०२१

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
बुधस्य तु महाराज
विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश् च
यज्वा विपुलदक्षिणः ॥ ह्व्_२१।१ ॥

मूलम्

{वैशम्पायन उवाच}
बुधस्य तु महाराज
विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश् च
यज्वा विपुलदक्षिणः ॥ ह्व्_२१।१ ॥

विश्वास-प्रस्तुतिः

ब्रह्मवादी पराक्रान्तः
शत्रुभिर् युधि दुर्जयः ।
आहर्ता चाग्निहोत्रस्य
यज्ञानां च दिवो महीम् ॥ ह्व्_२१।२ ॥

मूलम्

ब्रह्मवादी पराक्रान्तः
शत्रुभिर् युधि दुर्जयः ।
आहर्ता चाग्निहोत्रस्य
यज्ञानां च दिवो महीम् ॥ ह्व्_२१।२ ॥

विश्वास-प्रस्तुतिः

सत्यवादी पुण्यमतिः
काम्यः संवृतमैथुनः ।
अतीव त्रिषु लोकेषु
यशसाप्रतिमः सदा ॥ ह्व्_२१।३ ॥

मूलम्

सत्यवादी पुण्यमतिः
काम्यः संवृतमैथुनः ।
अतीव त्रिषु लोकेषु
यशसाप्रतिमः सदा ॥ ह्व्_२१।३ ॥

विश्वास-प्रस्तुतिः

तं ब्रह्मवादिनं क्षान्तं
धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयाम् आस
हित्वा मानं यशस्विनी ॥ ह्व्_२१।४ ॥

मूलम्

तं ब्रह्मवादिनं क्षान्तं
धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयाम् आस
हित्वा मानं यशस्विनी ॥ ह्व्_२१।४ ॥

विश्वास-प्रस्तुतिः

तया सहावसद् राजा
दश वर्षाणि पञ्च च ।
पञ्च षट् सप्त चाष्टौ च
दश चाष्टौ च भारत ॥ ह्व्_२१।५ ॥

मूलम्

तया सहावसद् राजा
दश वर्षाणि पञ्च च ।
पञ्च षट् सप्त चाष्टौ च
दश चाष्टौ च भारत ॥ ह्व्_२१।५ ॥

विश्वास-प्रस्तुतिः

वने चैत्ररथे रम्ये
तथा मन्दाकिनीतटे ।
अलकायां विशालायां
नन्दने च वनोत्तमे ॥ ह्व्_२१।६ ॥

मूलम्

वने चैत्ररथे रम्ये
तथा मन्दाकिनीतटे ।
अलकायां विशालायां
नन्दने च वनोत्तमे ॥ ह्व्_२१।६ ॥

विश्वास-प्रस्तुतिः

उत्तरान् स कुरून् प्राप्य
मनोररथफलद्रुमान् ।
गन्धमादनपादेषु
मेरुशृङ्गे तथोत्तरे ॥ ह्व्_२१।७ ॥

मूलम्

उत्तरान् स कुरून् प्राप्य
मनोररथफलद्रुमान् ।
गन्धमादनपादेषु
मेरुशृङ्गे तथोत्तरे ॥ ह्व्_२१।७ ॥

विश्वास-प्रस्तुतिः

एतेषु वनमुख्येषु
सुरैर् आचरितेषु च ।
उर्वश्या सहितो राजा
रेमे परमया मुदा ॥ ह्व्_२१।८ ॥

मूलम्

एतेषु वनमुख्येषु
सुरैर् आचरितेषु च ।
उर्वश्या सहितो राजा
रेमे परमया मुदा ॥ ह्व्_२१।८ ॥

विश्वास-प्रस्तुतिः

देशे पुण्यतमे चैव
महर्षिभिर् अभिष्टुते ।
राज्यं स कारयाम् आस
प्रयागे पृथिवीपतिः ॥ ह्व्_२१।९ ॥

मूलम्

देशे पुण्यतमे चैव
महर्षिभिर् अभिष्टुते ।
राज्यं स कारयाम् आस
प्रयागे पृथिवीपतिः ॥ ह्व्_२१।९ ॥

([क्: त्१।२।४ ग्१-३।५ फ़ोर् अ फ़िर्स्त् तिमे (अल्ल् अ सेचोन्द् तिमे wइथ् क् Ñ२।३ व् ब्द् त्३ ग्४ म्४ after the सेचोन्द् ओच्चुर्रेन्चे of ९, wहिछ् इस् रेपेअतेद् ब्य् न्, एxचेप्त्श्१ Ñ१, त् ग् म्४ after लिने ७३ of अप्प्। इ नो। ६) ins.: :क्]) उत्तरे जाह्नवीतीरे प्रतिष्ठानेमहायशाः । *ह्व्_२१।९*३२० ।
विश्वास-प्रस्तुतिः

([क्: क्४ after ९अ-ब् फ़ोर् अ थिर्द् तिमे रेपेअतेद् after *३२० चोन्त्।: :क्])
एक एवपुरा देवः
प्रणवः सर्ववाङ्मयः । ह्व्_२१।९३२१:१ ।
देवो नारायणो नान्य
एको ऽग्निवर्ण एव च ॥ ह्व्_२१।९३२१:२ ।

मूलम्

([क्: क्४ after ९अ-ब् फ़ोर् अ थिर्द् तिमे रेपेअतेद् after *३२० चोन्त्।: :क्])
एक एवपुरा देवः
प्रणवः सर्ववाङ्मयः । ह्व्_२१।९३२१:१ ।
देवो नारायणो नान्य
एको ऽग्निवर्ण एव च ॥ ह्व्_२१।९३२१:२ ।

विश्वास-प्रस्तुतिः

पुरूरवस एवासीत्
त्रयी त्रेतामुखे नृप । ह्व्_२१।९३२१:३ ।
अग्निना प्रजया राजा
लोकं गान्धर्वम् एयिवान् । ह्व्_२१।९३२१:४ ।
तस्य पुत्रा बभूवुस् ते
षड् इन्द्रोपमतेजसाः ।
दिवि जाता महात्मान
आयुर् धीमान् अमावसुः ॥

मूलम्

पुरूरवस एवासीत्
त्रयी त्रेतामुखे नृप । ह्व्_२१।९३२१:३ ।
अग्निना प्रजया राजा
लोकं गान्धर्वम् एयिवान् । ह्व्_२१।९३२१:४ ।
तस्य पुत्रा बभूवुस् ते
षड् इन्द्रोपमतेजसाः ।
दिवि जाता महात्मान
आयुर् धीमान् अमावसुः ॥

विश्वास-प्रस्तुतिः

([क्: क्२ Ñ२।३ व् ब्१।२ द्न्२ द्स् द्३-६ त् ग्१-३।५ म्४ (ग्४ after १०फ़्) ins.: :क्])
विश्वायुश् चैव धर्मात्मा
श्रुतायुश् च तथापरः । ह्व्_२१।१०३२२ ।
दृढायुश् च वनायुश् च
शतायुश् चोर्वशीसुताः ॥ ह्व्_२१।१० ॥

मूलम्

([क्: क्२ Ñ२।३ व् ब्१।२ द्न्२ द्स् द्३-६ त् ग्१-३।५ म्४ (ग्४ after १०फ़्) ins.: :क्])
विश्वायुश् चैव धर्मात्मा
श्रुतायुश् च तथापरः । ह्व्_२१।१०३२२ ।
दृढायुश् च वनायुश् च
शतायुश् चोर्वशीसुताः ॥ ह्व्_२१।१० ॥

विश्वास-प्रस्तुतिः

([क्: क्२।४ Ñ२।३ व् ब् द् त् ग् म्४ ग्(एद्।) (क्१ after २२।१ब्, क्३ after अध्य्। २१)इन्स्। अप्प्। इ नो। ६ अन्द् ६ब्, बेत्wएएन् wहिछ् ओनेस् ग्(एद्) ins. नो। ६अ :क्])
आयोः पुत्राश् तथा पञ्च
सर्वे वीरा महारथाः ।
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
स्वर्भानुतनयायां च
प्रभायां जज्ञिरे नृप । ह्व्_२१।११३२३ ।
नहुषः प्रथमं जज्ञे
वृद्धशर्मा ततः परम् ॥

मूलम्

([क्: क्२।४ Ñ२।३ व् ब् द् त् ग् म्४ ग्(एद्।) (क्१ after २२।१ब्, क्३ after अध्य्। २१)इन्स्। अप्प्। इ नो। ६ अन्द् ६ब्, बेत्wएएन् wहिछ् ओनेस् ग्(एद्) ins. नो। ६अ :क्])
आयोः पुत्राश् तथा पञ्च
सर्वे वीरा महारथाः ।
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
स्वर्भानुतनयायां च
प्रभायां जज्ञिरे नृप । ह्व्_२१।११३२३ ।
नहुषः प्रथमं जज्ञे
वृद्धशर्मा ततः परम् ॥

विश्वास-प्रस्तुतिः

दम्भो रजिर् अनेनाश् च
त्रिषु लोकेषु विश्रुताः ॥ ह्व्_२१।११ ॥

मूलम्

दम्भो रजिर् अनेनाश् च
त्रिषु लोकेषु विश्रुताः ॥ ह्व्_२१।११ ॥

विश्वास-प्रस्तुतिः

([क्: क्१।३ (क्२।४ Ñ२।३ व् ब् द् त् ग् म्४ after अध्य्। २१) ins. अप्प्। इ नो। ७। :क्])
रजिः पुत्रशतानीह
जनयाम् आस पञ्च वै ।
राजेयम् इति विख्यातं
क्षत्रम् इन्द्रभयावहम् ॥ ह्व्_२१।१२ ॥

मूलम्

([क्: क्१।३ (क्२।४ Ñ२।३ व् ब् द् त् ग् म्४ after अध्य्। २१) ins. अप्प्। इ नो। ७। :क्])
रजिः पुत्रशतानीह
जनयाम् आस पञ्च वै ।
राजेयम् इति विख्यातं
क्षत्रम् इन्द्रभयावहम् ॥ ह्व्_२१।१२ ॥

विश्वास-प्रस्तुतिः

यत्र देवासुरे युद्धे
समुपोढे सुदारुणे ।
देवाश् चैवासुराश् चैव
पितामहम् अथाब्रुवन् ॥ ह्व्_२१।१३ ॥

मूलम्

यत्र देवासुरे युद्धे
समुपोढे सुदारुणे ।
देवाश् चैवासुराश् चैव
पितामहम् अथाब्रुवन् ॥ ह्व्_२१।१३ ॥

विश्वास-प्रस्तुतिः

आवयोर् भगवन् युद्धे
विजेता को भविष्यति ।
ब्रूहि नः सर्वभूतेश
श्रोतुम् इच्छामहे वचः ॥ ह्व्_२१।१४ ॥

मूलम्

आवयोर् भगवन् युद्धे
विजेता को भविष्यति ।
ब्रूहि नः सर्वभूतेश
श्रोतुम् इच्छामहे वचः ॥ ह्व्_२१।१४ ॥

विश्वास-प्रस्तुतिः

{ब्रह्मोवाच}
येषाम् अर्थाय सङ्ग्रामे
रजिर् आत्तायुधः प्रभुः ।
योत्स्यते ते विजेष्यन्ति
त्रींल् लोकान् नात्र संशयः ॥ ह्व्_२१।१५ ॥

मूलम्

{ब्रह्मोवाच}
येषाम् अर्थाय सङ्ग्रामे
रजिर् आत्तायुधः प्रभुः ।
योत्स्यते ते विजेष्यन्ति
त्रींल् लोकान् नात्र संशयः ॥ ह्व्_२१।१५ ॥

विश्वास-प्रस्तुतिः

यतो रजिर् धृतिस् तत्र
श्रीश् च तत्र यतो धृतिः ।
यतो धृतिश् च श्रीश् चैव
धर्मस् तत्र जयस् तथा ॥ ह्व्_२१।१६ ॥

मूलम्

यतो रजिर् धृतिस् तत्र
श्रीश् च तत्र यतो धृतिः ।
यतो धृतिश् च श्रीश् चैव
धर्मस् तत्र जयस् तथा ॥ ह्व्_२१।१६ ॥

विश्वास-प्रस्तुतिः

ते देवा दानवाः प्रीता
देवेनोक्ता रजेर् जये ।
अभ्ययुर् जयम् इच्छन्तो
वृण्वाना भरतर्षभ ॥ ह्व्_२१।१७ ॥

मूलम्

ते देवा दानवाः प्रीता
देवेनोक्ता रजेर् जये ।
अभ्ययुर् जयम् इच्छन्तो
वृण्वाना भरतर्षभ ॥ ह्व्_२१।१७ ॥

विश्वास-प्रस्तुतिः

स हि स्वर्भानुदौहित्रः
प्रभायां समपद्यत ।
राजा परमतेजस्वी
सोमवंशविवर्धनः ॥ ह्व्_२१।१८ ॥

मूलम्

स हि स्वर्भानुदौहित्रः
प्रभायां समपद्यत ।
राजा परमतेजस्वी
सोमवंशविवर्धनः ॥ ह्व्_२१।१८ ॥

विश्वास-प्रस्तुतिः

ते हृष्टमनसः सर्वे
रजिं दैतेयदानवाः ।
ऊचुर् अस्मज्जयाय त्वं
गृहाण वरकार्मुकम् ॥ ह्व्_२१।१९ ॥

मूलम्

ते हृष्टमनसः सर्वे
रजिं दैतेयदानवाः ।
ऊचुर् अस्मज्जयाय त्वं
गृहाण वरकार्मुकम् ॥ ह्व्_२१।१९ ॥

([क्: क्१।३।४ Ñ२।३ व् ब् द् त्१।२।४ ग् म्४ ins.: :क्]) अथोवाच रजिस् तत्र तयोर् वैदेवदैत्ययोः । *ह्व्_२१।१९*३२४:१ । स्वार्थज्ञः स्वार्थम् उद्दिश्य यशः स्वं च प्रकाशयन् । *ह्व्_२१।१९*३२४:२ ।
विश्वास-प्रस्तुतिः

{रजिर् उवाच}
यदि देवगणान् सर्वाञ्
जित्वा शक्रपुरोगमान् ।
इन्द्रो भवामि धर्मेण
ततो योत्स्यामि संयुगे ॥ ह्व्_२१।२० ॥

मूलम्

{रजिर् उवाच}
यदि देवगणान् सर्वाञ्
जित्वा शक्रपुरोगमान् ।
इन्द्रो भवामि धर्मेण
ततो योत्स्यामि संयुगे ॥ ह्व्_२१।२० ॥

विश्वास-प्रस्तुतिः

([क्: क्१।३।४ Ñ२।३ व् ब् द् त्१।२।४ ग् म्४ (त्३ after १९ब्) ins.: :क्])
देवाः प्रथमतोभूयः
प्रतीयुर् हृष्टमानसाः । ह्व्_२१।२०३२५:१ ।
एवं यथेष्टं नृपते
कामः सम्पद्यतां तव ॥ ह्व्_२१।२०३२५:२ ।

मूलम्

([क्: क्१।३।४ Ñ२।३ व् ब् द् त्१।२।४ ग् म्४ (त्३ after १९ब्) ins.: :क्])
देवाः प्रथमतोभूयः
प्रतीयुर् हृष्टमानसाः । ह्व्_२१।२०३२५:१ ।
एवं यथेष्टं नृपते
कामः सम्पद्यतां तव ॥ ह्व्_२१।२०३२५:२ ।

विश्वास-प्रस्तुतिः

श्रुत्वा सुरगणानां तु
वाक्यं राजा रजिस् तदा । ह्व्_२१।२०३२५:३ ।
पप्रच्छासुरमुख्यांस् तु
यथा देवान् अपृच्छत ॥ ह्व्_२१।२०३२५:४ ।

मूलम्

श्रुत्वा सुरगणानां तु
वाक्यं राजा रजिस् तदा । ह्व्_२१।२०३२५:३ ।
पप्रच्छासुरमुख्यांस् तु
यथा देवान् अपृच्छत ॥ ह्व्_२१।२०३२५:४ ।

दानवा दर्पपूर्णास् तु स्वार्थम् एवानुगम्य ह । *ह्व्_२१।२०*३२५:५ । प्रत्यूचुस् तं नृपवरं साभिमानम् इदं वचः । *ह्व्_२१।२०*३२५:६ ।
विश्वास-प्रस्तुतिः

{दानवा ऊचुः}
अस्माकम् इन्द्रः प्रह्रादो
यस्यार्थे विजयामहे ॥ ह्व्_२१।२१ ॥

मूलम्

{दानवा ऊचुः}
अस्माकम् इन्द्रः प्रह्रादो
यस्यार्थे विजयामहे ॥ ह्व्_२१।२१ ॥

विश्वास-प्रस्तुतिः

अस्मिंस् तु समये राजंस्
तिष्ठेथा देवचोदितः ।
([क्: Ñ२।३ व्२।३ ब् द्स् द्२।४।६ त्२-४ ग्१-३।५ म्४ ins.: :क्])
स तथेति ब्रुवन्न् एव
देवैर् अप्य् अभिचोदितः । ह्व्_२१।२२३२६ ।
भविष्यसीन्द्रो जित्वैव
देवैर् उक्तस् स पार्थिवः ॥

मूलम्

अस्मिंस् तु समये राजंस्
तिष्ठेथा देवचोदितः ।
([क्: Ñ२।३ व्२।३ ब् द्स् द्२।४।६ त्२-४ ग्१-३।५ म्४ ins.: :क्])
स तथेति ब्रुवन्न् एव
देवैर् अप्य् अभिचोदितः । ह्व्_२१।२२३२६ ।
भविष्यसीन्द्रो जित्वैव
देवैर् उक्तस् स पार्थिवः ॥

विश्वास-प्रस्तुतिः

जघान दानवान् सर्वान्
ये वध्या वज्रपाणिना ॥ ह्व्_२१।२२ ॥

मूलम्

जघान दानवान् सर्वान्
ये वध्या वज्रपाणिना ॥ ह्व्_२१।२२ ॥

विश्वास-प्रस्तुतिः

स विप्रनष्टां देवानां
परमश्रीः श्रियं वशी ।
निहत्य दानवान् सर्वान्
आजहार रजिः प्रभुः ॥ ह्व्_२१।२३ ॥

मूलम्

स विप्रनष्टां देवानां
परमश्रीः श्रियं वशी ।
निहत्य दानवान् सर्वान्
आजहार रजिः प्रभुः ॥ ह्व्_२१।२३ ॥

विश्वास-प्रस्तुतिः

ततो रजिं महावीर्यं
देवैः सह शतक्रतुः ।
रजिपुत्रो ऽहम् इत्य् उक्त्वा
पुनर् एवाब्रवीद् वचः ॥ ह्व्_२१।२४ ॥

मूलम्

ततो रजिं महावीर्यं
देवैः सह शतक्रतुः ।
रजिपुत्रो ऽहम् इत्य् उक्त्वा
पुनर् एवाब्रवीद् वचः ॥ ह्व्_२१।२४ ॥

विश्वास-प्रस्तुतिः

इन्द्रो ऽसि तात भूतानां
सर्वेषां नात्र संशयः ।
यस्याहम् इन्द्रः पुत्रस् ते
ख्यातिं यास्यामि कर्मभिः ॥ ह्व्_२१।२५ ॥

मूलम्

इन्द्रो ऽसि तात भूतानां
सर्वेषां नात्र संशयः ।
यस्याहम् इन्द्रः पुत्रस् ते
ख्यातिं यास्यामि कर्मभिः ॥ ह्व्_२१।२५ ॥

विश्वास-प्रस्तुतिः

स तु शक्रवचः श्रुत्वा
वञ्चितस् तेन मायया ।
तथेत्य् एवाब्रवीद् राजा
प्रीयमाणः शतक्रतुम् ॥ ह्व्_२१।२६ ॥

मूलम्

स तु शक्रवचः श्रुत्वा
वञ्चितस् तेन मायया ।
तथेत्य् एवाब्रवीद् राजा
प्रीयमाणः शतक्रतुम् ॥ ह्व्_२१।२६ ॥

विश्वास-प्रस्तुतिः

तस्मिंस् तु देवैः सदृशो
दिवं प्राप्ते महीपतौ ।
दायाद्यम् इन्द्राद् आजह्रुर्
आचारात् तनया रजेः ॥ ह्व्_२१।२७ ॥

मूलम्

तस्मिंस् तु देवैः सदृशो
दिवं प्राप्ते महीपतौ ।
दायाद्यम् इन्द्राद् आजह्रुर्
आचारात् तनया रजेः ॥ ह्व्_२१।२७ ॥

विश्वास-प्रस्तुतिः

तानि पुत्रशतान्य् अस्य
तद् वै स्थानं शतक्रतोः ।
समाक्रामन्त बहुधा
स्वर्गलोकं त्रिविष्टपम् ॥ ह्व्_२१।२८ ॥

मूलम्

तानि पुत्रशतान्य् अस्य
तद् वै स्थानं शतक्रतोः ।
समाक्रामन्त बहुधा
स्वर्गलोकं त्रिविष्टपम् ॥ ह्व्_२१।२८ ॥

विश्वास-प्रस्तुतिः

ततो बहुतिथे काले
समतीते महाबलः ।
हृतराज्यो ऽब्रवीच् छक्रो
हृतभागो बृहस्पतिम् ॥ ह्व्_२१।२९ ॥

मूलम्

ततो बहुतिथे काले
समतीते महाबलः ।
हृतराज्यो ऽब्रवीच् छक्रो
हृतभागो बृहस्पतिम् ॥ ह्व्_२१।२९ ॥

विश्वास-प्रस्तुतिः

बदरीफलमात्रं वै
पुरोडाशं विधत्स्व मे ।
ब्रह्मर्षे येन तिष्ठेयं
तेजसाप्यायितः सदा ॥ ह्व्_२१।३० ॥

मूलम्

बदरीफलमात्रं वै
पुरोडाशं विधत्स्व मे ।
ब्रह्मर्षे येन तिष्ठेयं
तेजसाप्यायितः सदा ॥ ह्व्_२१।३० ॥

विश्वास-प्रस्तुतिः

ब्रह्मन् कृशो ऽहं विमना
हृतराज्यो हृताशनः ।
हतौजा दुर्बलो मूढो
रजिपुत्रैः कृतो विभो ॥ ह्व्_२१।३१ ॥

मूलम्

ब्रह्मन् कृशो ऽहं विमना
हृतराज्यो हृताशनः ।
हतौजा दुर्बलो मूढो
रजिपुत्रैः कृतो विभो ॥ ह्व्_२१।३१ ॥

विश्वास-प्रस्तुतिः

{बृहस्पतिर् उवाच}
यद्य् एवं चोदितः शक्र
त्वया स्यां पूर्वम् एव हि ।
नाभविष्यत् त्वत्प्रियार्थम्
अकर्तव्यं मयानघ ॥ ह्व्_२१।३२ ॥

मूलम्

{बृहस्पतिर् उवाच}
यद्य् एवं चोदितः शक्र
त्वया स्यां पूर्वम् एव हि ।
नाभविष्यत् त्वत्प्रियार्थम्
अकर्तव्यं मयानघ ॥ ह्व्_२१।३२ ॥

विश्वास-प्रस्तुतिः

प्रयतिष्यामि देवेन्द्र
त्वत्प्रियार्थं न संशयः ।
यथा भागं च राज्यं च
न चिरात् प्रतिलप्स्यसे ॥

मूलम्

प्रयतिष्यामि देवेन्द्र
त्वत्प्रियार्थं न संशयः ।
यथा भागं च राज्यं च
न चिरात् प्रतिलप्स्यसे ॥

विश्वास-प्रस्तुतिः

तथा तात करिष्यामि
मा ते भूद् विक्लवं मनः ॥ ह्व्_२१।३३ ॥

मूलम्

तथा तात करिष्यामि
मा ते भूद् विक्लवं मनः ॥ ह्व्_२१।३३ ॥

विश्वास-प्रस्तुतिः

ततः कर्म चकारास्य
तेजसो वर्धनं तदा ।
तेषां च बुद्धिसम्मोहम्
अकरोद् ऋषिसत्तमः ॥ ह्व्_२१।३४ ॥

मूलम्

ततः कर्म चकारास्य
तेजसो वर्धनं तदा ।
तेषां च बुद्धिसम्मोहम्
अकरोद् ऋषिसत्तमः ॥ ह्व्_२१।३४ ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ग्(एद्।) ins.: :क्])
नास्तिवादार्थशास्त्रंहि
धर्मविद्वेषणं परम् । ह्व्_२१।३४३२७:१ ।
परमं तर्कशास्त्राणाम्
असतां तन् मनोनुगम् । ह्व्_२१।३४३२७:२ ।
न हि धर्मप्रधानानां
रोचते वै कथान्तरे ॥ ह्व्_२१।३४३२७:३ ।

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ग्(एद्।) ins.: :क्])
नास्तिवादार्थशास्त्रंहि
धर्मविद्वेषणं परम् । ह्व्_२१।३४३२७:१ ।
परमं तर्कशास्त्राणाम्
असतां तन् मनोनुगम् । ह्व्_२१।३४३२७:२ ।
न हि धर्मप्रधानानां
रोचते वै कथान्तरे ॥ ह्व्_२१।३४३२७:३ ।

विश्वास-प्रस्तुतिः

ते तद् बृहस्पतिकृतं
शास्त्रं श्रुत्वाल्पचेतसः । ह्व्_२१।३४३२७:४ ।
पूर्वोक्तधर्मशास्त्राणाम्
अभवन् द्वेषिणः सदा ॥ ह्व्_२१।३४३२७:५ ।

मूलम्

ते तद् बृहस्पतिकृतं
शास्त्रं श्रुत्वाल्पचेतसः । ह्व्_२१।३४३२७:४ ।
पूर्वोक्तधर्मशास्त्राणाम्
अभवन् द्वेषिणः सदा ॥ ह्व्_२१।३४३२७:५ ।

विश्वास-प्रस्तुतिः

प्रचक्रुर् न्यायरहितं
तन्मतं बहु मेनिरे । ह्व्_२१।३४३२७:६ ।
तेनाधर्मेण ते पापाः
सर्व एव क्षयं गताः ॥ ह्व्_२१।३४३२७:७ ।

मूलम्

प्रचक्रुर् न्यायरहितं
तन्मतं बहु मेनिरे । ह्व्_२१।३४३२७:६ ।
तेनाधर्मेण ते पापाः
सर्व एव क्षयं गताः ॥ ह्व्_२१।३४३२७:७ ।

विश्वास-प्रस्तुतिः

त्रैलोक्यराज्यं शक्रस् तु
प्राप्य दुष्प्रापम् एव च । ह्व्_२१।३४३२७:८ ।
बृहस्पतिप्रसादाद् धि
परां निर्वृतिम् अभ्यगात् । ह्व्_२१।३४३२७:९ ।
ते यदा स्म सुसम्मूढा
रागोन्मत्ता विधर्मिणः ।
ब्रह्मद्विषश् च संवृत्ता
हतवीर्यपराक्रमाः ॥ ह्व्_२१।३५ ॥

मूलम्

त्रैलोक्यराज्यं शक्रस् तु
प्राप्य दुष्प्रापम् एव च । ह्व्_२१।३४३२७:८ ।
बृहस्पतिप्रसादाद् धि
परां निर्वृतिम् अभ्यगात् । ह्व्_२१।३४३२७:९ ।
ते यदा स्म सुसम्मूढा
रागोन्मत्ता विधर्मिणः ।
ब्रह्मद्विषश् च संवृत्ता
हतवीर्यपराक्रमाः ॥ ह्व्_२१।३५ ॥

विश्वास-प्रस्तुतिः

ततो लेभे सुरैश्वर्यम्
इन्द्रः स्थानं तथोत्तमम् ।
हत्वा रजिसुतान् सर्वान्
कामक्रोधपरायणान् ॥ ह्व्_२१।३६ ॥

मूलम्

ततो लेभे सुरैश्वर्यम्
इन्द्रः स्थानं तथोत्तमम् ।
हत्वा रजिसुतान् सर्वान्
कामक्रोधपरायणान् ॥ ह्व्_२१।३६ ॥

विश्वास-प्रस्तुतिः

य इदं च्यावनं स्थानात्
प्रतिष्ठां च शतक्रतोः ।
शृणुयाद् धारयेद् वापि
न स दौरात्म्यम् आप्नुयात् ॥ ह्व्_२१।३७ ॥

मूलम्

य इदं च्यावनं स्थानात्
प्रतिष्ठां च शतक्रतोः ।
शृणुयाद् धारयेद् वापि
न स दौरात्म्यम् आप्नुयात् ॥ ह्व्_२१।३७ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
रजेः पञ्च शतान्य् आसन्
पुत्राणाम् अमितौजसाम् । ह्व्_२१।३७३२८:१ ।
देवैर् अभ्यर्थितो दैत्यान्
हत्वेन्द्रायाददाद् दिवम् ॥ ह्व्_२१।३७३२८:२ ।

मूलम्

([क्: क्४ ins.: :क्])
रजेः पञ्च शतान्य् आसन्
पुत्राणाम् अमितौजसाम् । ह्व्_२१।३७३२८:१ ।
देवैर् अभ्यर्थितो दैत्यान्
हत्वेन्द्रायाददाद् दिवम् ॥ ह्व्_२१।३७३२८:२ ।

विश्वास-प्रस्तुतिः

इन्द्रस् तस्मै पुनर् हत्वा
गृहीत्वा चरणौ रजेः । ह्व्_२१।३७३२८:३ ।
आत्मानम् अर्पयाम् आस
प्रह्रादाद्यरिशङ्कितः ॥ ह्व्_२१।३७३२८:४ ।

मूलम्

इन्द्रस् तस्मै पुनर् हत्वा
गृहीत्वा चरणौ रजेः । ह्व्_२१।३७३२८:३ ।
आत्मानम् अर्पयाम् आस
प्रह्रादाद्यरिशङ्कितः ॥ ह्व्_२१।३७३२८:४ ।

पितर्य् उपरते पुत्रा याचमानाय नो ददुः । *ह्व्_२१।३७*३२८:५ । गुरुणा हूयमाने ऽग्नौ बलभित् तनयान् रजेः । *ह्व्_२१।३७*३२८:६ । अवधीद् ध्वंसितान् मार्गान् न कश् चिद् अवशेषितः । *ह्व्_२१।३७*३२८:७ । ([क्: द्६ त्१।२ ग् ins.: :क्]) अरोगश् च भवेत् तात यावज्जीवम् अकल्मषः । *ह्व्_२१।३७*३२९ ।