विश्वास-प्रस्तुतिः
{मार्कण्डेय उवाच}
तस्मिन्न् अन्तर्हिते देवे
वचनात् तस्य वै विभो ।
चक्षुर् दिव्यं सविज्ञानं
प्रादुर् आसीन् ममानघ ॥ ह्व्_१५।१ ॥
मूलम्
{मार्कण्डेय उवाच}
तस्मिन्न् अन्तर्हिते देवे
वचनात् तस्य वै विभो ।
चक्षुर् दिव्यं सविज्ञानं
प्रादुर् आसीन् ममानघ ॥ ह्व्_१५।१ ॥
विश्वास-प्रस्तुतिः
ततो ऽहं तान् अपश्यं वै
ब्राह्मणान् कौशिकात्मजान् ।
आपगेय कुरुक्षेत्रे
यान् उवाच विभुर् मम ॥ ह्व्_१५।२ ॥
मूलम्
ततो ऽहं तान् अपश्यं वै
ब्राह्मणान् कौशिकात्मजान् ।
आपगेय कुरुक्षेत्रे
यान् उवाच विभुर् मम ॥ ह्व्_१५।२ ॥
विश्वास-प्रस्तुतिः
ब्रह्मदत्तो ऽभवद् राजा
यस् तेषां सप्तमो द्विजः ।
पितृवर्तीति विख्यातो
नाम्ना शीलेन कर्मणा ॥ ह्व्_१५।३ ॥
मूलम्
ब्रह्मदत्तो ऽभवद् राजा
यस् तेषां सप्तमो द्विजः ।
पितृवर्तीति विख्यातो
नाम्ना शीलेन कर्मणा ॥ ह्व्_१५।३ ॥
विश्वास-प्रस्तुतिः
शुकस्य कन्या कृत्वी तं
जनयाम् आस पार्थिवम् ।
अणुहात् पार्थिवश्रेष्ठात्
काम्पिल्ये नगरोत्तमे ॥ ह्व्_१५।४ ॥
मूलम्
शुकस्य कन्या कृत्वी तं
जनयाम् आस पार्थिवम् ।
अणुहात् पार्थिवश्रेष्ठात्
काम्पिल्ये नगरोत्तमे ॥ ह्व्_१५।४ ॥
विश्वास-प्रस्तुतिः
{युधिष्ठिर उवाच}
अणुहः कस्य वै पुत्रः
कस्मिन् काले बभूव ह ।
राजा धर्मभृतां श्रेष्ठो
यस्य पुत्रो महायशाः ॥ ह्व्_१५।५ ॥
मूलम्
{युधिष्ठिर उवाच}
अणुहः कस्य वै पुत्रः
कस्मिन् काले बभूव ह ।
राजा धर्मभृतां श्रेष्ठो
यस्य पुत्रो महायशाः ॥ ह्व्_१५।५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मदत्तो नरपतिः
किंवीर्यश् च बभूव ह ।
कथं च सप्तमस् तेषां
सम्बभूव नराधिपः ॥ ह्व्_१५।६ ॥
मूलम्
ब्रह्मदत्तो नरपतिः
किंवीर्यश् च बभूव ह ।
कथं च सप्तमस् तेषां
सम्बभूव नराधिपः ॥ ह्व्_१५।६ ॥
विश्वास-प्रस्तुतिः
न ह्य् अल्पवीर्याय शुको
भगवांल् लोकपूजितः ।
कन्यां प्रदद्याद् योगात्मा
कृत्वीं कीर्तिमतीं प्रभुः ॥ ह्व्_१५।७ ॥
मूलम्
न ह्य् अल्पवीर्याय शुको
भगवांल् लोकपूजितः ।
कन्यां प्रदद्याद् योगात्मा
कृत्वीं कीर्तिमतीं प्रभुः ॥ ह्व्_१५।७ ॥
विश्वास-प्रस्तुतिः
एतद् इच्छाम्य् अहं श्रोतुं
विस्तरेण महाद्युते ।
ब्रह्मदत्तस्य चरितं
तद् भवान् वक्तुम् अर्हति ॥ ह्व्_१५।८ ॥
मूलम्
एतद् इच्छाम्य् अहं श्रोतुं
विस्तरेण महाद्युते ।
ब्रह्मदत्तस्य चरितं
तद् भवान् वक्तुम् अर्हति ॥ ह्व्_१५।८ ॥
विश्वास-प्रस्तुतिः
यथा च वर्तमानास् ते
संसारेषु द्विजातयः ।
मार्कण्डेयेन कथितास्
तद् भवान् प्रब्रवीतु मे ॥ ह्व्_१५।९ ॥
मूलम्
यथा च वर्तमानास् ते
संसारेषु द्विजातयः ।
मार्कण्डेयेन कथितास्
तद् भवान् प्रब्रवीतु मे ॥ ह्व्_१५।९ ॥
विश्वास-प्रस्तुतिः
{भीष्म उवाच}
प्रतीपस्य स राजर्षे
तुल्यकालो नराधिपः ।
पितामहस्य मे राजन्
बभूवेति मया श्रुतम् ॥ ह्व्_१५।१० ॥
मूलम्
{भीष्म उवाच}
प्रतीपस्य स राजर्षे
तुल्यकालो नराधिपः ।
पितामहस्य मे राजन्
बभूवेति मया श्रुतम् ॥ ह्व्_१५।१० ॥
विश्वास-प्रस्तुतिः
ब्रह्मदत्तो महाराजो
योगी राजर्षिसत्तमः ।
रुतज्ञः सर्वभूतानां
सर्वभूतहिते रतः ॥ ह्व्_१५।११ ॥
मूलम्
ब्रह्मदत्तो महाराजो
योगी राजर्षिसत्तमः ।
रुतज्ञः सर्वभूतानां
सर्वभूतहिते रतः ॥ ह्व्_१५।११ ॥
विश्वास-प्रस्तुतिः
सखा हि गालवो यस्य
योगाचार्यो महायशाः ।
शिक्षां उत्पाद्य तपसा
क्रमो येन प्रवर्तितः ॥
मूलम्
सखा हि गालवो यस्य
योगाचार्यो महायशाः ।
शिक्षां उत्पाद्य तपसा
क्रमो येन प्रवर्तितः ॥
विश्वास-प्रस्तुतिः
कण्डरीकश् च योगात्मा
तस्यैव सचिवो ऽभवत् ॥ ह्व्_१५।१२ ॥
मूलम्
कण्डरीकश् च योगात्मा
तस्यैव सचिवो ऽभवत् ॥ ह्व्_१५।१२ ॥
विश्वास-प्रस्तुतिः
जात्यन्तरेषु सर्वेषु
सहायाः सर्व एव ते ।
सप्तजातिषु सप्तैव
बभूवुर् अमितौजसः ॥
मूलम्
जात्यन्तरेषु सर्वेषु
सहायाः सर्व एव ते ।
सप्तजातिषु सप्तैव
बभूवुर् अमितौजसः ॥
विश्वास-प्रस्तुतिः
यथोवाच महातेजा
मार्कण्डेयो महातपाः ॥ ह्व्_१५।१३ ॥
मूलम्
यथोवाच महातेजा
मार्कण्डेयो महातपाः ॥ ह्व्_१५।१३ ॥
विश्वास-प्रस्तुतिः
तस्य वंशम् अहं राजन्
कीर्तयिष्यामि तच् छृणु ।
ब्रह्मदत्तस्य पौराणं
पौरवस्य महात्मनः ॥ ह्व्_१५।१४ ॥
मूलम्
तस्य वंशम् अहं राजन्
कीर्तयिष्यामि तच् छृणु ।
ब्रह्मदत्तस्य पौराणं
पौरवस्य महात्मनः ॥ ह्व्_१५।१४ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।४ Ñ३ व् ब्१।२ द्स् द्२-६ म्४ ins. after १४, Ñ२ ब्३ after १५अब्: :क्])
बृहत्क्षत्रस्य दायादः
सुहोत्रो नाम धार्मिकः । ह्व्_१५।१४२८४:१ ।
सुहोत्रस्यापि दायादो
हस्ती नाम बभूव ह । ह्व्_१५।१४२८४:२ ।
तेनेदं निर्मितं पूर्वं
पुरं वै हस्तिनापुरम् ॥ ह्व्_१५।१४२८४:३ ।
मूलम्
([क्: क्१।४ Ñ३ व् ब्१।२ द्स् द्२-६ म्४ ins. after १४, Ñ२ ब्३ after १५अब्: :क्])
बृहत्क्षत्रस्य दायादः
सुहोत्रो नाम धार्मिकः । ह्व्_१५।१४२८४:१ ।
सुहोत्रस्यापि दायादो
हस्ती नाम बभूव ह । ह्व्_१५।१४२८४:२ ।
तेनेदं निर्मितं पूर्वं
पुरं वै हस्तिनापुरम् ॥ ह्व्_१५।१४२८४:३ ।
विश्वास-प्रस्तुतिः
हस्तिनश् चापि दायादास्
त्रयः परमधार्मिकाः । ह्व्_१५।१४२८४:४ ।
अजमीढो द्विमीढश् च
पुरमीढस् तथैव च । ह्व्_१५।१४२८४:५ ।
अजमीढस्य धूमिन्यां
जज्ञे बृहदिषुर् नृप । ह्व्_१५।१४२८४:६ ।
पुरुमित्रस्य दायादो
राजा बृहदिषुर् नृप ।
बृहद्धनुर् बृहदिषोः
पुत्रस् तस्य महायशाः ॥
मूलम्
हस्तिनश् चापि दायादास्
त्रयः परमधार्मिकाः । ह्व्_१५।१४२८४:४ ।
अजमीढो द्विमीढश् च
पुरमीढस् तथैव च । ह्व्_१५।१४२८४:५ ।
अजमीढस्य धूमिन्यां
जज्ञे बृहदिषुर् नृप । ह्व्_१५।१४२८४:६ ।
पुरुमित्रस्य दायादो
राजा बृहदिषुर् नृप ।
बृहद्धनुर् बृहदिषोः
पुत्रस् तस्य महायशाः ॥
विश्वास-प्रस्तुतिः
([क्: त्३ सुब्स्त्। फ़ोर् १५cd: :क्])
आसीद् बृहदिषोः पुत्रो
बृहद्धर्मेति विश्रुतः । ह्व्_१५।१५२८५ ।
बृहद्धर्मेति विख्यातो
राजा परमधार्मिकः ॥ ह्व्_१५।१५ ॥
मूलम्
([क्: त्३ सुब्स्त्। फ़ोर् १५cd: :क्])
आसीद् बृहदिषोः पुत्रो
बृहद्धर्मेति विश्रुतः । ह्व्_१५।१५२८५ ।
बृहद्धर्मेति विख्यातो
राजा परमधार्मिकः ॥ ह्व्_१५।१५ ॥
विश्वास-प्रस्तुतिः
सत्यजित् तस्य तनयो
विश्वजित् तस्य चात्मजः ।
पुत्रो विश्वजितश् चापि
सेनजित् पृथिवीपतिः ॥ ह्व्_१५।१६ ॥
मूलम्
सत्यजित् तस्य तनयो
विश्वजित् तस्य चात्मजः ।
पुत्रो विश्वजितश् चापि
सेनजित् पृथिवीपतिः ॥ ह्व्_१५।१६ ॥
विश्वास-प्रस्तुतिः
पुत्राः सेनजितश् चासंश्
चत्वारो लोकसम्मताः ।
रुचिरः श्वेतकाश्यश् च
महिम्नारस् तथैव च ॥
मूलम्
पुत्राः सेनजितश् चासंश्
चत्वारो लोकसम्मताः ।
रुचिरः श्वेतकाश्यश् च
महिम्नारस् तथैव च ॥
विश्वास-प्रस्तुतिः
वत्सश् चावन्तको राजा
यस्यैते परि वत्सकाः ॥ ह्व्_१५।१७ ॥
मूलम्
वत्सश् चावन्तको राजा
यस्यैते परि वत्सकाः ॥ ह्व्_१५।१७ ॥
विश्वास-प्रस्तुतिः
रुचिरस्य तु दायादः
पृथुषेणो महायशाः ।
पृथुषेणस्य पारस् तु
पारान् नीपो ऽथ जज्ञिवान् ॥ ह्व्_१५।१८ ॥
मूलम्
रुचिरस्य तु दायादः
पृथुषेणो महायशाः ।
पृथुषेणस्य पारस् तु
पारान् नीपो ऽथ जज्ञिवान् ॥ ह्व्_१५।१८ ॥
विश्वास-प्रस्तुतिः
([क्: द्४ ins.: :क्])
पारस्य तनयः श्रीमान्
नीपो नाम महायशाः । ह्व्_१५।१८२८६ ।
नीपस्यैकशतं तात
पुत्राणाम् अमितौजसाम् ।
महारथानां राजेन्द्र
शूराणां बाहुशालिनाम् ॥
मूलम्
([क्: द्४ ins.: :क्])
पारस्य तनयः श्रीमान्
नीपो नाम महायशाः । ह्व्_१५।१८२८६ ।
नीपस्यैकशतं तात
पुत्राणाम् अमितौजसाम् ।
महारथानां राजेन्द्र
शूराणां बाहुशालिनाम् ॥
विश्वास-प्रस्तुतिः
नीपा इति समाख्याता
राजानः सर्व एव ते ॥ ह्व्_१५।१९ ॥
मूलम्
नीपा इति समाख्याता
राजानः सर्व एव ते ॥ ह्व्_१५।१९ ॥
विश्वास-प्रस्तुतिः
तेषां वंशकरो राजा
नीपानां कीर्तिवर्धनः ।
काम्पिल्ये समरो नाम
स चेष्टसमरो ऽभवत् ॥ ह्व्_१५।२० ॥
मूलम्
तेषां वंशकरो राजा
नीपानां कीर्तिवर्धनः ।
काम्पिल्ये समरो नाम
स चेष्टसमरो ऽभवत् ॥ ह्व्_१५।२० ॥
विश्वास-प्रस्तुतिः
समरस्य पुरः पारः
सदश्व इति ते त्रयः ।
पुत्राः परमधर्मज्ञाः
पारपुत्रः पृथुर् बभौ ॥ ह्व्_१५।२१ ॥
मूलम्
समरस्य पुरः पारः
सदश्व इति ते त्रयः ।
पुत्राः परमधर्मज्ञाः
पारपुत्रः पृथुर् बभौ ॥ ह्व्_१५।२१ ॥
विश्वास-प्रस्तुतिः
पृथोस् तु सुकृतो नाम
सुकृतेनेह कर्मणा ।
जज्ञे सर्वगुणोपेतो
विभ्राजस् तस्य चात्मजः ॥ ह्व्_१५।२२ ॥
मूलम्
पृथोस् तु सुकृतो नाम
सुकृतेनेह कर्मणा ।
जज्ञे सर्वगुणोपेतो
विभ्राजस् तस्य चात्मजः ॥ ह्व्_१५।२२ ॥
विश्वास-प्रस्तुतिः
विभ्राजस्य तु पुत्रो ऽभूद्
अणुहो नाम पार्थिवः ।
बभौ शुकस्य जामाता
कृत्वीभर्ता महायशाः ॥ ह्व्_१५।२३ ॥
मूलम्
विभ्राजस्य तु पुत्रो ऽभूद्
अणुहो नाम पार्थिवः ।
बभौ शुकस्य जामाता
कृत्वीभर्ता महायशाः ॥ ह्व्_१५।२३ ॥
विश्वास-प्रस्तुतिः
पुत्रो ऽणुहस्य राजर्षिर्
ब्रह्मदत्तो ऽभवत् प्रभुः ।
योगात्मा तस्य तनयो
विष्वक्सेनः परन्तपः ॥ ह्व्_१५।२४ ॥
मूलम्
पुत्रो ऽणुहस्य राजर्षिर्
ब्रह्मदत्तो ऽभवत् प्रभुः ।
योगात्मा तस्य तनयो
विष्वक्सेनः परन्तपः ॥ ह्व्_१५।२४ ॥
विश्वास-प्रस्तुतिः
विभ्राजः पुनर् आजातः
सुकृतेनेह कर्मणा ।
ब्रह्मदत्तस्य तनयो
विष्वक्सेन इति श्रुतः ॥ ह्व्_१५।२५ ॥
मूलम्
विभ्राजः पुनर् आजातः
सुकृतेनेह कर्मणा ।
ब्रह्मदत्तस्य तनयो
विष्वक्सेन इति श्रुतः ॥ ह्व्_१५।२५ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।३।४ Ñ२।३ व् ब् द्न् द्स् द्१।३-६ त् ग् ins. after २५, क्२ after २४: :क्])
चक्षुषी तस्य निर्भिन्ने
पक्षिण्या पूजनीयया । ह्व्_१५।२५२८७:१ ।
सुचिरोषितया राजन्
ब्रह्मदत्तस्य वेश्मनि । ह्व्_१५।२५२८७:२ ।
([क्: क्४ Ñ२।३ व् ब् द्न् द्स् द्४।६ ग्३ चोन्त्।: :क्])
अथास्य पुत्रस् त्व् अपरो
ब्रह्मदत्तस्य जज्ञिवान् । ह्व्_१५।२५२८८:१ ।
विष्वक्सेन इति ख्यातो
महाबलपराक्रमः । ह्व्_१५।२५२८८:२ ।
विष्वक्सेनस्य पुत्रो ऽभूद्
दण्डसेनो महीपतिः ।
भल्लाटश् च कुमारो ऽभूद्
राधेयेन हतः पुरा ॥ ह्व्_१५।२६ ॥
मूलम्
([क्: क्१।३।४ Ñ२।३ व् ब् द्न् द्स् द्१।३-६ त् ग् ins. after २५, क्२ after २४: :क्])
चक्षुषी तस्य निर्भिन्ने
पक्षिण्या पूजनीयया । ह्व्_१५।२५२८७:१ ।
सुचिरोषितया राजन्
ब्रह्मदत्तस्य वेश्मनि । ह्व्_१५।२५२८७:२ ।
([क्: क्४ Ñ२।३ व् ब् द्न् द्स् द्४।६ ग्३ चोन्त्।: :क्])
अथास्य पुत्रस् त्व् अपरो
ब्रह्मदत्तस्य जज्ञिवान् । ह्व्_१५।२५२८८:१ ।
विष्वक्सेन इति ख्यातो
महाबलपराक्रमः । ह्व्_१५।२५२८८:२ ।
विष्वक्सेनस्य पुत्रो ऽभूद्
दण्डसेनो महीपतिः ।
भल्लाटश् च कुमारो ऽभूद्
राधेयेन हतः पुरा ॥ ह्व्_१५।२६ ॥
विश्वास-प्रस्तुतिः
दण्डसेनात्मजः शूरो
महात्मा कुलवर्धनः ।
भल्लाटपुत्रो दुर्बुद्धिर्
अभवज् जनमेजयः ॥ ह्व्_१५।२७ ॥
मूलम्
दण्डसेनात्मजः शूरो
महात्मा कुलवर्धनः ।
भल्लाटपुत्रो दुर्बुद्धिर्
अभवज् जनमेजयः ॥ ह्व्_१५।२७ ॥
विश्वास-प्रस्तुतिः
स तेषाम् अभवद् राजा
नीपानाम् अन्तकृन् नृपः ।
उग्रायुधेन यस्यार्थे
सर्वे नीपा विनाशिताः ॥ ह्व्_१५।२८ ॥
मूलम्
स तेषाम् अभवद् राजा
नीपानाम् अन्तकृन् नृपः ।
उग्रायुधेन यस्यार्थे
सर्वे नीपा विनाशिताः ॥ ह्व्_१५।२८ ॥
विश्वास-प्रस्तुतिः
उग्रायुधः स चोत्सिक्तो
मया विनिहतो युधि ।
दर्पान्वितो दर्परुचिः
सततं चानये रतः ॥ ह्व्_१५।२९ ॥
मूलम्
उग्रायुधः स चोत्सिक्तो
मया विनिहतो युधि ।
दर्पान्वितो दर्परुचिः
सततं चानये रतः ॥ ह्व्_१५।२९ ॥
विश्वास-प्रस्तुतिः
{युधिष्ठिर उवाच}
उग्रायुधः कस्य सुतः
कस्मिन् वंशे ऽथ जज्ञिवान् ।
किमर्थं चैव भवता
निहतस् तद् ब्रवीहि मे ॥ ह्व्_१५।३० ॥
मूलम्
{युधिष्ठिर उवाच}
उग्रायुधः कस्य सुतः
कस्मिन् वंशे ऽथ जज्ञिवान् ।
किमर्थं चैव भवता
निहतस् तद् ब्रवीहि मे ॥ ह्व्_१५।३० ॥
विश्वास-प्रस्तुतिः
{भीष्म उवाच}
अजमीढस्य दायादो
विद्वान् राजा यवीनरः ।
धृतिमांस् तस्य पुत्रस् तु
तस्य सत्यधृतिः सुतः ॥ ह्व्_१५।३१ ॥
मूलम्
{भीष्म उवाच}
अजमीढस्य दायादो
विद्वान् राजा यवीनरः ।
धृतिमांस् तस्य पुत्रस् तु
तस्य सत्यधृतिः सुतः ॥ ह्व्_१५।३१ ॥
विश्वास-प्रस्तुतिः
जज्ञे सत्यधृतेः पुत्रो
दृढनेमिः प्रतापवान् ।
दृढनेमिसुतश् चापि
सुधर्मा नाम पार्थिवः ॥ ह्व्_१५।३२ ॥
मूलम्
जज्ञे सत्यधृतेः पुत्रो
दृढनेमिः प्रतापवान् ।
दृढनेमिसुतश् चापि
सुधर्मा नाम पार्थिवः ॥ ह्व्_१५।३२ ॥
विश्वास-प्रस्तुतिः
आसीत् सुधर्मणः पुत्रः
सार्वभौमः प्रजेश्वरः ।
सार्वभौम इति ख्यातः
पृथिव्यां एकराट् तदा ॥ ह्व्_१५।३३ ॥
मूलम्
आसीत् सुधर्मणः पुत्रः
सार्वभौमः प्रजेश्वरः ।
सार्वभौम इति ख्यातः
पृथिव्यां एकराट् तदा ॥ ह्व्_१५।३३ ॥
विश्वास-प्रस्तुतिः
तस्यान्ववाये महति
महान् पौरवनन्दनः ।
([क्: क्२-४ Ñ२।३ व् ब् द् त् ग् म्४ ins. after ३४अब्, क्१ after ३४cd: :क्])
महतश् चापि पुत्रस् तु
नाम्ना रुक्मरथः स्मृतः ॥ ह्व्_१५।३४२८९:१ ।
मूलम्
तस्यान्ववाये महति
महान् पौरवनन्दनः ।
([क्: क्२-४ Ñ२।३ व् ब् द् त् ग् म्४ ins. after ३४अब्, क्१ after ३४cd: :क्])
महतश् चापि पुत्रस् तु
नाम्ना रुक्मरथः स्मृतः ॥ ह्व्_१५।३४२८९:१ ।
विश्वास-प्रस्तुतिः
पुत्रो रुक्मरथस्यापि
सुपार्श्वो नाम पार्थिवः । ह्व्_१५।३४२८९:२ ।
सुपार्श्वतनयश् चापि
सुमतिर् नाम धार्मिकः । ह्व्_१५।३४२८९:३ ।
जज्ञे सन्नतिमान् राजा
सन्नतिर् नाम वीर्यवान् ॥ ह्व्_१५।३४ ॥
मूलम्
पुत्रो रुक्मरथस्यापि
सुपार्श्वो नाम पार्थिवः । ह्व्_१५।३४२८९:२ ।
सुपार्श्वतनयश् चापि
सुमतिर् नाम धार्मिकः । ह्व्_१५।३४२८९:३ ।
जज्ञे सन्नतिमान् राजा
सन्नतिर् नाम वीर्यवान् ॥ ह्व्_१५।३४ ॥
विश्वास-प्रस्तुतिः
तस्य वै सन्नतेः पुत्रः
कार्तो नाम महाबलः ।
([क्: न् (एxचेप्त् श्१ Ñ१ द्१।२) स् ins.: :क्])
शिष्यो हिरण्यनाभस्य
कौसल्यस्य महात्मनः । ह्व्_१५।३५२९०:१ ।
चतुर्विंशतिधा तेन
प्रोक्तास् ताः सामसंहिताः । ह्व्_१५।३५२९०:२ ।
स्मृतास् ते प्राच्यसामानः
कार्ता नाम्ना तु सामगाः ॥ ह्व्_१५।३५२९०:३ ।
मूलम्
तस्य वै सन्नतेः पुत्रः
कार्तो नाम महाबलः ।
([क्: न् (एxचेप्त् श्१ Ñ१ द्१।२) स् ins.: :क्])
शिष्यो हिरण्यनाभस्य
कौसल्यस्य महात्मनः । ह्व्_१५।३५२९०:१ ।
चतुर्विंशतिधा तेन
प्रोक्तास् ताः सामसंहिताः । ह्व्_१५।३५२९०:२ ।
स्मृतास् ते प्राच्यसामानः
कार्ता नाम्ना तु सामगाः ॥ ह्व्_१५।३५२९०:३ ।
विश्वास-प्रस्तुतिः
कार्तिर् उग्रायुधः सो ऽथ
वीरः पौरवनन्दनः । ह्व्_१५।३५२९०:४ ।
बभूव येन विक्रम्य
पृषतस्य पितामहः ॥
मूलम्
कार्तिर् उग्रायुधः सो ऽथ
वीरः पौरवनन्दनः । ह्व्_१५।३५२९०:४ ।
बभूव येन विक्रम्य
पृषतस्य पितामहः ॥
विश्वास-प्रस्तुतिः
नीपो नाम महाराज
पाञ्चालाधिपतिर् हतः ॥ ह्व्_१५।३५ ॥
मूलम्
नीपो नाम महाराज
पाञ्चालाधिपतिर् हतः ॥ ह्व्_१५।३५ ॥
विश्वास-प्रस्तुतिः
([क्: क्१-३ Ñ२।३ व् ब् द्न् द्स् द्३-६ त् ग् म्४ ins.: :क्])
उग्रायुधस्य दायादः
क्षेम्यो नाम महायशाः ॥ ह्व्_१५।३५२९१:१ ।
मूलम्
([क्: क्१-३ Ñ२।३ व् ब् द्न् द्स् द्३-६ त् ग् म्४ ins.: :क्])
उग्रायुधस्य दायादः
क्षेम्यो नाम महायशाः ॥ ह्व्_१५।३५२९१:१ ।
विश्वास-प्रस्तुतिः
क्षेम्यात् सुवीरो नृपतिः
सुवीरात् तु नृपञ्जयः । ह्व्_१५।३५२९१:२ ।
नृपञ्जयाद् बहुरथ
इत्य् एते पौरवाः स्मृताः । ह्व्_१५।३५२९१:३ ।
स चाप्य् उग्रायुधस् तात
दुर्बुद्धिर् वैरकृत् सदा ।
प्रदीप्तचक्रो बलवान्
नीपान्तकरणो ऽभवत् ॥ ह्व्_१५।३६ ॥
मूलम्
क्षेम्यात् सुवीरो नृपतिः
सुवीरात् तु नृपञ्जयः । ह्व्_१५।३५२९१:२ ।
नृपञ्जयाद् बहुरथ
इत्य् एते पौरवाः स्मृताः । ह्व्_१५।३५२९१:३ ।
स चाप्य् उग्रायुधस् तात
दुर्बुद्धिर् वैरकृत् सदा ।
प्रदीप्तचक्रो बलवान्
नीपान्तकरणो ऽभवत् ॥ ह्व्_१५।३६ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ ins.: :क्])
उग्रायुधस् तु दुर्बुद्धिः
स्त्रैणो दुष्टः सदाभवत् । ह्व्_१५।३६२९२:१ ।
राजकन्यां जहाराथ
मुनिपत्नीप्रधर्षकः । ह्व्_१५।३६२९२:२ ।
स दर्पपूर्णो हत्वाजौ
नीपान् अन्यांश् च पार्थिवान् ।
पितर्य् उपरते मह्यं
श्रावयाम् आस किल्बिषम् ॥ ह्व्_१५।३७ ॥
मूलम्
([क्: द्६ ins.: :क्])
उग्रायुधस् तु दुर्बुद्धिः
स्त्रैणो दुष्टः सदाभवत् । ह्व्_१५।३६२९२:१ ।
राजकन्यां जहाराथ
मुनिपत्नीप्रधर्षकः । ह्व्_१५।३६२९२:२ ।
स दर्पपूर्णो हत्वाजौ
नीपान् अन्यांश् च पार्थिवान् ।
पितर्य् उपरते मह्यं
श्रावयाम् आस किल्बिषम् ॥ ह्व्_१५।३७ ॥
विश्वास-प्रस्तुतिः
माम् अमात्यैः परिवृतं
शयानं धरणीतले ।
उग्रायुधस्य राजेन्द्र
दूतो ऽभ्येत्य वयो ऽब्रवीत् ॥ ह्व्_१५।३८ ॥
मूलम्
माम् अमात्यैः परिवृतं
शयानं धरणीतले ।
उग्रायुधस्य राजेन्द्र
दूतो ऽभ्येत्य वयो ऽब्रवीत् ॥ ह्व्_१५।३८ ॥
विश्वास-प्रस्तुतिः
अद्य त्वं जननीं भीष्म
गन्धकालीं यशस्विनीं ।
स्त्रीरत्नं मम भार्यार्थे
प्रयच्छ कुरुपुङ्गव ॥ ह्व्_१५।३९ ॥
मूलम्
अद्य त्वं जननीं भीष्म
गन्धकालीं यशस्विनीं ।
स्त्रीरत्नं मम भार्यार्थे
प्रयच्छ कुरुपुङ्गव ॥ ह्व्_१५।३९ ॥
विश्वास-प्रस्तुतिः
एवं राज्यं च ते स्फीतं
बलानि च न संशयः ।
([क्: म्१-३ ins. after ४०अ: :क्])
त्वया राज्ये च ते स्थितिम् । ह्व्_१५।४०अ२९३:१ ।*
चतुरङ्गयुतान्य् अद्य । ह्व्_१५।४०अ२९३:२ ।*
प्रदास्यामि यथाकामम्
अहं वै रत्नभाग् भुवि ॥ ह्व्_१५।४० ॥
मूलम्
एवं राज्यं च ते स्फीतं
बलानि च न संशयः ।
([क्: म्१-३ ins. after ४०अ: :क्])
त्वया राज्ये च ते स्थितिम् । ह्व्_१५।४०अ२९३:१ ।*
चतुरङ्गयुतान्य् अद्य । ह्व्_१५।४०अ२९३:२ ।*
प्रदास्यामि यथाकामम्
अहं वै रत्नभाग् भुवि ॥ ह्व्_१५।४० ॥
विश्वास-प्रस्तुतिः
राष्ट्रस्येच्छसि चेत् स्वस्ति
प्राणानां वा कुलस्य वा ।
शासने मम तिष्ठस्व
न हि ते शान्तिर् अन्यथा ॥ ह्व्_१५।४१ ॥
मूलम्
राष्ट्रस्येच्छसि चेत् स्वस्ति
प्राणानां वा कुलस्य वा ।
शासने मम तिष्ठस्व
न हि ते शान्तिर् अन्यथा ॥ ह्व्_१५।४१ ॥
विश्वास-प्रस्तुतिः
अधः प्रस्तारशयने
शयानस् तेन चोदितः ।
दूतान्तरितम् एतद् वै
वाक्यम् अग्निशिखोपमम् ॥ ह्व्_१५।४२ ॥
मूलम्
अधः प्रस्तारशयने
शयानस् तेन चोदितः ।
दूतान्तरितम् एतद् वै
वाक्यम् अग्निशिखोपमम् ॥ ह्व्_१५।४२ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१।२ ग्१।३।५ ins.: :क्])
शरीरं मे ऽदहत् तस्य
वाक्यं चैतद् दुरात्मनः । ह्व्_१५।४२२९४ ।
ततो ऽहं तस्य दुर्बुद्धेर्
विज्ञाय मतम् अच्युत ।
आज्ञप्तवान् वै सङ्ग्रामे
सेनाध्यक्षांश् च सर्वशः ॥ ह्व्_१५।४३ ॥
मूलम्
([क्: द्६ त्१।२ ग्१।३।५ ins.: :क्])
शरीरं मे ऽदहत् तस्य
वाक्यं चैतद् दुरात्मनः । ह्व्_१५।४२२९४ ।
ततो ऽहं तस्य दुर्बुद्धेर्
विज्ञाय मतम् अच्युत ।
आज्ञप्तवान् वै सङ्ग्रामे
सेनाध्यक्षांश् च सर्वशः ॥ ह्व्_१५।४३ ॥
विश्वास-प्रस्तुतिः
मम प्रज्वलितं चक्रं
निशाम्यैतत् सुदुर्जयम् ।
शत्रवो विद्रवन्त्य् आजौ
दर्शनाद् एव भारत ॥ ह्व्_१५।४४ ॥
मूलम्
मम प्रज्वलितं चक्रं
निशाम्यैतत् सुदुर्जयम् ।
शत्रवो विद्रवन्त्य् आजौ
दर्शनाद् एव भारत ॥ ह्व्_१५।४४ ॥
विश्वास-प्रस्तुतिः
विचित्रवीर्यं बालं च
मदपाश्रयम् एव च ।
दृष्ट्वा क्रोधपरीतात्मा
युद्धायैव मनो दधे ॥ ह्व्_१५।४५ ॥
मूलम्
विचित्रवीर्यं बालं च
मदपाश्रयम् एव च ।
दृष्ट्वा क्रोधपरीतात्मा
युद्धायैव मनो दधे ॥ ह्व्_१५।४५ ॥
विश्वास-प्रस्तुतिः
निगृहीतस् तदाहं तु
सचिवैर् मन्त्रकोविदैः ।
ऋत्विग्भिर् देवकल्पैश् च
सुहृद्भिर् नरपुङ्गव ॥ ह्व्_१५।४६ ॥
मूलम्
निगृहीतस् तदाहं तु
सचिवैर् मन्त्रकोविदैः ।
ऋत्विग्भिर् देवकल्पैश् च
सुहृद्भिर् नरपुङ्गव ॥ ह्व्_१५।४६ ॥
विश्वास-प्रस्तुतिः
स्निग्धैश् च शास्त्रविद्भिश् च
संयुगस्य निवर्तने ।
कारणं श्रावितश् चास्मि
युक्तरूपं तदानघ ॥ ह्व्_१५।४७ ॥
मूलम्
स्निग्धैश् च शास्त्रविद्भिश् च
संयुगस्य निवर्तने ।
कारणं श्रावितश् चास्मि
युक्तरूपं तदानघ ॥ ह्व्_१५।४७ ॥
विश्वास-प्रस्तुतिः
{मन्त्रिण ऊचुः}
प्रवृत्तचक्रः पापो ऽसौ
त्वं चाशौचगतः प्रभो ।
न चैष प्रथमः कल्पो
युद्धं नाम कदाचन ॥ ह्व्_१५।४८ ॥
मूलम्
{मन्त्रिण ऊचुः}
प्रवृत्तचक्रः पापो ऽसौ
त्वं चाशौचगतः प्रभो ।
न चैष प्रथमः कल्पो
युद्धं नाम कदाचन ॥ ह्व्_१५।४८ ॥
विश्वास-प्रस्तुतिः
ते वयं साम पूर्वं वै
दानं भेदं तथैव च ।
प्रयोक्ष्यामस् ततः शुद्धो
दैवतान्य् अभिवाद्य च ॥ ह्व्_१५।४९ ॥
मूलम्
ते वयं साम पूर्वं वै
दानं भेदं तथैव च ।
प्रयोक्ष्यामस् ततः शुद्धो
दैवतान्य् अभिवाद्य च ॥ ह्व्_१५।४९ ॥
विश्वास-प्रस्तुतिः
कृतस्वस्त्ययनो विप्रैर्
हुत्वाग्नीन् वाच्य च द्विजान् ।
ब्राह्मणैर् अभ्यनुज्ञातः
प्रयास्यसि जयाय वै ॥ ह्व्_१५।५० ॥
मूलम्
कृतस्वस्त्ययनो विप्रैर्
हुत्वाग्नीन् वाच्य च द्विजान् ।
ब्राह्मणैर् अभ्यनुज्ञातः
प्रयास्यसि जयाय वै ॥ ह्व्_१५।५० ॥
विश्वास-प्रस्तुतिः
अस्त्राणि न प्रयोज्यानि
न प्रवेश्यश् च सङ्गरः ।
आशौचे वर्तमानेन
वृद्धानाम् इति शासनम् ॥ ह्व्_१५।५१ ॥
मूलम्
अस्त्राणि न प्रयोज्यानि
न प्रवेश्यश् च सङ्गरः ।
आशौचे वर्तमानेन
वृद्धानाम् इति शासनम् ॥ ह्व्_१५।५१ ॥
विश्वास-प्रस्तुतिः
सामदानादिभिः पूर्वम्
अपि भेदेन वा ततः ।
तं हनिष्यसि विक्रम्य
शम्बरं मघवान् इव ॥ ह्व्_१५।५२ ॥
मूलम्
सामदानादिभिः पूर्वम्
अपि भेदेन वा ततः ।
तं हनिष्यसि विक्रम्य
शम्बरं मघवान् इव ॥ ह्व्_१५।५२ ॥
विश्वास-प्रस्तुतिः
प्राज्ञानां वचनं काले
वृद्धानां च विशेषतः ।
श्रोतव्यम् इति तच् छ्रुत्वा
निवृत्तो ऽस्मि नराधिप ॥ ह्व्_१५।५३ ॥
मूलम्
प्राज्ञानां वचनं काले
वृद्धानां च विशेषतः ।
श्रोतव्यम् इति तच् छ्रुत्वा
निवृत्तो ऽस्मि नराधिप ॥ ह्व्_१५।५३ ॥
विश्वास-प्रस्तुतिः
ततस् तैः स क्रमः सर्वः
प्रयुक्तः शास्त्रकोविदैः ।
तस्मिन् काले कुरुश्रेष्ठ
कर्म चारब्धम् उत्तमम् ॥ ह्व्_१५।५४ ॥
मूलम्
ततस् तैः स क्रमः सर्वः
प्रयुक्तः शास्त्रकोविदैः ।
तस्मिन् काले कुरुश्रेष्ठ
कर्म चारब्धम् उत्तमम् ॥ ह्व्_१५।५४ ॥
विश्वास-प्रस्तुतिः
स सामादिभिर् अप्य् आदाव्
उपायैः शास्त्रचिन्तकैः ।
अनुनीयमानो दुर्बुद्धिर्
अनुनेतुं न शक्यते ॥ ह्व्_१५।५५ ॥
मूलम्
स सामादिभिर् अप्य् आदाव्
उपायैः शास्त्रचिन्तकैः ।
अनुनीयमानो दुर्बुद्धिर्
अनुनेतुं न शक्यते ॥ ह्व्_१५।५५ ॥
विश्वास-प्रस्तुतिः
प्रवृत्तं तस्य तच् चक्रम्
अधर्मनिरतस्य वै ।
परदाराभिलाषेण
सद्यस् तात निवर्तितम् ॥ ह्व्_१५।५६ ॥
मूलम्
प्रवृत्तं तस्य तच् चक्रम्
अधर्मनिरतस्य वै ।
परदाराभिलाषेण
सद्यस् तात निवर्तितम् ॥ ह्व्_१५।५६ ॥
विश्वास-प्रस्तुतिः
([क्: क्३ ins.: :क्])
न हीदृशम् अनायुष्यं
लोके किञ्चन विद्यते । ह्व्_१५।५६२९५:१ ।
यादृशं पुरुषस्येह
परदारोपसेवनम् । ह्व्_१५।५६२९५:२ ।
न त्व् अहं तस्य जाने वै
निवृत्तं चक्रम् उत्तमम् ।
हतं स्वकर्मणा तत् तु
पूर्वं सद्भिश् च निन्दितम् ॥ ह्व्_१५।५७ ॥
मूलम्
([क्: क्३ ins.: :क्])
न हीदृशम् अनायुष्यं
लोके किञ्चन विद्यते । ह्व्_१५।५६२९५:१ ।
यादृशं पुरुषस्येह
परदारोपसेवनम् । ह्व्_१५।५६२९५:२ ।
न त्व् अहं तस्य जाने वै
निवृत्तं चक्रम् उत्तमम् ।
हतं स्वकर्मणा तत् तु
पूर्वं सद्भिश् च निन्दितम् ॥ ह्व्_१५।५७ ॥
विश्वास-प्रस्तुतिः
कृतशौचः शरावापी
रथी निष्क्रम्य वै पुरात् ।
कृतस्वस्त्ययनो विप्रैः
प्रायोधयम् अहं रिपुम् ॥ ह्व्_१५।५८ ॥
मूलम्
कृतशौचः शरावापी
रथी निष्क्रम्य वै पुरात् ।
कृतस्वस्त्ययनो विप्रैः
प्रायोधयम् अहं रिपुम् ॥ ह्व्_१५।५८ ॥
विश्वास-प्रस्तुतिः
ततः संसर्गम् आगम्य
बलेनास्त्रबलेन च ।
त्र्यहम् उन्मत्तवद् युद्धं
देवासुरम् इवाभवत् ॥ ह्व्_१५।५९ ॥
मूलम्
ततः संसर्गम् आगम्य
बलेनास्त्रबलेन च ।
त्र्यहम् उन्मत्तवद् युद्धं
देवासुरम् इवाभवत् ॥ ह्व्_१५।५९ ॥
विश्वास-प्रस्तुतिः
स मयास्त्रप्रतापेन
निर्दग्धो रणमूर्धनि ।
पपाताभिमुखः शूरस्
त्यक्त्वा प्राणान् अरिन्दम ॥ ह्व्_१५।६० ॥
मूलम्
स मयास्त्रप्रतापेन
निर्दग्धो रणमूर्धनि ।
पपाताभिमुखः शूरस्
त्यक्त्वा प्राणान् अरिन्दम ॥ ह्व्_१५।६० ॥
विश्वास-प्रस्तुतिः
एतस्मिन्न् अन्तरे तात
काम्पिल्यात् पृषतो ऽभ्ययात् ।
हते नीपेश्वरे चैव
हते चोग्रायुधे नृपे ॥ ह्व्_१५।६१ ॥
मूलम्
एतस्मिन्न् अन्तरे तात
काम्पिल्यात् पृषतो ऽभ्ययात् ।
हते नीपेश्वरे चैव
हते चोग्रायुधे नृपे ॥ ह्व्_१५।६१ ॥
विश्वास-प्रस्तुतिः
आहिच्छत्रं स्वकं राज्यं
पित्र्यं प्राप्य महाद्युतिः ।
द्रुपदस्य पिता राजन्
ममैवानुमते तदा ॥ ह्व्_१५।६२ ॥
मूलम्
आहिच्छत्रं स्वकं राज्यं
पित्र्यं प्राप्य महाद्युतिः ।
द्रुपदस्य पिता राजन्
ममैवानुमते तदा ॥ ह्व्_१५।६२ ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२ द्स् ins.: :क्])
ततो ऽभूद् द्रुपदो राजा
द्रोणस् तेन निराकृतः । ह्व्_१५।६२२९६ ।
ततो ऽर्जुनेन तरसा
निर्जित्य द्रुपदं रणे ।
अहिच्छत्रं सकाम्पिल्यं
द्रोणायाथापवर्जितम् ॥ ह्व्_१५।६३ ॥
मूलम्
([क्: Ñ२ द्स् ins.: :क्])
ततो ऽभूद् द्रुपदो राजा
द्रोणस् तेन निराकृतः । ह्व्_१५।६२२९६ ।
ततो ऽर्जुनेन तरसा
निर्जित्य द्रुपदं रणे ।
अहिच्छत्रं सकाम्पिल्यं
द्रोणायाथापवर्जितम् ॥ ह्व्_१५।६३ ॥
विश्वास-प्रस्तुतिः
प्रतिगृह्य ततो द्रोण
उभयं जयतां वरः ।
काम्पिल्यं द्रुपदायैव
प्रायच्छद् विदितं तव ॥ ह्व्_१५।६४ ॥
मूलम्
प्रतिगृह्य ततो द्रोण
उभयं जयतां वरः ।
काम्पिल्यं द्रुपदायैव
प्रायच्छद् विदितं तव ॥ ह्व्_१५।६४ ॥
विश्वास-प्रस्तुतिः
एष ते द्रुपदस्यादौ
ब्रह्मदत्तस्य चैव ह ।
वंशः कार्त्स्न्येन वै प्रोक्तो
वीरस्योग्रायुधस्य च ॥ ह्व्_१५।६५ ॥
मूलम्
एष ते द्रुपदस्यादौ
ब्रह्मदत्तस्य चैव ह ।
वंशः कार्त्स्न्येन वै प्रोक्तो
वीरस्योग्रायुधस्य च ॥ ह्व्_१५।६५ ॥
विश्वास-प्रस्तुतिः
([क्: क्२।४ Ñ२।३ व् ब् द्न् द्स् द्१-३।५।६ त् ग् ins. अप्पेन्दिx इ, नो। ५ after १५,६५, क्१।३ द्४ after १५,६८ :क्])
अतस् ते वर्तयिष्ये ऽहम्
इतिहासं पुरातनम् ।
गीतं सनत्कुमारेण
मार्कण्डेयाय पृच्छते ॥ ह्व्_१५।६६ ॥
मूलम्
([क्: क्२।४ Ñ२।३ व् ब् द्न् द्स् द्१-३।५।६ त् ग् ins. अप्पेन्दिx इ, नो। ५ after १५,६५, क्१।३ द्४ after १५,६८ :क्])
अतस् ते वर्तयिष्ये ऽहम्
इतिहासं पुरातनम् ।
गीतं सनत्कुमारेण
मार्कण्डेयाय पृच्छते ॥ ह्व्_१५।६६ ॥
विश्वास-प्रस्तुतिः
श्राद्धस्य फलम् उद्दिश्य
नियतं सुकृतस्य च ।
तन्निबोध महाराज
सप्तजातिषु भारत ॥ ह्व्_१५।६७ ॥
मूलम्
श्राद्धस्य फलम् उद्दिश्य
नियतं सुकृतस्य च ।
तन्निबोध महाराज
सप्तजातिषु भारत ॥ ह्व्_१५।६७ ॥
विश्वास-प्रस्तुतिः
सगालवस्य चरितं
कण्डरीकस्य चैव ह ।
ब्रह्मदत्ततृतीयानां
योगिनां ब्रह्मचारिणाम् ॥ ह्व्_१५।६८ ॥
मूलम्
सगालवस्य चरितं
कण्डरीकस्य चैव ह ।
ब्रह्मदत्ततृतीयानां
योगिनां ब्रह्मचारिणाम् ॥ ह्व्_१५।६८ ॥