०१३

विश्वास-प्रस्तुतिः

{मार्कण्डेय उवाच}
इत्य् उक्तो ऽहं भगवता
देवदेवेन भास्वता ।
सनत्कुमारेण पुनः
पृष्टवान् देवम् अव्ययम् ॥ ह्व्_१३।१ ॥

मूलम्

{मार्कण्डेय उवाच}
इत्य् उक्तो ऽहं भगवता
देवदेवेन भास्वता ।
सनत्कुमारेण पुनः
पृष्टवान् देवम् अव्ययम् ॥ ह्व्_१३।१ ॥

विश्वास-प्रस्तुतिः

सन्देहम् अमरश्रेष्ठं
भगवन्तम् अरिन्दम ।
निबोध तन् मे गाङ्गेय
निखिलं सर्वम् आदितः ॥ ह्व्_१३।२ ॥

मूलम्

सन्देहम् अमरश्रेष्ठं
भगवन्तम् अरिन्दम ।
निबोध तन् मे गाङ्गेय
निखिलं सर्वम् आदितः ॥ ह्व्_१३।२ ॥

विश्वास-प्रस्तुतिः

कियन्तो वै पितृगणाः
कस्मिंल् लोके च ते गणाः ।
वर्तन्ति देवप्रवरा
देवानां सोमवर्धनाः ॥ ह्व्_१३।३ ॥

मूलम्

कियन्तो वै पितृगणाः
कस्मिंल् लोके च ते गणाः ।
वर्तन्ति देवप्रवरा
देवानां सोमवर्धनाः ॥ ह्व्_१३।३ ॥

विश्वास-प्रस्तुतिः

{सनत्कुमार उवाच}
सप्तैते जपतां श्रेष्ठ
स्वर्गे पितृगणाः स्मृताः ।
चत्वारो मूर्तिमन्तो वै
त्रय एषां अमूर्तयः ॥ ह्व्_१३।४ ॥

मूलम्

{सनत्कुमार उवाच}
सप्तैते जपतां श्रेष्ठ
स्वर्गे पितृगणाः स्मृताः ।
चत्वारो मूर्तिमन्तो वै
त्रय एषां अमूर्तयः ॥ ह्व्_१३।४ ॥

विश्वास-प्रस्तुतिः

तेषां लोकं विसर्गं च
कीर्तयिष्यामि तच् छृणु ।
प्रभावं च महत्त्वं च
विस्तरेण तपोधन ॥ ह्व्_१३।५ ॥

मूलम्

तेषां लोकं विसर्गं च
कीर्तयिष्यामि तच् छृणु ।
प्रभावं च महत्त्वं च
विस्तरेण तपोधन ॥ ह्व्_१३।५ ॥

विश्वास-प्रस्तुतिः

धर्ममूर्तिधरास् तेषां
त्रयो ये परमा गणाः ।
तेषां नामानि लोकांश् च
कीर्तयिष्यामि तच् छृणु ॥ ह्व्_१३।६ ॥

मूलम्

धर्ममूर्तिधरास् तेषां
त्रयो ये परमा गणाः ।
तेषां नामानि लोकांश् च
कीर्तयिष्यामि तच् छृणु ॥ ह्व्_१३।६ ॥

विश्वास-प्रस्तुतिः

लोकाः सनातना नाम
यत्र तिष्ठन्ति भास्वराः ।
अमूर्तयः पितृगणास्
ते वै पुत्राः प्रजापतेः ॥ ह्व्_१३।७ ॥

मूलम्

लोकाः सनातना नाम
यत्र तिष्ठन्ति भास्वराः ।
अमूर्तयः पितृगणास्
ते वै पुत्राः प्रजापतेः ॥ ह्व्_१३।७ ॥

विश्वास-प्रस्तुतिः

विराजस्य द्विजश्रेष्ठ
वैराजा इति विश्रुताः ।
यजन्ति तान् देवगणा
विधिदृष्टेन कर्मना ॥ ह्व्_१३।८ ॥

मूलम्

विराजस्य द्विजश्रेष्ठ
वैराजा इति विश्रुताः ।
यजन्ति तान् देवगणा
विधिदृष्टेन कर्मना ॥ ह्व्_१३।८ ॥

विश्वास-प्रस्तुतिः

([क्: श्१ क्१।३ द्स्१ द्४।५ ins.: :क्])
मनोजवाः स्वधाभक्षाः
सर्वकामसमन्विताः । ह्व्_१३।८२४२:१ ।
एते योगं परित्यज्य
महात्मनो भवन्त्य् उत । ह्व्_१३।८२४२:२ ।
एते वै योगविभ्रष्टा
लोकान् प्राप्य सनातनान् ।
पुनर् युगसहस्रान्ते
जायन्ते ब्रह्मवादिनः ॥ ह्व्_१३।९ ॥

मूलम्

([क्: श्१ क्१।३ द्स्१ द्४।५ ins.: :क्])
मनोजवाः स्वधाभक्षाः
सर्वकामसमन्विताः । ह्व्_१३।८२४२:१ ।
एते योगं परित्यज्य
महात्मनो भवन्त्य् उत । ह्व्_१३।८२४२:२ ।
एते वै योगविभ्रष्टा
लोकान् प्राप्य सनातनान् ।
पुनर् युगसहस्रान्ते
जायन्ते ब्रह्मवादिनः ॥ ह्व्_१३।९ ॥

विश्वास-प्रस्तुतिः

ते प्राप्य तां स्मृतिं भूयः
साङ्ख्ययोगम् अनुत्तमम् ।
यान्ति योगगतिं सिद्धाः
पुनर् आवृत्तिदुर्लभाम् ॥ ह्व्_१३।१० ॥

मूलम्

ते प्राप्य तां स्मृतिं भूयः
साङ्ख्ययोगम् अनुत्तमम् ।
यान्ति योगगतिं सिद्धाः
पुनर् आवृत्तिदुर्लभाम् ॥ ह्व्_१३।१० ॥

विश्वास-प्रस्तुतिः

एते स्म पितरस् तात
योगिनां योगवर्धनाः ।
आप्याययन्ति ये पूर्वं
सोमं योगबलेन वै ॥ ह्व्_१३।११ ॥

मूलम्

एते स्म पितरस् तात
योगिनां योगवर्धनाः ।
आप्याययन्ति ये पूर्वं
सोमं योगबलेन वै ॥ ह्व्_१३।११ ॥

विश्वास-प्रस्तुतिः

तस्माच् छ्राद्धानि देयानि
योगिनां द्विजसत्तम ।
एष वै प्रथमः कल्पः
सोमपानां अनुत्तमः ॥ ह्व्_१३।१२ ॥

मूलम्

तस्माच् छ्राद्धानि देयानि
योगिनां द्विजसत्तम ।
एष वै प्रथमः कल्पः
सोमपानां अनुत्तमः ॥ ह्व्_१३।१२ ॥

विश्वास-प्रस्तुतिः

एतेषां मानसी कन्या
मेना नाम महागिरेः ।
पत्नी हिमवतः श्रेष्ठा
यस्या मैनाक उच्यते ॥ ह्व्_१३।१३ ॥

मूलम्

एतेषां मानसी कन्या
मेना नाम महागिरेः ।
पत्नी हिमवतः श्रेष्ठा
यस्या मैनाक उच्यते ॥ ह्व्_१३।१३ ॥

विश्वास-प्रस्तुतिः

मैनाकस्य सुतः श्रीमान्
क्रौञ्चो नाम महागिरिः ।
पर्वतप्रवरः शुभ्रो
नानारत्नसमाचितः ॥ ह्व्_१३।१४ ॥

मूलम्

मैनाकस्य सुतः श्रीमान्
क्रौञ्चो नाम महागिरिः ।
पर्वतप्रवरः शुभ्रो
नानारत्नसमाचितः ॥ ह्व्_१३।१४ ॥

विश्वास-प्रस्तुतिः

तिस्रः कन्यास् तु मेनायां
जनयाम् आस शैलराट् ।
अपर्णाम् एकपर्णां च
तृतीयाम् एकपाटलाम् ॥ ह्व्_१३।१५ ॥

मूलम्

तिस्रः कन्यास् तु मेनायां
जनयाम् आस शैलराट् ।
अपर्णाम् एकपर्णां च
तृतीयाम् एकपाटलाम् ॥ ह्व्_१३।१५ ॥

विश्वास-प्रस्तुतिः

तपश् चरन्त्यः सुमहद्
दुश्चरं देवदानवैः ।
लोकान् सन्तापयाम् आसुस्
तास् तिस्रः स्थाणुजङ्गमान् ॥ ह्व्_१३।१६ ॥

मूलम्

तपश् चरन्त्यः सुमहद्
दुश्चरं देवदानवैः ।
लोकान् सन्तापयाम् आसुस्
तास् तिस्रः स्थाणुजङ्गमान् ॥ ह्व्_१३।१६ ॥

विश्वास-प्रस्तुतिः

([क्: द्१।२।६ (त्२ after १६अब्) त्३।४ ग् म् ins.: :क्])
न्यग्रोधम् एकपर्णा तु
पाटलं चैकपाटला । ह्व्_१३।१६२४३:१ ।
आश्रिते द्वे अपर्णा तु
अनिकेता तपो ऽचरत् । ह्व्_१३।१६२४३:२ ।
दशवर्षसहस्राणि
दुश्चरं देवदानवैः । ह्व्_१३।१६२४३:३ ।
आहारम् एकपर्णेन
सैकपर्णा समाचरत् ।
पाटलापुष्पम् एकं च
विदधे चैकपाटला ॥ ह्व्_१३।१७ ॥

मूलम्

([क्: द्१।२।६ (त्२ after १६अब्) त्३।४ ग् म् ins.: :क्])
न्यग्रोधम् एकपर्णा तु
पाटलं चैकपाटला । ह्व्_१३।१६२४३:१ ।
आश्रिते द्वे अपर्णा तु
अनिकेता तपो ऽचरत् । ह्व्_१३।१६२४३:२ ।
दशवर्षसहस्राणि
दुश्चरं देवदानवैः । ह्व्_१३।१६२४३:३ ।
आहारम् एकपर्णेन
सैकपर्णा समाचरत् ।
पाटलापुष्पम् एकं च
विदधे चैकपाटला ॥ ह्व्_१३।१७ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ त् ग्१-३। (ग्४ after २४३।१) ग्५ म् ins.: :क्])
पूर्णे पूर्णसहस्रे तु
आहारं द्वे प्रचक्रतुः । ह्व्_१३।१७२४४ ।
एका तत्र निराहारा
तां माता प्रत्यषेधयत् ।
उ मा इति निषेधन्ती
मातृस्नेहेन दुःखिता ॥ ह्व्_१३।१८ ॥

मूलम्

([क्: द्६ त् ग्१-३। (ग्४ after २४३।१) ग्५ म् ins.: :क्])
पूर्णे पूर्णसहस्रे तु
आहारं द्वे प्रचक्रतुः । ह्व्_१३।१७२४४ ।
एका तत्र निराहारा
तां माता प्रत्यषेधयत् ।
उ मा इति निषेधन्ती
मातृस्नेहेन दुःखिता ॥ ह्व्_१३।१८ ॥

विश्वास-प्रस्तुतिः

सा तथोक्ता तया मात्रा
देवी दुष्चरचारिणी ।
उमेत्य् एवाभवत् ख्याता
त्रिषु लोकेषु सुन्दरी ॥ ह्व्_१३।१९ ॥

मूलम्

सा तथोक्ता तया मात्रा
देवी दुष्चरचारिणी ।
उमेत्य् एवाभवत् ख्याता
त्रिषु लोकेषु सुन्दरी ॥ ह्व्_१३।१९ ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१) ins.: :क्])
तथैव नाम्ना तेनेह
विश्रुता योगधर्मिणी । ह्व्_१३।१९२४५:१ ।
एतत् तु त्रिकुमारीकं
जगत् स्थास्यति भार्गव । ह्व्_१३।१९२४५:२ ।
([क्: द्६ त्१।२ ग् म् चोन्त्।: :क्])
एतासां तपसा दग्धं
यावद् भूमिर् धरिष्यति । ह्व्_१३।१९२४६ ।
तपःशरीराः सर्वास् तास्
तिस्रो योगबलान्विताः ।
([क्: द्६ स् ins.: :क्])
सर्वास् ता वै महाभागाः
सर्वाश् च स्थिरयौवनाः । ह्व्_१३।२०अब्२४७:१ ।
ता लोकमातरश् चैव
ब्रह्मचारिण्य एव च । ह्व्_१३।२०अब्२४७:२ ।
सर्वाश् च ब्रह्मवादिन्यः
सर्वाश् चैवोर्ध्वरेतसः ॥ ह्व्_१३।२० ॥

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१) ins.: :क्])
तथैव नाम्ना तेनेह
विश्रुता योगधर्मिणी । ह्व्_१३।१९२४५:१ ।
एतत् तु त्रिकुमारीकं
जगत् स्थास्यति भार्गव । ह्व्_१३।१९२४५:२ ।
([क्: द्६ त्१।२ ग् म् चोन्त्।: :क्])
एतासां तपसा दग्धं
यावद् भूमिर् धरिष्यति । ह्व्_१३।१९२४६ ।
तपःशरीराः सर्वास् तास्
तिस्रो योगबलान्विताः ।
([क्: द्६ स् ins.: :क्])
सर्वास् ता वै महाभागाः
सर्वाश् च स्थिरयौवनाः । ह्व्_१३।२०अब्२४७:१ ।
ता लोकमातरश् चैव
ब्रह्मचारिण्य एव च । ह्व्_१३।२०अब्२४७:२ ।
सर्वाश् च ब्रह्मवादिन्यः
सर्वाश् चैवोर्ध्वरेतसः ॥ ह्व्_१३।२० ॥

विश्वास-प्रस्तुतिः

उमा तासां वरिष्ठा च
ज्येष्ठा च वरवर्णिनी ।
महायोगबलोपेता
महादेवम् उपस्थिता ॥ ह्व्_१३।२१ ॥

मूलम्

उमा तासां वरिष्ठा च
ज्येष्ठा च वरवर्णिनी ।
महायोगबलोपेता
महादेवम् उपस्थिता ॥ ह्व्_१३।२१ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ स् (एxचेप्त् त्१) ins.: :क्])
दत्तकश् चोशनास् तस्याः
पुत्रस् तु भृगुनन्दनः । ह्व्_१३।२१२४८ ।
असितस्यैकपर्णा तु
देवलस्य महात्मनः ।
पत्नी दत्ता महाब्रह्मन्
योगाचार्याय धीमते ॥ ह्व्_१३।२२ ॥

मूलम्

([क्: द्६ स् (एxचेप्त् त्१) ins.: :क्])
दत्तकश् चोशनास् तस्याः
पुत्रस् तु भृगुनन्दनः । ह्व्_१३।२१२४८ ।
असितस्यैकपर्णा तु
देवलस्य महात्मनः ।
पत्नी दत्ता महाब्रह्मन्
योगाचार्याय धीमते ॥ ह्व्_१३।२२ ॥

विश्वास-प्रस्तुतिः

([क्: त् ग् म्१।३।४ ins. after २२अब्, द्६ म्२ after २२: :क्])
पुष्टिस् तासां कुमारीणां
तृतीया चैकपाटला । ह्व्_१३।२२२४९:१ ।
पुत्रं शतशलाकस्य
जैगीषव्यम् उपस्थिता । ह्व्_१३।२२२४९:२ ।
तस्यापि शङ्खलिखितौ
स्मृतौ पुत्राव् अयोनिजौ । ह्व्_१३।२२२४९:३ ।
जैगीषव्यस्य तु तथा
विद्धि ताम् एकपाटलाम् ।
एते चापि महाभागे
योगाचार्याव् उपस्थिते ॥ ह्व्_१३।२३ ॥

मूलम्

([क्: त् ग् म्१।३।४ ins. after २२अब्, द्६ म्२ after २२: :क्])
पुष्टिस् तासां कुमारीणां
तृतीया चैकपाटला । ह्व्_१३।२२२४९:१ ।
पुत्रं शतशलाकस्य
जैगीषव्यम् उपस्थिता । ह्व्_१३।२२२४९:२ ।
तस्यापि शङ्खलिखितौ
स्मृतौ पुत्राव् अयोनिजौ । ह्व्_१३।२२२४९:३ ।
जैगीषव्यस्य तु तथा
विद्धि ताम् एकपाटलाम् ।
एते चापि महाभागे
योगाचार्याव् उपस्थिते ॥ ह्व्_१३।२३ ॥

विश्वास-प्रस्तुतिः

लोकाः सोमपदा नाम
मरीचेर् यत्र वै सुताः ।
पितरो दिवि वर्तन्ते
देवास् तान् भावयन्त्य् उत ॥

मूलम्

लोकाः सोमपदा नाम
मरीचेर् यत्र वै सुताः ।
पितरो दिवि वर्तन्ते
देवास् तान् भावयन्त्य् उत ॥

विश्वास-प्रस्तुतिः

अग्निष्वात्ता इति ख्याताः
सर्व एवामितौजसः ॥ ह्व्_१३।२४ ॥

मूलम्

अग्निष्वात्ता इति ख्याताः
सर्व एवामितौजसः ॥ ह्व्_१३।२४ ॥

विश्वास-प्रस्तुतिः

([क्: त्१-३ ग् म्४ सुब्स्त्। फ़ोर् २४एफ़्: :क्])
अग्निष्वात्ताः श्रुतास् तत्र
पितरो ये परिश्रुताः । ह्व्_१३।२४२५० ।
एतेषां मानसी कन्या
अच्छोदा नाम निम्नगा ।
अच्छोदं नाम तद् दिव्यं
सरो यस्याः समुत्थितम् ॥ ह्व्_१३।२५ ॥

मूलम्

([क्: त्१-३ ग् म्४ सुब्स्त्। फ़ोर् २४एफ़्: :क्])
अग्निष्वात्ताः श्रुतास् तत्र
पितरो ये परिश्रुताः । ह्व्_१३।२४२५० ।
एतेषां मानसी कन्या
अच्छोदा नाम निम्नगा ।
अच्छोदं नाम तद् दिव्यं
सरो यस्याः समुत्थितम् ॥ ह्व्_१३।२५ ॥

([क्: क्१ Ñ२।३ व्१।२।३ ब् द्न्२ द्स् द्३।५।६ स् ins.: :क्]) तया न दृष्टपूर्वास् ते पितरस् तु कदाचन । *ह्व्_१३।२५*२५१ ।

([क्: क्१ Ñ२।३ व्१।२।३ ब् द्न्२ द्स् द्३।५ ग्४ चोन्त्।, श्१ क्२-४ Ñ१ द्न्१ द्१।२।४ ins. after २५: :क्])
अप्यमूर्तान् अथ पितॄन्
सा ददर्श शुचिस्मिता । ह्व्_१३।२५२५२ ।

([क्: श्१ क्१।३।४ Ñ३ द्न् द्स् द्४ ग्४ चोन्त्।, द्६ त्१।२ ग्१-३।५ म् चोन्त्। after *२५१: :क्])
सम्भूता मानसी तेषां
पितॄन् स्वान् नाभिजानती । ह्व्_१३।२५२५३ ।

विश्वास-प्रस्तुतिः

([क्: श्१ क्१।३।४ Ñ३ द्न् द्स् द्४।६ चोन्त्।, क्२ Ñ२ व्१।२।३ ब् द्१।२।५ चोन्त्। after २५२: :क्])
व्रीडिता तेन दुःखेन
बभूव वरवर्णिनी । ह्व्_१३।२५२५४ ।
सा दृष्ट्वा पितरं वव्रे
वसुं नामान्तरिक्षगम् ।
नाम्ना वसुम् इति ख्यातम्
आयोः पुत्रं यशस्विनम् ॥ ह्व्_१३।२६ ॥

मूलम्

([क्: श्१ क्१।३।४ Ñ३ द्न् द्स् द्४।६ चोन्त्।, क्२ Ñ२ व्१।२।३ ब् द्१।२।५ चोन्त्। after २५२: :क्])
व्रीडिता तेन दुःखेन
बभूव वरवर्णिनी । ह्व्_१३।२५२५४ ।
सा दृष्ट्वा पितरं वव्रे
वसुं नामान्तरिक्षगम् ।
नाम्ना वसुम् इति ख्यातम्
आयोः पुत्रं यशस्विनम् ॥ ह्व्_१३।२६ ॥

विश्वास-प्रस्तुतिः

([क्: क्१।४ Ñ२।३ व्१।२।३ ब् द्न्१ द्स् द्४-६ स् (एxचेप्त् म्१।२) ins. after २६, क्३ द्न्२ द्३ चोन्त्। after २५४: :क्])
अद्रिकाप्सरसायुक्तं
विमाने ऽधिष्ठितं दिवि । ह्व्_१३।२६२५५ ।
सा तेन व्यभिचारेण
मनसः कामचारिणी ।
पितरं प्रार्थयित्वान्यं
योगभ्रष्टा पपात ह ॥ ह्व्_१३।२७ ॥

मूलम्

([क्: क्१।४ Ñ२।३ व्१।२।३ ब् द्न्१ द्स् द्४-६ स् (एxचेप्त् म्१।२) ins. after २६, क्३ द्न्२ द्३ चोन्त्। after २५४: :क्])
अद्रिकाप्सरसायुक्तं
विमाने ऽधिष्ठितं दिवि । ह्व्_१३।२६२५५ ।
सा तेन व्यभिचारेण
मनसः कामचारिणी ।
पितरं प्रार्थयित्वान्यं
योगभ्रष्टा पपात ह ॥ ह्व्_१३।२७ ॥

विश्वास-प्रस्तुतिः

त्रीण्य् अपश्यद् विमानानि
पतमाना दिवश् च्युता ।
त्रसरेणुप्रमाणानि
सापश्यत् तेषु तान् पितॄन् ॥ ह्व्_१३।२८ ॥

मूलम्

त्रीण्य् अपश्यद् विमानानि
पतमाना दिवश् च्युता ।
त्रसरेणुप्रमाणानि
सापश्यत् तेषु तान् पितॄन् ॥ ह्व्_१३।२८ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ त्१।२ ग् म्४ सुब्स्त्। फ़ोर् २८: :क्])
अपश्यत् पतमाना सा
विमानत्रयम् अन्तिकात् । ह्व्_१३।२८२५६:१ ।
त्रसरेणुप्रमाणांस् तांस्
तत्रापश्यत् स्वकान् पितॄन् । ह्व्_१३।२८२५६:२ ।
सुसूक्ष्मान् अपरिव्यक्तान्
अग्नीन् अग्निष्व् इवाहितान् ।
त्रायध्वं इत्य् उवाचार्ता
पतन्ती तान् अवाक्शिराः ॥ ह्व्_१३।२९ ॥

मूलम्

([क्: द्६ त्१।२ ग् म्४ सुब्स्त्। फ़ोर् २८: :क्])
अपश्यत् पतमाना सा
विमानत्रयम् अन्तिकात् । ह्व्_१३।२८२५६:१ ।
त्रसरेणुप्रमाणांस् तांस्
तत्रापश्यत् स्वकान् पितॄन् । ह्व्_१३।२८२५६:२ ।
सुसूक्ष्मान् अपरिव्यक्तान्
अग्नीन् अग्निष्व् इवाहितान् ।
त्रायध्वं इत्य् उवाचार्ता
पतन्ती तान् अवाक्शिराः ॥ ह्व्_१३।२९ ॥

विश्वास-प्रस्तुतिः

तैर् उक्ता सा तु मा भैषीर्
इति व्योम्नि व्यवस्थिता ।
ततः प्रसादयाम् आस
स्वान् पितॄन् दीनया गिरा ॥ ह्व्_१३।३० ॥

मूलम्

तैर् उक्ता सा तु मा भैषीर्
इति व्योम्नि व्यवस्थिता ।
ततः प्रसादयाम् आस
स्वान् पितॄन् दीनया गिरा ॥ ह्व्_१३।३० ॥

विश्वास-प्रस्तुतिः

ऊचुस् ते पितरः कन्यां
भ्रष्टैश्वर्यां व्यतिक्रमात् ।
भ्रष्टैश्वर्या स्वदोषेण
पतसि त्वं शुचिस्मिते ॥ ह्व्_१३।३१ ॥

मूलम्

ऊचुस् ते पितरः कन्यां
भ्रष्टैश्वर्यां व्यतिक्रमात् ।
भ्रष्टैश्वर्या स्वदोषेण
पतसि त्वं शुचिस्मिते ॥ ह्व्_१३।३१ ॥

विश्वास-प्रस्तुतिः

यैः क्रियन्ते हि कर्माणि
शरीरैर् दिवि दैवतैः ।
तैर् एव तत्कर्मफलं
प्राप्नुवन्तीह देवताः ॥ ह्व्_१३।३२ ॥

मूलम्

यैः क्रियन्ते हि कर्माणि
शरीरैर् दिवि दैवतैः ।
तैर् एव तत्कर्मफलं
प्राप्नुवन्तीह देवताः ॥ ह्व्_१३।३२ ॥

विश्वास-प्रस्तुतिः

([क्: ग्(एद्।) ins.: :क्])
मनुष्यस् त्व् अन्यदेहेन
शुभाशुभम् इति स्थितिः । ह्व्_१३।३२२५७ ।
सद्यः फलन्ति कर्माणि
देवत्वे प्रेत्य मानुषे ।
([क्: क्३ द्१।४ ins.: :क्])
यानि कर्माणि देवत्वे
तानि सन्त्य् एव मानुषे । ह्व्_१३।३३अब्२५८ ।
तस्मात् त्वं तपसः पुत्रि
प्रेत्येह प्राप्स्यसे फलम् ॥ ह्व्_१३।३३ ॥

मूलम्

([क्: ग्(एद्।) ins.: :क्])
मनुष्यस् त्व् अन्यदेहेन
शुभाशुभम् इति स्थितिः । ह्व्_१३।३२२५७ ।
सद्यः फलन्ति कर्माणि
देवत्वे प्रेत्य मानुषे ।
([क्: क्३ द्१।४ ins.: :क्])
यानि कर्माणि देवत्वे
तानि सन्त्य् एव मानुषे । ह्व्_१३।३३अब्२५८ ।
तस्मात् त्वं तपसः पुत्रि
प्रेत्येह प्राप्स्यसे फलम् ॥ ह्व्_१३।३३ ॥

विश्वास-प्रस्तुतिः

इत्य् उक्ता पितृभिः सा तु
पितॄन् स्वान् सम्प्रसादयत् ।
ध्यात्वा प्रसादं ते चक्रुस्
तस्याः सर्वे ऽनुकम्पया ॥ ह्व्_१३।३४ ॥

मूलम्

इत्य् उक्ता पितृभिः सा तु
पितॄन् स्वान् सम्प्रसादयत् ।
ध्यात्वा प्रसादं ते चक्रुस्
तस्याः सर्वे ऽनुकम्पया ॥ ह्व्_१३।३४ ॥

विश्वास-प्रस्तुतिः

अवश्यम्भाविनं ज्ञात्वा
ते ऽर्थम् ऊचुस् ततश् च ताम् ।
तस्य राज्ञो वसोः कन्या
त्वम् अपत्यं भविष्यसि ॥

मूलम्

अवश्यम्भाविनं ज्ञात्वा
ते ऽर्थम् ऊचुस् ततश् च ताम् ।
तस्य राज्ञो वसोः कन्या
त्वम् अपत्यं भविष्यसि ॥

विश्वास-प्रस्तुतिः

([क्: क्३ Ñ२ व् ब् द्न् द्३-५ ins.: :क्])
उत्पन्नस्य पृथिव्यां तु
मानुषेषु महात्मनः । ह्व्_१३।३५cd२५९ ।
कन्यैव भूत्वा लोकान् स्वान्
पुनः प्राप्स्यसि दुर्लभान् ॥ ह्व्_१३।३५ ॥

मूलम्

([क्: क्३ Ñ२ व् ब् द्न् द्३-५ ins.: :क्])
उत्पन्नस्य पृथिव्यां तु
मानुषेषु महात्मनः । ह्व्_१३।३५cd२५९ ।
कन्यैव भूत्वा लोकान् स्वान्
पुनः प्राप्स्यसि दुर्लभान् ॥ ह्व्_१३।३५ ॥

विश्वास-प्रस्तुतिः

([क्: त्२।४ ग् म्१-३ ins.: :क्])
मत्स्ययोनौ समुत्पन्ना
सुता राज्ञो भविष्यसि । ह्व्_१३।३५२६० ।
पराशरस्य दायादं
त्वं विप्रं जनयिष्यसि ।
स वेदम् एकं ब्रह्मर्षिश्
चतुर्धा विभजिष्यति ॥ ह्व्_१३।३६ ॥

मूलम्

([क्: त्२।४ ग् म्१-३ ins.: :क्])
मत्स्ययोनौ समुत्पन्ना
सुता राज्ञो भविष्यसि । ह्व्_१३।३५२६० ।
पराशरस्य दायादं
त्वं विप्रं जनयिष्यसि ।
स वेदम् एकं ब्रह्मर्षिश्
चतुर्धा विभजिष्यति ॥ ह्व्_१३।३६ ॥

विश्वास-प्रस्तुतिः

महाभिषस्य पुत्रौ च
शन्तनोः कीर्तिवर्धनौ ।
विचित्रवीर्यं धर्मज्ञं
तथा चित्राङ्गदं प्रभुम् ॥ ह्व्_१३।३७ ॥

मूलम्

महाभिषस्य पुत्रौ च
शन्तनोः कीर्तिवर्धनौ ।
विचित्रवीर्यं धर्मज्ञं
तथा चित्राङ्गदं प्रभुम् ॥ ह्व्_१३।३७ ॥

विश्वास-प्रस्तुतिः

([क्: त्१।२ ग् म्२।४ सुब्स्त्। फ़ोर् ३७cd: :क्])
ज्येष्ठं विचित्रवीर्यं च
चित्राङ्गदम् अतः परम् । ह्व्_१३।३७२६१ ।
एतान् उत्पाद्य पुत्रांस् त्वं
पुनर् लोकान् अवाप्स्यसि ।
([क्: व्२ ब्१ द्३ ins.: :क्])
प्राप्यैतत् सुमहाभागे
कुत्सितेन स्वकर्मणा । ह्व्_१३।३८अब्२६२ ।
व्यतिक्रमात् पितॄणां च
जन्म प्राप्स्यसि कुत्सितम् ॥ ह्व्_१३।३८ ॥

मूलम्

([क्: त्१।२ ग् म्२।४ सुब्स्त्। फ़ोर् ३७cd: :क्])
ज्येष्ठं विचित्रवीर्यं च
चित्राङ्गदम् अतः परम् । ह्व्_१३।३७२६१ ।
एतान् उत्पाद्य पुत्रांस् त्वं
पुनर् लोकान् अवाप्स्यसि ।
([क्: व्२ ब्१ द्३ ins.: :क्])
प्राप्यैतत् सुमहाभागे
कुत्सितेन स्वकर्मणा । ह्व्_१३।३८अब्२६२ ।
व्यतिक्रमात् पितॄणां च
जन्म प्राप्स्यसि कुत्सितम् ॥ ह्व्_१३।३८ ॥

विश्वास-प्रस्तुतिः

तस्यैव राज्ञस् त्वं कन्या
अद्रिकायां भविष्यसि ।
अष्टाविंशे भवित्री त्वं
द्वापरे मत्स्ययोनिजा ॥ ह्व्_१३।३९ ॥

मूलम्

तस्यैव राज्ञस् त्वं कन्या
अद्रिकायां भविष्यसि ।
अष्टाविंशे भवित्री त्वं
द्वापरे मत्स्ययोनिजा ॥ ह्व्_१३।३९ ॥

विश्वास-प्रस्तुतिः

एवम् उक्ता तु दासेयी
जाता सत्यवती तदा ।
मत्स्ययोनौ अनुपमा
राज्ञस् तस्य वसोः सुता ॥ ह्व्_१३।४० ॥

मूलम्

एवम् उक्ता तु दासेयी
जाता सत्यवती तदा ।
मत्स्ययोनौ अनुपमा
राज्ञस् तस्य वसोः सुता ॥ ह्व्_१३।४० ॥

विश्वास-प्रस्तुतिः

([क्: द्६ त्२-४ ग्१।४ म्१-३ ins. after ४०, त्१ ग्२।३।५ म्४ after ४०अब्: :क्])
अद्रिका मत्स्यभूता सा
गङ्गायमुनसङ्गमे । ह्व्_१३।४०२६३:१ ।
तस्यां जज्ञे तु सा कन्या
राज्ञो वीरेण चैव हि । ह्व्_१३।४०२६३:२ ।
बैभ्राजा नाम ते लोका
दिवि भान्ति सुदर्शनाः ।
यत्र बर्हिषदो नाम
पितरो दिवि विष्रुताः ॥ ह्व्_१३।४१ ॥

मूलम्

([क्: द्६ त्२-४ ग्१।४ म्१-३ ins. after ४०, त्१ ग्२।३।५ म्४ after ४०अब्: :क्])
अद्रिका मत्स्यभूता सा
गङ्गायमुनसङ्गमे । ह्व्_१३।४०२६३:१ ।
तस्यां जज्ञे तु सा कन्या
राज्ञो वीरेण चैव हि । ह्व्_१३।४०२६३:२ ।
बैभ्राजा नाम ते लोका
दिवि भान्ति सुदर्शनाः ।
यत्र बर्हिषदो नाम
पितरो दिवि विष्रुताः ॥ ह्व्_१३।४१ ॥

विश्वास-प्रस्तुतिः

तान् दानवगणाः सर्वे
यक्षगन्धर्वराक्षसाः ।
नागाः सर्पाः सुपर्णाश् च
भावयन्त्य् अमितौजसः ॥ ह्व्_१३।४२ ॥

मूलम्

तान् दानवगणाः सर्वे
यक्षगन्धर्वराक्षसाः ।
नागाः सर्पाः सुपर्णाश् च
भावयन्त्य् अमितौजसः ॥ ह्व्_१३।४२ ॥

विश्वास-प्रस्तुतिः

एते पुत्रा महात्मानः
पुलस्त्यस्य प्रजापतेः ।
महात्मानो महाभागास्
तेजोयुक्तास् तपस्विनः ॥ ह्व्_१३।४३ ॥

मूलम्

एते पुत्रा महात्मानः
पुलस्त्यस्य प्रजापतेः ।
महात्मानो महाभागास्
तेजोयुक्तास् तपस्विनः ॥ ह्व्_१३।४३ ॥

विश्वास-प्रस्तुतिः

([क्: म्१-३ सुब्स्त्। फ़ोर् ४३cd, द्६ त्१।३।४ ग् म्४ ins. after ४३: :क्])
त्रय एते गणाः प्रोक्ता
धर्ममूर्तिधराः शुभाः । ह्व्_१३।४३२६४ ।
एतेषां मानसी कन्या
पीवरी नाम विश्रुता ।
योगा च योगपत्नी च
योगमाता तथैव च ॥

मूलम्

([क्: म्१-३ सुब्स्त्। फ़ोर् ४३cd, द्६ त्१।३।४ ग् म्४ ins. after ४३: :क्])
त्रय एते गणाः प्रोक्ता
धर्ममूर्तिधराः शुभाः । ह्व्_१३।४३२६४ ।
एतेषां मानसी कन्या
पीवरी नाम विश्रुता ।
योगा च योगपत्नी च
योगमाता तथैव च ॥

विश्वास-प्रस्तुतिः

भवित्री द्वापरं प्राप्य
युगं धर्मभृतां वरा ॥ ह्व्_१३।४४ ॥

मूलम्

भवित्री द्वापरं प्राप्य
युगं धर्मभृतां वरा ॥ ह्व्_१३।४४ ॥

विश्वास-प्रस्तुतिः

पराशरकुलोद्भूतः
शुको नाम महातपाः ।
भविष्यति युगे तस्मिन्
महायोगी द्विजर्षभः ॥

मूलम्

पराशरकुलोद्भूतः
शुको नाम महातपाः ।
भविष्यति युगे तस्मिन्
महायोगी द्विजर्षभः ॥

विश्वास-प्रस्तुतिः

व्यासाद् अरण्यां सम्भूतो
विधूमो ऽग्निर् इव ज्वलन् ॥ ह्व्_१३।४५ ॥

मूलम्

व्यासाद् अरण्यां सम्भूतो
विधूमो ऽग्निर् इव ज्वलन् ॥ ह्व्_१३।४५ ॥

विश्वास-प्रस्तुतिः

स तस्यां पितृकन्यायां
पीवर्यां जनयिष्यति ।
कन्यां पुत्रांश् च चतुरो
योगाचार्यान् महाबलान् ॥ ह्व्_१३।४६ ॥

मूलम्

स तस्यां पितृकन्यायां
पीवर्यां जनयिष्यति ।
कन्यां पुत्रांश् च चतुरो
योगाचार्यान् महाबलान् ॥ ह्व्_१३।४६ ॥

([क्: श्१ सुब्स्त्। फ़ोर् ४६cd: :क्]) पुत्रांश् च चतुरो योगा+ +चार्या वेदेषु कोविदाः । *ह्व्_१३।४६*२६५ । कृष्णं गौरं प्रभुं शम्भुं कन्यां कृत्वीं तथैव च । ([क्: त्१।२ ग् म्२।४ ins.: :क्]) कन्यां कीर्तिमतीं षष्ठीं योगमातां च योगिनीम् । *ह्व्_१३।४७अब्*२६६ ।
विश्वास-प्रस्तुतिः

([क्: म्१।३ ins.: :क्])
कृत्वीं कन्यां कीर्तिमतीं
योगां योगस्य मातरम् । ह्व्_१३।४७अब्२६७ ।
ब्रह्मदत्तस्य जननी
महिषी त्व् अणुहस्य या ॥ ह्व्_१३।४७ ॥

मूलम्

([क्: म्१।३ ins.: :क्])
कृत्वीं कन्यां कीर्तिमतीं
योगां योगस्य मातरम् । ह्व्_१३।४७अब्२६७ ।
ब्रह्मदत्तस्य जननी
महिषी त्व् अणुहस्य या ॥ ह्व्_१३।४७ ॥

विश्वास-प्रस्तुतिः

एतान् उत्पाद्य धर्मात्मा
योगाचार्याण् महाव्रताण् ।
([क्: क्१।४ Ñ२।३ व् ब् द्स् द्२।४-६ त्२ ग्१-३।५ म्४ ins.: :क्])
श्रुत्वा स जनकाद् धर्मान्
व्यासाद् अमितबुद्धिमान् । ह्व्_१३।४८अब्२६८ ।
महायोगी तदा गन्ता
पुनर् आवर्तिनीं गतिम् ॥ ह्व्_१३।४८ ॥

मूलम्

एतान् उत्पाद्य धर्मात्मा
योगाचार्याण् महाव्रताण् ।
([क्: क्१।४ Ñ२।३ व् ब् द्स् द्२।४-६ त्२ ग्१-३।५ म्४ ins.: :क्])
श्रुत्वा स जनकाद् धर्मान्
व्यासाद् अमितबुद्धिमान् । ह्व्_१३।४८अब्२६८ ।
महायोगी तदा गन्ता
पुनर् आवर्तिनीं गतिम् ॥ ह्व्_१३।४८ ॥

([क्: त्१ ग्३।४ म्२।३ ins. after ४८अब्, ग्१।५ म्४ after ४८, द्६ ग्२ चोन्त्। after २७१*: :क्]) आदित्यकिरणोपेतम् अपुनर् मार्गम् आस्थितः । *ह्व्_१३।४८*२६९ ।

([क्: श्१ ins. after ४८: :क्])
आदित्यरश्मिभिः पीतो ह्य्
अपुनर् वारम् एष्यति । ह्व्_१३।४८२७० ।

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् श्१ Ñ१) त् ग्२-४ ins. after ४८, ग्१।५ म्४ after २६९*: :क्])
यत् तत् पदम् अनुद्विग्नम्
अव्ययं ब्रह्म शाश्वतम् । ह्व्_१३।४८२७१ ।
अमूर्तिमन्तः पितरो
धर्ममूर्तिधरा मुने ।
कथा यत्र समुत्पन्ना
वृष्ण्यन्धककुलान्वया ॥ ह्व्_१३।४९ ॥

मूलम्

([क्: न् (एxचेप्त् श्१ Ñ१) त् ग्२-४ ins. after ४८, ग्१।५ म्४ after २६९*: :क्])
यत् तत् पदम् अनुद्विग्नम्
अव्ययं ब्रह्म शाश्वतम् । ह्व्_१३।४८२७१ ।
अमूर्तिमन्तः पितरो
धर्ममूर्तिधरा मुने ।
कथा यत्र समुत्पन्ना
वृष्ण्यन्धककुलान्वया ॥ ह्व्_१३।४९ ॥

विश्वास-प्रस्तुतिः

त्रय एते मया प्रोक्ताश्
चतुरो ऽन्यान् निबोध मे ।
यान् वक्ष्यामि द्विजश्रेष्ठ
मूर्तिमन्तो हि ते स्मृताः ॥

मूलम्

त्रय एते मया प्रोक्ताश्
चतुरो ऽन्यान् निबोध मे ।
यान् वक्ष्यामि द्विजश्रेष्ठ
मूर्तिमन्तो हि ते स्मृताः ॥

विश्वास-प्रस्तुतिः

समुत्पन्नाः स्वधायां तु
काव्याद् अग्नेः कवेः सुताः ॥ ह्व्_१३।५० ॥

मूलम्

समुत्पन्नाः स्वधायां तु
काव्याद् अग्नेः कवेः सुताः ॥ ह्व्_१३।५० ॥

विश्वास-प्रस्तुतिः

सुकाला नाम पितरो
वसिष्ठस्य प्रजापतेः ।
निरता देवलोकेषु
ज्योतिर्भासिषु भार्गव ॥

मूलम्

सुकाला नाम पितरो
वसिष्ठस्य प्रजापतेः ।
निरता देवलोकेषु
ज्योतिर्भासिषु भार्गव ॥

विश्वास-प्रस्तुतिः

सर्वकामसमृद्धेषु
द्विजास् तान् भावयन्त्य् उत ॥ ह्व्_१३।५१ ॥

मूलम्

सर्वकामसमृद्धेषु
द्विजास् तान् भावयन्त्य् उत ॥ ह्व्_१३।५१ ॥

विश्वास-प्रस्तुतिः

तेषां वै मानसी कन्या
गौर् नाम दिवि विश्रुता ।
तवैव वंशे या दत्ता
शुकस्य महिषी द्विज ॥ ह्व्_१३।५२ ॥

मूलम्

तेषां वै मानसी कन्या
गौर् नाम दिवि विश्रुता ।
तवैव वंशे या दत्ता
शुकस्य महिषी द्विज ॥ ह्व्_१३।५२ ॥

विश्वास-प्रस्तुतिः

एकशृङ्गा इति ख्याता
साध्यानां कीर्तिवर्धनी ।
मरीचिगर्भान् सा लोकान्
समावृत्य व्यवस्थिता ॥ ह्व्_१३।५३ ॥

मूलम्

एकशृङ्गा इति ख्याता
साध्यानां कीर्तिवर्धनी ।
मरीचिगर्भान् सा लोकान्
समावृत्य व्यवस्थिता ॥ ह्व्_१३।५३ ॥

विश्वास-प्रस्तुतिः

ये त्व् अथाङ्गिरसः पुत्राः
साध्यैः संवर्धिताः पुरा ।
([क्: क्१ द्२।५।६ त् ग् म्१-४ ins. after ५४अब्, द्४ after ५०: :क्])
उपहूताः स्मृतास् ते वै
पितरो भास्वरा दिवि । ह्व्_१३।५४अब्२७२ ।
तान् क्षत्रियगणास् तात
भावयन्ति फलार्थिनः ॥ ह्व्_१३।५४ ॥

मूलम्

ये त्व् अथाङ्गिरसः पुत्राः
साध्यैः संवर्धिताः पुरा ।
([क्: क्१ द्२।५।६ त् ग् म्१-४ ins. after ५४अब्, द्४ after ५०: :क्])
उपहूताः स्मृतास् ते वै
पितरो भास्वरा दिवि । ह्व्_१३।५४अब्२७२ ।
तान् क्षत्रियगणास् तात
भावयन्ति फलार्थिनः ॥ ह्व्_१३।५४ ॥

विश्वास-प्रस्तुतिः

एतेषां मानसी कन्या
यशोदा नाम विश्रुता ।
पत्नी या विश्वमहतः
स्नुषा वै वृद्धशर्मणः ॥

मूलम्

एतेषां मानसी कन्या
यशोदा नाम विश्रुता ।
पत्नी या विश्वमहतः
स्नुषा वै वृद्धशर्मणः ॥

विश्वास-प्रस्तुतिः

राजर्षेर् जननी तात
दिलीपस्य महात्मनः ॥ ह्व्_१३।५५ ॥

मूलम्

राजर्षेर् जननी तात
दिलीपस्य महात्मनः ॥ ह्व्_१३।५५ ॥

विश्वास-प्रस्तुतिः

तस्य यज्ञे पुरा गीता
गाथाः प्रीतैर् महर्षिभिः ।
तदा देवयुगे तात
वाजिमेधे महामखे ॥ ह्व्_१३।५६ ॥

मूलम्

तस्य यज्ञे पुरा गीता
गाथाः प्रीतैर् महर्षिभिः ।
तदा देवयुगे तात
वाजिमेधे महामखे ॥ ह्व्_१३।५६ ॥

विश्वास-प्रस्तुतिः

अग्नेर् जन्म तथा श्रुत्वा
शाण्डिल्यस्य महात्मनः ।
दिलीपं यजमानं ये
पश्यन्ति सुसमाहिताः ॥

मूलम्

अग्नेर् जन्म तथा श्रुत्वा
शाण्डिल्यस्य महात्मनः ।
दिलीपं यजमानं ये
पश्यन्ति सुसमाहिताः ॥

विश्वास-प्रस्तुतिः

सत्यवन्तं महात्मानं
ते ऽपि स्वर्गजितो नराः ॥ ह्व्_१३।५७ ॥

मूलम्

सत्यवन्तं महात्मानं
ते ऽपि स्वर्गजितो नराः ॥ ह्व्_१३।५७ ॥

([क्: ग्३।५ म्३ सुब्स्त्। फ़ोर् ५७cd: :क्]) यजमानो दिलीपस् तु तदा दृष्टो मनीषिभिः । *ह्व्_१३।५७*२७३ ।
विश्वास-प्रस्तुतिः

([क्: द्६ त्१।२ ग्१।२।४।५ म्४ ins. after ५७: :क्])
यस्याश्वमेधावभृथे
सह तेन दिवं गताः । ह्व्_१३।५७२७४ ।
सुस्वधा नाम पितरः
कर्दमस्य प्रजापतेः ।
समुत्पन्नस्य पुलहान्
महात्मानो द्विजर्षभाः ॥ ह्व्_१३।५८ ॥

मूलम्

([क्: द्६ त्१।२ ग्१।२।४।५ म्४ ins. after ५७: :क्])
यस्याश्वमेधावभृथे
सह तेन दिवं गताः । ह्व्_१३।५७२७४ ।
सुस्वधा नाम पितरः
कर्दमस्य प्रजापतेः ।
समुत्पन्नस्य पुलहान्
महात्मानो द्विजर्षभाः ॥ ह्व्_१३।५८ ॥

विश्वास-प्रस्तुतिः

लोकेषु दिवि वर्तन्ते
कामगेषु विहङ्गमाः ।
तांस् तु वैश्यगणास् तात
भावयन्ति फलार्थिनः ॥ ह्व्_१३।५९ ॥

मूलम्

लोकेषु दिवि वर्तन्ते
कामगेषु विहङ्गमाः ।
तांस् तु वैश्यगणास् तात
भावयन्ति फलार्थिनः ॥ ह्व्_१३।५९ ॥

विश्वास-प्रस्तुतिः

तेषां वै मानसी कन्या
विरजा नाम विश्रुता ।
ययातेर् जननी ब्रह्मन्
महिषी नहुषस्य च ॥ ह्व्_१३।६० ॥

मूलम्

तेषां वै मानसी कन्या
विरजा नाम विश्रुता ।
ययातेर् जननी ब्रह्मन्
महिषी नहुषस्य च ॥ ह्व्_१३।६० ॥

विश्वास-प्रस्तुतिः

([क्: द्६ ins.: :क्])
तपसा वा प्रयत्नेन
दृश्यन्ते मां स्वचक्षुषा । ह्व्_१३।६०२७५:१ ।
इत्य् एते पितरो देवा
देवाश् च पितरः पुनः । ह्व्_१३।६०२७५:२ ।
त्रय एते गणाः प्रोक्ताश्
चतुर्थं तु निबोध मे ।
उत्पन्ना ये स्वधायां तु
सोमपा वै कवेः सुताः ॥ ह्व्_१३।६१ ॥

मूलम्

([क्: द्६ ins.: :क्])
तपसा वा प्रयत्नेन
दृश्यन्ते मां स्वचक्षुषा । ह्व्_१३।६०२७५:१ ।
इत्य् एते पितरो देवा
देवाश् च पितरः पुनः । ह्व्_१३।६०२७५:२ ।
त्रय एते गणाः प्रोक्ताश्
चतुर्थं तु निबोध मे ।
उत्पन्ना ये स्वधायां तु
सोमपा वै कवेः सुताः ॥ ह्व्_१३।६१ ॥

विश्वास-प्रस्तुतिः

हिरण्यगर्भस्य सुताः
शूद्रास् तान् भावयन्त्य् उत ।
मानसा नाम ते लोका
यत्र वर्तन्ति ते दिवि ॥ ह्व्_१३।६२ ॥

मूलम्

हिरण्यगर्भस्य सुताः
शूद्रास् तान् भावयन्त्य् उत ।
मानसा नाम ते लोका
यत्र वर्तन्ति ते दिवि ॥ ह्व्_१३।६२ ॥

विश्वास-प्रस्तुतिः

तेषां वै मानसी कन्या
नर्मदा सरितां वरा ।
या भावयति भूतानि
दक्षिणापथगामिनी ॥

मूलम्

तेषां वै मानसी कन्या
नर्मदा सरितां वरा ।
या भावयति भूतानि
दक्षिणापथगामिनी ॥

विश्वास-प्रस्तुतिः

पुरुकुत्सस्य या पत्नी
त्रसद्दस्योर् जनन्य् अपि ॥ ह्व्_१३।६३ ॥

मूलम्

पुरुकुत्सस्य या पत्नी
त्रसद्दस्योर् जनन्य् अपि ॥ ह्व्_१३।६३ ॥

([क्: Ñ२।३ व् ब् द्स् द्५ त्३।४ ins.: :क्]) जननी त्रसदस्योश् च पुरुकुत्सपरिग्रहः । *ह्व्_१३।६३*२७६ ।
विश्वास-प्रस्तुतिः

([क्: द्६ त्१।२ ग् म् सुब्स्त्। फ़ोर् ६३एफ़्: :क्])
पुरुकुत्सस्य सा भार्या
त्रसद्दस्युश् च तत्सुतः । ह्व्_१३।६३२७७ ।
तेषाम् अथाभ्युपगमान्
मनुस् तात युगे युगे ।
प्रवर्तयति श्राद्धानि
नष्टे धर्मे प्रजापतिः ॥ ह्व्_१३।६४ ॥

मूलम्

([क्: द्६ त्१।२ ग् म् सुब्स्त्। फ़ोर् ६३एफ़्: :क्])
पुरुकुत्सस्य सा भार्या
त्रसद्दस्युश् च तत्सुतः । ह्व्_१३।६३२७७ ।
तेषाम् अथाभ्युपगमान्
मनुस् तात युगे युगे ।
प्रवर्तयति श्राद्धानि
नष्टे धर्मे प्रजापतिः ॥ ह्व्_१३।६४ ॥

विश्वास-प्रस्तुतिः

पितॄणाम् आदिसर्गेण
सर्वेषां द्विजसत्तम ।
तस्माद् एनं स्वधर्मेण
श्राद्धदेवं वदन्ति वै ॥ ह्व्_१३।६५ ॥

मूलम्

पितॄणाम् आदिसर्गेण
सर्वेषां द्विजसत्तम ।
तस्माद् एनं स्वधर्मेण
श्राद्धदेवं वदन्ति वै ॥ ह्व्_१३।६५ ॥

विश्वास-प्रस्तुतिः

सर्वेषां राजतं पात्रम्
अथ वा रजतान्वितम् ।
दत्तं स्वधां पुरोधाय
श्राद्धे प्रीणाति वै पितॄन् ॥ ह्व्_१३।६६ ॥

मूलम्

सर्वेषां राजतं पात्रम्
अथ वा रजतान्वितम् ।
दत्तं स्वधां पुरोधाय
श्राद्धे प्रीणाति वै पितॄन् ॥ ह्व्_१३।६६ ॥

विश्वास-प्रस्तुतिः

सोमस्याप्यायनं कृत्वा
वह्नेर् वैवस्वतस्य च ।
उदगायनम् अप्य् अग्नाव्
अग्न्यभावे ऽप्सु वा पुनः ॥ ह्व्_१३।६७ ॥

मूलम्

सोमस्याप्यायनं कृत्वा
वह्नेर् वैवस्वतस्य च ।
उदगायनम् अप्य् अग्नाव्
अग्न्यभावे ऽप्सु वा पुनः ॥ ह्व्_१३।६७ ॥

विश्वास-प्रस्तुतिः

([क्: क्१ द्स्१ द्४ ins.: :क्])
अजेषु ताम्रवर्णेषु
गोषु वा कपिलासु च । ह्व्_१३।६७२७८:१ ।
शृङ्गाम्भःपरिषिक्तासु
स्नुषासु रमणीषु च । ह्व्_१३।६७२७८:२ ।
अप्रजासु सवत्सासु
दातव्याः शुचिपिण्डकाः । ह्व्_१३।६७२७८:३ ।
पितॄन् प्रीणाति यो भक्त्या
पितरः प्रीणयन्ति तम् ।
यच्छन्ति पितरः पुष्टिं
प्रजाश् च विपुलास् तथा ॥

मूलम्

([क्: क्१ द्स्१ द्४ ins.: :क्])
अजेषु ताम्रवर्णेषु
गोषु वा कपिलासु च । ह्व्_१३।६७२७८:१ ।
शृङ्गाम्भःपरिषिक्तासु
स्नुषासु रमणीषु च । ह्व्_१३।६७२७८:२ ।
अप्रजासु सवत्सासु
दातव्याः शुचिपिण्डकाः । ह्व्_१३।६७२७८:३ ।
पितॄन् प्रीणाति यो भक्त्या
पितरः प्रीणयन्ति तम् ।
यच्छन्ति पितरः पुष्टिं
प्रजाश् च विपुलास् तथा ॥

विश्वास-प्रस्तुतिः

स्वर्गम् आरोग्यम् एवाथ
यद् अन्यद् अपि चेप्सितम् ॥ ह्व्_१३।६८ ॥

मूलम्

स्वर्गम् आरोग्यम् एवाथ
यद् अन्यद् अपि चेप्सितम् ॥ ह्व्_१३।६८ ॥

विश्वास-प्रस्तुतिः

([क्: त्१।२ ग् म्४ सुब्स्त्। फ़ोर् ६८cd, म्१-३ फ़ोर् ६८च्-फ़्: :क्])
पितरः पुष्टिकामस्य
प्रजाकामस्य वा पुनः । ह्व्_१३।६८२७९:१ ।
पुष्टिं प्रजां च स्वर्गं च
प्रयच्छन्ति पितामहाः । ह्व्_१३।६८२७९:२ ।
([क्: द्३ सुब्स्त्। फ़ोर् ६८एफ़्: :क्])
आयुर् धनं सुखं चैव
स्वर्गम् आरोग्यम् एव च । ह्व्_१३।६८२८०:१ ।
दद्युः पितामहाः प्रीत्या
यद् अन्यद् वापि चेप्सितम् । ह्व्_१३।६८२८०:२ ।
देवकार्याद् अपि मुने
पितृकार्यं विशिष्यते ।
देवतानां हि पितरः
पूर्वम् आप्यायनं स्मृतम् ॥ ह्व्_१३।६९ ॥

मूलम्

([क्: त्१।२ ग् म्४ सुब्स्त्। फ़ोर् ६८cd, म्१-३ फ़ोर् ६८च्-फ़्: :क्])
पितरः पुष्टिकामस्य
प्रजाकामस्य वा पुनः । ह्व्_१३।६८२७९:१ ।
पुष्टिं प्रजां च स्वर्गं च
प्रयच्छन्ति पितामहाः । ह्व्_१३।६८२७९:२ ।
([क्: द्३ सुब्स्त्। फ़ोर् ६८एफ़्: :क्])
आयुर् धनं सुखं चैव
स्वर्गम् आरोग्यम् एव च । ह्व्_१३।६८२८०:१ ।
दद्युः पितामहाः प्रीत्या
यद् अन्यद् वापि चेप्सितम् । ह्व्_१३।६८२८०:२ ।
देवकार्याद् अपि मुने
पितृकार्यं विशिष्यते ।
देवतानां हि पितरः
पूर्वम् आप्यायनं स्मृतम् ॥ ह्व्_१३।६९ ॥

विश्वास-प्रस्तुतिः

शीघ्रप्रसादा ह्य् अक्रोधा
लोकस्याप्यायनं परम् ।
स्थिरप्रसादाश् च सदा
तान् नमस्यस्व भार्गव ॥ ह्व्_१३।७० ॥

मूलम्

शीघ्रप्रसादा ह्य् अक्रोधा
लोकस्याप्यायनं परम् ।
स्थिरप्रसादाश् च सदा
तान् नमस्यस्व भार्गव ॥ ह्व्_१३।७० ॥

विश्वास-प्रस्तुतिः

पितृभक्तो ऽसि विप्रर्षे
सद्भक्तश् च न संशयः ।
श्रेयस् ते ऽद्य विधास्यामि
प्रत्यक्षं कुरु तत् स्वयम् ॥ ह्व्_१३।७१ ॥

मूलम्

पितृभक्तो ऽसि विप्रर्षे
सद्भक्तश् च न संशयः ।
श्रेयस् ते ऽद्य विधास्यामि
प्रत्यक्षं कुरु तत् स्वयम् ॥ ह्व्_१३।७१ ॥

विश्वास-प्रस्तुतिः

चक्षुर् दिव्यं सविज्ञानं
प्रदिशामि च ते ऽनघ ।
गतिम् एताम् अप्रमत्तो
मार्कण्डेय निशामय ॥ ह्व्_१३।७२ ॥

मूलम्

चक्षुर् दिव्यं सविज्ञानं
प्रदिशामि च ते ऽनघ ।
गतिम् एताम् अप्रमत्तो
मार्कण्डेय निशामय ॥ ह्व्_१३।७२ ॥

विश्वास-प्रस्तुतिः

न हि योगगतिर् दिव्या
न पितॄणां परा गतिः ।
त्वद्विधेनापि सिद्धेन
दृश्यते मांसचक्षुषा ॥ ह्व्_१३।७३ ॥

मूलम्

न हि योगगतिर् दिव्या
न पितॄणां परा गतिः ।
त्वद्विधेनापि सिद्धेन
दृश्यते मांसचक्षुषा ॥ ह्व्_१३।७३ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ त् ग् म्१।३।४ ins. अप्पेन्दिx इ, नो। ३ after १३।७३, म्२ after १३।६९ :क्])
एवम् उक्त्वा स देवेशो
माम् उपस्थितम् अग्रतः ।
चक्षुर् दत्त्वा सविज्ञानं
देवानाम् अपि दुर्लभम् ॥

मूलम्

([क्: द्६ त् ग् म्१।३।४ ins. अप्पेन्दिx इ, नो। ३ after १३।७३, म्२ after १३।६९ :क्])
एवम् उक्त्वा स देवेशो
माम् उपस्थितम् अग्रतः ।
चक्षुर् दत्त्वा सविज्ञानं
देवानाम् अपि दुर्लभम् ॥

विश्वास-प्रस्तुतिः

जगाम गतिम् इष्टां वै
द्वितीयो ऽग्निर् इव ज्वलन् ॥ ह्व्_१३।७४ ॥

मूलम्

जगाम गतिम् इष्टां वै
द्वितीयो ऽग्निर् इव ज्वलन् ॥ ह्व्_१३।७४ ॥

विश्वास-प्रस्तुतिः

तन् निबोध कुरुश्रेष्ठ
यन् मयासीन् निशामितम् ।
प्रसादात् तस्य देवस्य
दुर्ज्ञेयं भुवि मानुषैः ॥ ह्व्_१३।७५ ॥

मूलम्

तन् निबोध कुरुश्रेष्ठ
यन् मयासीन् निशामितम् ।
प्रसादात् तस्य देवस्य
दुर्ज्ञेयं भुवि मानुषैः ॥ ह्व्_१३।७५ ॥

([क्: द्६ स् ग्(एद्।) ins. अप्पेन्दिx इ, नो। ४ after १३,७५ :क्]) [चोलोफोन्]