०२३

विश्वास-प्रस्तुतिः

{जनमेजय उवाच}
पूरोर् वंशम् अहं ब्रह्मञ्
श्रोतुम् इच्छामि तत्त्वतः ।
द्रुह्योश्चानोर् यदोश् चैव
तुर्वसोश् च द्विजोत्तम ॥

मूलम्

{जनमेजय उवाच}
पूरोर् वंशम् अहं ब्रह्मञ्
श्रोतुम् इच्छामि तत्त्वतः ।
द्रुह्योश्चानोर् यदोश् चैव
तुर्वसोश् च द्विजोत्तम ॥

विश्वास-प्रस्तुतिः

विस्तरेणानुपूर्व्या च
तद् भवान् वक्तुम् अर्हति ॥ ह्व्_२३।१ ॥

मूलम्

विस्तरेणानुपूर्व्या च
तद् भवान् वक्तुम् अर्हति ॥ ह्व्_२३।१ ॥

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
वृष्णिवंशप्रसङ्गेन
स्वं वंशं पूर्वम् एव हि ।
शृणु पूरोर् महाराज
वंशम् अग्रे महात्मनः ॥

मूलम्

{वैशम्पायन उवाच}
वृष्णिवंशप्रसङ्गेन
स्वं वंशं पूर्वम् एव हि ।
शृणु पूरोर् महाराज
वंशम् अग्रे महात्मनः ॥

विश्वास-प्रस्तुतिः

विस्तरेणानुपूर्व्या च
यत्र जातो ऽसि पार्थिव ॥ ह्व्_२३।२ ॥

मूलम्

विस्तरेणानुपूर्व्या च
यत्र जातो ऽसि पार्थिव ॥ ह्व्_२३।२ ॥

विश्वास-प्रस्तुतिः

हन्त ते वर्तयिष्यामि
पूरोर् वंशम् अनुत्तमम् ।
द्रुह्योश्चानोर् यदोश् चैव
तुर्वसोश् च परन्तप ॥ ह्व्_२३।३ ॥

मूलम्

हन्त ते वर्तयिष्यामि
पूरोर् वंशम् अनुत्तमम् ।
द्रुह्योश्चानोर् यदोश् चैव
तुर्वसोश् च परन्तप ॥ ह्व्_२३।३ ॥

विश्वास-प्रस्तुतिः

पूरोः प्रवीरः पुत्रो ऽभून्
मनस्युस् तस्य चात्मजः ।
राजा चाभयदो नाम
मनस्योर् अभवत् सुतः ॥ ह्व्_२३।४ ॥

मूलम्

पूरोः प्रवीरः पुत्रो ऽभून्
मनस्युस् तस्य चात्मजः ।
राजा चाभयदो नाम
मनस्योर् अभवत् सुतः ॥ ह्व्_२३।४ ॥

विश्वास-प्रस्तुतिः

तथैवाभयदस्यासीत्
सुधन्वा च महीपतिः ।
सुधन्वनः सुबाहुस् तु
रौद्राश्वस् तस्य चात्मजः ॥ ह्व्_२३।५ ॥

मूलम्

तथैवाभयदस्यासीत्
सुधन्वा च महीपतिः ।
सुधन्वनः सुबाहुस् तु
रौद्राश्वस् तस्य चात्मजः ॥ ह्व्_२३।५ ॥

विश्वास-प्रस्तुतिः

([क्: Ñ२।३ व्१।२ ब्२।३ द्५ (द्स्२ द्६ after the सेचोन्द् ओच्चुर्रेन्चे of ५च् रेपेअतेद् wइथ् ५द् अन्द् ६अ after ७ब्) ins.: :क्])
सम्पातिस् तस्य चात्मजः । ह्व्_२३।५च्३४८:१ ।*
सम्पातेस् तु रहस्याती । ह्व्_२३।५च्३४८:२ ।*
रौद्राश्वस्य दशार्णेयुः
कृकणेयुस् तथैव च ।
([क्: Ñ२।३ व्१।२ ब्२।३ (द्स्२ द्६ after the repetition of ६अ) ins.: :क्])
दशाप्सरसि सूनवः । ह्व्_२३।६अ३४९:१ ।*
ऋचेयुश् प्रथमस् तेषां । ह्व्_२३।६अ३४९:२ ।*
कक्षेयुः स्थण्डिलेयुश् च
सन्नतेयुस् तथैव च ॥ ह्व्_२३।६ ॥

मूलम्

([क्: Ñ२।३ व्१।२ ब्२।३ द्५ (द्स्२ द्६ after the सेचोन्द् ओच्चुर्रेन्चे of ५च् रेपेअतेद् wइथ् ५द् अन्द् ६अ after ७ब्) ins.: :क्])
सम्पातिस् तस्य चात्मजः । ह्व्_२३।५च्३४८:१ ।*
सम्पातेस् तु रहस्याती । ह्व्_२३।५च्३४८:२ ।*
रौद्राश्वस्य दशार्णेयुः
कृकणेयुस् तथैव च ।
([क्: Ñ२।३ व्१।२ ब्२।३ (द्स्२ द्६ after the repetition of ६अ) ins.: :क्])
दशाप्सरसि सूनवः । ह्व्_२३।६अ३४९:१ ।*
ऋचेयुश् प्रथमस् तेषां । ह्व्_२३।६अ३४९:२ ।*
कक्षेयुः स्थण्डिलेयुश् च
सन्नतेयुस् तथैव च ॥ ह्व्_२३।६ ॥

विश्वास-प्रस्तुतिः

ऋचेयुश् च जलेयुश् च
स्थलेयुश् च महाबलः ।
([क्: द्३ फ़ोर् ७अ-ब् सुब्स्त्।: :क्])
षष्ठश् चैव रुचेयुश् च
जलेयुश् चैवसप्तमः । ह्व्_२३।७३५०:१ ।
धर्मेयुश् च दृढेयुश् च
वनेयुर् दशमः स्मृतः । ह्व्_२३।७३५०:२ ।
वननित्यो वनेयुश् च
पुत्रिकाश् च दश स्त्रियः ॥ ह्व्_२३।७ ॥

मूलम्

ऋचेयुश् च जलेयुश् च
स्थलेयुश् च महाबलः ।
([क्: द्३ फ़ोर् ७अ-ब् सुब्स्त्।: :क्])
षष्ठश् चैव रुचेयुश् च
जलेयुश् चैवसप्तमः । ह्व्_२३।७३५०:१ ।
धर्मेयुश् च दृढेयुश् च
वनेयुर् दशमः स्मृतः । ह्व्_२३।७३५०:२ ।
वननित्यो वनेयुश् च
पुत्रिकाश् च दश स्त्रियः ॥ ह्व्_२३।७ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
दशैते ऽप्सरसः पुत्रा
वनेयुश् चावमः स्मृतः । ह्व्_२३।७३५१:१ ।
घृताच्याम् इन्द्रियाणीव
मुख्यस्य जगदात्मनः । ह्व्_२३।७३५१:२ ।
भद्रा शूद्रा च मद्रा च
मलदा मलहा तथा ।
खला बला च राजेन्द्र
तलदा सुरथापि च ॥

मूलम्

([क्: क्४ ins.: :क्])
दशैते ऽप्सरसः पुत्रा
वनेयुश् चावमः स्मृतः । ह्व्_२३।७३५१:१ ।
घृताच्याम् इन्द्रियाणीव
मुख्यस्य जगदात्मनः । ह्व्_२३।७३५१:२ ।
भद्रा शूद्रा च मद्रा च
मलदा मलहा तथा ।
खला बला च राजेन्द्र
तलदा सुरथापि च ॥

विश्वास-प्रस्तुतिः

तथा गोपबला च स्त्री
रत्नकूटा च ता दश ॥ ह्व्_२३।८ ॥

मूलम्

तथा गोपबला च स्त्री
रत्नकूटा च ता दश ॥ ह्व्_२३।८ ॥

विश्वास-प्रस्तुतिः

ऋषिर् जातो ऽत्रिवंशे च
तासां भर्ता प्रभाकरः ।
रुद्रायां जनयाम् आस
सोमं पुत्रं यशस्विनम् ॥ ह्व्_२३।९ ॥

मूलम्

ऋषिर् जातो ऽत्रिवंशे च
तासां भर्ता प्रभाकरः ।
रुद्रायां जनयाम् आस
सोमं पुत्रं यशस्विनम् ॥ ह्व्_२३।९ ॥

विश्वास-प्रस्तुतिः

स्वर्भानुना हते सूर्ये
पतमाने दिवो महीम् ।
तमोभिभूते लोके च
प्रभा येन प्रवर्तिता ॥ ह्व्_२३।१० ॥

मूलम्

स्वर्भानुना हते सूर्ये
पतमाने दिवो महीम् ।
तमोभिभूते लोके च
प्रभा येन प्रवर्तिता ॥ ह्व्_२३।१० ॥

विश्वास-प्रस्तुतिः

स्वस्ति ते ऽस्त्व् इति चोक्तो वै
पतमानो दिवाकरः ।
वचनात् तस्य विप्रर्षेर्
न पपात दिवो महीम् ॥ ह्व्_२३।११ ॥

मूलम्

स्वस्ति ते ऽस्त्व् इति चोक्तो वै
पतमानो दिवाकरः ।
वचनात् तस्य विप्रर्षेर्
न पपात दिवो महीम् ॥ ह्व्_२३।११ ॥

विश्वास-प्रस्तुतिः

अत्रिश्रेष्ठानि गोत्राणि
यश् चकार महातपाः ।
यज्ञेष्व् अत्रिधनं चैव
सुरैर् यस्य प्रवर्तितम् ॥ ह्व्_२३।१२ ॥

मूलम्

अत्रिश्रेष्ठानि गोत्राणि
यश् चकार महातपाः ।
यज्ञेष्व् अत्रिधनं चैव
सुरैर् यस्य प्रवर्तितम् ॥ ह्व्_२३।१२ ॥

विश्वास-प्रस्तुतिः

स तासु जनयाम् आस
पुत्रिकासु सनामकान् ।
दश पुत्रान् महात्मानस्
तपस्य् उग्रे रतान् सदा ॥ ह्व्_२३।१३ ॥

मूलम्

स तासु जनयाम् आस
पुत्रिकासु सनामकान् ।
दश पुत्रान् महात्मानस्
तपस्य् उग्रे रतान् सदा ॥ ह्व्_२३।१३ ॥

विश्वास-प्रस्तुतिः

ते तु गोत्रकरा राजन्न्
ऋषयो वेदपारगाः ।
स्वस्त्यात्रेया इति ख्याताः
किं त्व् अत्रिधनवर्जिताः ॥ ह्व्_२३।१४ ॥

मूलम्

ते तु गोत्रकरा राजन्न्
ऋषयो वेदपारगाः ।
स्वस्त्यात्रेया इति ख्याताः
किं त्व् अत्रिधनवर्जिताः ॥ ह्व्_२३।१४ ॥

विश्वास-प्रस्तुतिः

कक्षेयुतनयास् त्व् आसंस्
त्रय एव महारथाः ।
सभानरश् चाक्षुषश् च
परमेक्षुस् तथैव च ॥ ह्व्_२३।१५ ॥

मूलम्

कक्षेयुतनयास् त्व् आसंस्
त्रय एव महारथाः ।
सभानरश् चाक्षुषश् च
परमेक्षुस् तथैव च ॥ ह्व्_२३।१५ ॥

विश्वास-प्रस्तुतिः

सभानरस्य पुत्रस् तु
विद्वान् कालानलो नृपः ।
कालानलस्य धर्मज्ञः
सृञ्जयो नाम वै सुतः ॥ ह्व्_२३।१६ ॥

मूलम्

सभानरस्य पुत्रस् तु
विद्वान् कालानलो नृपः ।
कालानलस्य धर्मज्ञः
सृञ्जयो नाम वै सुतः ॥ ह्व्_२३।१६ ॥

विश्वास-प्रस्तुतिः

सृञ्जयस्याभवत् पुत्रो
वीरो राजा पुरञ्जयः ।
जनमेजयो महाराज
पुरञ्जयसुतो ऽभवत् ॥ ह्व्_२३।१७ ॥

मूलम्

सृञ्जयस्याभवत् पुत्रो
वीरो राजा पुरञ्जयः ।
जनमेजयो महाराज
पुरञ्जयसुतो ऽभवत् ॥ ह्व्_२३।१७ ॥

विश्वास-प्रस्तुतिः

([क्: द्३ फ़ोर् १७च्-द् सुब्स्त्।: :क्])
पुरञ्जयान् महाराज
पुत्रो ऽभूज्जनमेजयः । ह्व्_२३।१७३५२ ।
जनमेजयस्य राजर्षेर्
महासालो ऽभवत् सुतः ।
देवेषु स परिज्ञातः
प्रतिष्ठितयशास् तथा ॥ ह्व्_२३।१८ ॥

मूलम्

([क्: द्३ फ़ोर् १७च्-द् सुब्स्त्।: :क्])
पुरञ्जयान् महाराज
पुत्रो ऽभूज्जनमेजयः । ह्व्_२३।१७३५२ ।
जनमेजयस्य राजर्षेर्
महासालो ऽभवत् सुतः ।
देवेषु स परिज्ञातः
प्रतिष्ठितयशास् तथा ॥ ह्व्_२३।१८ ॥

विश्वास-प्रस्तुतिः

महामना नाम सुतो
महासालस्य धार्मिकः ।
जज्ञे वीरः सुरगणैः
पूजितः स महामनाः ॥ ह्व्_२३।१९ ॥

मूलम्

महामना नाम सुतो
महासालस्य धार्मिकः ।
जज्ञे वीरः सुरगणैः
पूजितः स महामनाः ॥ ह्व्_२३।१९ ॥

विश्वास-प्रस्तुतिः

महामनास् तु पुत्रौ द्वौ
जनयाम् आस भारत ।
उशीनरं च धर्मज्ञं
तितिक्षुं च महाबलम् ॥ ह्व्_२३।२० ॥

मूलम्

महामनास् तु पुत्रौ द्वौ
जनयाम् आस भारत ।
उशीनरं च धर्मज्ञं
तितिक्षुं च महाबलम् ॥ ह्व्_२३।२० ॥

विश्वास-प्रस्तुतिः

उशीनरस्य पत्न्यस् तु
पञ्च राजर्षिवंशजाः ।
नृगा कृमी नवा दर्वा
पञ्चमी च दृषद्वती ॥ ह्व्_२३।२१ ॥

मूलम्

उशीनरस्य पत्न्यस् तु
पञ्च राजर्षिवंशजाः ।
नृगा कृमी नवा दर्वा
पञ्चमी च दृषद्वती ॥ ह्व्_२३।२१ ॥

विश्वास-प्रस्तुतिः

उशीनरस्य पुत्रास् तु
पञ्च तासु कुलोद्वहाः ।
तपसा चैव महता
जाता वृद्धस्य चात्मजाः ॥ ह्व्_२३।२२ ॥

मूलम्

उशीनरस्य पुत्रास् तु
पञ्च तासु कुलोद्वहाः ।
तपसा चैव महता
जाता वृद्धस्य चात्मजाः ॥ ह्व्_२३।२२ ॥

विश्वास-प्रस्तुतिः

नृगायास् तु नृगः पुत्रः
कृम्याः कृमिर् अजायत ।
नवायास् तु नवः पुत्रो
दर्वायाः सुव्रतो ऽभवत् ॥ ह्व्_२३।२३ ॥

मूलम्

नृगायास् तु नृगः पुत्रः
कृम्याः कृमिर् अजायत ।
नवायास् तु नवः पुत्रो
दर्वायाः सुव्रतो ऽभवत् ॥ ह्व्_२३।२३ ॥

विश्वास-प्रस्तुतिः

दृषद्वत्यास् तु सञ्जज्ञे
शिबिर् औशीनरो नृप ।
शिबेस् तु शिबयस् तात
यौधेयास् तु नृगस्य ह ॥ ह्व्_२३।२४ ॥

मूलम्

दृषद्वत्यास् तु सञ्जज्ञे
शिबिर् औशीनरो नृप ।
शिबेस् तु शिबयस् तात
यौधेयास् तु नृगस्य ह ॥ ह्व्_२३।२४ ॥

विश्वास-प्रस्तुतिः

नवस्य नवराष्ट्रं तु
कृमेस् तु कृमिला पुरी ।
सुव्रतस्य तथाम्बष्ठा
तितिक्षोस् तु प्रजाः शृणु ॥ ह्व्_२३।२५ ॥

मूलम्

नवस्य नवराष्ट्रं तु
कृमेस् तु कृमिला पुरी ।
सुव्रतस्य तथाम्बष्ठा
तितिक्षोस् तु प्रजाः शृणु ॥ ह्व्_२३।२५ ॥

([क्: न् (एxचेप्त् श्१ Ñ१) त्२-४ ग्१-३।५ म्४ (त्१ ग्४ after *३५४) ins.: :क्]) शिबिपुत्रान् निबोध मे ॥ *ह्व्_२३।२५च्*३५३:१ ।*
विश्वास-प्रस्तुतिः

शिबेश् च पुत्राश् चत्वारो
वीरा वै लोकविश्रुताः । ह्व्_२३।२५च्३५३:२ ।
वृषदर्भः सुवीरश् च
कैकेयो मद्रकस् तथा ॥ ह्व्_२३।२५च्३५३:३ ।

मूलम्

शिबेश् च पुत्राश् चत्वारो
वीरा वै लोकविश्रुताः । ह्व्_२३।२५च्३५३:२ ।
वृषदर्भः सुवीरश् च
कैकेयो मद्रकस् तथा ॥ ह्व्_२३।२५च्३५३:३ ।

विश्वास-प्रस्तुतिः

तेषां जनपदाः स्फीताः
कैकेया मद्रकास् तथा । ह्व्_२३।२५च्३५३:४ ।
वृषदर्भाः सुवीराश् च । ह्व्_२३।२५च्३५३:५ ।*
तितिक्षुर् अभवद् राजा
पूर्वस्यां दिशि भारत ।
उषद्रथो महाबाहुस्
तस्य फेनः सुतो ऽभवत् ॥ ह्व्_२३।२६ ॥

मूलम्

तेषां जनपदाः स्फीताः
कैकेया मद्रकास् तथा । ह्व्_२३।२५च्३५३:४ ।
वृषदर्भाः सुवीराश् च । ह्व्_२३।२५च्३५३:५ ।*
तितिक्षुर् अभवद् राजा
पूर्वस्यां दिशि भारत ।
उषद्रथो महाबाहुस्
तस्य फेनः सुतो ऽभवत् ॥ ह्व्_२३।२६ ॥

विश्वास-प्रस्तुतिः

फेनात् तु सुतपा जज्ञे
जज्ञे सुतपसः सुतः ।
बलिर् मानुषयोनौ तु
स राजा काञ्चनेषुधिः ॥ ह्व्_२३।२७ ॥

मूलम्

फेनात् तु सुतपा जज्ञे
जज्ञे सुतपसः सुतः ।
बलिर् मानुषयोनौ तु
स राजा काञ्चनेषुधिः ॥ ह्व्_२३।२७ ॥

विश्वास-प्रस्तुतिः

महायोगी स तु बलिर्
बभूव नृपतिः पुरा ।
पुत्रान् उत्पादयाम् आस
पञ्च वंशकरान् भुवि ॥ ह्व्_२३।२८ ॥

मूलम्

महायोगी स तु बलिर्
बभूव नृपतिः पुरा ।
पुत्रान् उत्पादयाम् आस
पञ्च वंशकरान् भुवि ॥ ह्व्_२३।२८ ॥

विश्वास-प्रस्तुतिः

अङ्गः प्रथमतो जज्ञे
वङ्गः सुह्मस् तथैव च ।
पुण्ड्रः कलिङ्गश् च तथा
बालेयं क्षत्रम् उच्यते ॥

मूलम्

अङ्गः प्रथमतो जज्ञे
वङ्गः सुह्मस् तथैव च ।
पुण्ड्रः कलिङ्गश् च तथा
बालेयं क्षत्रम् उच्यते ॥

विश्वास-प्रस्तुतिः

बालेया ब्राह्मणाश् चैव
तस्य वंशकरा भुवि ॥ ह्व्_२३।२९ ॥

मूलम्

बालेया ब्राह्मणाश् चैव
तस्य वंशकरा भुवि ॥ ह्व्_२३।२९ ॥

विश्वास-प्रस्तुतिः

बलेस् तु ब्रह्मणा दत्तो
वरः प्रीतेन भारत ।
महायोगित्वम् आयुश् च
कल्पस्य परिमाणतः ॥

मूलम्

बलेस् तु ब्रह्मणा दत्तो
वरः प्रीतेन भारत ।
महायोगित्वम् आयुश् च
कल्पस्य परिमाणतः ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
सङ्ग्रामे चाप्य् अजेयत्वं
धर्मे चैव प्रधानताम् । ह्व्_२३।३०३५४:१ ।
त्रैलोक्यदर्शनं चापि
प्राधान्यं प्रसवे तथा । ह्व्_२३।३०३५४:२ ।
बलस्याप्रतिमत्वं वै
धर्मतत्त्वार्थदर्शनम् । ह्व्_२३।३०३५४:३ ।
चतुरो नियतान् वर्णांस्
त्वं च स्थापयितेति ह ॥ ह्व्_२३।३० ॥

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
सङ्ग्रामे चाप्य् अजेयत्वं
धर्मे चैव प्रधानताम् । ह्व्_२३।३०३५४:१ ।
त्रैलोक्यदर्शनं चापि
प्राधान्यं प्रसवे तथा । ह्व्_२३।३०३५४:२ ।
बलस्याप्रतिमत्वं वै
धर्मतत्त्वार्थदर्शनम् । ह्व्_२३।३०३५४:३ ।
चतुरो नियतान् वर्णांस्
त्वं च स्थापयितेति ह ॥ ह्व्_२३।३० ॥

विश्वास-प्रस्तुतिः

इत्य् उक्तो विभुना राजा
बलिः शान्तिं परां ययौ ।
([क्: Ñ२।३ व् ब्२।३ द्न् द्स् ins.: :क्])
तस्य ते तनयाः सर्वे
क्षेत्रजामुनिपुङ्गवाः । ह्व्_२३।३१३५५:१ ।
सम्भूता दीर्घतपसः
सुदेष्णायां महौजसः । ह्व्_२३।३१३५५:२ ।
बलिस् तान् अभिषिच्ये ह
पञ्च पुत्रान् अकल्मषान् ॥ ह्व्_२३।३१३५५:३ ।

मूलम्

इत्य् उक्तो विभुना राजा
बलिः शान्तिं परां ययौ ।
([क्: Ñ२।३ व् ब्२।३ द्न् द्स् ins.: :क्])
तस्य ते तनयाः सर्वे
क्षेत्रजामुनिपुङ्गवाः । ह्व्_२३।३१३५५:१ ।
सम्भूता दीर्घतपसः
सुदेष्णायां महौजसः । ह्व्_२३।३१३५५:२ ।
बलिस् तान् अभिषिच्ये ह
पञ्च पुत्रान् अकल्मषान् ॥ ह्व्_२३।३१३५५:३ ।

विश्वास-प्रस्तुतिः

कृतार्थः सो ऽपि योगात्मा
योगम् आश्रित्य स प्रभुः । ह्व्_२३।३१३५५:४ ।
अधृष्यः सर्वभूतानां
कालापेक्षी चरत्य् उत । ह्व्_२३।३१३५५:५ ।
कालेन महता राजन्
स्वं च स्थानम् उपागमत् ॥ ह्व्_२३।३१ ॥

मूलम्

कृतार्थः सो ऽपि योगात्मा
योगम् आश्रित्य स प्रभुः । ह्व्_२३।३१३५५:४ ।
अधृष्यः सर्वभूतानां
कालापेक्षी चरत्य् उत । ह्व्_२३।३१३५५:५ ।
कालेन महता राजन्
स्वं च स्थानम् उपागमत् ॥ ह्व्_२३।३१ ॥

विश्वास-प्रस्तुतिः

तेषां जनपदाः पञ्च
वङ्गाङ्गाः सुह्मकास् तथा ।
कलिङ्गाः पुण्ड्रकाश् चैव
प्रजास् त्व् अङ्गस्य मे शृणु ॥ ह्व्_२३।३२ ॥

मूलम्

तेषां जनपदाः पञ्च
वङ्गाङ्गाः सुह्मकास् तथा ।
कलिङ्गाः पुण्ड्रकाश् चैव
प्रजास् त्व् अङ्गस्य मे शृणु ॥ ह्व्_२३।३२ ॥

विश्वास-प्रस्तुतिः

अङ्गपुत्रो महान् आसीद्
राजेन्द्रो दधिवाहनः ।
दधिवाहनपुत्रस् तु
राजा दिविरथस् तथा ॥ ह्व्_२३।३३ ॥

मूलम्

अङ्गपुत्रो महान् आसीद्
राजेन्द्रो दधिवाहनः ।
दधिवाहनपुत्रस् तु
राजा दिविरथस् तथा ॥ ह्व्_२३।३३ ॥

विश्वास-प्रस्तुतिः

पुत्रो दिविरथस्यासीच्
छक्रतुल्यपराक्रमः ।
विद्वान् धर्मरथो नाम
तस्य चित्ररथः सुतः ॥ ह्व्_२३।३४ ॥

मूलम्

पुत्रो दिविरथस्यासीच्
छक्रतुल्यपराक्रमः ।
विद्वान् धर्मरथो नाम
तस्य चित्ररथः सुतः ॥ ह्व्_२३।३४ ॥

विश्वास-प्रस्तुतिः

तेन धर्मरथेनाथ
तदा विष्णुपदे गिरौ ।
यजता सह शक्रेण
सोमः पीतो महात्मना ॥ ह्व्_२३।३५ ॥

मूलम्

तेन धर्मरथेनाथ
तदा विष्णुपदे गिरौ ।
यजता सह शक्रेण
सोमः पीतो महात्मना ॥ ह्व्_२३।३५ ॥

विश्वास-प्रस्तुतिः

अथ चित्ररथस्यापि
पुत्रो दशरथो ऽभवत् ।
लोमपाद इति ख्यातो
यस्य शान्ता सुताभवत् ॥ ह्व्_२३।३६ ॥

मूलम्

अथ चित्ररथस्यापि
पुत्रो दशरथो ऽभवत् ।
लोमपाद इति ख्यातो
यस्य शान्ता सुताभवत् ॥ ह्व्_२३।३६ ॥

विश्वास-प्रस्तुतिः

तस्य दाशरथिर् वीरश्
चतुरङ्गो महायशाः ।
ऋष्यशृङ्गप्रभावेन
जज्ञे कुलविवर्धनः ॥ ह्व्_२३।३७ ॥

मूलम्

तस्य दाशरथिर् वीरश्
चतुरङ्गो महायशाः ।
ऋष्यशृङ्गप्रभावेन
जज्ञे कुलविवर्धनः ॥ ह्व्_२३।३७ ॥

विश्वास-प्रस्तुतिः

चतुरङ्गस्य पुत्रस् तु
पृथुलाक्ष इति स्मृतः ।
पृथुलाक्षसुतो राजा
चम्पो नाम महायशाः ॥

मूलम्

चतुरङ्गस्य पुत्रस् तु
पृथुलाक्ष इति स्मृतः ।
पृथुलाक्षसुतो राजा
चम्पो नाम महायशाः ॥

विश्वास-प्रस्तुतिः

चम्पस्य तु पुरी चम्पा
या पूर्वं मालिनी बभौ ॥ ह्व्_२३।३८ ॥

मूलम्

चम्पस्य तु पुरी चम्पा
या पूर्वं मालिनी बभौ ॥ ह्व्_२३।३८ ॥

विश्वास-प्रस्तुतिः

पूर्णभद्रप्रसादेन
हर्यङ्गो ऽस्य सुतो ऽभवत् ।
ततो विभाण्डकस् तस्य
वारणं शत्रुवारणम् ॥

मूलम्

पूर्णभद्रप्रसादेन
हर्यङ्गो ऽस्य सुतो ऽभवत् ।
ततो विभाण्डकस् तस्य
वारणं शत्रुवारणम् ॥

विश्वास-प्रस्तुतिः

अवतारयाम् आस महीं
मन्त्रैर् वाहनम् उत्तमम् ॥ ह्व्_२३।३९ ॥

मूलम्

अवतारयाम् आस महीं
मन्त्रैर् वाहनम् उत्तमम् ॥ ह्व्_२३।३९ ॥

विश्वास-प्रस्तुतिः

हर्यङ्गस्य सुतः कर्णो
विकर्णस् तस्य चात्मजः ।
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
राजा भद्ररथः स्मृतः । ह्व्_२३।४०अ३५६:१ ।*
पुत्रो भद्ररथस्यासीद्
बृहत्कर्मा प्रजेश्वरः । ह्व्_२३।४०अ३५६:२ ।
बृहद्दर्भः सुतस् तस्य
यस्माज् जज्ञे बृहन्मनाः ॥ ह्व्_२३।४०अ३५६:३ ।

मूलम्

हर्यङ्गस्य सुतः कर्णो
विकर्णस् तस्य चात्मजः ।
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
राजा भद्ररथः स्मृतः । ह्व्_२३।४०अ३५६:१ ।*
पुत्रो भद्ररथस्यासीद्
बृहत्कर्मा प्रजेश्वरः । ह्व्_२३।४०अ३५६:२ ।
बृहद्दर्भः सुतस् तस्य
यस्माज् जज्ञे बृहन्मनाः ॥ ह्व्_२३।४०अ३५६:३ ।

विश्वास-प्रस्तुतिः

बृहन्मनास् तु राजेन्द्रो
जनयाम् आस वै सुतम् । ह्व्_२३।४०अ३५६:४ ।
नाम्ना जयद्रथं नाम
यस्माद् दृढरथो नृपः ॥ ह्व्_२३।४०अ३५६:५ ।

मूलम्

बृहन्मनास् तु राजेन्द्रो
जनयाम् आस वै सुतम् । ह्व्_२३।४०अ३५६:४ ।
नाम्ना जयद्रथं नाम
यस्माद् दृढरथो नृपः ॥ ह्व्_२३।४०अ३५६:५ ।

विश्वास-प्रस्तुतिः

आसीद् दृढरथस्यापि
विश्वजिज् जनमेजय । ह्व्_२३।४०अ३५६:६ ।
दायादस् तस्य कर्णस् तु । ह्व्_२३।४०अ३५६:७ ।*
तस्य पुत्रशतं त्व् आसीद्
अङ्गानां कुलवर्धनम् ॥ ह्व्_२३।४० ॥

मूलम्

आसीद् दृढरथस्यापि
विश्वजिज् जनमेजय । ह्व्_२३।४०अ३५६:६ ।
दायादस् तस्य कर्णस् तु । ह्व्_२३।४०अ३५६:७ ।*
तस्य पुत्रशतं त्व् आसीद्
अङ्गानां कुलवर्धनम् ॥ ह्व्_२३।४० ॥

([क्: म्१-३ फ़ोर् ४०च्-द् सुब्स्त्।: :क्]) विकर्णस्य सुतस् त्व् आसीद् अङ्गदःकुलवर्धनः । *ह्व्_२३।४०*३५७ ।
विश्वास-प्रस्तुतिः

([क्: क्१।३।४ Ñ२।३ व्१ द्न् द्स् द्१।३।४।६ (क्२ after ४०ब्; व्२ after the repetition ofलिने ३ of *३६३) ins.: :क्])
बृहद्दर्भसुतो यस् तु
राजा नाम्नाबृहन्मनाः । ह्व्_२३।४०३५८:१ ।
तस्य पत्नीद्वयम् चासीच्
चैद्यस्यैते सुते शुभे । ह्व्_२३।४०३५८:२ ।
यशोदेवी च सत्त्वी च
ताभ्यां वंशः स भिध्यते ॥ ह्व्_२३।४०३५८:३ ।

मूलम्

([क्: क्१।३।४ Ñ२।३ व्१ द्न् द्स् द्१।३।४।६ (क्२ after ४०ब्; व्२ after the repetition ofलिने ३ of *३६३) ins.: :क्])
बृहद्दर्भसुतो यस् तु
राजा नाम्नाबृहन्मनाः । ह्व्_२३।४०३५८:१ ।
तस्य पत्नीद्वयम् चासीच्
चैद्यस्यैते सुते शुभे । ह्व्_२३।४०३५८:२ ।
यशोदेवी च सत्त्वी च
ताभ्यां वंशः स भिध्यते ॥ ह्व्_२३।४०३५८:३ ।

विश्वास-प्रस्तुतिः

जयद्रथस् तु राजेन्द्र
यशोदेव्यां व्यजायत । ह्व्_२३।४०३५८:४ ।
ब्रह्मक्षत्रोत्तरः सत्त्व्यां
विजयो नाम विश्रुतः ॥ ह्व्_२३।४०३५८:५ ।

मूलम्

जयद्रथस् तु राजेन्द्र
यशोदेव्यां व्यजायत । ह्व्_२३।४०३५८:४ ।
ब्रह्मक्षत्रोत्तरः सत्त्व्यां
विजयो नाम विश्रुतः ॥ ह्व्_२३।४०३५८:५ ।

विश्वास-प्रस्तुतिः

विजयस्य धृतिः पुत्रस्
तस्य पुत्रो धृतव्रतः । ह्व्_२३।४०३५८:६ ।
धृतव्रतस्य पुत्रस् तु
सत्यकर्मा महाव्रतः ॥ ह्व्_२३।४०३५८:७ ।

मूलम्

विजयस्य धृतिः पुत्रस्
तस्य पुत्रो धृतव्रतः । ह्व्_२३।४०३५८:६ ।
धृतव्रतस्य पुत्रस् तु
सत्यकर्मा महाव्रतः ॥ ह्व्_२३।४०३५८:७ ।

विश्वास-प्रस्तुतिः

सत्यकर्मसुतश् चापि
सूतस् त्व् अधिरथस् तु वै । ह्व्_२३।४०३५८:८ ।
यः कर्णं प्रतिजग्राह
ततः कर्णस् तु सूतजः ॥ ह्व्_२३।४०३५८:९ ।

मूलम्

सत्यकर्मसुतश् चापि
सूतस् त्व् अधिरथस् तु वै । ह्व्_२३।४०३५८:८ ।
यः कर्णं प्रतिजग्राह
ततः कर्णस् तु सूतजः ॥ ह्व्_२३।४०३५८:९ ।

विश्वास-प्रस्तुतिः

एतद् वः कथितं सर्वं
कर्णं प्रति महाबलम् । ह्व्_२३।४०३५८:१० ।
कर्णस्य वृषसेनस् तु
वृषस् तस्यात्मजः स्मृतः । ह्व्_२३।४०३५८:११ ।
([क्: क्२ after लिने ८ of *३५८ ins.: :क्])
धार्मिकः सर्ववर्णस् तु
सेनस्तस्यात्मजो ऽभवत् । ह्व्_२३।४०३५८अ ।
एते ऽङ्गवंशजाः सर्वे
राजानः कीर्तिता मया ।
सत्यव्रता महात्मानः
प्रजावन्तो महारथाः ॥ ह्व्_२३।४१ ॥

मूलम्

एतद् वः कथितं सर्वं
कर्णं प्रति महाबलम् । ह्व्_२३।४०३५८:१० ।
कर्णस्य वृषसेनस् तु
वृषस् तस्यात्मजः स्मृतः । ह्व्_२३।४०३५८:११ ।
([क्: क्२ after लिने ८ of *३५८ ins.: :क्])
धार्मिकः सर्ववर्णस् तु
सेनस्तस्यात्मजो ऽभवत् । ह्व्_२३।४०३५८अ ।
एते ऽङ्गवंशजाः सर्वे
राजानः कीर्तिता मया ।
सत्यव्रता महात्मानः
प्रजावन्तो महारथाः ॥ ह्व्_२३।४१ ॥

विश्वास-प्रस्तुतिः

ऋचेयोस् तु महाराज
रौद्राश्वतनयस्य वै ।
शृणु वंशम् अनुप्रोक्तं
यत्र जातो ऽसि पार्थिव ॥ ह्व्_२३।४२ ॥

मूलम्

ऋचेयोस् तु महाराज
रौद्राश्वतनयस्य वै ।
शृणु वंशम् अनुप्रोक्तं
यत्र जातो ऽसि पार्थिव ॥ ह्व्_२३।४२ ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३; न् अन्द् त्३।४ after अन् अद्द्ल्। चोलोफोन्)इन्स्।: :क्])
{वैशम्पायन उवाच}
अनाधृष्यस् तु राजर्षिर्
ऋचेयुश् चैकराट् स्मृतः । ह्व्_२३।४२३५९:१ ।
ऋचेयोर् ज्वलना नाम
भार्या वै तक्षकात्मजा । ह्व्_२३।४२३५९:२ ।
ऋचेयुतनयो राजन्
मतिनारो महीपतिः ।
मतिनारसुताश् चासंस्
त्रयः परमधार्मिकाः ॥ ह्व्_२३।४३ ॥

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३; न् अन्द् त्३।४ after अन् अद्द्ल्। चोलोफोन्)इन्स्।: :क्])
{वैशम्पायन उवाच}
अनाधृष्यस् तु राजर्षिर्
ऋचेयुश् चैकराट् स्मृतः । ह्व्_२३।४२३५९:१ ।
ऋचेयोर् ज्वलना नाम
भार्या वै तक्षकात्मजा । ह्व्_२३।४२३५९:२ ।
ऋचेयुतनयो राजन्
मतिनारो महीपतिः ।
मतिनारसुताश् चासंस्
त्रयः परमधार्मिकाः ॥ ह्व्_२३।४३ ॥

विश्वास-प्रस्तुतिः

तंसुरोघो ऽप्रतिरथः
सुबाहुश् चैव धार्मिकः ।
([क्: क् Ñ२।३ व् ब् द् त्२-४ ग् (त्१ after ४३द्) ins.: :क्])
गौरी कन्या चविख्याता
मान्धातृजननी शुभा । ह्व्_२३।४४३६० ।
सर्वे वेदव्रतस्नाता
ब्रह्मण्याः सत्यवादिनः ॥ ह्व्_२३।४४ ॥

मूलम्

तंसुरोघो ऽप्रतिरथः
सुबाहुश् चैव धार्मिकः ।
([क्: क् Ñ२।३ व् ब् द् त्२-४ ग् (त्१ after ४३द्) ins.: :क्])
गौरी कन्या चविख्याता
मान्धातृजननी शुभा । ह्व्_२३।४४३६० ।
सर्वे वेदव्रतस्नाता
ब्रह्मण्याः सत्यवादिनः ॥ ह्व्_२३।४४ ॥

विश्वास-प्रस्तुतिः

([क्: क्२-४ Ñ२।३ व् ब् द् (एxचेप्त् द्६) त् ग्१।३-५ (क्१ after *३६०) ins.: :क्])
सर्वेकृतास्त्रा बलिनः
सर्वे युद्धविशारदाः । ह्व्_२३।४४३६१:१ ।
पुत्रो ऽप्रतिरथस्यासीत्
कण्वः समभवन् नृपः । ह्व्_२३।४४३६१:२ ।
मेधातिथिः सुतस् तस्य
यस्मात् काण्वो ऽभवद् द्विजः । ह्व्_२३।४४३६१:३ ।
इला नाम तु यस्यासीत्
कन्या वै जनमेजय ।
ब्रह्मवादिन्य् अधित्री च
तंसुस् ताम् अध्यगच्छत ॥ ह्व्_२३।४५ ॥

मूलम्

([क्: क्२-४ Ñ२।३ व् ब् द् (एxचेप्त् द्६) त् ग्१।३-५ (क्१ after *३६०) ins.: :क्])
सर्वेकृतास्त्रा बलिनः
सर्वे युद्धविशारदाः । ह्व्_२३।४४३६१:१ ।
पुत्रो ऽप्रतिरथस्यासीत्
कण्वः समभवन् नृपः । ह्व्_२३।४४३६१:२ ।
मेधातिथिः सुतस् तस्य
यस्मात् काण्वो ऽभवद् द्विजः । ह्व्_२३।४४३६१:३ ।
इला नाम तु यस्यासीत्
कन्या वै जनमेजय ।
ब्रह्मवादिन्य् अधित्री च
तंसुस् ताम् अध्यगच्छत ॥ ह्व्_२३।४५ ॥

विश्वास-प्रस्तुतिः

तंसोः सुरौघो राजर्षिर्
धर्मनेत्रो महायशाः ।
ब्रह्मवादी पराक्रान्तस्
तस्य भार्योपदानवी ॥ ह्व्_२३।४६ ॥

मूलम्

तंसोः सुरौघो राजर्षिर्
धर्मनेत्रो महायशाः ।
ब्रह्मवादी पराक्रान्तस्
तस्य भार्योपदानवी ॥ ह्व्_२३।४६ ॥

विश्वास-प्रस्तुतिः

उपदानवी सुतांल् लेभे
चतुरस् तान् सुरौघतः ।
([क्: श्१ ins.: :क्])
ततश् चोत्पादयाम् आस
चतुरः पुरुनन्दनान् । ह्व्_२३।४७३६२ ।
दुःषन्तम् अथ सुःषन्तं
प्रवीरम् अनघं तथा ॥ ह्व्_२३।४७ ॥

मूलम्

उपदानवी सुतांल् लेभे
चतुरस् तान् सुरौघतः ।
([क्: श्१ ins.: :क्])
ततश् चोत्पादयाम् आस
चतुरः पुरुनन्दनान् । ह्व्_२३।४७३६२ ।
दुःषन्तम् अथ सुःषन्तं
प्रवीरम् अनघं तथा ॥ ह्व्_२३।४७ ॥

विश्वास-प्रस्तुतिः

दुःषन्तस्य तु दायादो
भरतो नाम वीर्यवान् ।
स सर्वदमनो नाम
नागायुतबलो महान् ॥ ह्व्_२३।४८ ॥

मूलम्

दुःषन्तस्य तु दायादो
भरतो नाम वीर्यवान् ।
स सर्वदमनो नाम
नागायुतबलो महान् ॥ ह्व्_२३।४८ ॥

विश्वास-प्रस्तुतिः

चक्रवर्ती सुतो जज्ञे
दुःषन्तस्य महायशाः ।
शकुन्तलायां भरतो
यस्य नाम्ना स्थ भारताः ॥ ह्व्_२३।४९ ॥

मूलम्

चक्रवर्ती सुतो जज्ञे
दुःषन्तस्य महायशाः ।
शकुन्तलायां भरतो
यस्य नाम्ना स्थ भारताः ॥ ह्व्_२३।४९ ॥

विश्वास-प्रस्तुतिः

([क्: क् Ñ२।३ व् ब्२ द् (एxचेप्त् द्६) ins.: :क्])
दुःषन्तं प्रति राजाणं
वाग् उवाचाशरीरिणी । ह्व्_२३।४९३६३:१ ।
माता भस्त्रा पितुः पुत्रो
येन जातः स एव सः । ह्व्_२३।४९३६३:२ ।
भरस्व पुत्रं दुःषन्त
मावमंस्थाः शकुन्तलाम् ॥ ह्व्_२३।४९३६३:३ ।

मूलम्

([क्: क् Ñ२।३ व् ब्२ द् (एxचेप्त् द्६) ins.: :क्])
दुःषन्तं प्रति राजाणं
वाग् उवाचाशरीरिणी । ह्व्_२३।४९३६३:१ ।
माता भस्त्रा पितुः पुत्रो
येन जातः स एव सः । ह्व्_२३।४९३६३:२ ।
भरस्व पुत्रं दुःषन्त
मावमंस्थाः शकुन्तलाम् ॥ ह्व्_२३।४९३६३:३ ।

विश्वास-प्रस्तुतिः

रेतोधाः पुत्र उन्नयति
नरदेव यमक्षयात् । ह्व्_२३।४९३६३:४ ।
त्वं चास्य धाता गर्भस्य
सत्यम् आह शकुन्तला । ह्व्_२३।४९३६३:५ ।
भरतस्य विनष्टेषु
तनयेषु महीपतेः ।
मातॄणां तात कोपेण
यथा ते कथितं तदा ॥ ह्व्_२३।५० ॥

मूलम्

रेतोधाः पुत्र उन्नयति
नरदेव यमक्षयात् । ह्व्_२३।४९३६३:४ ।
त्वं चास्य धाता गर्भस्य
सत्यम् आह शकुन्तला । ह्व्_२३।४९३६३:५ ।
भरतस्य विनष्टेषु
तनयेषु महीपतेः ।
मातॄणां तात कोपेण
यथा ते कथितं तदा ॥ ह्व्_२३।५० ॥

विश्वास-प्रस्तुतिः

बृहस्पतेर् अङ्गिरसः
पुत्रो राजन् महामुनिः ।
अयाजयद् भरद्वाजो
महद्भिः क्रतुभिर् विभुः ॥ ह्व्_२३।५१ ॥

मूलम्

बृहस्पतेर् अङ्गिरसः
पुत्रो राजन् महामुनिः ।
अयाजयद् भरद्वाजो
महद्भिः क्रतुभिर् विभुः ॥ ह्व्_२३।५१ ॥

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् श्१ Ñ१ द्६) त्३।४ ins.: :क्])
अत्रैवोदाहरन्तीमं
भरद्वाजस्य धीमतः । ह्व्_२३।५१३६४:१ ।
धर्मसङ्क्रमणं चापि
मरुद्भिर् भरताय वै । ह्व्_२३।५१३६४:२ ।
पूर्वं तु वितथे तस्य
कृते वै पुत्रजन्मनि ।
ततो ऽथ वितथो नाम
भरद्वाजात् सुतो ऽभवत् ॥ ह्व्_२३।५२ ॥

मूलम्

([क्: न् (एxचेप्त् श्१ Ñ१ द्६) त्३।४ ins.: :क्])
अत्रैवोदाहरन्तीमं
भरद्वाजस्य धीमतः । ह्व्_२३।५१३६४:१ ।
धर्मसङ्क्रमणं चापि
मरुद्भिर् भरताय वै । ह्व्_२३।५१३६४:२ ।
पूर्वं तु वितथे तस्य
कृते वै पुत्रजन्मनि ।
ततो ऽथ वितथो नाम
भरद्वाजात् सुतो ऽभवत् ॥ ह्व्_२३।५२ ॥

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् श्१ Ñ१ द्६) त्३।४ ins.: :क्])
ततो ऽथ वितथे जाते
भरतस् तु दिवं ययौ । ह्व्_२३।५२३६५:१ ।
वितथं चाभिषिच्याथ
भरद्वाजो वनं ययौ । ह्व्_२३।५२३६५:२ ।
([क्: क्२ Ñ२ व्३ द्३ after *३६५ चोन्त्।: :क्])
वितथस्य तु दायादो
भुवमन्युर् बभूव ह । ह्व्_२३।५२३६६:१ ।
महाभूतोपमाश् चामी
चत्वारो भुवमन्युजाः । ह्व्_२३।५२३६६:२ ।
बृहत्क्षत्रो महावीर्यो
नरो गार्ग्यश् च वीर्यवान् ॥ ह्व्_२३।५२३६६:३ ।

मूलम्

([क्: न् (एxचेप्त् श्१ Ñ१ द्६) त्३।४ ins.: :क्])
ततो ऽथ वितथे जाते
भरतस् तु दिवं ययौ । ह्व्_२३।५२३६५:१ ।
वितथं चाभिषिच्याथ
भरद्वाजो वनं ययौ । ह्व्_२३।५२३६५:२ ।
([क्: क्२ Ñ२ व्३ द्३ after *३६५ चोन्त्।: :क्])
वितथस्य तु दायादो
भुवमन्युर् बभूव ह । ह्व्_२३।५२३६६:१ ।
महाभूतोपमाश् चामी
चत्वारो भुवमन्युजाः । ह्व्_२३।५२३६६:२ ।
बृहत्क्षत्रो महावीर्यो
नरो गार्ग्यश् च वीर्यवान् ॥ ह्व्_२३।५२३६६:३ ।

विश्वास-प्रस्तुतिः

नरस्य साङ्कृतिः पुत्रस्
तस्य पुत्रौ महाबलौ । ह्व्_२३।५२३६६:४ ।
वरवी रन्तिदेवश् च
ते च कात्यायनाः स्मृताः ॥ ह्व्_२३।५२३६६:५ ।

मूलम्

नरस्य साङ्कृतिः पुत्रस्
तस्य पुत्रौ महाबलौ । ह्व्_२३।५२३६६:४ ।
वरवी रन्तिदेवश् च
ते च कात्यायनाः स्मृताः ॥ ह्व्_२३।५२३६६:५ ।

विश्वास-प्रस्तुतिः

दायादा अपि गार्ग्यस्य
शिबिर् विद्वान् बभूव ह । ह्व्_२३।५२३६६:६ ।
स्मृताः शैब्यास् ततो गार्ग्याः
क्षत्रोत्पन्ना द्विजातयः ॥ ह्व्_२३।५२३६६:७ ।

मूलम्

दायादा अपि गार्ग्यस्य
शिबिर् विद्वान् बभूव ह । ह्व्_२३।५२३६६:६ ।
स्मृताः शैब्यास् ततो गार्ग्याः
क्षत्रोत्पन्ना द्विजातयः ॥ ह्व्_२३।५२३६६:७ ।

विश्वास-प्रस्तुतिः

महावीर्यसुतश् चासीद्
धीमान् नाम्ना पुरुक्षयः । ह्व्_२३।५२३६६:८ ।
तस्य भार्या विशाला तु
सुषुवे तत् सुतत्रयम् । ह्व्_२३।५२३६६:९ ।
त्रैयाक्षणं पुष्करिणं
तृतीयं सुषुवे कपिम् ॥ ह्व्_२३।५२३६६:१० ।

मूलम्

महावीर्यसुतश् चासीद्
धीमान् नाम्ना पुरुक्षयः । ह्व्_२३।५२३६६:८ ।
तस्य भार्या विशाला तु
सुषुवे तत् सुतत्रयम् । ह्व्_२३।५२३६६:९ ।
त्रैयाक्षणं पुष्करिणं
तृतीयं सुषुवे कपिम् ॥ ह्व्_२३।५२३६६:१० ।

विश्वास-प्रस्तुतिः

कपीनां प्रवरा ह्य् एते
त्रयः प्रोक्ता महर्षयः । ह्व्_२३।५२३६६:११ ।
गार्ग्याः सङ्कृतयः काप्याः
क्षत्रोत्पन्ना द्विजातयः । ह्व्_२३।५२३६६:१२ ।
संश्रिताङ्गिरसः पक्षं
सर्वे जाता महाबलाः ॥ ह्व्_२३।५२३६६:१३ ।

मूलम्

कपीनां प्रवरा ह्य् एते
त्रयः प्रोक्ता महर्षयः । ह्व्_२३।५२३६६:११ ।
गार्ग्याः सङ्कृतयः काप्याः
क्षत्रोत्पन्ना द्विजातयः । ह्व्_२३।५२३६६:१२ ।
संश्रिताङ्गिरसः पक्षं
सर्वे जाता महाबलाः ॥ ह्व्_२३।५२३६६:१३ ।

विश्वास-प्रस्तुतिः

बृहत्क्षत्रस्य दायादः
सुहोत्रो नाम धार्मिकः । ह्व्_२३।५२३६६:१४ ।
सुहोत्रस्य तु दायादो
हस्ती नाम बभूव ह । ह्व्_२३।५२३६६:१५ ।
तेनेदं निर्मितं पूर्वं
पुरं गजसमाह्वयम् ॥ ह्व्_२३।५२३६६:१६ ।

मूलम्

बृहत्क्षत्रस्य दायादः
सुहोत्रो नाम धार्मिकः । ह्व्_२३।५२३६६:१४ ।
सुहोत्रस्य तु दायादो
हस्ती नाम बभूव ह । ह्व्_२३।५२३६६:१५ ।
तेनेदं निर्मितं पूर्वं
पुरं गजसमाह्वयम् ॥ ह्व्_२३।५२३६६:१६ ।

विश्वास-प्रस्तुतिः

हस्तिनश् चापि दायादास्
त्रयः परमकीर्तयः । ह्व्_२३।५२३६६:१७ ।
अजमीढस्य पुत्रास् तु
जाताः कुरुकुलोद्वह ॥ ह्व्_२३।५२३६६:१८ ।

मूलम्

हस्तिनश् चापि दायादास्
त्रयः परमकीर्तयः । ह्व्_२३।५२३६६:१७ ।
अजमीढस्य पुत्रास् तु
जाताः कुरुकुलोद्वह ॥ ह्व्_२३।५२३६६:१८ ।

विश्वास-प्रस्तुतिः

तपसो ऽन्ते सुमहतो
राज्ञो वृद्धस्य धार्मिकाः । ह्व्_२३।५२३६६:१९ ।
भरद्वाजप्रसादेन
जाता वंशविवर्धनाः ॥ ह्व्_२३।५२३६६:२० ।

मूलम्

तपसो ऽन्ते सुमहतो
राज्ञो वृद्धस्य धार्मिकाः । ह्व्_२३।५२३६६:१९ ।
भरद्वाजप्रसादेन
जाता वंशविवर्धनाः ॥ ह्व्_२३।५२३६६:२० ।

विश्वास-प्रस्तुतिः

अजमीढस्य केशिन्यां
कण्वः समभवत् सुतः । ह्व्_२३।५२३६६:२१ ।
मेधातिथिः सुतस् तस्य
तस्मात् काण्वायनाः स्मृताः । ह्व्_२३।५२३६६:२२ ।
स चापि वितथः पुत्राञ्
जनयाम् आस पञ्च वै ।
सुहोत्रं सुतहोतारं
गयं गर्गं तथैव च ॥ ह्व्_२३।५३ ॥

मूलम्

अजमीढस्य केशिन्यां
कण्वः समभवत् सुतः । ह्व्_२३।५२३६६:२१ ।
मेधातिथिः सुतस् तस्य
तस्मात् काण्वायनाः स्मृताः । ह्व्_२३।५२३६६:२२ ।
स चापि वितथः पुत्राञ्
जनयाम् आस पञ्च वै ।
सुहोत्रं सुतहोतारं
गयं गर्गं तथैव च ॥ ह्व्_२३।५३ ॥

विश्वास-प्रस्तुतिः

([क्: त्३ ins.: :क्])
सुहोत्रस्य च पुत्रस् तु
च्यवनो नाम धार्मिकः । ह्व्_२३।५३३६७ ।
कपिलं च महात्मानं
सुतहोतुः सुतद्वयम् ।
काशिकश् च महासत्त्वस्
तथा गृत्समतिः प्रभुः ॥ ह्व्_२३।५४ ॥

मूलम्

([क्: त्३ ins.: :क्])
सुहोत्रस्य च पुत्रस् तु
च्यवनो नाम धार्मिकः । ह्व्_२३।५३३६७ ।
कपिलं च महात्मानं
सुतहोतुः सुतद्वयम् ।
काशिकश् च महासत्त्वस्
तथा गृत्समतिः प्रभुः ॥ ह्व्_२३।५४ ॥

विश्वास-प्रस्तुतिः

तथा गृत्समतेः पुत्रा
ब्राह्मणाः क्षत्रिया विशः ।
काश्यस्य काशयो राजन्
पुत्रो दीर्घतपास् तथा ॥ ह्व्_२३।५५ ॥

मूलम्

तथा गृत्समतेः पुत्रा
ब्राह्मणाः क्षत्रिया विशः ।
काश्यस्य काशयो राजन्
पुत्रो दीर्घतपास् तथा ॥ ह्व्_२३।५५ ॥

विश्वास-प्रस्तुतिः

बभूव दीर्घतपसो
विद्वान् धन्वन्तरिः सुतः ।
धन्वन्तरेस् तु तनयः
केतुमान् इति विश्रुतः ॥ ह्व्_२३।५६ ॥

मूलम्

बभूव दीर्घतपसो
विद्वान् धन्वन्तरिः सुतः ।
धन्वन्तरेस् तु तनयः
केतुमान् इति विश्रुतः ॥ ह्व्_२३।५६ ॥

विश्वास-प्रस्तुतिः

अथा केतुमतः पुत्रो
वीरो भीमरथः स्मृतः ।
([क्: क्४ व्२ द्न् द्२ त्२ ins.: :क्])
सुतो भीमरथस्यासीद्
दिवोदासःप्रजेश्वरः । ह्व्_२३।५७३६८ ।
दिवोदास इति ख्यातः
सर्वरक्षःप्रणाशनः ॥ ह्व्_२३।५७ ॥

मूलम्

अथा केतुमतः पुत्रो
वीरो भीमरथः स्मृतः ।
([क्: क्४ व्२ द्न् द्२ त्२ ins.: :क्])
सुतो भीमरथस्यासीद्
दिवोदासःप्रजेश्वरः । ह्व्_२३।५७३६८ ।
दिवोदास इति ख्यातः
सर्वरक्षःप्रणाशनः ॥ ह्व्_२३।५७ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्न् एव काले तु
पुरीं वाराणसीं नृपः ।
शून्यां निवेशयाम् आस
क्षेमको नाम राक्षसः ॥ ह्व्_२३।५८ ॥

मूलम्

एतस्मिन्न् एव काले तु
पुरीं वाराणसीं नृपः ।
शून्यां निवेशयाम् आस
क्षेमको नाम राक्षसः ॥ ह्व्_२३।५८ ॥

विश्वास-प्रस्तुतिः

शप्ता हि सा मतिमता
निकुम्भेन महात्मना ।
शून्या वर्षसहस्रं वै
भवित्रीति नरर्षभ ॥ ह्व्_२३।५९ ॥

मूलम्

शप्ता हि सा मतिमता
निकुम्भेन महात्मना ।
शून्या वर्षसहस्रं वै
भवित्रीति नरर्षभ ॥ ह्व्_२३।५९ ॥

विश्वास-प्रस्तुतिः

तस्यां तु शप्तमात्रायां
दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां
गोमत्यां सन्न्यवेशयत् ॥ ह्व्_२३।६० ॥

मूलम्

तस्यां तु शप्तमात्रायां
दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां
गोमत्यां सन्न्यवेशयत् ॥ ह्व्_२३।६० ॥

विश्वास-प्रस्तुतिः

([क्: द्न् ग्(एद्।) ins.: :क्])
भद्रश्रेण्यस्य पूर्वं तु
पुरी वाराणसीभवत् । ह्व्_२३।६०३६९:१ ।
यदुवंशप्रसूतस्य
तपस्य् अभिरतस्य च । ह्व्_२३।६०३६९:२ ।
भद्रश्रेण्यस्य पुत्राणां
शतम् उत्तमधन्विनाम् ।
हत्वा निवेशयाम् आस
दिवोदासः प्रजेश्वरः ॥ ह्व्_२३।६१ ॥

मूलम्

([क्: द्न् ग्(एद्।) ins.: :क्])
भद्रश्रेण्यस्य पूर्वं तु
पुरी वाराणसीभवत् । ह्व्_२३।६०३६९:१ ।
यदुवंशप्रसूतस्य
तपस्य् अभिरतस्य च । ह्व्_२३।६०३६९:२ ।
भद्रश्रेण्यस्य पुत्राणां
शतम् उत्तमधन्विनाम् ।
हत्वा निवेशयाम् आस
दिवोदासः प्रजेश्वरः ॥ ह्व्_२३।६१ ॥

विश्वास-प्रस्तुतिः

दिवोदासस्य पुत्रस् तु
वीरो राजा प्रतर्दनः ।
प्रतर्दनस्य पुत्रौ द्वौ
वत्सो भार्गव एव च ॥ ह्व्_२३।६२ ॥

मूलम्

दिवोदासस्य पुत्रस् तु
वीरो राजा प्रतर्दनः ।
प्रतर्दनस्य पुत्रौ द्वौ
वत्सो भार्गव एव च ॥ ह्व्_२३।६२ ॥

विश्वास-प्रस्तुतिः

अलर्को राजपुत्रश् च
राजा सन्नतिमान् भुवि ।
हेहयस्य तु दायाद्यं
हृतवान् वै महीपतिः ॥ ह्व्_२३।६३ ॥

मूलम्

अलर्को राजपुत्रश् च
राजा सन्नतिमान् भुवि ।
हेहयस्य तु दायाद्यं
हृतवान् वै महीपतिः ॥ ह्व्_२३।६३ ॥

विश्वास-प्रस्तुतिः

आजह्रे पितृदायाद्यं
दिवोदासहृतं बलात् ।
([क्: क्२ ins.: :क्])
तस्यान्वये सुहोत्रो ऽभूद्
राजा परमधार्मिकः । ह्व्_२३।६४३७० ।
भद्रश्रेण्यस्य पुत्रेण
दुर्दमेन महात्मना ॥

मूलम्

आजह्रे पितृदायाद्यं
दिवोदासहृतं बलात् ।
([क्: क्२ ins.: :क्])
तस्यान्वये सुहोत्रो ऽभूद्
राजा परमधार्मिकः । ह्व्_२३।६४३७० ।
भद्रश्रेण्यस्य पुत्रेण
दुर्दमेन महात्मना ॥

विश्वास-प्रस्तुतिः

दिवोदासेन बालो हि
घृणया स विसर्जितः ॥ ह्व्_२३।६४ ॥

मूलम्

दिवोदासेन बालो हि
घृणया स विसर्जितः ॥ ह्व्_२३।६४ ॥

विश्वास-प्रस्तुतिः

अष्टारथो नाम नृपः
सुतो भीमरथस्य वै ।
तेन पुत्रेषु बालेषु
प्रहृतं तस्य भारत ॥

मूलम्

अष्टारथो नाम नृपः
सुतो भीमरथस्य वै ।
तेन पुत्रेषु बालेषु
प्रहृतं तस्य भारत ॥

विश्वास-प्रस्तुतिः

वैरस्यान्तं महाराज
क्षत्रियेण विधित्सता ॥ ह्व्_२३।६५ ॥

मूलम्

वैरस्यान्तं महाराज
क्षत्रियेण विधित्सता ॥ ह्व्_२३।६५ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
सो ऽप्य् एवं पुत्रसंहारं
कुर्वन् पञ्चत्वमागतः । ह्व्_२३।६५३७१ ।
अलर्कः काशिराजस् तु
ब्रह्मण्यः सत्यसङ्गरः ।
([क्: क्१ ins.: :क्])
अलर्कं प्रति राजानं
श्लोको गीतः पुरातनम् । ह्व्_२३।६६३७२ ।
षष्टिं वर्षसहस्राणि
षष्टिं वर्षशतानि च ॥ ह्व्_२३।६६ ॥

मूलम्

([क्: क्४ ins.: :क्])
सो ऽप्य् एवं पुत्रसंहारं
कुर्वन् पञ्चत्वमागतः । ह्व्_२३।६५३७१ ।
अलर्कः काशिराजस् तु
ब्रह्मण्यः सत्यसङ्गरः ।
([क्: क्१ ins.: :क्])
अलर्कं प्रति राजानं
श्लोको गीतः पुरातनम् । ह्व्_२३।६६३७२ ।
षष्टिं वर्षसहस्राणि
षष्टिं वर्षशतानि च ॥ ह्व्_२३।६६ ॥

विश्वास-प्रस्तुतिः

([क्: क्१।४ Ñ२।३ व् ब् द्न् द्स् द्२।४।५ त्१।४ ग्१।३।४ ins.: :क्])
तस्यासीत्सुमहद्राज्यं
रूपयौवनशालिनः । ह्व्_२३।६६३७३ ।
युवा रूपेण सम्पन्न
आसीत् काशिकुलोद्वहः ।
लोपामुद्राप्रसादेन
परमायुर् अवाप सः ॥ ह्व्_२३।६७ ॥

मूलम्

([क्: क्१।४ Ñ२।३ व् ब् द्न् द्स् द्२।४।५ त्१।४ ग्१।३।४ ins.: :क्])
तस्यासीत्सुमहद्राज्यं
रूपयौवनशालिनः । ह्व्_२३।६६३७३ ।
युवा रूपेण सम्पन्न
आसीत् काशिकुलोद्वहः ।
लोपामुद्राप्रसादेन
परमायुर् अवाप सः ॥ ह्व्_२३।६७ ॥

विश्वास-प्रस्तुतिः

वयसो ऽन्ते महाबाहुर्
हत्वा क्षेमकराक्षसम् ।
रम्यां निवेशयाम् आस
पुरीं वाराणसीं नृपः ॥ ह्व्_२३।६८ ॥

मूलम्

वयसो ऽन्ते महाबाहुर्
हत्वा क्षेमकराक्षसम् ।
रम्यां निवेशयाम् आस
पुरीं वाराणसीं नृपः ॥ ह्व्_२३।६८ ॥

विश्वास-प्रस्तुतिः

अलर्कस्य तु दायादः
क्षेमो नाम महायशाः ।
([क्: Ñ१।३ व्१।२ ब्२।३ द्न् द्स् ग्(एद्।) ins.: :क्])
क्षेमको नाम पार्थिवः । ह्व्_२३।६९अ३७४:१ ।*
क्षेमकस्य तु पुत्रो वै । ह्व्_२३।६९अ३७४:२ ।*
क्षेमस्य केतुमान् पुत्रो
वर्षकेतुस् ततो ऽभवत् ॥ ह्व्_२३।६९ ॥

मूलम्

अलर्कस्य तु दायादः
क्षेमो नाम महायशाः ।
([क्: Ñ१।३ व्१।२ ब्२।३ द्न् द्स् ग्(एद्।) ins.: :क्])
क्षेमको नाम पार्थिवः । ह्व्_२३।६९अ३७४:१ ।*
क्षेमकस्य तु पुत्रो वै । ह्व्_२३।६९अ३७४:२ ।*
क्षेमस्य केतुमान् पुत्रो
वर्षकेतुस् ततो ऽभवत् ॥ ह्व्_२३।६९ ॥

विश्वास-प्रस्तुतिः

वर्षकेतोस् तु दायादो
विभुर् नाम प्रजेश्वरः ।
आनर्तस् तु विभोः पुत्रः
सुकुमारस् ततो ऽभवत् ॥ ह्व्_२३।७० ॥

मूलम्

वर्षकेतोस् तु दायादो
विभुर् नाम प्रजेश्वरः ।
आनर्तस् तु विभोः पुत्रः
सुकुमारस् ततो ऽभवत् ॥ ह्व्_२३।७० ॥

विश्वास-प्रस्तुतिः

सुकुमारस्य पुत्रस् तु
सत्यकेतुर् महारथः ।
सुतो ऽभवन् महातेजा
राजा परमधार्मिकः ॥

मूलम्

सुकुमारस्य पुत्रस् तु
सत्यकेतुर् महारथः ।
सुतो ऽभवन् महातेजा
राजा परमधार्मिकः ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
करन्तुर् नाम नृपतिस्
तस्य पुत्रौ बभूवतुः । ह्व्_२३।७१३७५:१ ।
ब्रह्मण्यौ सत्यसम्पन्नौ
भार्गो वत्सस् तथैव च । ह्व्_२३।७१३७५:२ ।
वत्सस्य वत्सभूमिस् तु
भार्गभूमिस् तु भार्गवात् ॥ ह्व्_२३।७१ ॥

मूलम्

([क्: क्४ ins.: :क्])
करन्तुर् नाम नृपतिस्
तस्य पुत्रौ बभूवतुः । ह्व्_२३।७१३७५:१ ।
ब्रह्मण्यौ सत्यसम्पन्नौ
भार्गो वत्सस् तथैव च । ह्व्_२३।७१३७५:२ ।
वत्सस्य वत्सभूमिस् तु
भार्गभूमिस् तु भार्गवात् ॥ ह्व्_२३।७१ ॥

विश्वास-प्रस्तुतिः

एते त्व् अङ्गिरसः पुत्रा
जाता वंशे ऽथ भार्गवे ।
ब्राह्मणाः क्षत्रिया वैश्याः
शूद्राश् च भरतर्षभ ॥ ह्व्_२३।७२ ॥

मूलम्

एते त्व् अङ्गिरसः पुत्रा
जाता वंशे ऽथ भार्गवे ।
ब्राह्मणाः क्षत्रिया वैश्याः
शूद्राश् च भरतर्षभ ॥ ह्व्_२३।७२ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ त्१।२।४ ग् म्४ ins.: :क्])
कर्मभिस् ते तपोमूलैः
स्थिताःकुरुकुलोद्वह । ह्व्_२३।७२३७६ ।
सुहोत्रस्य बृहत् पुत्रो
बृहतस् तनयास् त्रयः ।
अजमीढो द्विमीढश् च
पुरुमीढश् च वीर्यवान् ॥ ह्व्_२३।७३ ॥

मूलम्

([क्: द्६ त्१।२।४ ग् म्४ ins.: :क्])
कर्मभिस् ते तपोमूलैः
स्थिताःकुरुकुलोद्वह । ह्व्_२३।७२३७६ ।
सुहोत्रस्य बृहत् पुत्रो
बृहतस् तनयास् त्रयः ।
अजमीढो द्विमीढश् च
पुरुमीढश् च वीर्यवान् ॥ ह्व्_२३।७३ ॥

विश्वास-प्रस्तुतिः

अजमीढस्य पत्न्यस् तु
तिस्रो वै यशसान्विताः ।
नीली च केशिनी चैव
धूमिनी च वराङ्गना ॥ ह्व्_२३।७४ ॥

मूलम्

अजमीढस्य पत्न्यस् तु
तिस्रो वै यशसान्विताः ।
नीली च केशिनी चैव
धूमिनी च वराङ्गना ॥ ह्व्_२३।७४ ॥

विश्वास-प्रस्तुतिः

अजमीढस्य केशिन्यां
जज्ञे जह्नुः प्रतापवान् ।
य आजह्रे महासत्त्रं
सर्वमेधम् महामखम् ॥ ह्व्_२३।७५ ॥

मूलम्

अजमीढस्य केशिन्यां
जज्ञे जह्नुः प्रतापवान् ।
य आजह्रे महासत्त्रं
सर्वमेधम् महामखम् ॥ ह्व्_२३।७५ ॥

विश्वास-प्रस्तुतिः

पतिलोभेन यं गङ्गा
वितते ऽभिससार ह ।
नेच्छतः प्लावयाम् आस
तस्य गङ्गा च तत् सदः ॥ ह्व्_२३।७६ ॥

मूलम्

पतिलोभेन यं गङ्गा
वितते ऽभिससार ह ।
नेच्छतः प्लावयाम् आस
तस्य गङ्गा च तत् सदः ॥ ह्व्_२३।७६ ॥

विश्वास-प्रस्तुतिः

तया च प्लावितं दृष्ट्वा
यज्ञवाटं समन्ततः ।
सौहोत्रिर् अब्रवीद् गङ्गां
क्रुद्धो भरतसत्तम ॥ ह्व्_२३।७७ ॥

मूलम्

तया च प्लावितं दृष्ट्वा
यज्ञवाटं समन्ततः ।
सौहोत्रिर् अब्रवीद् गङ्गां
क्रुद्धो भरतसत्तम ॥ ह्व्_२३।७७ ॥

विश्वास-प्रस्तुतिः

एष ते त्रिषु लोकेषु
सङ्क्षिप्यापः पिबाम्य् अहम् ।
अस्य गङ्गे ऽवलेपस्य
सद्यः फलम् अवाप्नुहि ॥ ह्व्_२३।७८ ॥

मूलम्

एष ते त्रिषु लोकेषु
सङ्क्षिप्यापः पिबाम्य् अहम् ।
अस्य गङ्गे ऽवलेपस्य
सद्यः फलम् अवाप्नुहि ॥ ह्व्_२३।७८ ॥

विश्वास-प्रस्तुतिः

ततः पीतां महात्मानो
गङ्गां दृष्ट्वा महर्षयः ।
उपनिन्युर् महाभागां
दुहितृत्वाय जाह्नवीम् ॥ ह्व्_२३।७९ ॥

मूलम्

ततः पीतां महात्मानो
गङ्गां दृष्ट्वा महर्षयः ।
उपनिन्युर् महाभागां
दुहितृत्वाय जाह्नवीम् ॥ ह्व्_२३।७९ ॥

विश्वास-प्रस्तुतिः

युवनाश्वस्य पुत्रीं तु
कावेरीं जह्नुर् आवहत् ।
गङ्गाशापेन देहार्धं
यस्याः पश्चान् नदीकृतम् ॥ ह्व्_२३।८० ॥

मूलम्

युवनाश्वस्य पुत्रीं तु
कावेरीं जह्नुर् आवहत् ।
गङ्गाशापेन देहार्धं
यस्याः पश्चान् नदीकृतम् ॥ ह्व्_२३।८० ॥

विश्वास-प्रस्तुतिः

जह्नोस् तु दयितः पुत्रो
अजको नाम वीर्यवान् ।
अजकस्य तु दायादो
बलाकाश्वो महीपतिः ॥ ह्व्_२३।८१ ॥

मूलम्

जह्नोस् तु दयितः पुत्रो
अजको नाम वीर्यवान् ।
अजकस्य तु दायादो
बलाकाश्वो महीपतिः ॥ ह्व्_२३।८१ ॥

विश्वास-प्रस्तुतिः

बभूव मृगयाशीलः
कुशिकस् तस्य चात्मजः ।
पह्लवैः सह संवृद्धो
राजा वनचरैः स ह ॥ ह्व्_२३।८२ ॥

मूलम्

बभूव मृगयाशीलः
कुशिकस् तस्य चात्मजः ।
पह्लवैः सह संवृद्धो
राजा वनचरैः स ह ॥ ह्व्_२३।८२ ॥

विश्वास-प्रस्तुतिः

कुशिकस् तु तपस् तेपे
पुत्रम् इन्द्रसमं प्रभुः ।
लभेयम् इति तं शक्रस्
त्रासाद् अभ्येत्य जज्ञिवान् ॥ ह्व्_२३।८३ ॥

मूलम्

कुशिकस् तु तपस् तेपे
पुत्रम् इन्द्रसमं प्रभुः ।
लभेयम् इति तं शक्रस्
त्रासाद् अभ्येत्य जज्ञिवान् ॥ ह्व्_२३।८३ ॥

विश्वास-प्रस्तुतिः

स गाधिर् अभवद् राजा
मघवान् कौशिकः स्वयम् ।
विश्वामित्रस् तु गाधेयो
राजा विश्वरथश् च ह ॥ ह्व्_२३।८४ ॥

मूलम्

स गाधिर् अभवद् राजा
मघवान् कौशिकः स्वयम् ।
विश्वामित्रस् तु गाधेयो
राजा विश्वरथश् च ह ॥ ह्व्_२३।८४ ॥

विश्वास-प्रस्तुतिः

विश्वजिद् विश्वकृच् चैव
तथा सत्यवती नृप ।
ऋचीकाज् जमदग्निस् तु
सत्यवत्याम् अजायत ॥ ह्व्_२३।८५ ॥

मूलम्

विश्वजिद् विश्वकृच् चैव
तथा सत्यवती नृप ।
ऋचीकाज् जमदग्निस् तु
सत्यवत्याम् अजायत ॥ ह्व्_२३।८५ ॥

विश्वास-प्रस्तुतिः

विश्वामित्रस्य तु सुता
देवरातादयः स्मृताः ।
प्रख्यातास् त्रिषु लोकेषु
तेषां नामानि मे शृणु ॥ ह्व्_२३।८६ ॥

मूलम्

विश्वामित्रस्य तु सुता
देवरातादयः स्मृताः ।
प्रख्यातास् त्रिषु लोकेषु
तेषां नामानि मे शृणु ॥ ह्व्_२३।८६ ॥

विश्वास-प्रस्तुतिः

देवश्रवाः कतिश् चैव
यस्मात् कात्यायनाः स्मृताः ।
शालापतिर् हिरण्याक्षो
रेणुर् यस्याथ रेणुका ॥ ह्व्_२३।८७ ॥

मूलम्

देवश्रवाः कतिश् चैव
यस्मात् कात्यायनाः स्मृताः ।
शालापतिर् हिरण्याक्षो
रेणुर् यस्याथ रेणुका ॥ ह्व्_२३।८७ ॥

विश्वास-प्रस्तुतिः

साङ्कृत्यो गालवो राजन्
मौद्गल्यश्वेति विश्रुताः ।
तेषां ख्यातानि गोत्राणि
कौशिकानां महात्मनाम् ॥ ह्व्_२३।८८ ॥

मूलम्

साङ्कृत्यो गालवो राजन्
मौद्गल्यश्वेति विश्रुताः ।
तेषां ख्यातानि गोत्राणि
कौशिकानां महात्मनाम् ॥ ह्व्_२३।८८ ॥

विश्वास-प्रस्तुतिः

पाणिनो बभ्रवश् चैव
धानञ्जय्यास् तथैव च ।
पार्थिवा देवराताश् च
सालङ्कायनसौश्रवाः ॥ ह्व्_२३।८९ ॥

मूलम्

पाणिनो बभ्रवश् चैव
धानञ्जय्यास् तथैव च ।
पार्थिवा देवराताश् च
सालङ्कायनसौश्रवाः ॥ ह्व्_२३।८९ ॥

विश्वास-प्रस्तुतिः

लोहित्या यमदूतश् च
तथा कारीषयः स्मृताः ।
विश्रुताः कौशिका राजंस्
तथान्ये सैन्धवायनाः ॥

मूलम्

लोहित्या यमदूतश् च
तथा कारीषयः स्मृताः ।
विश्रुताः कौशिका राजंस्
तथान्ये सैन्धवायनाः ॥

विश्वास-प्रस्तुतिः

ऋष्यन्तरविवाह्याश् च
कौशिका बहवः स्मृताः ॥ ह्व्_२३।९० ॥

मूलम्

ऋष्यन्तरविवाह्याश् च
कौशिका बहवः स्मृताः ॥ ह्व्_२३।९० ॥

विश्वास-प्रस्तुतिः

पौरवस्य महाराज
ब्रह्मर्षेः कौशिकस्य च ।
सम्बन्धो ह्य् अस्य वंशे ऽस्मिन्
ब्रह्मक्षत्रस्य विश्रुतः ॥ ह्व्_२३।९१ ॥

मूलम्

पौरवस्य महाराज
ब्रह्मर्षेः कौशिकस्य च ।
सम्बन्धो ह्य् अस्य वंशे ऽस्मिन्
ब्रह्मक्षत्रस्य विश्रुतः ॥ ह्व्_२३।९१ ॥

विश्वास-प्रस्तुतिः

विश्वामित्रात्मजानां तु
शुनःशेपो ऽग्रजः स्मृतः ।
भार्गवः कौशिकत्वं हि
प्राप्तः स मुनिसत्तमः ॥ ह्व्_२३।९२ ॥

मूलम्

विश्वामित्रात्मजानां तु
शुनःशेपो ऽग्रजः स्मृतः ।
भार्गवः कौशिकत्वं हि
प्राप्तः स मुनिसत्तमः ॥ ह्व्_२३।९२ ॥

विश्वास-प्रस्तुतिः

शबरादयश् च सप्तान्ये
विश्वामित्रस्य वै सुताः ।
दृषद्वतीसुतश् चापि
विश्वामित्राद् अथाष्टकः ॥ ह्व्_२३।९३ ॥

मूलम्

शबरादयश् च सप्तान्ये
विश्वामित्रस्य वै सुताः ।
दृषद्वतीसुतश् चापि
विश्वामित्राद् अथाष्टकः ॥ ह्व्_२३।९३ ॥

विश्वास-प्रस्तुतिः

अष्टकस्य सुतो लौहिः
प्रोक्तो जह्नुगणो मया ।
आजमीढो ऽपरो वंशः
श्रूयतां भरतर्षभ ॥ ह्व्_२३।९४ ॥

मूलम्

अष्टकस्य सुतो लौहिः
प्रोक्तो जह्नुगणो मया ।
आजमीढो ऽपरो वंशः
श्रूयतां भरतर्षभ ॥ ह्व्_२३।९४ ॥

विश्वास-प्रस्तुतिः

अजमीढात् तु नील्यां वै
सुशान्तिर् उदपद्यत ।
पुरुजातिः सुशान्तेस् तु
बाह्याश्वः पुरुजातितः ॥ ह्व्_२३।९५ ॥

मूलम्

अजमीढात् तु नील्यां वै
सुशान्तिर् उदपद्यत ।
पुरुजातिः सुशान्तेस् तु
बाह्याश्वः पुरुजातितः ॥ ह्व्_२३।९५ ॥

विश्वास-प्रस्तुतिः

बाह्याश्वतनयाः पञ्च
बभूवुर् अमरोपमाः ।
मुद्गलः सृञ्जयश् चैव
राजा बृहदिषुस् तथा ॥ ह्व्_२३।९६ ॥

मूलम्

बाह्याश्वतनयाः पञ्च
बभूवुर् अमरोपमाः ।
मुद्गलः सृञ्जयश् चैव
राजा बृहदिषुस् तथा ॥ ह्व्_२३।९६ ॥

विश्वास-प्रस्तुतिः

यवीनरश् च विक्रान्तः
कृमिलाश्वश् च पञ्चमः ।
पञ्चेमे रक्षणायालं
देशानाम् इति विश्रुताः ॥ ह्व्_२३।९७ ॥

मूलम्

यवीनरश् च विक्रान्तः
कृमिलाश्वश् च पञ्चमः ।
पञ्चेमे रक्षणायालं
देशानाम् इति विश्रुताः ॥ ह्व्_२३।९७ ॥

विश्वास-प्रस्तुतिः

पञ्चानां विद्धि पाञ्चालान्
स्फीतान् पुण्यजनावृतान् ।
अलं संरक्षणे तेषां
पाञ्चाला इति विश्रुताः ॥ ह्व्_२३।९८ ॥

मूलम्

पञ्चानां विद्धि पाञ्चालान्
स्फीतान् पुण्यजनावृतान् ।
अलं संरक्षणे तेषां
पाञ्चाला इति विश्रुताः ॥ ह्व्_२३।९८ ॥

विश्वास-प्रस्तुतिः

मुद्गलस्य तु दायादो
मौद्गल्यः सुमहायशाः ।
([क्: क् Ñ२।३ व् ब् द् त्४ ग्४ ins.: :क्])
सर्व एते महात्मानः
क्षत्रोपेताद्विजातयः । ह्व्_२३।९९३७७:१ ।
एते ह्य् अङ्गिरसः पक्षं
संश्रिताः कण्वमौद्गलाः ॥ ह्व्_२३।९९३७७:२ ।

मूलम्

मुद्गलस्य तु दायादो
मौद्गल्यः सुमहायशाः ।
([क्: क् Ñ२।३ व् ब् द् त्४ ग्४ ins.: :क्])
सर्व एते महात्मानः
क्षत्रोपेताद्विजातयः । ह्व्_२३।९९३७७:१ ।
एते ह्य् अङ्गिरसः पक्षं
संश्रिताः कण्वमौद्गलाः ॥ ह्व्_२३।९९३७७:२ ।

विश्वास-प्रस्तुतिः

मुद्गलस्य सुतो ज्येष्ठो
ब्रह्मर्षिः सुमहातपाः । ह्व्_२३।९९३७७:३ ।
इन्द्रसेना यतो गर्भं
वध्र्यश्वं प्रत्यपद्यत ॥ ह्व्_२३।९९ ॥

मूलम्

मुद्गलस्य सुतो ज्येष्ठो
ब्रह्मर्षिः सुमहातपाः । ह्व्_२३।९९३७७:३ ।
इन्द्रसेना यतो गर्भं
वध्र्यश्वं प्रत्यपद्यत ॥ ह्व्_२३।९९ ॥

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् श्१ Ñ१) त्१।२।४ ग् म्४ ins.: :क्])
वध्र्यश्वान् मिथुनञ्जज्ञे
मेनकायाम् इति श्रुतिः । ह्व्_२३।९९३७८:१ ।
दिवोदासश् च राजर्षिर्
अहल्या च यशस्विनी ॥ ह्व्_२३।९९३७८:२ ।

मूलम्

([क्: न् (एxचेप्त् श्१ Ñ१) त्१।२।४ ग् म्४ ins.: :क्])
वध्र्यश्वान् मिथुनञ्जज्ञे
मेनकायाम् इति श्रुतिः । ह्व्_२३।९९३७८:१ ।
दिवोदासश् च राजर्षिर्
अहल्या च यशस्विनी ॥ ह्व्_२३।९९३७८:२ ।

विश्वास-प्रस्तुतिः

शरद्वतस्य दायादम्
अहल्या सम्प्रसूयत । ह्व्_२३।९९३७८:३ ।
शतानन्दम् ऋषिश्रेष्ठं
तस्यापि सुमहायशाः । ह्व्_२३।९९३७८:४ ।
पुत्रः सत्यधृतिर् नाम
धनुर्वेदस्य पारगः ॥ ह्व्_२३।९९३७८:५ ।

मूलम्

शरद्वतस्य दायादम्
अहल्या सम्प्रसूयत । ह्व्_२३।९९३७८:३ ।
शतानन्दम् ऋषिश्रेष्ठं
तस्यापि सुमहायशाः । ह्व्_२३।९९३७८:४ ।
पुत्रः सत्यधृतिर् नाम
धनुर्वेदस्य पारगः ॥ ह्व्_२३।९९३७८:५ ।

विश्वास-प्रस्तुतिः

तस्य सत्यधृते रेतो
दृष्ट्वाप्सरसम् अग्रतः । ह्व्_२३।९९३७८:६ ।
अथ स्कन्नं शरस्तम्बे
मिथुनं समपद्यत ॥ ह्व्_२३।९९३७८:७ ।

मूलम्

तस्य सत्यधृते रेतो
दृष्ट्वाप्सरसम् अग्रतः । ह्व्_२३।९९३७८:६ ।
अथ स्कन्नं शरस्तम्बे
मिथुनं समपद्यत ॥ ह्व्_२३।९९३७८:७ ।

विश्वास-प्रस्तुतिः

कृपया तच् च जग्राह
शन्तनुर् मृगयां गतः । ह्व्_२३।९९३७८:८ ।
कृपः स्मृतः स वै तस्माद्
गौतमी च कृपी तथा । ह्व्_२३।९९३७८:९ ।
एते शारद्वताः प्रोक्ता
एते ते गौतमाः स्मृताः ॥ ह्व्_२३।९९३७८:१० ।

मूलम्

कृपया तच् च जग्राह
शन्तनुर् मृगयां गतः । ह्व्_२३।९९३७८:८ ।
कृपः स्मृतः स वै तस्माद्
गौतमी च कृपी तथा । ह्व्_२३।९९३७८:९ ।
एते शारद्वताः प्रोक्ता
एते ते गौतमाः स्मृताः ॥ ह्व्_२३।९९३७८:१० ।

विश्वास-प्रस्तुतिः

अत ऊर्ध्वं प्रवक्ष्यामि
दिवोदासस्य सन्ततिम् । ह्व्_२३।९९३७८:११ ।
दिवोदासस्य दायादो
ब्रह्मर्षिर् मित्रयुर् नृपः ॥ ह्व्_२३।९९३७८:१२ ।

मूलम्

अत ऊर्ध्वं प्रवक्ष्यामि
दिवोदासस्य सन्ततिम् । ह्व्_२३।९९३७८:११ ।
दिवोदासस्य दायादो
ब्रह्मर्षिर् मित्रयुर् नृपः ॥ ह्व्_२३।९९३७८:१२ ।

विश्वास-प्रस्तुतिः

मैत्रेयाणां ततः सोमो
मैत्रेयास् तु ततः स्मृताः । ह्व्_२३।९९३७८:१३ ।
एते विपञ्चिताः पक्षाः
क्षत्रोपेतास् तु भार्गवाः । ह्व्_२३।९९३७८:१४ ।
आसीत् पञ्चवनः पुत्रः
सृञ्जयस्य महात्मनः ।
सुतः पञ्चवनस्यापि
सोमदत्तो महीपतिः ॥ ह्व्_२३।१०० ॥

मूलम्

मैत्रेयाणां ततः सोमो
मैत्रेयास् तु ततः स्मृताः । ह्व्_२३।९९३७८:१३ ।
एते विपञ्चिताः पक्षाः
क्षत्रोपेतास् तु भार्गवाः । ह्व्_२३।९९३७८:१४ ।
आसीत् पञ्चवनः पुत्रः
सृञ्जयस्य महात्मनः ।
सुतः पञ्चवनस्यापि
सोमदत्तो महीपतिः ॥ ह्व्_२३।१०० ॥

विश्वास-प्रस्तुतिः

सोमदत्तस्य दायादः
सहदेवो महायशाः ।
सहदेवसुतश् चापि
सोमको नाम पार्थिवः ॥ ह्व्_२३।१०१ ॥

मूलम्

सोमदत्तस्य दायादः
सहदेवो महायशाः ।
सहदेवसुतश् चापि
सोमको नाम पार्थिवः ॥ ह्व्_२३।१०१ ॥

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् श्१ Ñ१) त्२।४ ग् म्४ ins.: :क्])
अजमीढात् पुनर् जातः
क्षीणे वंशे तु सोमकः । ह्व्_२३।१०१३७९ ।
सोमकस्य सुतो जन्तुर्
यस्य पुत्रशतं बभौ ।
तेषां यवीयान् पृषतो
द्रुपदस्य पिता प्रभुः ॥ ह्व्_२३।१०२ ॥

मूलम्

([क्: न् (एxचेप्त् श्१ Ñ१) त्२।४ ग् म्४ ins.: :क्])
अजमीढात् पुनर् जातः
क्षीणे वंशे तु सोमकः । ह्व्_२३।१०१३७९ ।
सोमकस्य सुतो जन्तुर्
यस्य पुत्रशतं बभौ ।
तेषां यवीयान् पृषतो
द्रुपदस्य पिता प्रभुः ॥ ह्व्_२३।१०२ ॥

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् श्१ Ñ१) त्१।२।४ ग् म्४ ins.: :क्])
धृष्टद्युम्नः तुद्रुपदाद्
धृष्टकेतुश् च तत्सुतः ॥ ह्व्_२३।१०२३८०:१ ।

मूलम्

([क्: न् (एxचेप्त् श्१ Ñ१) त्१।२।४ ग् म्४ ins.: :क्])
धृष्टद्युम्नः तुद्रुपदाद्
धृष्टकेतुश् च तत्सुतः ॥ ह्व्_२३।१०२३८०:१ ।

विश्वास-प्रस्तुतिः

आजमीढाः स्मृता ह्य् एते
महात्मानस् तु सोमकाः । ह्व्_२३।१०२३८०:२ ।
पुत्राणाम् अजमीढस्य
सोमकत्वं महात्मनः । ह्व्_२३।१०२३८०:३ ।
महिषी त्व् अजमीढस्य
धूमिनी पुत्रगृद्धिनी ।
तृतीया तव पूर्वेषां
जननी पृथिवीपते ॥ ह्व्_२३।१०३ ॥

मूलम्

आजमीढाः स्मृता ह्य् एते
महात्मानस् तु सोमकाः । ह्व्_२३।१०२३८०:२ ।
पुत्राणाम् अजमीढस्य
सोमकत्वं महात्मनः । ह्व्_२३।१०२३८०:३ ।
महिषी त्व् अजमीढस्य
धूमिनी पुत्रगृद्धिनी ।
तृतीया तव पूर्वेषां
जननी पृथिवीपते ॥ ह्व्_२३।१०३ ॥

विश्वास-प्रस्तुतिः

सा तु पुत्रार्थिनी देवी
व्रतचर्यासमाहिता ।
तपो वर्षाशतं तेपे
स्त्रीभिः परमदुश्चरम् ॥ ह्व्_२३।१०४ ॥

मूलम्

सा तु पुत्रार्थिनी देवी
व्रतचर्यासमाहिता ।
तपो वर्षाशतं तेपे
स्त्रीभिः परमदुश्चरम् ॥ ह्व्_२३।१०४ ॥

विश्वास-प्रस्तुतिः

हुत्वाग्निं विधिवत् सा तु
पवित्रमितभोजना ।
अग्निहोत्रकुशेष्व् एव
सुष्वाप जनमेजय ॥ ह्व्_२३।१०५ ॥

मूलम्

हुत्वाग्निं विधिवत् सा तु
पवित्रमितभोजना ।
अग्निहोत्रकुशेष्व् एव
सुष्वाप जनमेजय ॥ ह्व्_२३।१०५ ॥

विश्वास-प्रस्तुतिः

धूमिन्या स तया देव्या
अजमीढः समेयिवान् ।
ऋक्षं सा जनयाम् आस
धूमवर्णं सुदर्शनम् ॥ ह्व्_२३।१०६ ॥

मूलम्

धूमिन्या स तया देव्या
अजमीढः समेयिवान् ।
ऋक्षं सा जनयाम् आस
धूमवर्णं सुदर्शनम् ॥ ह्व्_२३।१०६ ॥

विश्वास-प्रस्तुतिः

ऋक्षात् संवरणो जज्ञे
कुरुः संवरणात् तथा ।
यः प्रयागाद् अपक्रम्य
कुरुक्षेत्रं चकार ह ॥ ह्व्_२३।१०७ ॥

मूलम्

ऋक्षात् संवरणो जज्ञे
कुरुः संवरणात् तथा ।
यः प्रयागाद् अपक्रम्य
कुरुक्षेत्रं चकार ह ॥ ह्व्_२३।१०७ ॥

विश्वास-प्रस्तुतिः

([क्: Ñ२।३ व्२ द्स् द्३-५ (व्१ after १०८ब्) ins.: :क्])
तद् वैतत् स महाभागो
वर्षाणि सुबहून्य् अथ । ह्व्_२३।१०७३८१:१ ।
तप्यमाने तदा शक्रो
यत्रास्य वरदो बभौ । ह्व्_२३।१०७३८१:२ ।
पुण्यं च रमणीयं च
पुण्यकृद्भिर् निषेवितम् ।
तस्यान्ववायः सुमहान्
यस्य नाम्ना स्थ कौरवाः ॥ ह्व्_२३।१०८ ॥

मूलम्

([क्: Ñ२।३ व्२ द्स् द्३-५ (व्१ after १०८ब्) ins.: :क्])
तद् वैतत् स महाभागो
वर्षाणि सुबहून्य् अथ । ह्व्_२३।१०७३८१:१ ।
तप्यमाने तदा शक्रो
यत्रास्य वरदो बभौ । ह्व्_२३।१०७३८१:२ ।
पुण्यं च रमणीयं च
पुण्यकृद्भिर् निषेवितम् ।
तस्यान्ववायः सुमहान्
यस्य नाम्ना स्थ कौरवाः ॥ ह्व्_२३।१०८ ॥

विश्वास-प्रस्तुतिः

कुरोश् च पुत्राश् चत्वारः
सुधन्वा सुधनुस् तथा ।
परीक्षिच् च महाबाहुः
प्रवरश् चारिमेजयः ॥ ह्व्_२३।१०९ ॥

मूलम्

कुरोश् च पुत्राश् चत्वारः
सुधन्वा सुधनुस् तथा ।
परीक्षिच् च महाबाहुः
प्रवरश् चारिमेजयः ॥ ह्व्_२३।१०९ ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३; क्२ after १०७ब्; Ñ३ व्१ ब्३ after ११०ब्)इन्स्।: :क्])
सुधन्वनस् तु दायादः
सुहोत्रो मतिमान् स्मृतः । ह्व्_२३।१०९३८२:१ ।
च्यवनस् तस्य पुत्रस् तु
राजा धर्मार्थकोविदः ॥ ह्व्_२३।१०९३८२:२ ।

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३; क्२ after १०७ब्; Ñ३ व्१ ब्३ after ११०ब्)इन्स्।: :क्])
सुधन्वनस् तु दायादः
सुहोत्रो मतिमान् स्मृतः । ह्व्_२३।१०९३८२:१ ।
च्यवनस् तस्य पुत्रस् तु
राजा धर्मार्थकोविदः ॥ ह्व्_२३।१०९३८२:२ ।

विश्वास-प्रस्तुतिः

च्यवनात् कृतयज्ञस् तु
इष्ट्वा यज्ञैः स धर्मवित् । ह्व्_२३।१०९३८२:३ ।
विश्रुतं जनयाम् आस
पुत्रम् इन्द्रसखं नृपः ॥ ह्व्_२३।१०९३८२:४ ।

मूलम्

च्यवनात् कृतयज्ञस् तु
इष्ट्वा यज्ञैः स धर्मवित् । ह्व्_२३।१०९३८२:३ ।
विश्रुतं जनयाम् आस
पुत्रम् इन्द्रसखं नृपः ॥ ह्व्_२३।१०९३८२:४ ।

विश्वास-प्रस्तुतिः

चैद्योपरिचरं वीरं
वसुं नामान्तरिक्षगम् । ह्व्_२३।१०९३८२:५ ।
चैद्योपरिचराज् जज्ञे
गिरिका सप्त मानवान् ॥ ह्व्_२३।१०९३८२:६ ।

मूलम्

चैद्योपरिचरं वीरं
वसुं नामान्तरिक्षगम् । ह्व्_२३।१०९३८२:५ ।
चैद्योपरिचराज् जज्ञे
गिरिका सप्त मानवान् ॥ ह्व्_२३।१०९३८२:६ ।

विश्वास-प्रस्तुतिः

महारथो मगधराड्
विश्रुतो यो बृहद्रथः । ह्व्_२३।१०९३८२:७ ।
प्रत्यग्रहः कुशश् चैव
यम् आहुर् मणिवाहनम् । ह्व्_२३।१०९३८२:८ ।
मारुतश् च यदुश् चैव
मत्स्यकाली च सत्तमः ॥ ह्व्_२३।१०९३८२:९ ।

मूलम्

महारथो मगधराड्
विश्रुतो यो बृहद्रथः । ह्व्_२३।१०९३८२:७ ।
प्रत्यग्रहः कुशश् चैव
यम् आहुर् मणिवाहनम् । ह्व्_२३।१०९३८२:८ ।
मारुतश् च यदुश् चैव
मत्स्यकाली च सत्तमः ॥ ह्व्_२३।१०९३८२:९ ।

विश्वास-प्रस्तुतिः

बृहद्रथस्य दायादः
कुशाग्रो नाम विश्रुतः । ह्व्_२३।१०९३८२:१० ।
कुशाग्रस्यात्मजो विद्वान्
ऋषभो नाम वीर्यवान् ॥ ह्व्_२३।१०९३८२:११ ।

मूलम्

बृहद्रथस्य दायादः
कुशाग्रो नाम विश्रुतः । ह्व्_२३।१०९३८२:१० ।
कुशाग्रस्यात्मजो विद्वान्
ऋषभो नाम वीर्यवान् ॥ ह्व्_२३।१०९३८२:११ ।

विश्वास-प्रस्तुतिः

दायादस् तस्य विक्रान्तो
राजा सत्यहितः स्मृतः । ह्व्_२३।१०९३८२:१२ ।
तस्य पुत्रः स धर्मात्मा
नाम्ना ऊर्जस् तु जज्ञिवान् । ह्व्_२३।१०९३८२:१३ ।
ऊर्जस्य सम्भवः पुत्रो
यस्य जज्ञे स वीर्यवान् ॥ ह्व्_२३।१०९३८२:१४ ।

मूलम्

दायादस् तस्य विक्रान्तो
राजा सत्यहितः स्मृतः । ह्व्_२३।१०९३८२:१२ ।
तस्य पुत्रः स धर्मात्मा
नाम्ना ऊर्जस् तु जज्ञिवान् । ह्व्_२३।१०९३८२:१३ ।
ऊर्जस्य सम्भवः पुत्रो
यस्य जज्ञे स वीर्यवान् ॥ ह्व्_२३।१०९३८२:१४ ।

विश्वास-प्रस्तुतिः

शकले द्वे स वै जातो
जरया सन्धितः स तु । ह्व्_२३।१०९३८२:१५ ।
जरया सन्धितो यस्माज्
जरासन्धस् ततः स्मृतः ॥ ह्व्_२३।१०९३८२:१६ ।

मूलम्

शकले द्वे स वै जातो
जरया सन्धितः स तु । ह्व्_२३।१०९३८२:१५ ।
जरया सन्धितो यस्माज्
जरासन्धस् ततः स्मृतः ॥ ह्व्_२३।१०९३८२:१६ ।

विश्वास-प्रस्तुतिः

सर्वक्षत्रस्य जेतासौ
जरासन्धो महाबलः । ह्व्_२३।१०९३८२:१७ ।
जरासन्धस्य पुत्रो वै
सहदेवः प्रतापवान् ॥ ह्व्_२३।१०९३८२:१८ ।

मूलम्

सर्वक्षत्रस्य जेतासौ
जरासन्धो महाबलः । ह्व्_२३।१०९३८२:१७ ।
जरासन्धस्य पुत्रो वै
सहदेवः प्रतापवान् ॥ ह्व्_२३।१०९३८२:१८ ।

सहदेवात्मजः श्रीमान् उदायिः स महायशाः । *ह्व्_२३।१०९*३८२:१९ । उदायिर् जनयाम् आस पुत्रं परमधार्मिकम् । *ह्व्_२३।१०९*३८२:२० । श्रुतधर्मेति नामानं मगधान् यो ऽवसद् विभुः । *ह्व्_२३।१०९*३८२:२१ । ([क्: क्१ द्न् द्स् द्२।३ after लिने ११ of *३८२ ins.: :क्]) वृषभस्य तुदायादः पुष्पवान् नाम धार्मिकः । *ह्व्_२३।१०९*३८२अ । परीक्षितस् तु तनयो धार्मिको जनमेजयः । ([क्: क् Ñ२ व्२।३ ब्१।२ द् त् ग्१-४ (व्१ ब्३ after *३८२; Ñ३ after the सेचोन्द् ओच्चुर्रेन्चे of १०अ-ब् रेपेअतेद् after *३८२) ins.: :क्]) जनमेजयस्य दायादास् त्रय एव महारथाः । *ह्व्_२३।११०*३८३ ।
विश्वास-प्रस्तुतिः

([क्: क्१-३ Ñ२।३ व् ब्१ द्स् द्१-४ after *३८३ चोन्त्।: :क्])
जह्नोस् तुकथयिष्यामि
यत्र जातो ऽसि पार्थिव ॥ ह्व्_२३।११०३८४:१ ।

मूलम्

([क्: क्१-३ Ñ२।३ व् ब्१ द्स् द्१-४ after *३८३ चोन्त्।: :क्])
जह्नोस् तुकथयिष्यामि
यत्र जातो ऽसि पार्थिव ॥ ह्व्_२३।११०३८४:१ ।

विश्वास-प्रस्तुतिः

जह्नुस् त्व् अजनयत् पुत्रं
सुरथं नाम भूमिपम् । ह्व्_२३।११०३८४:२ ।
श्रुतसेनो ऽग्रसेनौ च
भीमसेनश् च नामतः ॥ ह्व्_२३।११० ॥

मूलम्

जह्नुस् त्व् अजनयत् पुत्रं
सुरथं नाम भूमिपम् । ह्व्_२३।११०३८४:२ ।
श्रुतसेनो ऽग्रसेनौ च
भीमसेनश् च नामतः ॥ ह्व्_२३।११० ॥

विश्वास-प्रस्तुतिः

([क्: क्२-४ Ñ२।३ व् ब् द् (एxचेप्त् द्६) त्३।४ ins.: :क्])
एते सर्वे महाभागा
विक्रान्ता बलशालिनः । ह्व्_२३।११०३८५ ।
जनमेजयस्य पुत्रौ तु
सुरथो मतिमांस् तथा ।
सुरथस्य तु विक्रान्तः
पुत्रो जज्ञे विदूरथः ॥ ह्व्_२३।१११ ॥

मूलम्

([क्: क्२-४ Ñ२।३ व् ब् द् (एxचेप्त् द्६) त्३।४ ins.: :क्])
एते सर्वे महाभागा
विक्रान्ता बलशालिनः । ह्व्_२३।११०३८५ ।
जनमेजयस्य पुत्रौ तु
सुरथो मतिमांस् तथा ।
सुरथस्य तु विक्रान्तः
पुत्रो जज्ञे विदूरथः ॥ ह्व्_२३।१११ ॥

विश्वास-प्रस्तुतिः

विदूरथस्य दायाद
ऋक्ष एव महारथः ।
द्वितीयः स बभौ राजा
नाम्ना तेनैव सञ्ज्ञितः ॥ ह्व्_२३।११२ ॥

मूलम्

विदूरथस्य दायाद
ऋक्ष एव महारथः ।
द्वितीयः स बभौ राजा
नाम्ना तेनैव सञ्ज्ञितः ॥ ह्व्_२३।११२ ॥

विश्वास-प्रस्तुतिः

द्वाव् ऋक्षौ तव वंशे ऽस्मिन्
द्वाव् एव च परीक्षितौ ।
भीमसेनास् त्रयो राजन्
द्वाव् एव जनमेजयौ ॥ ह्व्_२३।११३ ॥

मूलम्

द्वाव् ऋक्षौ तव वंशे ऽस्मिन्
द्वाव् एव च परीक्षितौ ।
भीमसेनास् त्रयो राजन्
द्वाव् एव जनमेजयौ ॥ ह्व्_२३।११३ ॥

विश्वास-प्रस्तुतिः

ऋक्षस्य तु द्वितीयस्य
भीमसेनो ऽभवत् सुतः ।
प्रतीपो भीमसेनस्य
प्रतीपस्य तु शान्तनुः ॥

मूलम्

ऋक्षस्य तु द्वितीयस्य
भीमसेनो ऽभवत् सुतः ।
प्रतीपो भीमसेनस्य
प्रतीपस्य तु शान्तनुः ॥

विश्वास-प्रस्तुतिः

देवापिर् बाह्लिकश् चैव
त्रय एव महारथाः ॥ ह्व्_२३।११४ ॥

मूलम्

देवापिर् बाह्लिकश् चैव
त्रय एव महारथाः ॥ ह्व्_२३।११४ ॥

विश्वास-प्रस्तुतिः

शान्तनोः प्रसवस् त्व् एष
यत्र जातो ऽसि पार्थिव ।
बाह्लिकस्य तु राज्यं वै
सप्तबाह्ल्यं विशां पते ॥ ह्व्_२३।११५ ॥

मूलम्

शान्तनोः प्रसवस् त्व् एष
यत्र जातो ऽसि पार्थिव ।
बाह्लिकस्य तु राज्यं वै
सप्तबाह्ल्यं विशां पते ॥ ह्व्_२३।११५ ॥

विश्वास-प्रस्तुतिः

बाह्लिकस्य सुतश् चैव
सोमदत्तो महायशाः ।
जज्ञिरे सोमदत्तात् तु
भूरिर् भूरिश्रवाः शलः ॥ ह्व्_२३।११६ ॥

मूलम्

बाह्लिकस्य सुतश् चैव
सोमदत्तो महायशाः ।
जज्ञिरे सोमदत्तात् तु
भूरिर् भूरिश्रवाः शलः ॥ ह्व्_२३।११६ ॥

विश्वास-प्रस्तुतिः

उपाध्यायस् तु देवानां
देवापिर् अभवन् मुनिः ।
च्यवनस्य पुत्रः कृतक
इष्टश् चासीन् महात्मनः ॥ ह्व्_२३।११७ ॥

मूलम्

उपाध्यायस् तु देवानां
देवापिर् अभवन् मुनिः ।
च्यवनस्य पुत्रः कृतक
इष्टश् चासीन् महात्मनः ॥ ह्व्_२३।११७ ॥

विश्वास-प्रस्तुतिः

शान्तनुस् त्व् अभवद् राजा
कौरवाणां धुरन्धरः ॥ ह्व्_२३।११८ ॥

मूलम्

शान्तनुस् त्व् अभवद् राजा
कौरवाणां धुरन्धरः ॥ ह्व्_२३।११८ ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
शान्तनोःसम्प्रवक्ष्यामि
यत्र जातो ऽसि पार्थिव ॥ ह्व्_२३।११८३८६:१ ।

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
शान्तनोःसम्प्रवक्ष्यामि
यत्र जातो ऽसि पार्थिव ॥ ह्व्_२३।११८३८६:१ ।

विश्वास-प्रस्तुतिः

गाङ्गं देवव्रतं नाम
पुत्रं सो ऽजनयत् प्रभुः । ह्व्_२३।११८३८६:२ ।
स तु भीष्म इति ख्यातः
पाण्डवानां पितामहः । ह्व्_२३।११८३८६:३ ।
काली विचित्रवीर्यं तु
जनयाम् आस भारत ।
शान्तनोर् दयितं पुत्रं
धर्मात्मानम् अकल्मषम् ॥ ह्व्_२३।११९ ॥

मूलम्

गाङ्गं देवव्रतं नाम
पुत्रं सो ऽजनयत् प्रभुः । ह्व्_२३।११८३८६:२ ।
स तु भीष्म इति ख्यातः
पाण्डवानां पितामहः । ह्व्_२३।११८३८६:३ ।
काली विचित्रवीर्यं तु
जनयाम् आस भारत ।
शान्तनोर् दयितं पुत्रं
धर्मात्मानम् अकल्मषम् ॥ ह्व्_२३।११९ ॥

विश्वास-प्रस्तुतिः

कृष्णद्वैपायनच् चैव
क्षेत्रे वैचित्रवीर्यके ।
धृतराष्ट्रं च पाण्डुं च
विदुरं चाप्य् अजीजनत् ॥ ह्व्_२३।१२० ॥

मूलम्

कृष्णद्वैपायनच् चैव
क्षेत्रे वैचित्रवीर्यके ।
धृतराष्ट्रं च पाण्डुं च
विदुरं चाप्य् अजीजनत् ॥ ह्व्_२३।१२० ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३; क्१।३ Ñ२ व्३ द्१।२।४ after the फ़िर्स्तोच्चुर्रेन्चे of ११९अ-ब्) ins.: :क्])
धृतराष्ट्रस् तु गान्धार्यां
पुत्रानजनयच् छतम् । ह्व्_२३।१२०३८७:१ ।
तेषां दुर्योधनः श्रेष्ठः
सर्वेषाम् एव स प्रभुः । ह्व्_२३।१२०३८७:२ ।
पाण्डोर् धनञ्जयः पुत्रः
सौभद्रस् तस्य चात्मजः ।
अभिमन्योः परीक्षित् तु
पिता तव जनेश्वर ॥ ह्व्_२३।१२१ ॥

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३; क्१।३ Ñ२ व्३ द्१।२।४ after the फ़िर्स्तोच्चुर्रेन्चे of ११९अ-ब्) ins.: :क्])
धृतराष्ट्रस् तु गान्धार्यां
पुत्रानजनयच् छतम् । ह्व्_२३।१२०३८७:१ ।
तेषां दुर्योधनः श्रेष्ठः
सर्वेषाम् एव स प्रभुः । ह्व्_२३।१२०३८७:२ ।
पाण्डोर् धनञ्जयः पुत्रः
सौभद्रस् तस्य चात्मजः ।
अभिमन्योः परीक्षित् तु
पिता तव जनेश्वर ॥ ह्व्_२३।१२१ ॥

विश्वास-प्रस्तुतिः

एष ते पौरवो वंशो
यत्र जातो ऽसि पार्थिव ।
तुर्वसोस् तु प्रवक्ष्यामि
द्रुह्योश् चानोर् यदोस् तथा ॥ ह्व्_२३।१२२ ॥

मूलम्

एष ते पौरवो वंशो
यत्र जातो ऽसि पार्थिव ।
तुर्वसोस् तु प्रवक्ष्यामि
द्रुह्योश् चानोर् यदोस् तथा ॥ ह्व्_२३।१२२ ॥

विश्वास-प्रस्तुतिः

तुर्वसोस् तु सुतो वह्निर्
वह्नेर् गोभानुर् आत्मजः ।
गोभानोस् तु सुतो राजा
त्रिशानुर् अपराजितः ॥ ह्व्_२३।१२३ ॥

मूलम्

तुर्वसोस् तु सुतो वह्निर्
वह्नेर् गोभानुर् आत्मजः ।
गोभानोस् तु सुतो राजा
त्रिशानुर् अपराजितः ॥ ह्व्_२३।१२३ ॥

विश्वास-प्रस्तुतिः

करन्धमस् तु त्रिशानोर्
मरुत्तस् तस्य चात्मजः ।
अन्यस् त्व् आविक्षितो राजा
मरुत्तः कथितस् तव ॥ ह्व्_२३।१२४ ॥

मूलम्

करन्धमस् तु त्रिशानोर्
मरुत्तस् तस्य चात्मजः ।
अन्यस् त्व् आविक्षितो राजा
मरुत्तः कथितस् तव ॥ ह्व्_२३।१२४ ॥

विश्वास-प्रस्तुतिः

अनपत्यो ऽभवद् राजा
यज्वा विपुलदक्षिणः ।
दुहिता सम्मता नाम
तस्यासीत् पृथिवीपतेः ॥ ह्व्_२३।१२५ ॥

मूलम्

अनपत्यो ऽभवद् राजा
यज्वा विपुलदक्षिणः ।
दुहिता सम्मता नाम
तस्यासीत् पृथिवीपतेः ॥ ह्व्_२३।१२५ ॥

विश्वास-प्रस्तुतिः

दक्षिणार्थं हि सा दत्ता
संवर्ताय महात्मने ।
दुःषन्तं पौरवं चापि
लेभे पुत्रम् अकल्मषम् ॥ ह्व्_२३।१२६ ॥

मूलम्

दक्षिणार्थं हि सा दत्ता
संवर्ताय महात्मने ।
दुःषन्तं पौरवं चापि
लेभे पुत्रम् अकल्मषम् ॥ ह्व्_२३।१२६ ॥

विश्वास-प्रस्तुतिः

एवं ययातेः शापेन
जरासङ्क्रमणे तदा ।
पौरवं तुर्वसोर् वंशः
प्रविवेश नृपोत्तम ॥ ह्व्_२३।१२७ ॥

मूलम्

एवं ययातेः शापेन
जरासङ्क्रमणे तदा ।
पौरवं तुर्वसोर् वंशः
प्रविवेश नृपोत्तम ॥ ह्व्_२३।१२७ ॥

विश्वास-प्रस्तुतिः

दुःषन्तस्य तु दायादः
शरुत्थामः प्रजेश्वरः ।
शरुत्थामाद् अथाक्रीडश्
चत्वारस् तस्य चात्मजाः ॥ ह्व्_२३।१२८ ॥

मूलम्

दुःषन्तस्य तु दायादः
शरुत्थामः प्रजेश्वरः ।
शरुत्थामाद् अथाक्रीडश्
चत्वारस् तस्य चात्मजाः ॥ ह्व्_२३।१२८ ॥

विश्वास-प्रस्तुतिः

पाण्ड्यश् च केरलश् चैव
कोलश् चोलश् च पार्थिवः ।
तेषां जनपदाः स्फीताः
पाण्ड्यश् चोलश् च केरलाः ॥ ह्व्_२३।१२९ ॥

मूलम्

पाण्ड्यश् च केरलश् चैव
कोलश् चोलश् च पार्थिवः ।
तेषां जनपदाः स्फीताः
पाण्ड्यश् चोलश् च केरलाः ॥ ह्व्_२३।१२९ ॥

विश्वास-प्रस्तुतिः

द्रुह्योस् तु तनयो राजन्
बभ्रुसेनश् च पार्थिवः ।
अङ्गारसेतुस् तत्पुत्रो
मरुतां पतिर् उच्यते ॥ ह्व्_२३।१३० ॥

मूलम्

द्रुह्योस् तु तनयो राजन्
बभ्रुसेनश् च पार्थिवः ।
अङ्गारसेतुस् तत्पुत्रो
मरुतां पतिर् उच्यते ॥ ह्व्_२३।१३० ॥

विश्वास-प्रस्तुतिः

यौवनाश्वेन समरे
कृच्छ्रेण निहतो बली ।
युद्धं सुमहद् आसीद् धि
मासान् परि चतुर्दश ॥ ह्व्_२३।१३१ ॥

मूलम्

यौवनाश्वेन समरे
कृच्छ्रेण निहतो बली ।
युद्धं सुमहद् आसीद् धि
मासान् परि चतुर्दश ॥ ह्व्_२३।१३१ ॥

विश्वास-प्रस्तुतिः

अङ्गारस्य तु दायादो
गान्धारो नाम पार्थिवः ।
ख्यायते यस्य नाम्ना वै
गान्धारविषयो महान् ॥

मूलम्

अङ्गारस्य तु दायादो
गान्धारो नाम पार्थिवः ।
ख्यायते यस्य नाम्ना वै
गान्धारविषयो महान् ॥

विश्वास-प्रस्तुतिः

गान्धारदेशजाश् चैव
तुरगा वाजिनां वराः ॥ ह्व्_२३।१३२ ॥

मूलम्

गान्धारदेशजाश् चैव
तुरगा वाजिनां वराः ॥ ह्व्_२३।१३२ ॥

विश्वास-प्रस्तुतिः

अनोस् तु पुत्रो धर्मो ऽभूद्
धृतस् तस्यात्मजो ऽभवत् ।
धृतात् तु दुदुहो जज्ञे
प्रचेतास् तस्य चात्मजः ॥

मूलम्

अनोस् तु पुत्रो धर्मो ऽभूद्
धृतस् तस्यात्मजो ऽभवत् ।
धृतात् तु दुदुहो जज्ञे
प्रचेतास् तस्य चात्मजः ॥

विश्वास-प्रस्तुतिः

प्रचेतसः सुचेतास् तु
कीर्तिता ह्य् अनवो मया ॥ ह्व्_२३।१३३ ॥

मूलम्

प्रचेतसः सुचेतास् तु
कीर्तिता ह्य् अनवो मया ॥ ह्व्_२३।१३३ ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ म्१-३) ins.: :क्])
यदोर् वंशम्प्रवक्ष्यामि
ज्येष्ठस्योत्तमतेजसः । ह्व्_२३।१३३३८८:१ ।
विस्तरेणनुपूर्व्या च
गदतो मे निशामय । ह्व्_२३।१३३३८८:२ ।
([क्: द्२ after *३८८ चोन्त्।: :क्])
यस्य श्रवणमात्रेण
पातकेभ्यःप्रमुच्यते । ह्व्_२३।१३३३८९ ।
बभूवुस् तु यदोः पुत्राः
पञ्च देवसुतोपमाः ।
सहस्रदः पयोदश् च
क्रोष्टा नीलो ऽञ्जिकस् तथा ॥ ह्व्_२३।१३४ ॥

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ म्१-३) ins.: :क्])
यदोर् वंशम्प्रवक्ष्यामि
ज्येष्ठस्योत्तमतेजसः । ह्व्_२३।१३३३८८:१ ।
विस्तरेणनुपूर्व्या च
गदतो मे निशामय । ह्व्_२३।१३३३८८:२ ।
([क्: द्२ after *३८८ चोन्त्।: :क्])
यस्य श्रवणमात्रेण
पातकेभ्यःप्रमुच्यते । ह्व्_२३।१३३३८९ ।
बभूवुस् तु यदोः पुत्राः
पञ्च देवसुतोपमाः ।
सहस्रदः पयोदश् च
क्रोष्टा नीलो ऽञ्जिकस् तथा ॥ ह्व्_२३।१३४ ॥

विश्वास-प्रस्तुतिः

सहस्रदस्य दायादास्
त्रयः परमधार्मिकाः ।
([क्: द्२ ins.: :क्])
शतजिन् नाम पार्थिवः । ह्व्_२३।१३५अ३९०:१ ।*
शतजितः सुताः ख्यातास् । ह्व्_२३।१३५अ३९०:२ ।*
हेहयश् च हयश् चैव
राजन् वेणुहयस् तथा ॥ ह्व्_२३।१३५ ॥

मूलम्

सहस्रदस्य दायादास्
त्रयः परमधार्मिकाः ।
([क्: द्२ ins.: :क्])
शतजिन् नाम पार्थिवः । ह्व्_२३।१३५अ३९०:१ ।*
शतजितः सुताः ख्यातास् । ह्व्_२३।१३५अ३९०:२ ।*
हेहयश् च हयश् चैव
राजन् वेणुहयस् तथा ॥ ह्व्_२३।१३५ ॥

विश्वास-प्रस्तुतिः

हेहयस्याभवत् पुत्रो
धर्मनेत्र इति श्रुतः ।
धर्मनेत्रस्य कान्तस् तु
कान्तपुत्रास् ततो ऽभवन् ॥ ह्व्_२३।१३६ ॥

मूलम्

हेहयस्याभवत् पुत्रो
धर्मनेत्र इति श्रुतः ।
धर्मनेत्रस्य कान्तस् तु
कान्तपुत्रास् ततो ऽभवन् ॥ ह्व्_२३।१३६ ॥

([क्: श्१ क्१ ins.: :क्]) साहञ्जस्य महिष्मांस् तु भद्रश्रेण्यश् चतत्सुतः । *ह्व्_२३।१३६*३९१ ।
विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३; क्१ after *३९१) ins.: :क्])
साहञ्जनी नामपुरी
तेन राज्ञा निवेशिता ॥ ह्व्_२३।१३६३९२:१ ।

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३; क्१ after *३९१) ins.: :क्])
साहञ्जनी नामपुरी
तेन राज्ञा निवेशिता ॥ ह्व्_२३।१३६३९२:१ ।

विश्वास-प्रस्तुतिः

साहञ्जस्य तु दायादो
महिष्मान् नाम पार्थिवः । ह्व्_२३।१३६३९२:२ ।
माहिष्मती नाम पुरी
येन राज्ञा निवेशिता ॥ ह्व्_२३।१३६३९२:३ ।

मूलम्

साहञ्जस्य तु दायादो
महिष्मान् नाम पार्थिवः । ह्व्_२३।१३६३९२:२ ।
माहिष्मती नाम पुरी
येन राज्ञा निवेशिता ॥ ह्व्_२३।१३६३९२:३ ।

आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् । *ह्व्_२३।१३६*३९२:४ । ([क्: क्१।३।४ ब्२ द्न् ग्३ after *३९२ (श्१ after *३९१) चोन्त्।: :क्]) वाराणस्यधिपो राजा कथितः पूर्वम् एव तु । *ह्व्_२३।१३६*३९३ ।
विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् Ñ१ म्१-३) after *३९२ (श्१ क्१।३।४ ब्२ द्न् ग्३ after *३९३)चोन्त्।: :क्])
भद्रश्रेण्यस्य दायादो
दुर्दमो नाम विश्रुतः ॥ ह्व्_२३।१३६३९४:१ ।

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् Ñ१ म्१-३) after *३९२ (श्१ क्१।३।४ ब्२ द्न् ग्३ after *३९३)चोन्त्।: :क्])
भद्रश्रेण्यस्य दायादो
दुर्दमो नाम विश्रुतः ॥ ह्व्_२३।१३६३९४:१ ।

विश्वास-प्रस्तुतिः

दुर्दमस्य सुतो धीमान्
कनको नाम नामतः । ह्व्_२३।१३६३९४:२ ।
कनकस्य तु दायादाश्
चत्वारो लोकविश्रुताः । ह्व्_२३।१३६३९४:३ ।
कृतवीर्यः कृतौजाश् च
कृतधन्वा तथैव च ।
कृताग्निश् च चतुर्थो ऽभूत्
कृतवीर्यात् तथार्जुनः ॥ ह्व्_२३।१३७ ॥

मूलम्

दुर्दमस्य सुतो धीमान्
कनको नाम नामतः । ह्व्_२३।१३६३९४:२ ।
कनकस्य तु दायादाश्
चत्वारो लोकविश्रुताः । ह्व्_२३।१३६३९४:३ ।
कृतवीर्यः कृतौजाश् च
कृतधन्वा तथैव च ।
कृताग्निश् च चतुर्थो ऽभूत्
कृतवीर्यात् तथार्जुनः ॥ ह्व्_२३।१३७ ॥

विश्वास-प्रस्तुतिः

यः स बाहुसहस्रेण
सप्तद्वीपेश्वरो ऽभवत् ।
जिगाय पृथिवीम् एको
रथेनादित्यवर्चसा ॥ ह्व्_२३।१३८ ॥

मूलम्

यः स बाहुसहस्रेण
सप्तद्वीपेश्वरो ऽभवत् ।
जिगाय पृथिवीम् एको
रथेनादित्यवर्चसा ॥ ह्व्_२३।१३८ ॥

विश्वास-प्रस्तुतिः

स हि वर्षशतं तप्त्वा
तपः परमदुश्चरम् ।
दत्तम् आराधयाम् आस
कार्तवीर्यो ऽत्रिसम्भवम् ॥ ह्व्_२३।१३९ ॥

मूलम्

स हि वर्षशतं तप्त्वा
तपः परमदुश्चरम् ।
दत्तम् आराधयाम् आस
कार्तवीर्यो ऽत्रिसम्भवम् ॥ ह्व्_२३।१३९ ॥

विश्वास-प्रस्तुतिः

तस्मै दत्तो वरान् प्रादाच्
चतुरो भूरितेजसः ।
पूर्वं बाहुसहस्रं तु
प्रार्थितं परमं वरम् ॥ ह्व्_२३।१४० ॥

मूलम्

तस्मै दत्तो वरान् प्रादाच्
चतुरो भूरितेजसः ।
पूर्वं बाहुसहस्रं तु
प्रार्थितं परमं वरम् ॥ ह्व्_२३।१४० ॥

विश्वास-प्रस्तुतिः

अधर्मे धीयमानस्य
सद्भिः स्यान् मे निबर्हणम् ।
उग्रेण पृथिवीं जित्वा
धर्मेणैवानुरञ्जनम् ॥ ह्व्_२३।१४१ ॥

मूलम्

अधर्मे धीयमानस्य
सद्भिः स्यान् मे निबर्हणम् ।
उग्रेण पृथिवीं जित्वा
धर्मेणैवानुरञ्जनम् ॥ ह्व्_२३।१४१ ॥

विश्वास-प्रस्तुतिः

सङ्ग्रामान् सुबहूञ् जित्वा
हत्वा चारीन् सहस्रशः ।
सङ्ग्रामे वर्तमानस्य
वधं चाभ्यधिकाद् रणे ॥ ह्व्_२३।१४२ ॥

मूलम्

सङ्ग्रामान् सुबहूञ् जित्वा
हत्वा चारीन् सहस्रशः ।
सङ्ग्रामे वर्तमानस्य
वधं चाभ्यधिकाद् रणे ॥ ह्व्_२३।१४२ ॥

विश्वास-प्रस्तुतिः

तस्य बाहुसहस्रं तु
युध्यतः किल भारत ।
योगाद् योगेश्वरस्याग्रे
प्रादुर्भवति मायया ॥ ह्व्_२३।१४३ ॥

मूलम्

तस्य बाहुसहस्रं तु
युध्यतः किल भारत ।
योगाद् योगेश्वरस्याग्रे
प्रादुर्भवति मायया ॥ ह्व्_२३।१४३ ॥

विश्वास-प्रस्तुतिः

तेनेयं पृथिवी कृत्स्ना
सप्तद्वीपा सपत्तना ।
ससमुद्रा सनगरा
उग्रेण विधिना जिता ॥ ह्व्_२३।१४४ ॥

मूलम्

तेनेयं पृथिवी कृत्स्ना
सप्तद्वीपा सपत्तना ।
ससमुद्रा सनगरा
उग्रेण विधिना जिता ॥ ह्व्_२३।१४४ ॥

विश्वास-प्रस्तुतिः

तेन सप्तसु द्वीपेषु
सप्त यज्ञशतानि वै ।
प्राप्तानि विधिना राज्ञा
श्रूयन्ते जनमेजय ॥ ह्व्_२३।१४५ ॥

मूलम्

तेन सप्तसु द्वीपेषु
सप्त यज्ञशतानि वै ।
प्राप्तानि विधिना राज्ञा
श्रूयन्ते जनमेजय ॥ ह्व्_२३।१४५ ॥

विश्वास-प्रस्तुतिः

सर्वे यज्ञा महाबाहो
तस्यासन् भूरिदक्षिणाः ।
सर्वे काञ्चनयूपाश् च
सर्वे काञ्चनवेदयः ॥ ह्व्_२३।१४६ ॥

मूलम्

सर्वे यज्ञा महाबाहो
तस्यासन् भूरिदक्षिणाः ।
सर्वे काञ्चनयूपाश् च
सर्वे काञ्चनवेदयः ॥ ह्व्_२३।१४६ ॥

विश्वास-प्रस्तुतिः

सर्वे देवैर् महाराज
विमानस्थैर् अलङ्कृताः ।
गन्धर्वैर् अप्सरोभिश् च
नित्यम् एवोपशोभिताः ॥ ह्व्_२३।१४७ ॥

मूलम्

सर्वे देवैर् महाराज
विमानस्थैर् अलङ्कृताः ।
गन्धर्वैर् अप्सरोभिश् च
नित्यम् एवोपशोभिताः ॥ ह्व्_२३।१४७ ॥

विश्वास-प्रस्तुतिः

यस्य यज्ञे जगौ गाथां
गन्धर्वो नारदस् तथा ।
वरीदासात्मजो विद्वान्
महिम्ना तस्य विस्मितः ॥ ह्व्_२३।१४८ ॥

मूलम्

यस्य यज्ञे जगौ गाथां
गन्धर्वो नारदस् तथा ।
वरीदासात्मजो विद्वान्
महिम्ना तस्य विस्मितः ॥ ह्व्_२३।१४८ ॥

विश्वास-प्रस्तुतिः

न नूनं कार्तवीर्यस्य
गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर् दानैस् तपोभिर् वा
विक्रमेण श्रुतेन वा ॥ ह्व्_२३।१४९ ॥

मूलम्

न नूनं कार्तवीर्यस्य
गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर् दानैस् तपोभिर् वा
विक्रमेण श्रुतेन वा ॥ ह्व्_२३।१४९ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ (मर्ग्।) ins.: :क्])
पञ्चाशीतिसहस्राणि
अव्याहतबलः समाः । ह्व्_२३।१४९३९५:१ ।
अकरोद् अर्जुनो राज्यं
हरिं चैवान्वहं स्मरन् । ह्व्_२३।१४९३९५:२ ।
अनष्टवित्तस्मरणे
बुभुजे ऽक्षय्यषड्वसु । ह्व्_२३।१४९३९५:३ ।
स हि सप्तसु द्वीपेषु
खड्गी चर्मी शरासनी ।
रथी द्वीपान् अनुचरन्
योगी सन्दृश्यते नृभिः ॥ ह्व्_२३।१५० ॥

मूलम्

([क्: क्४ (मर्ग्।) ins.: :क्])
पञ्चाशीतिसहस्राणि
अव्याहतबलः समाः । ह्व्_२३।१४९३९५:१ ।
अकरोद् अर्जुनो राज्यं
हरिं चैवान्वहं स्मरन् । ह्व्_२३।१४९३९५:२ ।
अनष्टवित्तस्मरणे
बुभुजे ऽक्षय्यषड्वसु । ह्व्_२३।१४९३९५:३ ।
स हि सप्तसु द्वीपेषु
खड्गी चर्मी शरासनी ।
रथी द्वीपान् अनुचरन्
योगी सन्दृश्यते नृभिः ॥ ह्व्_२३।१५० ॥

विश्वास-प्रस्तुतिः

([क्: क्१-३ Ñ२।३ व् ब् द्न् द्स् द्२-६ त्२ ग्१-३।५ म्४ ins.: :क्])
अनष्टद्रव्यता चैव
न शोको न च विभ्रमः । ह्व्_२३।१५०३९६:१ ।
प्रभावेण महाराज्ञः
प्रजा धर्मेण रक्षतः ॥ ह्व्_२३।१५०३९६:२ ।

मूलम्

([क्: क्१-३ Ñ२।३ व् ब् द्न् द्स् द्२-६ त्२ ग्१-३।५ म्४ ins.: :क्])
अनष्टद्रव्यता चैव
न शोको न च विभ्रमः । ह्व्_२३।१५०३९६:१ ।
प्रभावेण महाराज्ञः
प्रजा धर्मेण रक्षतः ॥ ह्व्_२३।१५०३९६:२ ।

विश्वास-प्रस्तुतिः

स सर्वरत्नभाक् सम्राट्
चक्रवर्ती बभूव ह । ह्व्_२३।१५०३९६:३ ।
स एव पशुपालो ऽभूत्
क्षेत्रपालः स एव च । ह्व्_२३।१५०३९६:४ ।
स एव वृष्ट्या पर्जन्यो
योगित्वाद् अर्जुनो ऽभवत् ॥ ह्व्_२३।१५०३९६:५ ।

मूलम्

स सर्वरत्नभाक् सम्राट्
चक्रवर्ती बभूव ह । ह्व्_२३।१५०३९६:३ ।
स एव पशुपालो ऽभूत्
क्षेत्रपालः स एव च । ह्व्_२३।१५०३९६:४ ।
स एव वृष्ट्या पर्जन्यो
योगित्वाद् अर्जुनो ऽभवत् ॥ ह्व्_२३।१५०३९६:५ ।

विश्वास-प्रस्तुतिः

स वै बाहुसहस्रेण
ज्याघातकठिनत्वचा । ह्व्_२३।१५०३९६:६ ।
भाति रश्मिसहस्रेण
शरदीव च भास्करः ॥ ह्व्_२३।१५०३९६:७ ।

मूलम्

स वै बाहुसहस्रेण
ज्याघातकठिनत्वचा । ह्व्_२३।१५०३९६:६ ।
भाति रश्मिसहस्रेण
शरदीव च भास्करः ॥ ह्व्_२३।१५०३९६:७ ।

विश्वास-प्रस्तुतिः

स हि नागान् मनुष्येषु
माहिष्मत्यां महाद्युतिः । ह्व्_२३।१५०३९६:८ ।
कर्कोटकसुताञ् जित्वा
पुर्यां तस्यां न्यवेशयत् ॥ ह्व्_२३।१५०३९६:९ ।

मूलम्

स हि नागान् मनुष्येषु
माहिष्मत्यां महाद्युतिः । ह्व्_२३।१५०३९६:८ ।
कर्कोटकसुताञ् जित्वा
पुर्यां तस्यां न्यवेशयत् ॥ ह्व्_२३।१५०३९६:९ ।

विश्वास-प्रस्तुतिः

स वै वेगं समुद्रस्य
प्रावृट्काले ऽम्बुजेक्षणः । ह्व्_२३।१५०३९६:१० ।
क्रीडन्न् इव भुजोद्भिन्नं
प्रतिस्रोतश् चकार ह ॥ ह्व्_२३।१५०३९६:११ ।

मूलम्

स वै वेगं समुद्रस्य
प्रावृट्काले ऽम्बुजेक्षणः । ह्व्_२३।१५०३९६:१० ।
क्रीडन्न् इव भुजोद्भिन्नं
प्रतिस्रोतश् चकार ह ॥ ह्व्_२३।१५०३९६:११ ।

विश्वास-प्रस्तुतिः

लुण्ठिता क्रीडता तेन
फेनस्रग्दाममालिनी । ह्व्_२३।१५०३९६:१२ ।
चलदूर्मिसहस्रेण
शङ्किताभ्येति नर्मदा ॥ ह्व्_२३।१५०३९६:१३ ।

मूलम्

लुण्ठिता क्रीडता तेन
फेनस्रग्दाममालिनी । ह्व्_२३।१५०३९६:१२ ।
चलदूर्मिसहस्रेण
शङ्किताभ्येति नर्मदा ॥ ह्व्_२३।१५०३९६:१३ ।

विश्वास-प्रस्तुतिः

तस्य बाहुसहस्रेण
क्षुभ्यमाणे महोदधौ । ह्व्_२३।१५०३९६:१४ ।
भयान् निलीना निश्चेष्टाः
पातालस्था महासुराः ॥ ह्व्_२३।१५०३९६:१५ ।

मूलम्

तस्य बाहुसहस्रेण
क्षुभ्यमाणे महोदधौ । ह्व्_२३।१५०३९६:१४ ।
भयान् निलीना निश्चेष्टाः
पातालस्था महासुराः ॥ ह्व्_२३।१५०३९६:१५ ।

विश्वास-प्रस्तुतिः

चूर्णीकृतमहावीचिं
चलन्मीनमहातिमिम् । ह्व्_२३।१५०३९६:१६ ।
मारुताविद्धफेनौघम्
आवर्तक्षोभदुःसहम् ॥ ह्व्_२३।१५०३९६:१७ ।

मूलम्

चूर्णीकृतमहावीचिं
चलन्मीनमहातिमिम् । ह्व्_२३।१५०३९६:१६ ।
मारुताविद्धफेनौघम्
आवर्तक्षोभदुःसहम् ॥ ह्व्_२३।१५०३९६:१७ ।

विश्वास-प्रस्तुतिः

प्रावर्तयत् तदा राजा
सहस्रेण च बाहुना । ह्व्_२३।१५०३९६:१८ ।
देवासुरसमाक्षिप्तः
क्षीरोदम् इव मन्दरः ॥ ह्व्_२३।१५०३९६:१९ ।

मूलम्

प्रावर्तयत् तदा राजा
सहस्रेण च बाहुना । ह्व्_२३।१५०३९६:१८ ।
देवासुरसमाक्षिप्तः
क्षीरोदम् इव मन्दरः ॥ ह्व्_२३।१५०३९६:१९ ।

विश्वास-प्रस्तुतिः

मन्दरक्षोभचकिता
अमृतोत्पादशङ्किताः । ह्व्_२३।१५०३९६:२० ।
सहसोत्पतिता भीता
भीमं दृष्ट्वा नृपोत्तमम् ॥ ह्व्_२३।१५०३९६:२१ ।

मूलम्

मन्दरक्षोभचकिता
अमृतोत्पादशङ्किताः । ह्व्_२३।१५०३९६:२० ।
सहसोत्पतिता भीता
भीमं दृष्ट्वा नृपोत्तमम् ॥ ह्व्_२३।१५०३९६:२१ ।

विश्वास-प्रस्तुतिः

नता निश्चलमूर्धानो
बभूवुस् ते महोरगाः । ह्व्_२३।१५०३९६:२२ ।
सायाह्ने कदलीखण्डैः
कम्पितास् तस्य वायुना ॥ ह्व्_२३।१५०३९६:२३ ।

मूलम्

नता निश्चलमूर्धानो
बभूवुस् ते महोरगाः । ह्व्_२३।१५०३९६:२२ ।
सायाह्ने कदलीखण्डैः
कम्पितास् तस्य वायुना ॥ ह्व्_२३।१५०३९६:२३ ।

विश्वास-प्रस्तुतिः

स वै बद्ध्वा धनुर् ज्याभिर्
उत्सिक्तं पञ्चभिः शरैः । ह्व्_२३।१५०३९६:२४ ।
लङ्केशं मोहयित्वा तु
सबलं रावणं बलात् । ह्व्_२३।१५०३९६:२५ ।
निर्जित्यैव समानीय
माहिष्मत्यां बबन्ध तम् ॥ ह्व्_२३।१५०३९६:२६ ।

मूलम्

स वै बद्ध्वा धनुर् ज्याभिर्
उत्सिक्तं पञ्चभिः शरैः । ह्व्_२३।१५०३९६:२४ ।
लङ्केशं मोहयित्वा तु
सबलं रावणं बलात् । ह्व्_२३।१५०३९६:२५ ।
निर्जित्यैव समानीय
माहिष्मत्यां बबन्ध तम् ॥ ह्व्_२३।१५०३९६:२६ ।

विश्वास-प्रस्तुतिः

श्रुत्वा तु बद्धं पौलस्त्यं
रावणं त्व् अर्जुनेन तु । ह्व्_२३।१५०३९६:२७ ।
ततो गत्वा पुलस्त्यस् तम्
अर्जुनं ददृशे स्वयम् । ह्व्_२३।१५०३९६:२८ ।
मुमोच रक्षः पौलस्त्यं
पुलस्त्येनानुयाचितः ॥ ह्व्_२३।१५०३९६:२९ ।

मूलम्

श्रुत्वा तु बद्धं पौलस्त्यं
रावणं त्व् अर्जुनेन तु । ह्व्_२३।१५०३९६:२७ ।
ततो गत्वा पुलस्त्यस् तम्
अर्जुनं ददृशे स्वयम् । ह्व्_२३।१५०३९६:२८ ।
मुमोच रक्षः पौलस्त्यं
पुलस्त्येनानुयाचितः ॥ ह्व्_२३।१५०३९६:२९ ।

विश्वास-प्रस्तुतिः

यस्य बाहुसहस्रस्य
बभूव ज्यातलस्वनः । ह्व्_२३।१५०३९६:३० ।
युगान्ते त्व् अम्बुदस्येव
स्फुटतो ह्य् अशनेर् इव ॥ ह्व्_२३।१५०३९६:३१ ।

मूलम्

यस्य बाहुसहस्रस्य
बभूव ज्यातलस्वनः । ह्व्_२३।१५०३९६:३० ।
युगान्ते त्व् अम्बुदस्येव
स्फुटतो ह्य् अशनेर् इव ॥ ह्व्_२३।१५०३९६:३१ ।

विश्वास-प्रस्तुतिः

अहो बत मृधे वीर्यं
भार्गवस्य यद् अच्छिनत् । ह्व्_२३।१५०३९६:३२ ।
राज्ञो बाहुसहस्रं तु
हैमं तालवनं यथा ॥ ह्व्_२३।१५०३९६:३३ ।

मूलम्

अहो बत मृधे वीर्यं
भार्गवस्य यद् अच्छिनत् । ह्व्_२३।१५०३९६:३२ ।
राज्ञो बाहुसहस्रं तु
हैमं तालवनं यथा ॥ ह्व्_२३।१५०३९६:३३ ।

तृषितेन कदा चित् स भिक्षितश् चित्रभानुना । *ह्व्_२३।१५०*३९६:३४ । ([क्: Ñ२।३ व् ब्२।३ द्५ after लिने २ of *३९६ (द्न् after लिने ३) ins.: :क्]) पञ्चाशीतिसहस्राणि वर्षाणां वै नराधिपः । *ह्व्_२३।१५०*३९६अ ।
विश्वास-प्रस्तुतिः

([क्: ब्२ after लिने १३ of *३९६ ins.: :क्])
उवास ताम् अनुसरन्न्
अवगाढोमहार्णवं । ह्व्_२३।१५०३९६ब्:१ ।
चकारोद्धतवेलान्तम्
अकालप्रावृडुद्धतं । ह्व्_२३।१५०३९६ब्:२ ।
स भिक्षाम् अददाद् वीरः
सप्त द्वीपान् विभावसोः ।
([क्: क्२ Ñ२।३ व् ब् द्न् द्स् द्२।३।५।६ त्२ ग्१-३।५ म्४ ins.: :क्])
पुराणिग्रामघोषांश् च
विषयांश् चैव सर्वशः । ह्व्_२३।१५१३९७:१ ।
जज्वाल तस्य सर्वाणि
चित्रभानुर् दिधक्षया ॥ ह्व्_२३।१५१३९७:२ ।

मूलम्

([क्: ब्२ after लिने १३ of *३९६ ins.: :क्])
उवास ताम् अनुसरन्न्
अवगाढोमहार्णवं । ह्व्_२३।१५०३९६ब्:१ ।
चकारोद्धतवेलान्तम्
अकालप्रावृडुद्धतं । ह्व्_२३।१५०३९६ब्:२ ।
स भिक्षाम् अददाद् वीरः
सप्त द्वीपान् विभावसोः ।
([क्: क्२ Ñ२।३ व् ब् द्न् द्स् द्२।३।५।६ त्२ ग्१-३।५ म्४ ins.: :क्])
पुराणिग्रामघोषांश् च
विषयांश् चैव सर्वशः । ह्व्_२३।१५१३९७:१ ।
जज्वाल तस्य सर्वाणि
चित्रभानुर् दिधक्षया ॥ ह्व्_२३।१५१३९७:२ ।

विश्वास-प्रस्तुतिः

स तस्य पुरुषेन्द्रस्य
प्रभावेण महात्मनः । ह्व्_२३।१५१३९७:३ ।
ददाह कार्तवीर्यस्य
शैलांश् चैव वनानि च ॥ ह्व्_२३।१५१३९७:४ ।

मूलम्

स तस्य पुरुषेन्द्रस्य
प्रभावेण महात्मनः । ह्व्_२३।१५१३९७:३ ।
ददाह कार्तवीर्यस्य
शैलांश् चैव वनानि च ॥ ह्व्_२३।१५१३९७:४ ।

विश्वास-प्रस्तुतिः

स शून्यम् आश्रमं रम्यं
वरुणस्यात्मजस्य वै । ह्व्_२३।१५१३९७:५ ।
ददाह बलवद्भीतश्
चित्रभानुः स हैहयः । ह्व्_२३।१५१३९७:६ ।
यं लेभे वरुणः पुत्रं
पुरा भास्वन्तम् उत्तमम् । ह्व्_२३।१५१३९७:७ ।
वसिष्ठं नाम स मुनिः
ख्यात आपव इत्य् उत । ह्व्_२३।१५१३९७:८ ।
यत्रापवस् तु तं क्रोधाच्
छप्तवान् अर्जुनं विभुः ॥ ह्व्_२३।१५१ ॥

मूलम्

स शून्यम् आश्रमं रम्यं
वरुणस्यात्मजस्य वै । ह्व्_२३।१५१३९७:५ ।
ददाह बलवद्भीतश्
चित्रभानुः स हैहयः । ह्व्_२३।१५१३९७:६ ।
यं लेभे वरुणः पुत्रं
पुरा भास्वन्तम् उत्तमम् । ह्व्_२३।१५१३९७:७ ।
वसिष्ठं नाम स मुनिः
ख्यात आपव इत्य् उत । ह्व्_२३।१५१३९७:८ ।
यत्रापवस् तु तं क्रोधाच्
छप्तवान् अर्जुनं विभुः ॥ ह्व्_२३।१५१ ॥

विश्वास-प्रस्तुतिः

यस्मान् न वर्जितम् इदं
वनं ते मम हेहय ।
तस्मात् ते दुष्करं कर्म
कृतम् अन्यो हरिष्यति ॥

मूलम्

यस्मान् न वर्जितम् इदं
वनं ते मम हेहय ।
तस्मात् ते दुष्करं कर्म
कृतम् अन्यो हरिष्यति ॥

विश्वास-प्रस्तुतिः

अर्जुनो नाम कौरव्यः
पाण्डवः कुन्तिनन्दनः ॥ ह्व्_२३।१५२ ॥

मूलम्

अर्जुनो नाम कौरव्यः
पाण्डवः कुन्तिनन्दनः ॥ ह्व्_२३।१५२ ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ त्१ म्१-३; द्६ त्२ ग् म्४ after १५३ब्) ins.: :क्])
रामो नाममहाबाहुर्
जामदग्न्यः प्रतापवान् । ह्व्_२३।१५२३९८ ।
छित्त्वा बाहुसहस्रं ते
प्रमथ्य तरसा बली ।
तपस्वी ब्राह्मणश् च त्वां
हनिष्यति स भार्गवः ॥ ह्व्_२३।१५३ ॥

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ त्१ म्१-३; द्६ त्२ ग् म्४ after १५३ब्) ins.: :क्])
रामो नाममहाबाहुर्
जामदग्न्यः प्रतापवान् । ह्व्_२३।१५२३९८ ।
छित्त्वा बाहुसहस्रं ते
प्रमथ्य तरसा बली ।
तपस्वी ब्राह्मणश् च त्वां
हनिष्यति स भार्गवः ॥ ह्व्_२३।१५३ ॥

विश्वास-प्रस्तुतिः

अनष्टद्रव्यता यस्य
बभूवामित्रकर्शन ।
प्रभावेण नरेन्द्रस्य
प्रजा धर्मेण रक्षतः ॥ ह्व्_२३।१५४ ॥

मूलम्

अनष्टद्रव्यता यस्य
बभूवामित्रकर्शन ।
प्रभावेण नरेन्द्रस्य
प्रजा धर्मेण रक्षतः ॥ ह्व्_२३।१५४ ॥

विश्वास-प्रस्तुतिः

रामात् ततो ऽस्य मृत्युर् वै
तस्य शापान् महामुनेः ।
वरश् चैष हि कौरव्य
स्वयम् एव वृतः पुरा ॥ ह्व्_२३।१५५ ॥

मूलम्

रामात् ततो ऽस्य मृत्युर् वै
तस्य शापान् महामुनेः ।
वरश् चैष हि कौरव्य
स्वयम् एव वृतः पुरा ॥ ह्व्_२३।१५५ ॥

विश्वास-प्रस्तुतिः

तस्य पुत्रशतस्यासन्
पञ्च शेषा महात्मनः ।
कृतास्त्रा बलिनः शूरा
धर्मात्मानो यशस्विनः ॥ ह्व्_२३।१५६ ॥

मूलम्

तस्य पुत्रशतस्यासन्
पञ्च शेषा महात्मनः ।
कृतास्त्रा बलिनः शूरा
धर्मात्मानो यशस्विनः ॥ ह्व्_२३।१५६ ॥

विश्वास-प्रस्तुतिः

शूरसेनश् च शूरश् च
धृष्टोक्तः कृष्ण एव च ।
जयध्वजश् च नाम्नासीद्
आवन्त्यो नृपतिर् महान् ॥

मूलम्

शूरसेनश् च शूरश् च
धृष्टोक्तः कृष्ण एव च ।
जयध्वजश् च नाम्नासीद्
आवन्त्यो नृपतिर् महान् ॥

विश्वास-प्रस्तुतिः

कार्तवीर्यस्य तनया
वीर्यवन्तो महारथाः ॥ ह्व्_२३।१५७ ॥

मूलम्

कार्तवीर्यस्य तनया
वीर्यवन्तो महारथाः ॥ ह्व्_२३।१५७ ॥

विश्वास-प्रस्तुतिः

जयध्वजस्य पुत्रस् तु
तालजङ्घो महाबलः ।
तस्य पुत्राः शताख्यास् तु
तालजङ्घा इति श्रुताः ॥ ह्व्_२३।१५८ ॥

मूलम्

जयध्वजस्य पुत्रस् तु
तालजङ्घो महाबलः ।
तस्य पुत्राः शताख्यास् तु
तालजङ्घा इति श्रुताः ॥ ह्व्_२३।१५८ ॥

विश्वास-प्रस्तुतिः

तेषां कुले महाराज
हेहयानां महात्मनाम् ।
वीतिहोत्राः सुजाताश् च
भोजाश् चावन्तयस् तथा ॥ ह्व्_२३।१५९ ॥

मूलम्

तेषां कुले महाराज
हेहयानां महात्मनाम् ।
वीतिहोत्राः सुजाताश् च
भोजाश् चावन्तयस् तथा ॥ ह्व्_२३।१५९ ॥

विश्वास-प्रस्तुतिः

तौण्डिकेरा इति ख्यातास्
तालजङ्घास् तथैव च ।
भरताश् च सुजाताश् च
बहुत्वान् नानुकीर्तिताः ॥ ह्व्_२३।१६० ॥

मूलम्

तौण्डिकेरा इति ख्यातास्
तालजङ्घास् तथैव च ।
भरताश् च सुजाताश् च
बहुत्वान् नानुकीर्तिताः ॥ ह्व्_२३।१६० ॥

विश्वास-प्रस्तुतिः

वृषप्रभृतयो राजन्
यादवाः पुण्यकर्मिणः ।
वृषो वंशधरस् तत्र
तस्य पुत्रो ऽभवन् मधुः ॥

मूलम्

वृषप्रभृतयो राजन्
यादवाः पुण्यकर्मिणः ।
वृषो वंशधरस् तत्र
तस्य पुत्रो ऽभवन् मधुः ॥

विश्वास-प्रस्तुतिः

मधोः पुत्रशतं त्व् आसीद्
वृषणस् तस्य वंशभाक् ॥ ह्व्_२३।१६१ ॥

मूलम्

मधोः पुत्रशतं त्व् आसीद्
वृषणस् तस्य वंशभाक् ॥ ह्व्_२३।१६१ ॥

विश्वास-प्रस्तुतिः

वृषणाद् वृष्णयः सर्वे
मधोस् तु माधवाः स्मृताः ।
यादवा यदुना चाग्रे
निरुच्यन्ते च हेहयाः ॥ ह्व्_२३।१६२ ॥

मूलम्

वृषणाद् वृष्णयः सर्वे
मधोस् तु माधवाः स्मृताः ।
यादवा यदुना चाग्रे
निरुच्यन्ते च हेहयाः ॥ ह्व्_२३।१६२ ॥

विश्वास-प्रस्तुतिः

([क्: क्१-३ Ñ२।३ व्१।३ द्न् द्स् द्३-५ ins.: :क्])
शूराश् च शूरवीराश् च
शूरसेनास् तथानघ ॥ ह्व्_२३।१६२३९९:१ ।

मूलम्

([क्: क्१-३ Ñ२।३ व्१।३ द्न् द्स् द्३-५ ins.: :क्])
शूराश् च शूरवीराश् च
शूरसेनास् तथानघ ॥ ह्व्_२३।१६२३९९:१ ।

विश्वास-प्रस्तुतिः

शूरसेन इति ख्यातस्
तस्य देशो महात्मनः । ह्व्_२३।१६२३९९:२ ।
न तस्य वित्तनाशः स्यान्
नष्टं प्रतिलभेच् च सः ।
कार्तवीर्यस्य यो जन्म
कथयेद् इह नित्यशः ॥ ह्व्_२३।१६३ ॥

मूलम्

शूरसेन इति ख्यातस्
तस्य देशो महात्मनः । ह्व्_२३।१६२३९९:२ ।
न तस्य वित्तनाशः स्यान्
नष्टं प्रतिलभेच् च सः ।
कार्तवीर्यस्य यो जन्म
कथयेद् इह नित्यशः ॥ ह्व्_२३।१६३ ॥

विश्वास-प्रस्तुतिः

([क्: Ñ२।३ व्१ द्३ (व्३ after १६८) ins.: :क्])
वित्तवांश् च भवेच् चैव
धर्मश्चैव विवर्धते । ह्व्_२३।१६३४००:१ ।
यथा सृष्टिर् यदोर् जाता
तथा स्वर्गे महीयते । ह्व्_२३।१६३४००:२ ।
([क्: Ñ२।३ द्३ (अल्ल् थेसे after अन् अद्द्ल्। चोलोफोन्) व्१ after *४०० चोन्त्।: :क्])
{जनमेजय उवाच}
किमर्थं तद् वनं दग्धम्
आपवस्य महात्मनः । ह्व्_२३।१६३४०१:१ ।
कार्तवीर्येण विक्रम्य
तन् मे ब्रूहि प्रपृच्छतः ॥ ह्व्_२३।१६३४०१:२ ।

मूलम्

([क्: Ñ२।३ व्१ द्३ (व्३ after १६८) ins.: :क्])
वित्तवांश् च भवेच् चैव
धर्मश्चैव विवर्धते । ह्व्_२३।१६३४००:१ ।
यथा सृष्टिर् यदोर् जाता
तथा स्वर्गे महीयते । ह्व्_२३।१६३४००:२ ।
([क्: Ñ२।३ द्३ (अल्ल् थेसे after अन् अद्द्ल्। चोलोफोन्) व्१ after *४०० चोन्त्।: :क्])
{जनमेजय उवाच}
किमर्थं तद् वनं दग्धम्
आपवस्य महात्मनः । ह्व्_२३।१६३४०१:१ ।
कार्तवीर्येण विक्रम्य
तन् मे ब्रूहि प्रपृच्छतः ॥ ह्व्_२३।१६३४०१:२ ।

विश्वास-प्रस्तुतिः

रक्षिता स हि राजर्षिः
प्रजानाम् इति नः श्रुतम् । ह्व्_२३।१६३४०१:३ ।
कथं स रक्षिता भूत्वा
नाशयाम् आस तद्वनम् ॥ ह्व्_२३।१६३४०१:४ ।

मूलम्

रक्षिता स हि राजर्षिः
प्रजानाम् इति नः श्रुतम् । ह्व्_२३।१६३४०१:३ ।
कथं स रक्षिता भूत्वा
नाशयाम् आस तद्वनम् ॥ ह्व्_२३।१६३४०१:४ ।

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
आदित्यो विप्ररूपेण
कार्तवीर्यम् उपस्थितः । ह्व्_२३।१६३४०१:५ ।
तृप्तिम् एकाम् प्रयच्छस्व
आदित्यो ऽहम् उपस्थितः ॥ ह्व्_२३।१६३४०१:६ ।

मूलम्

{वैशम्पायन उवाच}
आदित्यो विप्ररूपेण
कार्तवीर्यम् उपस्थितः । ह्व्_२३।१६३४०१:५ ।
तृप्तिम् एकाम् प्रयच्छस्व
आदित्यो ऽहम् उपस्थितः ॥ ह्व्_२३।१६३४०१:६ ।

विश्वास-प्रस्तुतिः

{अर्जुन उवाच}
भगवन् केन तृप्तिस् ते
भवेद् ब्रूहि विभावसो । ह्व्_२३।१६३४०१:७ ।
कीदृशं भोजनं दद्मि
श्रुत्वा ते विदधाम्य् अहम् ॥ ह्व्_२३।१६३४०१:८ ।

मूलम्

{अर्जुन उवाच}
भगवन् केन तृप्तिस् ते
भवेद् ब्रूहि विभावसो । ह्व्_२३।१६३४०१:७ ।
कीदृशं भोजनं दद्मि
श्रुत्वा ते विदधाम्य् अहम् ॥ ह्व्_२३।१६३४०१:८ ।

विश्वास-प्रस्तुतिः

{विभावसुर् उवाच}
स्थावरं देहि मे सर्वम्
आहारं वदतां वर । ह्व्_२३।१६३४०१:९ ।
तेन तृप्सिर् भवेन् मह्यं
तेन तुष्टिश् च पार्थिव ॥ ह्व्_२३।१६३४०१:१० ।

मूलम्

{विभावसुर् उवाच}
स्थावरं देहि मे सर्वम्
आहारं वदतां वर । ह्व्_२३।१६३४०१:९ ।
तेन तृप्सिर् भवेन् मह्यं
तेन तुष्टिश् च पार्थिव ॥ ह्व्_२३।१६३४०१:१० ।

विश्वास-प्रस्तुतिः

{अर्जुन उवाच}
न शक्यं स्थावरं सर्वं
तेजसा मानुषेण तु । ह्व्_२३।१६३४०१:११ ।
निर्दग्धुं तपतां श्रेष्ठ
त्वाम् एव प्रणमाम्य् अहम् ॥ ह्व्_२३।१६३४०१:१२ ।

मूलम्

{अर्जुन उवाच}
न शक्यं स्थावरं सर्वं
तेजसा मानुषेण तु । ह्व्_२३।१६३४०१:११ ।
निर्दग्धुं तपतां श्रेष्ठ
त्वाम् एव प्रणमाम्य् अहम् ॥ ह्व्_२३।१६३४०१:१२ ।

विश्वास-प्रस्तुतिः

{आदित्य उवाच}
तुष्टस् ते ऽहं शरान् दद्मि
चाक्षयान् सर्वतोमुखान् । ह्व्_२३।१६३४०१:१३ ।
ये [प्र]क्षिप्ताः सञ्ज्वलन्ति
मम तेजःसमन्विताः ॥ ह्व्_२३।१६३४०१:१४ ।

मूलम्

{आदित्य उवाच}
तुष्टस् ते ऽहं शरान् दद्मि
चाक्षयान् सर्वतोमुखान् । ह्व्_२३।१६३४०१:१३ ।
ये [प्र]क्षिप्ताः सञ्ज्वलन्ति
मम तेजःसमन्विताः ॥ ह्व्_२३।१६३४०१:१४ ।

विश्वास-प्रस्तुतिः

आविष्टस् तेजसा मे ऽद्य
स्थावरं शोषयिष्यसि । ह्व्_२३।१६३४०१:१५ ।
शुष्कं भस्म करिष्यामि
तेन तृप्तिर् नराधिप ॥ ह्व्_२३।१६३४०१:१६ ।

मूलम्

आविष्टस् तेजसा मे ऽद्य
स्थावरं शोषयिष्यसि । ह्व्_२३।१६३४०१:१५ ।
शुष्कं भस्म करिष्यामि
तेन तृप्तिर् नराधिप ॥ ह्व्_२३।१६३४०१:१६ ।

विश्वास-प्रस्तुतिः

ततः शरांस् तदादित्यो
अर्जुनाय तदा ददौ । ह्व्_२३।१६३४०१:१७ ।
ततः स प्राच्यम् अदहत्
स्थावरं सर्वम् एव तत् ॥ ह्व्_२३।१६३४०१:१८ ।

मूलम्

ततः शरांस् तदादित्यो
अर्जुनाय तदा ददौ । ह्व्_२३।१६३४०१:१७ ।
ततः स प्राच्यम् अदहत्
स्थावरं सर्वम् एव तत् ॥ ह्व्_२३।१६३४०१:१८ ।

विश्वास-प्रस्तुतिः

आश्रमान् अथ ग्रामांश् च
घोषांश् च नगराण्य् अपि । ह्व्_२३।१६३४०१:१९ ।
तपोवनानि रम्याणि
वनान्य् उपवनानि च ॥ ह्व्_२३।१६३४०१:२० ।

मूलम्

आश्रमान् अथ ग्रामांश् च
घोषांश् च नगराण्य् अपि । ह्व्_२३।१६३४०१:१९ ।
तपोवनानि रम्याणि
वनान्य् उपवनानि च ॥ ह्व्_२३।१६३४०१:२० ।

विश्वास-प्रस्तुतिः

एवं स प्राच्यम् अदहत्
ततः सर्वं प्रदक्षिणम् । ह्व्_२३।१६३४०१:२१ ।
निर्वृक्षा निस्तृणा भूमिर्
दग्धा सा योगतेजसा ॥ ह्व्_२३।१६३४०१:२२ ।

मूलम्

एवं स प्राच्यम् अदहत्
ततः सर्वं प्रदक्षिणम् । ह्व्_२३।१६३४०१:२१ ।
निर्वृक्षा निस्तृणा भूमिर्
दग्धा सा योगतेजसा ॥ ह्व्_२३।१६३४०१:२२ ।

विश्वास-प्रस्तुतिः

एतस्मिन्न् एव काले तु
आपवो जलम् आश्रितः । ह्व्_२३।१६३४०१:२३ ।
दश वर्षसहस्राणि
जलवासी महान् ऋषिः ॥ ह्व्_२३।१६३४०१:२४ ।

मूलम्

एतस्मिन्न् एव काले तु
आपवो जलम् आश्रितः । ह्व्_२३।१६३४०१:२३ ।
दश वर्षसहस्राणि
जलवासी महान् ऋषिः ॥ ह्व्_२३।१६३४०१:२४ ।

विश्वास-प्रस्तुतिः

पूर्णे व्रते महातेजा
उदतिष्ठन् महान् ऋषिः । ह्व्_२३।१६३४०१:२५ ।
क्रोधाच् छशाप राजर्षिं
कीर्तितं वै यथा मया । ह्व्_२३।१६३४०१:२६ ।
एते ययातिपुत्राणां
पञ्च वंशा विशां पते ।
कीर्तिता लोकवीराणां
ये लोकान् धारयन्ति वै ॥

मूलम्

पूर्णे व्रते महातेजा
उदतिष्ठन् महान् ऋषिः । ह्व्_२३।१६३४०१:२५ ।
क्रोधाच् छशाप राजर्षिं
कीर्तितं वै यथा मया । ह्व्_२३।१६३४०१:२६ ।
एते ययातिपुत्राणां
पञ्च वंशा विशां पते ।
कीर्तिता लोकवीराणां
ये लोकान् धारयन्ति वै ॥

विश्वास-प्रस्तुतिः

भूतानीव महाराज
पञ्च स्थावरजङ्गमम् ॥ ह्व्_२३।१६४ ॥

मूलम्

भूतानीव महाराज
पञ्च स्थावरजङ्गमम् ॥ ह्व्_२३।१६४ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा पञ्चविसर्गं तु
राजा धर्मार्थकोविदः ।
वशी भवति पञ्चानाम्
आत्मजानां तथेश्वरः ॥ ह्व्_२३।१६५ ॥

मूलम्

श्रुत्वा पञ्चविसर्गं तु
राजा धर्मार्थकोविदः ।
वशी भवति पञ्चानाम्
आत्मजानां तथेश्वरः ॥ ह्व्_२३।१६५ ॥

विश्वास-प्रस्तुतिः

लभेत् पञ्च वरांश् चैष
दुर्लभान् इह लौकिकान् ।
आयुः कीर्तिं धनं पुत्रान्
ऐश्वर्यं भूय एव च ॥

मूलम्

लभेत् पञ्च वरांश् चैष
दुर्लभान् इह लौकिकान् ।
आयुः कीर्तिं धनं पुत्रान्
ऐश्वर्यं भूय एव च ॥

विश्वास-प्रस्तुतिः

धारणाच् छ्रवणाच् चैव
पञ्चवर्गस्य भारत ॥ ह्व्_२३।१६६ ॥

मूलम्

धारणाच् छ्रवणाच् चैव
पञ्चवर्गस्य भारत ॥ ह्व्_२३।१६६ ॥

विश्वास-प्रस्तुतिः

([क्: त्३ ins.: :क्])
लोभते मनुजः श्रैष्ठ्यं
सर्वपापैः प्रमुच्यते । ह्व्_२३।१६६४०२ ।
क्रोष्टोस् तु शृणु राजेन्द्र
वंशम् उत्तमपूरुषम् ।
यदोर् वंशधरस्येह
यज्वनः पुण्यकर्मणः ॥ ह्व्_२३।१६७ ॥

मूलम्

([क्: त्३ ins.: :क्])
लोभते मनुजः श्रैष्ठ्यं
सर्वपापैः प्रमुच्यते । ह्व्_२३।१६६४०२ ।
क्रोष्टोस् तु शृणु राजेन्द्र
वंशम् उत्तमपूरुषम् ।
यदोर् वंशधरस्येह
यज्वनः पुण्यकर्मणः ॥ ह्व्_२३।१६७ ॥

विश्वास-प्रस्तुतिः

क्रोष्टोर् हि वंशं श्रुत्वेमं
सर्वपापैः प्रमुच्यते ।
यस्यान्ववायजो विष्णुर्
हरिर् वृष्णिकुलप्रभुः ॥ ह्व्_२३।१६८ ॥

मूलम्

क्रोष्टोर् हि वंशं श्रुत्वेमं
सर्वपापैः प्रमुच्यते ।
यस्यान्ववायजो विष्णुर्
हरिर् वृष्णिकुलप्रभुः ॥ ह्व्_२३।१६८ ॥