०१८

विश्वास-प्रस्तुतिः

ते योगधर्मनिरताः
सप्त मानसचारिणः ।
([क्: क्४ बोम्बय् अन्द् पोओन एद्स्। ins.: :क्])
पद्मगर्भो ऽरविन्दाक्षः
क्षीरगर्भः सुलोचनः । ह्व्_१८।१३०३:१ ।
ऊरुबिन्दुः सुबिन्दुश् च
हैमगर्भस् तु सप्तमः । ह्व्_१८।१३०३:२ ।
([क्: द्न्२ ins.: :क्])
हंसा जाता महात्मानो
मानसेषु सरःसु च ॥ ह्व्_१८।१३०४:१ ।

मूलम्

ते योगधर्मनिरताः
सप्त मानसचारिणः ।
([क्: क्४ बोम्बय् अन्द् पोओन एद्स्। ins.: :क्])
पद्मगर्भो ऽरविन्दाक्षः
क्षीरगर्भः सुलोचनः । ह्व्_१८।१३०३:१ ।
ऊरुबिन्दुः सुबिन्दुश् च
हैमगर्भस् तु सप्तमः । ह्व्_१८।१३०३:२ ।
([क्: द्न्२ ins.: :क्])
हंसा जाता महात्मानो
मानसेषु सरःसु च ॥ ह्व्_१८।१३०४:१ ।

विश्वास-प्रस्तुतिः

सुमनाः सुवाक् सुशुद्धश् च
तत्त्वदर्षी च तत्त्ववित् । ह्व्_१८।१३०४:२ ।
सुनेत्रश् च सुहोत्रश् च
द्विजा नामभिर् एव च ॥ ह्व्_१८।१३०४:३ ।

मूलम्

सुमनाः सुवाक् सुशुद्धश् च
तत्त्वदर्षी च तत्त्ववित् । ह्व्_१८।१३०४:२ ।
सुनेत्रश् च सुहोत्रश् च
द्विजा नामभिर् एव च ॥ ह्व्_१८।१३०४:३ ।

विश्वास-प्रस्तुतिः

ते ब्रह्मचारिणः सर्वे
विहगाः कामचारिणः । ह्व्_१८।१३०४:४ ।
वाय्वम्बुभक्षाः सततं
शरीराण्य् उपशोषयन् ॥ ह्व्_१८।१ ॥

मूलम्

ते ब्रह्मचारिणः सर्वे
विहगाः कामचारिणः । ह्व्_१८।१३०४:४ ।
वाय्वम्बुभक्षाः सततं
शरीराण्य् उपशोषयन् ॥ ह्व्_१८।१ ॥

विश्वास-प्रस्तुतिः

राजा विभ्राजमानस् तु
वपुषा तद् वनं तदा ।
चचारान्तःपुरवृतो
नन्दनं मघवान् इव ॥ ह्व्_१८।२ ॥

मूलम्

राजा विभ्राजमानस् तु
वपुषा तद् वनं तदा ।
चचारान्तःपुरवृतो
नन्दनं मघवान् इव ॥ ह्व्_१८।२ ॥

विश्वास-प्रस्तुतिः

स तान् अबुध्यत् खचरान्
योगधर्मात्मकान् बुधः ।
निर्वेदाच् च तम् एवार्थम्
अनुध्यात्वा पुरं ययौ ॥ ह्व्_१८।३ ॥

मूलम्

स तान् अबुध्यत् खचरान्
योगधर्मात्मकान् बुधः ।
निर्वेदाच् च तम् एवार्थम्
अनुध्यात्वा पुरं ययौ ॥ ह्व्_१८।३ ॥

विश्वास-प्रस्तुतिः

अणुहो नाम तस्यासीत्
पुत्रः परमधार्मिकः ।
अणुधर्मरतिर् नित्यम्
अणुहो ऽध्यगमत् पदम् ॥ ह्व्_१८।४ ॥

मूलम्

अणुहो नाम तस्यासीत्
पुत्रः परमधार्मिकः ।
अणुधर्मरतिर् नित्यम्
अणुहो ऽध्यगमत् पदम् ॥ ह्व्_१८।४ ॥

विश्वास-प्रस्तुतिः

प्रादात् कन्यां शुकस् तस्मै
कृत्वीं पूजितलक्षणाम् ।
सत्त्वशीलगुणोपेतां
योगधर्मरतां सदा ॥ ह्व्_१८।५ ॥

मूलम्

प्रादात् कन्यां शुकस् तस्मै
कृत्वीं पूजितलक्षणाम् ।
सत्त्वशीलगुणोपेतां
योगधर्मरतां सदा ॥ ह्व्_१८।५ ॥

विश्वास-प्रस्तुतिः

सा ह्य् उद्दिष्टा पुरा भीष्म
पितृकन्या मणीषिणा ।
सनत्कुमारेण तदा
सन्निधौ मम शोभना ॥ ह्व्_१८।६ ॥

मूलम्

सा ह्य् उद्दिष्टा पुरा भीष्म
पितृकन्या मणीषिणा ।
सनत्कुमारेण तदा
सन्निधौ मम शोभना ॥ ह्व्_१८।६ ॥

विश्वास-प्रस्तुतिः

सत्यधर्मभृतां श्रेष्ठा
दुर्विज्ञेयाकृतात्मभिः ।
योगा च योगपत्नी च
योगमाता तथैव च ॥

मूलम्

सत्यधर्मभृतां श्रेष्ठा
दुर्विज्ञेयाकृतात्मभिः ।
योगा च योगपत्नी च
योगमाता तथैव च ॥

विश्वास-प्रस्तुतिः

यथा ते कथितं पूर्वं
पितृसर्गेषु वै मया ॥ ह्व्_१८।७ ॥

मूलम्

यथा ते कथितं पूर्वं
पितृसर्गेषु वै मया ॥ ह्व्_१८।७ ॥

विश्वास-प्रस्तुतिः

विभ्राजस् त्व् अणुहं राज्ये
स्थापयित्वा नरेश्वरः ।
आमन्त्र्य पौरान् प्रीतात्मा
ब्राह्मणान् स्वस्ति वाच्य च ॥

मूलम्

विभ्राजस् त्व् अणुहं राज्ये
स्थापयित्वा नरेश्वरः ।
आमन्त्र्य पौरान् प्रीतात्मा
ब्राह्मणान् स्वस्ति वाच्य च ॥

विश्वास-प्रस्तुतिः

प्रायात् सरस् तपश् चर्तुं
यत्र ते सहचारिणः ॥ ह्व्_१८।८ ॥

मूलम्

प्रायात् सरस् तपश् चर्तुं
यत्र ते सहचारिणः ॥ ह्व्_१८।८ ॥

विश्वास-प्रस्तुतिः

स वै तत्र निराहारो
वायुभक्षो महातपाः ।
त्यक्त्वा कामांस् तपस् तेपे
सरसस् तस्य पार्ष्वतः ॥ ह्व्_१८।९ ॥

मूलम्

स वै तत्र निराहारो
वायुभक्षो महातपाः ।
त्यक्त्वा कामांस् तपस् तेपे
सरसस् तस्य पार्ष्वतः ॥ ह्व्_१८।९ ॥

विश्वास-प्रस्तुतिः

तस्य सङ्कल्प आसीच् च
तेषाम् अन्यतरस्य वै ।
पुत्रत्वं प्राप्य योगेन
युज्येयम् इति भारत ॥ ह्व्_१८।१० ॥

मूलम्

तस्य सङ्कल्प आसीच् च
तेषाम् अन्यतरस्य वै ।
पुत्रत्वं प्राप्य योगेन
युज्येयम् इति भारत ॥ ह्व्_१८।१० ॥

विश्वास-प्रस्तुतिः

कृत्वाभिसन्धिं तपसा
महता स समन्वितः ।
महातपाः स विभ्राजो
विरराजांशुमान् इव ॥ ह्व्_१८।११ ॥

मूलम्

कृत्वाभिसन्धिं तपसा
महता स समन्वितः ।
महातपाः स विभ्राजो
विरराजांशुमान् इव ॥ ह्व्_१८।११ ॥

विश्वास-प्रस्तुतिः

ततो विभ्राजितं तेन
वैभ्राजम् इति तद् वनम् ।
सरस् तच् च कुरुश्रेष्ठ
वैभ्राजम् इति शब्दितम् ॥ ह्व्_१८।१२ ॥

मूलम्

ततो विभ्राजितं तेन
वैभ्राजम् इति तद् वनम् ।
सरस् तच् च कुरुश्रेष्ठ
वैभ्राजम् इति शब्दितम् ॥ ह्व्_१८।१२ ॥

विश्वास-प्रस्तुतिः

यत्र ते शकुना राजंश्
चत्वारो योगधर्मिणः ।
योगभ्रष्टास् त्रयश् चैव
देहन्यासकृतो ऽभवन् ॥ ह्व्_१८।१३ ॥

मूलम्

यत्र ते शकुना राजंश्
चत्वारो योगधर्मिणः ।
योगभ्रष्टास् त्रयश् चैव
देहन्यासकृतो ऽभवन् ॥ ह्व्_१८।१३ ॥

विश्वास-प्रस्तुतिः

काम्पिल्ये नगरे ते तु
ब्रह्मदत्तपुरोगमाः ।
जाताः सप्त महात्मानः
सर्वे विगतकल्मषाः ॥

मूलम्

काम्पिल्ये नगरे ते तु
ब्रह्मदत्तपुरोगमाः ।
जाताः सप्त महात्मानः
सर्वे विगतकल्मषाः ॥

विश्वास-प्रस्तुतिः

स्मृतिमन्तो ऽत्र चत्वारस्
त्रयस् तु परिमोहिताः ॥ ह्व्_१८।१४ ॥

मूलम्

स्मृतिमन्तो ऽत्र चत्वारस्
त्रयस् तु परिमोहिताः ॥ ह्व्_१८।१४ ॥

विश्वास-प्रस्तुतिः

स्वतन्त्रस् त्व् अणुहाज् जज्ञे
ब्रह्मदत्तो महायशाः ।
यथास्यासीत् पक्षिभावे
सङ्कल्पः पूर्वचिन्तितः ॥ ह्व्_१८।१५ ॥

मूलम्

स्वतन्त्रस् त्व् अणुहाज् जज्ञे
ब्रह्मदत्तो महायशाः ।
यथास्यासीत् पक्षिभावे
सङ्कल्पः पूर्वचिन्तितः ॥ ह्व्_१८।१५ ॥

विश्वास-प्रस्तुतिः

([क्: क् Ñ१।२ ब्२ द्न् द्१।२।४-६ ग्१।३।५ म्४ ins. after १५, Ñ३ व् ब् द्स् द्३ त्२ ग्२ after १४cd: :क्])
ज्ञानध्यानतपःपूता
वेदवेदाङ्गपारगाः । ह्व्_१८।१५३०५ ।
छिद्रदर्शी सुनेत्रश् च
तथा बाभ्रव्यवत्सयोः ।
जातौ श्रोत्रियदायादौ
वेदवेदाङ्गपारगौ ॥ ह्व्_१८।१६ ॥

मूलम्

([क्: क् Ñ१।२ ब्२ द्न् द्१।२।४-६ ग्१।३।५ म्४ ins. after १५, Ñ३ व् ब् द्स् द्३ त्२ ग्२ after १४cd: :क्])
ज्ञानध्यानतपःपूता
वेदवेदाङ्गपारगाः । ह्व्_१८।१५३०५ ।
छिद्रदर्शी सुनेत्रश् च
तथा बाभ्रव्यवत्सयोः ।
जातौ श्रोत्रियदायादौ
वेदवेदाङ्गपारगौ ॥ ह्व्_१८।१६ ॥

विश्वास-प्रस्तुतिः

सखायौ ब्रह्मदत्तस्य
पूर्वजातिसहोषितौ ।
पाञ्चालः पञ्चमस् तत्र
कण्डरीकस् तथापरः ॥ ह्व्_१८।१७ ॥

मूलम्

सखायौ ब्रह्मदत्तस्य
पूर्वजातिसहोषितौ ।
पाञ्चालः पञ्चमस् तत्र
कण्डरीकस् तथापरः ॥ ह्व्_१८।१७ ॥

विश्वास-प्रस्तुतिः

पाञ्चालो बह्वृचस् त्व् आसीद्
आचार्यत्वं चकार ह ।
द्विवेदः कण्डरीकस् तु
छन्दोगो ऽध्वर्युर् एव च ॥ ह्व्_१८।१८ ॥

मूलम्

पाञ्चालो बह्वृचस् त्व् आसीद्
आचार्यत्वं चकार ह ।
द्विवेदः कण्डरीकस् तु
छन्दोगो ऽध्वर्युर् एव च ॥ ह्व्_१८।१८ ॥

विश्वास-प्रस्तुतिः

सर्वसत्त्वरुतज्ञश् च
राजासीद् अणुहात्मजः ।
पाञ्चालकण्डरीकाभ्यां
तस्य संविद् अभूत् तदा ॥ ह्व्_१८।१९ ॥

मूलम्

सर्वसत्त्वरुतज्ञश् च
राजासीद् अणुहात्मजः ।
पाञ्चालकण्डरीकाभ्यां
तस्य संविद् अभूत् तदा ॥ ह्व्_१८।१९ ॥

विश्वास-प्रस्तुतिः

ते ग्राम्यधर्मनिरताः
कामस्य वशवर्तिनः ।
पूर्वजातिकृतेनासन्
धर्मकामार्थकोविदाः ॥ ह्व्_१८।२० ॥

मूलम्

ते ग्राम्यधर्मनिरताः
कामस्य वशवर्तिनः ।
पूर्वजातिकृतेनासन्
धर्मकामार्थकोविदाः ॥ ह्व्_१८।२० ॥

विश्वास-प्रस्तुतिः

अणुहस् तु नृपश्रेष्ठो
ब्रह्मदत्तम् अकल्मषम् ।
अभिषिच्य तदा राज्ये
परां गतिम् अवाप्तवान् ॥ ह्व्_१८।२१ ॥

मूलम्

अणुहस् तु नृपश्रेष्ठो
ब्रह्मदत्तम् अकल्मषम् ।
अभिषिच्य तदा राज्ये
परां गतिम् अवाप्तवान् ॥ ह्व्_१८।२१ ॥

विश्वास-प्रस्तुतिः

ब्रह्मदत्तस्य भार्या तु
देवलस्यात्मजाभवत् ।
असितस्य योगदुर्धर्षा
सन्नतिर् नाम भारत ॥ ह्व्_१८।२२ ॥

मूलम्

ब्रह्मदत्तस्य भार्या तु
देवलस्यात्मजाभवत् ।
असितस्य योगदुर्धर्षा
सन्नतिर् नाम भारत ॥ ह्व्_१८।२२ ॥

विश्वास-प्रस्तुतिः

ताम् एकभावसंयुक्तां
लेभे कन्याम् अनुत्तमाम् ।
सन्नतिं सन्नतिमतीं
देवलाद् योगधर्मिणीम् ॥ ह्व्_१८।२३ ॥

मूलम्

ताम् एकभावसंयुक्तां
लेभे कन्याम् अनुत्तमाम् ।
सन्नतिं सन्नतिमतीं
देवलाद् योगधर्मिणीम् ॥ ह्व्_१८।२३ ॥

विश्वास-प्रस्तुतिः

([क्: क्४ ins.: :क्])
उपयेमे विधानेन
ब्रह्मदत्तो नराधिपः । ह्व्_१८।२३३०६ ।
शेषास् तु चक्रवाका वै
काम्पिल्ये सहचारिणः ।
ते जाताः श्रोत्रियकुले
सुदरिद्रे सहोदराः ॥ ह्व्_१८।२४ ॥

मूलम्

([क्: क्४ ins.: :क्])
उपयेमे विधानेन
ब्रह्मदत्तो नराधिपः । ह्व्_१८।२३३०६ ।
शेषास् तु चक्रवाका वै
काम्पिल्ये सहचारिणः ।
ते जाताः श्रोत्रियकुले
सुदरिद्रे सहोदराः ॥ ह्व्_१८।२४ ॥

विश्वास-प्रस्तुतिः

धृतिर् महामना विद्वांस्
तत्त्वदर्शी च नामतः ।
वेदाध्ययनसम्पन्नाश्
चत्वारो ऽच्छिन्नदर्शिनः ॥ ह्व्_१८।२५ ॥

मूलम्

धृतिर् महामना विद्वांस्
तत्त्वदर्शी च नामतः ।
वेदाध्ययनसम्पन्नाश्
चत्वारो ऽच्छिन्नदर्शिनः ॥ ह्व्_१८।२५ ॥

विश्वास-प्रस्तुतिः

तेषां संविदथोत्पन्ना
पूर्वजातिकृता तदा ।
ते योगनिरताः सिद्धाः
प्रस्थिताः सर्व एव हि ॥ ह्व्_१८।२६ ॥

मूलम्

तेषां संविदथोत्पन्ना
पूर्वजातिकृता तदा ।
ते योगनिरताः सिद्धाः
प्रस्थिताः सर्व एव हि ॥ ह्व्_१८।२६ ॥

विश्वास-प्रस्तुतिः

आमन्त्र्य पितरं तात
पिता तान् अब्रवीत् तदा ।
अधर्म एष युष्माकं
यन् मां त्यक्त्वा गमिष्यथ ॥ ह्व्_१८।२७ ॥

मूलम्

आमन्त्र्य पितरं तात
पिता तान् अब्रवीत् तदा ।
अधर्म एष युष्माकं
यन् मां त्यक्त्वा गमिष्यथ ॥ ह्व्_१८।२७ ॥

विश्वास-प्रस्तुतिः

दारिद्र्यम् अनपाकृत्य
पुत्रार्थांश् चैव पुष्कलान् ।
([क्: द्१।२।४ ins.: :क्])
कामान् अभीप्सितान् सर्वान्
मम कृत्वाद्य पुत्रकाः । ह्व्_१८।२८३०७ ।
शुश्रूषाम् अप्रयुक्त्वा च
कथं वै गन्तुम् अर्हथ ॥ ह्व्_१८।२८ ॥

मूलम्

दारिद्र्यम् अनपाकृत्य
पुत्रार्थांश् चैव पुष्कलान् ।
([क्: द्१।२।४ ins.: :क्])
कामान् अभीप्सितान् सर्वान्
मम कृत्वाद्य पुत्रकाः । ह्व्_१८।२८३०७ ।
शुश्रूषाम् अप्रयुक्त्वा च
कथं वै गन्तुम् अर्हथ ॥ ह्व्_१८।२८ ॥

विश्वास-प्रस्तुतिः

ते तम् ऊचुर् द्विजाः सर्वे
पितरं पुनर् एव हि ।
करिष्यामो विधानं ते
येन त्वं वर्तयिष्यसि ॥ ह्व्_१८।२९ ॥

मूलम्

ते तम् ऊचुर् द्विजाः सर्वे
पितरं पुनर् एव हि ।
करिष्यामो विधानं ते
येन त्वं वर्तयिष्यसि ॥ ह्व्_१८।२९ ॥

विश्वास-प्रस्तुतिः

इमं श्लोकं महार्थं त्वं
राजानं सहमन्त्रिणम् ।
श्रावयेथाः समागम्य
ब्रह्मदत्तम् अकल्मषम् ॥ ह्व्_१८।३० ॥

मूलम्

इमं श्लोकं महार्थं त्वं
राजानं सहमन्त्रिणम् ।
श्रावयेथाः समागम्य
ब्रह्मदत्तम् अकल्मषम् ॥ ह्व्_१८।३० ॥

विश्वास-प्रस्तुतिः

प्रीतात्मा दास्यति स ते
ग्रामान् भोगांश् च पुष्कलान् ।
यथेप्सितांश् च सर्वार्थान्
गच्छ तात यथासुखम् ॥ ह्व्_१८।३१ ॥

मूलम्

प्रीतात्मा दास्यति स ते
ग्रामान् भोगांश् च पुष्कलान् ।
यथेप्सितांश् च सर्वार्थान्
गच्छ तात यथासुखम् ॥ ह्व्_१८।३१ ॥

विश्वास-प्रस्तुतिः

एतावद् उक्त्वा ते सर्वे
पूजयित्वा च तं गुरुं ।
योगधर्मम् अनुप्राप्य
परमां निर्वृतिं ययुः ॥ ह्व्_१८।३२ ॥

मूलम्

एतावद् उक्त्वा ते सर्वे
पूजयित्वा च तं गुरुं ।
योगधर्मम् अनुप्राप्य
परमां निर्वृतिं ययुः ॥ ह्व्_१८।३२ ॥

([क्: द्६ त्१।२ ग् ins.: :क्]) योगिनः परमात्मानः संयतेनान्तरात्मना । *ह्व्_१८।३२*३०८ । [चोलोफोन्]