०२२

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
नहुषस्य तु दायादाः
षड् इन्द्रोपमतेजसः ।
यतिर् ययातिः संयातिर्
आयातिर् यातिर् उद्धवः ॥

मूलम्

{वैशम्पायन उवाच}
नहुषस्य तु दायादाः
षड् इन्द्रोपमतेजसः ।
यतिर् ययातिः संयातिर्
आयातिर् यातिर् उद्धवः ॥

([क्: क्४ Ñ१ द्२।३ ॐ। the रेफ़्।; क्१(बोथ् तिमेस्)।२।३ Ñ२।३ व् ब् द्न् द्स् द्४।५ त्१।३ ग्३।४ ins. after the रेफ़्।; क्४ द्१।३।६ त्२।४ ग्१।२।५ म्४ after १ब्): :क्]) उत्पन्नाः पितृकन्यायां विरजायां महौजसः । *ह्व्_२२।०*३३० ।

([क्: after १cd, क्४ ins.: :क्])
षड् इमे नहुषस्यासन्न्
इन्द्रयाणीव देहिनः । ह्व्_२२।१३३१ ।

विश्वास-प्रस्तुतिः

([क्: द्न् म्४ ग्(एद्।) ins.: :क्])
सुयातिः षष्ठस् तेषां वै
ययातिःपार्थिवो ऽभवत् । ह्व्_२२।१३३२ ।
यतिर् ज्येष्ठस् तु तेषां वै
ययातिस् तु ततः परम् ॥ ह्व्_२२।१ ॥

मूलम्

([क्: द्न् म्४ ग्(एद्।) ins.: :क्])
सुयातिः षष्ठस् तेषां वै
ययातिःपार्थिवो ऽभवत् । ह्व्_२२।१३३२ ।
यतिर् ज्येष्ठस् तु तेषां वै
ययातिस् तु ततः परम् ॥ ह्व्_२२।१ ॥

विश्वास-प्रस्तुतिः

ककुत्स्थकन्यां गां नाम
न लेभे स यतिस् तदा ।
([क्: क्४ ins.: :क्])
राज्यं नैच्छद् यतिः पित्रा
दत्तं तत्परिणामवित् । ह्व्_२२।२३३३:१ ।
यत्र प्रविष्टः पुरुष
आत्मानं नावबुध्यते । ह्व्_२२।२३३३:२ ।
तेनासौ मोक्षम् आस्थाय
ब्रह्मभूतो ऽभवन् मुनिः ॥ ह्व्_२२।२ ॥

मूलम्

ककुत्स्थकन्यां गां नाम
न लेभे स यतिस् तदा ।
([क्: क्४ ins.: :क्])
राज्यं नैच्छद् यतिः पित्रा
दत्तं तत्परिणामवित् । ह्व्_२२।२३३३:१ ।
यत्र प्रविष्टः पुरुष
आत्मानं नावबुध्यते । ह्व्_२२।२३३३:२ ।
तेनासौ मोक्षम् आस्थाय
ब्रह्मभूतो ऽभवन् मुनिः ॥ ह्व्_२२।२ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
पितरि ध्वंसिते स्थानाद्
इन्द्राण्या धर्षणाद् द्विजैः । ह्व्_२२।२३३४:१ ।
प्रापितो ऽजगरत्वं वै
ययातिर् अभवन् नृपः । ह्व्_२२।२३३४:२ ।
तेषां ययातिः पञ्चानां
विजित्य वसुधाम् इमाम् ।
देवयानीम् उशनसः
सुतां भार्याम् अवाप ह ॥

मूलम्

([क्: क्४ ins.: :क्])
पितरि ध्वंसिते स्थानाद्
इन्द्राण्या धर्षणाद् द्विजैः । ह्व्_२२।२३३४:१ ।
प्रापितो ऽजगरत्वं वै
ययातिर् अभवन् नृपः । ह्व्_२२।२३३४:२ ।
तेषां ययातिः पञ्चानां
विजित्य वसुधाम् इमाम् ।
देवयानीम् उशनसः
सुतां भार्याम् अवाप ह ॥

विश्वास-प्रस्तुतिः

शर्मिष्ठाम् आसुरीं चैव
तनयां वृषपर्वणः ॥ ह्व्_२२।३ ॥

मूलम्

शर्मिष्ठाम् आसुरीं चैव
तनयां वृषपर्वणः ॥ ह्व्_२२।३ ॥

विश्वास-प्रस्तुतिः

यदुं च तुर्वसुं चैव
देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च
शर्मिष्ठा वार्षपर्वणी ॥ ह्व्_२२।४ ॥

मूलम्

यदुं च तुर्वसुं चैव
देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च
शर्मिष्ठा वार्षपर्वणी ॥ ह्व्_२२।४ ॥

विश्वास-प्रस्तुतिः

तस्य शक्रो ददौ प्रीतो
रथं परमभास्वरम् ।
असङ्गं काञ्चनं दिव्यं
दिव्यैः परमवाजिभिः ॥

मूलम्

तस्य शक्रो ददौ प्रीतो
रथं परमभास्वरम् ।
असङ्गं काञ्चनं दिव्यं
दिव्यैः परमवाजिभिः ॥

विश्वास-प्रस्तुतिः

युक्तं मनोजवैः शुभ्रैर्
येन भार्यां समुद्वहत् ॥ ह्व्_२२।५ ॥

मूलम्

युक्तं मनोजवैः शुभ्रैर्
येन भार्यां समुद्वहत् ॥ ह्व्_२२।५ ॥

विश्वास-प्रस्तुतिः

स तेन रथमुख्येन
षड्रात्रेणाजयन् महीम् ।
ययातिर् युधि दुर्धर्षस्
तथा देवान् सवासवान् ॥ ह्व्_२२।६ ॥

मूलम्

स तेन रथमुख्येन
षड्रात्रेणाजयन् महीम् ।
ययातिर् युधि दुर्धर्षस्
तथा देवान् सवासवान् ॥ ह्व्_२२।६ ॥

विश्वास-प्रस्तुतिः

स रथः पौरवाणां तु
सर्वेषाम् अभवत् तदा ।
यावत् तव सनामा वै
पौरवो जनमेजय ॥ ह्व्_२२।७ ॥

मूलम्

स रथः पौरवाणां तु
सर्वेषाम् अभवत् तदा ।
यावत् तव सनामा वै
पौरवो जनमेजय ॥ ह्व्_२२।७ ॥

विश्वास-प्रस्तुतिः

कुरोः पौत्रस्य राज्ये तु
राज्ञः पारिक्षितस्य ह ।
([क्: द्३ ins.: :क्])
ब्रह्महत्यायुतः पाप
इन्द्रः क्रुद्धो ऽहरद् रथम् । ह्व्_२२।८३३५ ।
जगाम स रथो नाशं
शापाद् गर्गस्य धीमतः ॥ ह्व्_२२।८ ॥

मूलम्

कुरोः पौत्रस्य राज्ये तु
राज्ञः पारिक्षितस्य ह ।
([क्: द्३ ins.: :क्])
ब्रह्महत्यायुतः पाप
इन्द्रः क्रुद्धो ऽहरद् रथम् । ह्व्_२२।८३३५ ।
जगाम स रथो नाशं
शापाद् गर्गस्य धीमतः ॥ ह्व्_२२।८ ॥

विश्वास-प्रस्तुतिः

गर्गस्य हि सुतं बालं
स राजा जनमेजयः ।
वाक्क्रूरं हिंसयाम् आस
ब्रह्महत्याम् अवाप सः ॥ ह्व्_२२।९ ॥

मूलम्

गर्गस्य हि सुतं बालं
स राजा जनमेजयः ।
वाक्क्रूरं हिंसयाम् आस
ब्रह्महत्याम् अवाप सः ॥ ह्व्_२२।९ ॥

विश्वास-प्रस्तुतिः

स लोहगन्धी राजर्षिः
परिधावन्न् इतस् ततः ।
पौरजानपदैस् त्यक्तो
न लेभे शर्म कर्हिचित् ॥ ह्व्_२२।१० ॥

मूलम्

स लोहगन्धी राजर्षिः
परिधावन्न् इतस् ततः ।
पौरजानपदैस् त्यक्तो
न लेभे शर्म कर्हिचित् ॥ ह्व्_२२।१० ॥

विश्वास-प्रस्तुतिः

ततः स दुःखसन्तप्तो
नालभत् संविदं क्व चित् ।
इन्द्रोतं शौनकं राजा
शरणं प्रत्यपद्यत ॥ ह्व्_२२।११ ॥

मूलम्

ततः स दुःखसन्तप्तो
नालभत् संविदं क्व चित् ।
इन्द्रोतं शौनकं राजा
शरणं प्रत्यपद्यत ॥ ह्व्_२२।११ ॥

विश्वास-प्रस्तुतिः

याजयाम् आस चेन्द्रोतः
शौनको जनमेजय ।
अश्वमेधेन राजानं
पावनार्थं द्विजोत्तमाः ॥

मूलम्

याजयाम् आस चेन्द्रोतः
शौनको जनमेजय ।
अश्वमेधेन राजानं
पावनार्थं द्विजोत्तमाः ॥

विश्वास-प्रस्तुतिः

स लोहगन्धो व्यनशत्
तस्यावभृथम् एत्य ह ॥ ह्व्_२२।१२ ॥

मूलम्

स लोहगन्धो व्यनशत्
तस्यावभृथम् एत्य ह ॥ ह्व्_२२।१२ ॥

विश्वास-प्रस्तुतिः

स च दिव्यो रथो राजन्
वसोश् चेदिपतेस् तदा ।
दत्तः शक्रेण तुष्टेन
लेभे तस्माद् बृहद्रथः ॥ ह्व्_२२।१३ ॥

मूलम्

स च दिव्यो रथो राजन्
वसोश् चेदिपतेस् तदा ।
दत्तः शक्रेण तुष्टेन
लेभे तस्माद् बृहद्रथः ॥ ह्व्_२२।१३ ॥

विश्वास-प्रस्तुतिः

([क्: Ñ२।३ व् ब् द्न् द्स् द्६ त्१।४ ग्२।४ ins.: :क्])
बृहद्रथात् क्रमेणैव
गतो बार्हद्रथं नृपम् । ह्व्_२२।१३३३६ ।
ततो हत्वा जरासन्धं
भीमस् तं रथम् उत्तमम् ।
प्रददौ वासुदेवाय
प्रीत्या कौरवनन्दन ॥ ह्व्_२२।१४ ॥

मूलम्

([क्: Ñ२।३ व् ब् द्न् द्स् द्६ त्१।४ ग्२।४ ins.: :क्])
बृहद्रथात् क्रमेणैव
गतो बार्हद्रथं नृपम् । ह्व्_२२।१३३३६ ।
ततो हत्वा जरासन्धं
भीमस् तं रथम् उत्तमम् ।
प्रददौ वासुदेवाय
प्रीत्या कौरवनन्दन ॥ ह्व्_२२।१४ ॥

विश्वास-प्रस्तुतिः

सप्तद्वीपां ययातिस् तु
जित्वा पृथ्वीं ससागराम् ।
व्यभजत् पञ्चधा राज्यं
पुत्राणां नाहुषस् तदा ॥ ह्व्_२२।१५ ॥

मूलम्

सप्तद्वीपां ययातिस् तु
जित्वा पृथ्वीं ससागराम् ।
व्यभजत् पञ्चधा राज्यं
पुत्राणां नाहुषस् तदा ॥ ह्व्_२२।१५ ॥

विश्वास-प्रस्तुतिः

दिशि दक्षिणपूर्वस्यां
तुर्वसुं मतिमान् नृपः ।
प्रतीच्याम् उत्तरस्यां तु
द्रुह्युं चानुञ्च नाहुषः ॥ ह्व्_२२।१६ ॥

मूलम्

दिशि दक्षिणपूर्वस्यां
तुर्वसुं मतिमान् नृपः ।
प्रतीच्याम् उत्तरस्यां तु
द्रुह्युं चानुञ्च नाहुषः ॥ ह्व्_२२।१६ ॥

विश्वास-प्रस्तुतिः

दिशि पूर्वोत्तरस्यां तु
यदुं ज्येष्ठं न्ययोजयत् ।
मध्ये पूरुं च राजानम्
अभ्यषिञ्चत् स नाहुषः ॥ ह्व्_२२।१७ ॥

मूलम्

दिशि पूर्वोत्तरस्यां तु
यदुं ज्येष्ठं न्ययोजयत् ।
मध्ये पूरुं च राजानम्
अभ्यषिञ्चत् स नाहुषः ॥ ह्व्_२२।१७ ॥

विश्वास-प्रस्तुतिः

तैर् इयं पृथिवी सर्वा
सप्तद्वीपा सपत्तना ।
यथाप्रदेशम् अद्यापि
धर्मेण परिपाल्यते ॥

मूलम्

तैर् इयं पृथिवी सर्वा
सप्तद्वीपा सपत्तना ।
यथाप्रदेशम् अद्यापि
धर्मेण परिपाल्यते ॥

विश्वास-प्रस्तुतिः

प्रजास् तेषां पुरस्तात् तु
वक्ष्यामि नृपसत्तम ॥ ह्व्_२२।१८ ॥

मूलम्

प्रजास् तेषां पुरस्तात् तु
वक्ष्यामि नृपसत्तम ॥ ह्व्_२२।१८ ॥

विश्वास-प्रस्तुतिः

धनुर् न्यस्य पृषत्कांश् च
पञ्चभिः पुरुषर्षभैः ।
([क्: क्४ ins.: :क्])
जिगाय पृथिवीं सर्वां
सप्तद्वीपवतीं नृपः । ह्व्_२२।१९३३७ ।
परवान् अभवद् राजा
भारम् आवेश्य बन्धुषु ॥ ह्व्_२२।१९ ॥

मूलम्

धनुर् न्यस्य पृषत्कांश् च
पञ्चभिः पुरुषर्षभैः ।
([क्: क्४ ins.: :क्])
जिगाय पृथिवीं सर्वां
सप्तद्वीपवतीं नृपः । ह्व्_२२।१९३३७ ।
परवान् अभवद् राजा
भारम् आवेश्य बन्धुषु ॥ ह्व्_२२।१९ ॥

विश्वास-प्रस्तुतिः

निक्षिप्तशस्त्रः पृथिवीं
निरीक्ष्य पृथिवीपतिः ।
प्रीतिमान् अभवद् राजा
ययातिर् अपराजितः ॥ ह्व्_२२।२० ॥

मूलम्

निक्षिप्तशस्त्रः पृथिवीं
निरीक्ष्य पृथिवीपतिः ।
प्रीतिमान् अभवद् राजा
ययातिर् अपराजितः ॥ ह्व्_२२।२० ॥

विश्वास-प्रस्तुतिः

एवं विभज्य पृथिवीं
ययातिर् यदुम् अब्रवीत् ।
जरां मे प्रतिगृह्णीष्व
पुत्र कृत्यान्तरेण वै ॥ ह्व्_२२।२१ ॥

मूलम्

एवं विभज्य पृथिवीं
ययातिर् यदुम् अब्रवीत् ।
जरां मे प्रतिगृह्णीष्व
पुत्र कृत्यान्तरेण वै ॥ ह्व्_२२।२१ ॥

विश्वास-प्रस्तुतिः

तरुणस् तव रूपेण
चरेयं पृथिवीम् इमाम् ।
जरां त्वयि समाधाय
तं यदुः प्रत्युवाच ह ॥ ह्व्_२२।२२ ॥

मूलम्

तरुणस् तव रूपेण
चरेयं पृथिवीम् इमाम् ।
जरां त्वयि समाधाय
तं यदुः प्रत्युवाच ह ॥ ह्व्_२२।२२ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
नोत्सहे जरया स्थातुम्
अन्तरा प्राप्तया तव । ह्व्_२२।२२३३८:१ ।
अविदित्वा सुखं ग्राम्यं
वैतृष्ण्यं नैति पूरुषः । ह्व्_२२।२२३३८:२ ।
अनिर्दिष्टा मया भिक्षा
ब्राह्मणस्य प्रतिश्रुता ।
अनपाकृत्य तां राजन्
न ग्रहीष्यामि ते जराम् ॥ ह्व्_२२।२३ ॥

मूलम्

([क्: क्४ ins.: :क्])
नोत्सहे जरया स्थातुम्
अन्तरा प्राप्तया तव । ह्व्_२२।२२३३८:१ ।
अविदित्वा सुखं ग्राम्यं
वैतृष्ण्यं नैति पूरुषः । ह्व्_२२।२२३३८:२ ।
अनिर्दिष्टा मया भिक्षा
ब्राह्मणस्य प्रतिश्रुता ।
अनपाकृत्य तां राजन्
न ग्रहीष्यामि ते जराम् ॥ ह्व्_२२।२३ ॥

विश्वास-प्रस्तुतिः

जराया बहवो दोषाः
पानभोजनकारिताः ।
तस्माज् जरां न ते राजन्
ग्रहीतुम् अहम् उत्सहे ॥ ह्व्_२२।२४ ॥

मूलम्

जराया बहवो दोषाः
पानभोजनकारिताः ।
तस्माज् जरां न ते राजन्
ग्रहीतुम् अहम् उत्सहे ॥ ह्व्_२२।२४ ॥

विश्वास-प्रस्तुतिः

सन्ति ते बहवः पुत्रा
मत्तः प्रियतरा नृप ।
प्रतिग्रहीतुं धर्मज्ञ
पुत्रम् अन्यं वृणीष्व वै ॥ ह्व्_२२।२५ ॥

मूलम्

सन्ति ते बहवः पुत्रा
मत्तः प्रियतरा नृप ।
प्रतिग्रहीतुं धर्मज्ञ
पुत्रम् अन्यं वृणीष्व वै ॥ ह्व्_२२।२५ ॥

विश्वास-प्रस्तुतिः

स एवम् उक्तो यदुना
राजा कोपसमन्वितः ।
उवाच वदतां श्रेष्ठो
ययातिर् गर्हयन् सुतम् ॥ ह्व्_२२।२६ ॥

मूलम्

स एवम् उक्तो यदुना
राजा कोपसमन्वितः ।
उवाच वदतां श्रेष्ठो
ययातिर् गर्हयन् सुतम् ॥ ह्व्_२२।२६ ॥

विश्वास-प्रस्तुतिः

क आश्रमस् तवान्यो ऽस्ति
को वा धर्मो विधीयते ।
माम् अनादृत्य दुर्बुद्धे
यद् अहं तव देशिकः ॥ ह्व्_२२।२७ ॥

मूलम्

क आश्रमस् तवान्यो ऽस्ति
को वा धर्मो विधीयते ।
माम् अनादृत्य दुर्बुद्धे
यद् अहं तव देशिकः ॥ ह्व्_२२।२७ ॥

विश्वास-प्रस्तुतिः

एवम् उक्त्वा यदुं तात
शशापैनं स मन्युमान् ।
अराज्या ते प्रजा मूढ
भवित्रीति नराधिप ॥ ह्व्_२२।२८ ॥

मूलम्

एवम् उक्त्वा यदुं तात
शशापैनं स मन्युमान् ।
अराज्या ते प्रजा मूढ
भवित्रीति नराधिप ॥ ह्व्_२२।२८ ॥

विश्वास-प्रस्तुतिः

स तुर्वसुं स द्रुह्युं च
अनुं च भरतर्षभ ।
एवम् एवाब्रवीद् राजा
प्रत्याख्यातश् च तैर् अपि ॥ ह्व्_२२।२९ ॥

मूलम्

स तुर्वसुं स द्रुह्युं च
अनुं च भरतर्षभ ।
एवम् एवाब्रवीद् राजा
प्रत्याख्यातश् च तैर् अपि ॥ ह्व्_२२।२९ ॥

विश्वास-प्रस्तुतिः

शशाप तान् अपि क्रुद्धो
ययातिर् अपराजितः ।
यथा ते कथितं पूर्वं
मया राजर्षिसत्तम ॥ ह्व्_२२।३० ॥

मूलम्

शशाप तान् अपि क्रुद्धो
ययातिर् अपराजितः ।
यथा ते कथितं पूर्वं
मया राजर्षिसत्तम ॥ ह्व्_२२।३० ॥

विश्वास-प्रस्तुतिः

एवं शप्त्वा सुतान् सर्वांश्
चतुरः पूरुपूर्वजान् ।
तद् एव वचनं राजा
पूरुम् अप्य् आह भारत ॥ ह्व्_२२।३१ ॥

मूलम्

एवं शप्त्वा सुतान् सर्वांश्
चतुरः पूरुपूर्वजान् ।
तद् एव वचनं राजा
पूरुम् अप्य् आह भारत ॥ ह्व्_२२।३१ ॥

विश्वास-प्रस्तुतिः

तरुणस् तव रूपेण
चरेयं पृथिवीम् इमाम् ।
जरां त्वयि समाधाय
त्वं पूरो यदि मन्यसे ॥ ह्व्_२२।३२ ॥

मूलम्

तरुणस् तव रूपेण
चरेयं पृथिवीम् इमाम् ।
जरां त्वयि समाधाय
त्वं पूरो यदि मन्यसे ॥ ह्व्_२२।३२ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
{पूरुर् उवाच}
को नु लोके मनुष्येन्द्र
पितुर् आत्मकृतः पुमान् । ह्व्_२२।३२३३९:१ ।
प्रतिकर्तुं क्षमो यस्य
प्रसादाद् विन्दते परम् ॥ ह्व्_२२।३२३३९:२ ।

मूलम्

([क्: क्४ ins.: :क्])
{पूरुर् उवाच}
को नु लोके मनुष्येन्द्र
पितुर् आत्मकृतः पुमान् । ह्व्_२२।३२३३९:१ ।
प्रतिकर्तुं क्षमो यस्य
प्रसादाद् विन्दते परम् ॥ ह्व्_२२।३२३३९:२ ।

विश्वास-प्रस्तुतिः

अधमो ऽश्रद्धया कुर्याद्
अकर्तोच्चरितं पितुः । ह्व्_२२।३२३३९:३ ।
सो ऽपि तद्वयसा कामाञ्
जुजुषो ऽव्याहतेन्द्रयः । ह्व्_२२।३२३३९:४ ।
स जरां प्रतिजग्राह
पितुः पूरुः प्रतापवान् ।
ययातिर् अपि रूपेण
पूरोः पर्यचरन् महीम् ॥ ह्व्_२२।३३ ॥

मूलम्

अधमो ऽश्रद्धया कुर्याद्
अकर्तोच्चरितं पितुः । ह्व्_२२।३२३३९:३ ।
सो ऽपि तद्वयसा कामाञ्
जुजुषो ऽव्याहतेन्द्रयः । ह्व्_२२।३२३३९:४ ।
स जरां प्रतिजग्राह
पितुः पूरुः प्रतापवान् ।
ययातिर् अपि रूपेण
पूरोः पर्यचरन् महीम् ॥ ह्व्_२२।३३ ॥

विश्वास-प्रस्तुतिः

स मार्गमाणः कामानाम्
अन्तं भरतसत्तम ।
विश्वाच्या सहितो रेमे
वने चैत्ररथे प्रभुः ॥ ह्व्_२२।३४ ॥

मूलम्

स मार्गमाणः कामानाम्
अन्तं भरतसत्तम ।
विश्वाच्या सहितो रेमे
वने चैत्ररथे प्रभुः ॥ ह्व्_२२।३४ ॥

विश्वास-प्रस्तुतिः

([क्: क्१ द्१ ins. (क्२।४ Ñ व् ब् द्न् द्स् द्२-५ त्३।४ फ़ोर् ३५अ-ब् सुब्स्त्।): :क्])
यदावितृप्तः कामानां
भोगेषु च नराधिपः । ह्व्_२२।३५३४० ।
स यदा ददृशो कामान्
वर्धमानान् महीपतिः ।
ततः पूरोः सकाशाद् वै
स्वां जरां प्रत्यपद्यत ॥ ह्व्_२२।३५ ॥

मूलम्

([क्: क्१ द्१ ins. (क्२।४ Ñ व् ब् द्न् द्स् द्२-५ त्३।४ फ़ोर् ३५अ-ब् सुब्स्त्।): :क्])
यदावितृप्तः कामानां
भोगेषु च नराधिपः । ह्व्_२२।३५३४० ।
स यदा ददृशो कामान्
वर्धमानान् महीपतिः ।
ततः पूरोः सकाशाद् वै
स्वां जरां प्रत्यपद्यत ॥ ह्व्_२२।३५ ॥

विश्वास-प्रस्तुतिः

([क्: श्१ क्१ ins.: :क्])
वरं चास्मै ददौ प्रीतो
विपुलं वंशम् ईश्वरः । ह्व्_२२।३५३४१:१ ।
आचन्द्रार्कग्रहा भूमिर्
भवेद् इति मतिर् मम । ह्व्_२२।३५३४१:२ ।
अपौरवा न तु मही
भविष्यति कदा चन । ह्व्_२२।३५३४१:३ ।
तत्र गाथा महाराज
शृणु गीता ययातिना ।
याभिः प्रत्याहरेत् कामान्
सर्वशो ऽङ्गानि कूर्मवत् ॥ ह्व्_२२।३६ ॥

मूलम्

([क्: श्१ क्१ ins.: :क्])
वरं चास्मै ददौ प्रीतो
विपुलं वंशम् ईश्वरः । ह्व्_२२।३५३४१:१ ।
आचन्द्रार्कग्रहा भूमिर्
भवेद् इति मतिर् मम । ह्व्_२२।३५३४१:२ ।
अपौरवा न तु मही
भविष्यति कदा चन । ह्व्_२२।३५३४१:३ ।
तत्र गाथा महाराज
शृणु गीता ययातिना ।
याभिः प्रत्याहरेत् कामान्
सर्वशो ऽङ्गानि कूर्मवत् ॥ ह्व्_२२।३६ ॥

विश्वास-प्रस्तुतिः

([क्: व्२ ins.: :क्])
स सुखी धृतिमान् धन्यः
परत्रेह च मोदते । ह्व्_२२।३६३४२ ।
न जातु कामः कामानाम्
उपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव
भूय एवाभिवर्धते ॥ ह्व्_२२।३७ ॥

मूलम्

([क्: व्२ ins.: :क्])
स सुखी धृतिमान् धन्यः
परत्रेह च मोदते । ह्व्_२२।३६३४२ ।
न जातु कामः कामानाम्
उपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव
भूय एवाभिवर्धते ॥ ह्व्_२२।३७ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
यदा न कुरुते भावं
सर्वभूतेष्व् अमङ्गलं । ह्व्_२२।३७३४३:१ ।
समदृष्टेस् तदा पुंसः
सर्वाः सुखमया दिशः । ह्व्_२२।३७३४३:२ ।
यत् पृथिव्यां व्रीहियवं
हिरण्यं पशवः स्त्रियः ।
नालम् एकस्य तत् सर्वम्
इति मत्वा शमं व्रजेत् ॥ ह्व्_२२।३८ ॥

मूलम्

([क्: क्४ ins.: :क्])
यदा न कुरुते भावं
सर्वभूतेष्व् अमङ्गलं । ह्व्_२२।३७३४३:१ ।
समदृष्टेस् तदा पुंसः
सर्वाः सुखमया दिशः । ह्व्_२२।३७३४३:२ ।
यत् पृथिव्यां व्रीहियवं
हिरण्यं पशवः स्त्रियः ।
नालम् एकस्य तत् सर्वम्
इति मत्वा शमं व्रजेत् ॥ ह्व्_२२।३८ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ त्१।२ ग् म्४ ins.: :क्])
उत्पन्नस्य रुरोः शृङ्गं
वर्धमानस्यवर्धते । ह्व्_२२।३८३४४ ।
यदा भावं न कुरुते
सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा
ब्रह्म सम्पद्यते तदा ॥ ह्व्_२२।३९ ॥

मूलम्

([क्: द्६ त्१।२ ग् म्४ ins.: :क्])
उत्पन्नस्य रुरोः शृङ्गं
वर्धमानस्यवर्धते । ह्व्_२२।३८३४४ ।
यदा भावं न कुरुते
सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा
ब्रह्म सम्पद्यते तदा ॥ ह्व्_२२।३९ ॥

विश्वास-प्रस्तुतिः

यदान्येभ्यो न बिभेति
यदा चास्मान् न बिभ्यति ।
यदा नेच्छति न द्वेष्टि
ब्रह्म सम्पद्यते तदा ॥ ह्व्_२२।४० ॥

मूलम्

यदान्येभ्यो न बिभेति
यदा चास्मान् न बिभ्यति ।
यदा नेच्छति न द्वेष्टि
ब्रह्म सम्पद्यते तदा ॥ ह्व्_२२।४० ॥

विश्वास-प्रस्तुतिः

([क्: क् Ñ२।३ व् ब् द्न् द्स् द्१।३-६ त्१।३।४ ग्२।३।५ (द्२ after ३९, त्२ ग्१ after ३९ब्): :क्])
या दुस्त्यजा दुर्मतिभिर्
या न जीर्यति जीर्यतः । ह्व्_२२।४०३४५:१ ।
यो ऽसौप्राणान्तिको रोगस्
तां तृष्णां त्यजतः सुखम् ॥ ह्व्_२२।४०३४५:२ ।

मूलम्

([क्: क् Ñ२।३ व् ब् द्न् द्स् द्१।३-६ त्१।३।४ ग्२।३।५ (द्२ after ३९, त्२ ग्१ after ३९ब्): :क्])
या दुस्त्यजा दुर्मतिभिर्
या न जीर्यति जीर्यतः । ह्व्_२२।४०३४५:१ ।
यो ऽसौप्राणान्तिको रोगस्
तां तृष्णां त्यजतः सुखम् ॥ ह्व्_२२।४०३४५:२ ।

विश्वास-प्रस्तुतिः

जीर्यन्ति जीर्यतः केशा
दन्ता जीर्यन्ति जीर्यतः । ह्व्_२२।४०३४५:३ ।
धनाशा जीविताशा च
जीर्यतो ऽपि न जीर्यति ॥ ह्व्_२२।४०३४५:४ ।

मूलम्

जीर्यन्ति जीर्यतः केशा
दन्ता जीर्यन्ति जीर्यतः । ह्व्_२२।४०३४५:३ ।
धनाशा जीविताशा च
जीर्यतो ऽपि न जीर्यति ॥ ह्व्_२२।४०३४५:४ ।

यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् । *ह्व्_२२।४०*३४५:५ । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् । *ह्व्_२२।४०*३४५:६ । ([क्: क्४ after लिने १ of *३४५ ins.: :क्]) तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् । *ह्व्_२२।४०*३४५अ ।
विश्वास-प्रस्तुतिः

([क्: ब्१ after लिने ३ of *३४५ ins.: :क्])
चक्षुःश्रोत्रे च जीर्येते
तृष्णैकातरुणायते । ह्व्_२२।४०३४५ब् ।
एवम् उक्त्वा स राजर्षिः
सदारः प्राविशद् वनम् ।
कालेन महता चापि
चचार विपुलं तपः ॥ ह्व्_२२।४१ ॥

मूलम्

([क्: ब्१ after लिने ३ of *३४५ ins.: :क्])
चक्षुःश्रोत्रे च जीर्येते
तृष्णैकातरुणायते । ह्व्_२२।४०३४५ब् ।
एवम् उक्त्वा स राजर्षिः
सदारः प्राविशद् वनम् ।
कालेन महता चापि
चचार विपुलं तपः ॥ ह्व्_२२।४१ ॥

विश्वास-प्रस्तुतिः

भृगुतुङ्गे तपश् चीर्त्वा
तपसो ऽन्ते महायशाः ।
अनश्नन् देहम् उत्सृज्य
सदारः स्वर्गम् आप्तवान् ॥ ह्व्_२२।४२ ॥

मूलम्

भृगुतुङ्गे तपश् चीर्त्वा
तपसो ऽन्ते महायशाः ।
अनश्नन् देहम् उत्सृज्य
सदारः स्वर्गम् आप्तवान् ॥ ह्व्_२२।४२ ॥

विश्वास-प्रस्तुतिः

तस्य वंशे महाराज
पञ्च राजर्षिसत्तमाः ।
यैर् व्याप्ता पृथिवी सर्वा
सूर्यस्येव गभस्तिभिः ॥ ह्व्_२२।४३ ॥

मूलम्

तस्य वंशे महाराज
पञ्च राजर्षिसत्तमाः ।
यैर् व्याप्ता पृथिवी सर्वा
सूर्यस्येव गभस्तिभिः ॥ ह्व्_२२।४३ ॥

विश्वास-प्रस्तुतिः

यदोस् तु शृणु राजर्षे
वंशं राजर्षिसत्कृतम् ।
यत्र नारायणो जज्ञे
हरिर् वृष्णिकुलोद्वहः ॥ ह्व्_२२।४४ ॥

मूलम्

यदोस् तु शृणु राजर्षे
वंशं राजर्षिसत्कृतम् ।
यत्र नारायणो जज्ञे
हरिर् वृष्णिकुलोद्वहः ॥ ह्व्_२२।४४ ॥

विश्वास-प्रस्तुतिः

स्वस्थः प्रजावान् आयुष्मान्
कीर्तिमांश् च भवेन् नरः ।
([क्: द्६ त्१।२ ग्२-५ म् ins.: :क्])
धन्यस्य महतो धर्म्यं
श्रीमतो धीमतस्तथा । ह्व्_२२।४५३४६ ।
ययातेश् चरितं नित्यम्
इदं शृण्वन् नराधिप ॥ ह्व्_२२।४५ ॥

मूलम्

स्वस्थः प्रजावान् आयुष्मान्
कीर्तिमांश् च भवेन् नरः ।
([क्: द्६ त्१।२ ग्२-५ म् ins.: :क्])
धन्यस्य महतो धर्म्यं
श्रीमतो धीमतस्तथा । ह्व्_२२।४५३४६ ।
ययातेश् चरितं नित्यम्
इदं शृण्वन् नराधिप ॥ ह्व्_२२।४५ ॥

([क्: द्२ ins.: :क्]) मुच्यते पातकेभ्यश् च अपुत्री न भवेत् कदा । *ह्व्_२२।४५*३४७ ।