
विश्वास-प्रस्तुतिः
भोजश् च विजयश् चैव
शान्तिदेवासुताव् उभौ ।
([क्: क्१ (क्३ after ७द्) ins.: :क्])
उपासङ्गं वरं लेभे
तनयन्देवरक्षिता । ह्व्_२५।७४१७ ।
वृकदेवः सुनामायां
गदश् चास्याः सुताव् उभौ ॥
मूलम्
भोजश् च विजयश् चैव
शान्तिदेवासुताव् उभौ ।
([क्: क्१ (क्३ after ७द्) ins.: :क्])
उपासङ्गं वरं लेभे
तनयन्देवरक्षिता । ह्व्_२५।७४१७ ।
वृकदेवः सुनामायां
गदश् चास्याः सुताव् उभौ ॥
विश्वास-प्रस्तुतिः
अगावहं महात्मानं
वृकदेवी व्यजायत ॥ ह्व्_२५।७ ॥
मूलम्
अगावहं महात्मानं
वृकदेवी व्यजायत ॥ ह्व्_२५।७ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।३ द्४ ins.: :क्])
विजयं लोमपादं च
वर्धमानं च देवकी ॥ ह्व्_२५।७४१८:१ ।
मूलम्
([क्: क्१।३ द्४ ins.: :क्])
विजयं लोमपादं च
वर्धमानं च देवकी ॥ ह्व्_२५।७४१८:१ ।
विश्वास-प्रस्तुतिः
एते स्वयं महात्मना
उपदेव्यां च जज्ञिरे । ह्व्_२५।७४१८:२ ।
सुतनू च नरावी च
शौरेर् आस्तां परिग्रहः ॥ ह्व्_२५।७४१८:३ ।
मूलम्
एते स्वयं महात्मना
उपदेव्यां च जज्ञिरे । ह्व्_२५।७४१८:२ ।
सुतनू च नरावी च
शौरेर् आस्तां परिग्रहः ॥ ह्व्_२५।७४१८:३ ।
विश्वास-प्रस्तुतिः
पौण्ड्रश् च कपिलश् चैव
वसुदेवसुताव् उभौ । ह्व्_२५।७४१८:४ ।
नराख्यां कपिलो जज्ञे
पौण्ड्रश् च सुतनूसुतः । ह्व्_२५।७४१८:५ ।
तयोर् नृपो ऽभवत् पौण्ड्रः
कपिलस् तु वनं ययौ ॥ ह्व्_२५।७४१८:६ ।
मूलम्
पौण्ड्रश् च कपिलश् चैव
वसुदेवसुताव् उभौ । ह्व्_२५।७४१८:४ ।
नराख्यां कपिलो जज्ञे
पौण्ड्रश् च सुतनूसुतः । ह्व्_२५।७४१८:५ ।
तयोर् नृपो ऽभवत् पौण्ड्रः
कपिलस् तु वनं ययौ ॥ ह्व्_२५।७४१८:६ ।
विश्वास-प्रस्तुतिः
पूर्व्यां समभवद् द्वीपो
वसुदेवान् महाबलः । ह्व्_२५।७४१८:७ ।
जरा नाम निषादानां
प्रभुः सर्वधनुष्मताम् । ह्व्_२५।७४१८:८ ।
कन्या त्रिगर्तराजस्य
भर्ता वै शिशिरायणः ।
जिज्ञासां पौरुषे चक्रे
न चस्कन्दे ऽथ पौरुषम् ॥ ह्व्_२५।८ ॥
मूलम्
पूर्व्यां समभवद् द्वीपो
वसुदेवान् महाबलः । ह्व्_२५।७४१८:७ ।
जरा नाम निषादानां
प्रभुः सर्वधनुष्मताम् । ह्व्_२५।७४१८:८ ।
कन्या त्रिगर्तराजस्य
भर्ता वै शिशिरायणः ।
जिज्ञासां पौरुषे चक्रे
न चस्कन्दे ऽथ पौरुषम् ॥ ह्व्_२५।८ ॥
विश्वास-प्रस्तुतिः
([क्: व्२ ins.: :क्])
कृष्णायससमाचख्यो
न पुमांस्त्वं नपुंसकः । ह्व्_२५।८४१९ ।
कृष्णायससमप्रख्यो
वर्षे द्वादशमे तदा ।
मिथ्याभिशप्तो गार्ग्यस् तु
मन्युनाभिसमीरितः ॥
मूलम्
([क्: व्२ ins.: :क्])
कृष्णायससमाचख्यो
न पुमांस्त्वं नपुंसकः । ह्व्_२५।८४१९ ।
कृष्णायससमप्रख्यो
वर्षे द्वादशमे तदा ।
मिथ्याभिशप्तो गार्ग्यस् तु
मन्युनाभिसमीरितः ॥
विश्वास-प्रस्तुतिः
घोषकन्याम् उपादाय
मैथुनायोपचक्रमे ॥ ह्व्_२५।९ ॥
मूलम्
घोषकन्याम् उपादाय
मैथुनायोपचक्रमे ॥ ह्व्_२५।९ ॥
विश्वास-प्रस्तुतिः
गोपाली त्व् अप्सरास् तस्य
गोपस्त्रीवेषधारिणी ।
धारयाम् आस गार्ग्यस्य
गर्भं दुर्धरम् अच्युतम् ॥ ह्व्_२५।१० ॥
मूलम्
गोपाली त्व् अप्सरास् तस्य
गोपस्त्रीवेषधारिणी ।
धारयाम् आस गार्ग्यस्य
गर्भं दुर्धरम् अच्युतम् ॥ ह्व्_२५।१० ॥
विश्वास-प्रस्तुतिः
मानुष्यां गर्ग्यभार्यायां
नियोगाच् छूलपाणिनः ।
स कालयवनो नाम
जज्ञे राजा महाबलः ॥
मूलम्
मानुष्यां गर्ग्यभार्यायां
नियोगाच् छूलपाणिनः ।
स कालयवनो नाम
जज्ञे राजा महाबलः ॥
विश्वास-प्रस्तुतिः
वृषपूर्वार्धकायास् तम्
अवहन् वाजिनो रणे ॥ ह्व्_२५।११ ॥
मूलम्
वृषपूर्वार्धकायास् तम्
अवहन् वाजिनो रणे ॥ ह्व्_२५।११ ॥
विश्वास-प्रस्तुतिः
अपुत्रस्य स राज्ञस् तु
ववृधे ऽन्तःपुरे शिशुः ।
यवनस्य महाराज
स कालयवनो ऽभवत् ॥ ह्व्_२५।१२ ॥
मूलम्
अपुत्रस्य स राज्ञस् तु
ववृधे ऽन्तःपुरे शिशुः ।
यवनस्य महाराज
स कालयवनो ऽभवत् ॥ ह्व्_२५।१२ ॥
विश्वास-प्रस्तुतिः
स युद्धकामो नृपतिः
पर्यपृच्छद् द्विजोत्तमान् ।
वृष्ण्यन्धककुलं तस्य
नारदो ऽकथयद् विभुः ॥ ह्व्_२५।१३ ॥
मूलम्
स युद्धकामो नृपतिः
पर्यपृच्छद् द्विजोत्तमान् ।
वृष्ण्यन्धककुलं तस्य
नारदो ऽकथयद् विभुः ॥ ह्व्_२५।१३ ॥
विश्वास-प्रस्तुतिः
अक्षौहिण्या तु सैन्यस्य
मथुराम् अभ्ययात् तदा ।
दूतं च प्रेषयाम् आस
वृष्ण्यन्धकनिवेशने ॥ ह्व्_२५।१४ ॥
मूलम्
अक्षौहिण्या तु सैन्यस्य
मथुराम् अभ्ययात् तदा ।
दूतं च प्रेषयाम् आस
वृष्ण्यन्धकनिवेशने ॥ ह्व्_२५।१४ ॥
विश्वास-प्रस्तुतिः
ततो वृष्ण्यन्धकाः कृष्णं
पुरस्कृत्य महामतिम् ।
समेता मन्त्रयाम् आसुर्
जरासन्धभयेन च ॥ ह्व्_२५।१५ ॥
मूलम्
ततो वृष्ण्यन्धकाः कृष्णं
पुरस्कृत्य महामतिम् ।
समेता मन्त्रयाम् आसुर्
जरासन्धभयेन च ॥ ह्व्_२५।१५ ॥
विश्वास-प्रस्तुतिः
कृत्वा च निश्चयं सर्वे
पलायनम् अरोचयन् ।
([क्: क्२ ins.: :क्])
त्यक्त्वा गृहान् धनं सर्वे
पलायन्त मनोरथम् । ह्व्_२५।१६४२० ।
विहाय मथुरां रम्यां
मानयन्तः पिनाकिनम् ॥
मूलम्
कृत्वा च निश्चयं सर्वे
पलायनम् अरोचयन् ।
([क्: क्२ ins.: :क्])
त्यक्त्वा गृहान् धनं सर्वे
पलायन्त मनोरथम् । ह्व्_२५।१६४२० ।
विहाय मथुरां रम्यां
मानयन्तः पिनाकिनम् ॥
विश्वास-प्रस्तुतिः
कुशस्थलीं द्वारवतीं
निवेशयितुम् ईप्सवः ॥ ह्व्_२५।१६ ॥
मूलम्
कुशस्थलीं द्वारवतीं
निवेशयितुम् ईप्सवः ॥ ह्व्_२५।१६ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।३।४ द्४ ins.: :क्])
एवं देवो महाबाहुः
पूर्वं कृष्णःप्रजापतिः । ह्व्_२५।१६४२१:१ ।
विहारार्थं मनुष्यांशो
मानुषेष्व् अभ्यजायत । ह्व्_२५।१६४२१:२ ।
इति कृष्णस्य जन्मेदं
यः शुचिर् नियतेन्द्रियः ।
पर्वसु श्रावयेद् विद्वान्
निरृणः स सुखी भवेत् ॥ ह्व्_२५।१७ ॥
मूलम्
([क्: क्१।३।४ द्४ ins.: :क्])
एवं देवो महाबाहुः
पूर्वं कृष्णःप्रजापतिः । ह्व्_२५।१६४२१:१ ।
विहारार्थं मनुष्यांशो
मानुषेष्व् अभ्यजायत । ह्व्_२५।१६४२१:२ ।
इति कृष्णस्य जन्मेदं
यः शुचिर् नियतेन्द्रियः ।
पर्वसु श्रावयेद् विद्वान्
निरृणः स सुखी भवेत् ॥ ह्व्_२५।१७ ॥