०१२

विश्वास-प्रस्तुतिः

{भीष्म उवाच}
ततो हं तस्य वचनान्
मार्कण्डेयं समाहितः ।
प्रश्नं तम् एवान्वपृच्छं
यन् मे पृष्टः पुरा पिता ॥ ह्व्_१२।१ ॥

मूलम्

{भीष्म उवाच}
ततो हं तस्य वचनान्
मार्कण्डेयं समाहितः ।
प्रश्नं तम् एवान्वपृच्छं
यन् मे पृष्टः पुरा पिता ॥ ह्व्_१२।१ ॥

विश्वास-प्रस्तुतिः

स माम् उवाच धर्मात्मा
मार्कण्डेयो महातपाः ।
भीष्म वक्ष्यामि तत्त्वेन
शृणुष्व प्रयतो नघ ॥ ह्व्_१२।२ ॥

मूलम्

स माम् उवाच धर्मात्मा
मार्कण्डेयो महातपाः ।
भीष्म वक्ष्यामि तत्त्वेन
शृणुष्व प्रयतो नघ ॥ ह्व्_१२।२ ॥

विश्वास-प्रस्तुतिः

मयापि हि प्रसादाद् वै
दीर्घायुष्ट्वं पितुः प्रभो ।
पितृभक्त्यैव लब्धं च
प्राग्लोके परमं यशः ॥ ह्व्_१२।३ ॥

मूलम्

मयापि हि प्रसादाद् वै
दीर्घायुष्ट्वं पितुः प्रभो ।
पितृभक्त्यैव लब्धं च
प्राग्लोके परमं यशः ॥ ह्व्_१२।३ ॥

विश्वास-प्रस्तुतिः

सो हं युगस्य पर्यन्ते
बहुवर्षसहस्रिके ।
अधिरुह्य गिरिं मेरुं
तपो तप्यं सुदुश्चरम् ॥ ह्व्_१२।४ ॥

मूलम्

सो हं युगस्य पर्यन्ते
बहुवर्षसहस्रिके ।
अधिरुह्य गिरिं मेरुं
तपो तप्यं सुदुश्चरम् ॥ ह्व्_१२।४ ॥

विश्वास-प्रस्तुतिः

ततः कदाचित् पश्यामि
दिवं प्रज्वाल्य तेजसा ।
विमानं महद् आयान्तम्
उत्तरेण गिरेस् तदा ॥ ह्व्_१२।५ ॥

मूलम्

ततः कदाचित् पश्यामि
दिवं प्रज्वाल्य तेजसा ।
विमानं महद् आयान्तम्
उत्तरेण गिरेस् तदा ॥ ह्व्_१२।५ ॥

विश्वास-प्रस्तुतिः

अपश्यं तत्र चैवाहं
शयानं दीप्ततेजसम् ।
अङ्गुष्ठमात्रं पुरुषम्
अग्नाव् अग्निम् इवाहितम् ॥ ह्व्_१२।६ ॥

मूलम्

अपश्यं तत्र चैवाहं
शयानं दीप्ततेजसम् ।
अङ्गुष्ठमात्रं पुरुषम्
अग्नाव् अग्निम् इवाहितम् ॥ ह्व्_१२।६ ॥

विश्वास-प्रस्तुतिः

सो हं तस्मै नमस् कृत्वा
प्रणम्य शिरसा प्रभुम् ।
सन्निविष्टं विमानस्थं
पाद्यार्घ्याभ्यां अपूजयम् ॥ ह्व्_१२।७ ॥

मूलम्

सो हं तस्मै नमस् कृत्वा
प्रणम्य शिरसा प्रभुम् ।
सन्निविष्टं विमानस्थं
पाद्यार्घ्याभ्यां अपूजयम् ॥ ह्व्_१२।७ ॥

विश्वास-प्रस्तुतिः

अपृच्छं चैव दुर्धर्षं
विद्याम त्वाम् कथं प्रभो ।
दैवतं ह्य् असि देवानाम्
इति मे वर्तते मतिः ॥ ह्व्_१२।८ ॥

मूलम्

अपृच्छं चैव दुर्धर्षं
विद्याम त्वाम् कथं प्रभो ।
दैवतं ह्य् असि देवानाम्
इति मे वर्तते मतिः ॥ ह्व्_१२।८ ॥

विश्वास-प्रस्तुतिः

स माम् उवाच धर्मात्मा
स्मयमान इवानघ ।
न ते तपः सुचरितं
येन मां नावबुध्यसे ॥ ह्व्_१२।९ ॥

मूलम्

स माम् उवाच धर्मात्मा
स्मयमान इवानघ ।
न ते तपः सुचरितं
येन मां नावबुध्यसे ॥ ह्व्_१२।९ ॥

विश्वास-प्रस्तुतिः

क्षणेनैव प्रमाणं स
बिभ्रद् अन्यद् अनुत्तमम् ।
रूपेण न मया कश्चिद्
दृष्टपूर्वः पुमान् क्वचित् ॥ ह्व्_१२।१० ॥

मूलम्

क्षणेनैव प्रमाणं स
बिभ्रद् अन्यद् अनुत्तमम् ।
रूपेण न मया कश्चिद्
दृष्टपूर्वः पुमान् क्वचित् ॥ ह्व्_१२।१० ॥

([क्: Ñ२ व्२ ins.: :क्]) स माम् उवाच तेजस्वी वाचा मधुरया पुनः । *ह्व्_१२।१०*२३८:१ । कौतूहलपरिज्ञाने यत् तद् ब्रह्मन् ददामि ते । *ह्व्_१२।१०*२३८:२ ।
विश्वास-प्रस्तुतिः

{सनत्कुमार उवाच}
विद्धि मां ब्रह्मणः पुत्रं
मानसं पूर्वजं प्रभो ।
तपोवीर्यात् समुत्पन्नं
नारायणगुणात्मकम् ॥ ह्व्_१२।११ ॥

मूलम्

{सनत्कुमार उवाच}
विद्धि मां ब्रह्मणः पुत्रं
मानसं पूर्वजं प्रभो ।
तपोवीर्यात् समुत्पन्नं
नारायणगुणात्मकम् ॥ ह्व्_१२।११ ॥

विश्वास-प्रस्तुतिः

सनत्कुमार इति यः
श्रुतो वेदेषु वै पुरा ।
सो स्मि भार्गव भद्रं ते
कं कामं करवाणि ते ॥ ह्व्_१२।१२ ॥

मूलम्

सनत्कुमार इति यः
श्रुतो वेदेषु वै पुरा ।
सो स्मि भार्गव भद्रं ते
कं कामं करवाणि ते ॥ ह्व्_१२।१२ ॥

विश्वास-प्रस्तुतिः

ये त्व् अन्ये ब्रह्मणः पुत्रा
यवीयांसस् तु ते मम ।
भ्रातरः सप्त दुर्धर्षा
येषां वंशाः प्रतिष्ठिताः ॥ ह्व्_१२।१३ ॥

मूलम्

ये त्व् अन्ये ब्रह्मणः पुत्रा
यवीयांसस् तु ते मम ।
भ्रातरः सप्त दुर्धर्षा
येषां वंशाः प्रतिष्ठिताः ॥ ह्व्_१२।१३ ॥

विश्वास-प्रस्तुतिः

([क्: त्२ ग्१।३।५ ins.: :क्])
मरीचिर् अत्रिर् भगवान्
पुलस्त्यः पुलहः क्रतुः । ह्व्_१२।१३२३९:१ ।
अङ्गिराश् च वसिष्ठश् च
सप्तैते ब्रह्मणः सुताः । ह्व्_१२।१३२३९:२ ।
क्रतुर् वसिष्ठः पुलहः
पुलस्त्यो त्रिस् तथाङ्गिराः ।
([क्: श्१ क्१।३ द्न् द्३-५ ins.: :क्])
मरीचिस् तु तथा विद्वान्
देवगन्धर्वसेविताः । ह्व्_१२।१४अब्२४० ।
त्रींल् लोकाण् धारयन्तीमान्
देवदानवपूजिताः ॥ ह्व्_१२।१४ ॥

मूलम्

([क्: त्२ ग्१।३।५ ins.: :क्])
मरीचिर् अत्रिर् भगवान्
पुलस्त्यः पुलहः क्रतुः । ह्व्_१२।१३२३९:१ ।
अङ्गिराश् च वसिष्ठश् च
सप्तैते ब्रह्मणः सुताः । ह्व्_१२।१३२३९:२ ।
क्रतुर् वसिष्ठः पुलहः
पुलस्त्यो त्रिस् तथाङ्गिराः ।
([क्: श्१ क्१।३ द्न् द्३-५ ins.: :क्])
मरीचिस् तु तथा विद्वान्
देवगन्धर्वसेविताः । ह्व्_१२।१४अब्२४० ।
त्रींल् लोकाण् धारयन्तीमान्
देवदानवपूजिताः ॥ ह्व्_१२।१४ ॥

विश्वास-प्रस्तुतिः

वयं तु यतिधर्माण
आरोप्यात्मानम् आत्मनि ।
प्रजाधर्मं च कामं च
वर्तयामो महामुने ॥ ह्व्_१२।१५ ॥

मूलम्

वयं तु यतिधर्माण
आरोप्यात्मानम् आत्मनि ।
प्रजाधर्मं च कामं च
वर्तयामो महामुने ॥ ह्व्_१२।१५ ॥

विश्वास-प्रस्तुतिः

यथोत्पन्नस् तथैवाहं
कुमार इति विद्धि माम् ।
तस्मात् सनत्कुमारेति
नामैतन् मे प्रतिष्ठितम् ॥ ह्व्_१२।१६ ॥

मूलम्

यथोत्पन्नस् तथैवाहं
कुमार इति विद्धि माम् ।
तस्मात् सनत्कुमारेति
नामैतन् मे प्रतिष्ठितम् ॥ ह्व्_१२।१६ ॥

विश्वास-प्रस्तुतिः

मद्भक्त्या ते तपश् चीर्णं
मम दर्शनकाङ्क्षया ।
एष दृष्टो सि भवता
कं कामं करवाणि ते ॥ ह्व्_१२।१७ ॥

मूलम्

मद्भक्त्या ते तपश् चीर्णं
मम दर्शनकाङ्क्षया ।
एष दृष्टो सि भवता
कं कामं करवाणि ते ॥ ह्व्_१२।१७ ॥

विश्वास-प्रस्तुतिः

इत्य् उक्तवन्तं तम् अहं
प्रत्यवोचं सनातनम् ।
अनुज्ञातो भगवता
प्रीयता तेन भारत ॥ ह्व्_१२।१८ ॥

मूलम्

इत्य् उक्तवन्तं तम् अहं
प्रत्यवोचं सनातनम् ।
अनुज्ञातो भगवता
प्रीयता तेन भारत ॥ ह्व्_१२।१८ ॥

विश्वास-प्रस्तुतिः

ततो हम् अर्थम् एतं वै
तम् अपृच्छं सनातनम् ।
पृष्टः पितॄणां सर्गं च
फलं श्राद्धस्य चानघ ॥

मूलम्

ततो हम् अर्थम् एतं वै
तम् अपृच्छं सनातनम् ।
पृष्टः पितॄणां सर्गं च
फलं श्राद्धस्य चानघ ॥

विश्वास-प्रस्तुतिः

चिच्छेद संशयं भीष्म
स तु देवेश्वरो मम ॥ ह्व्_१२।१९ ॥

मूलम्

चिच्छेद संशयं भीष्म
स तु देवेश्वरो मम ॥ ह्व्_१२।१९ ॥

विश्वास-प्रस्तुतिः

स माम् उवाच प्रीतात्मा
कथान्ते बहुवार्षिके ।
रमे त्वयाहं विप्रर्षे
शृणु सर्वं यथातथम् ॥ ह्व्_१२।२० ॥

मूलम्

स माम् उवाच प्रीतात्मा
कथान्ते बहुवार्षिके ।
रमे त्वयाहं विप्रर्षे
शृणु सर्वं यथातथम् ॥ ह्व्_१२।२० ॥

विश्वास-प्रस्तुतिः

देवान् असृजत ब्रह्मा
मां यक्ष्यन्तीति भार्गव ।
तम् उत्सृज्य तदात्मानम्
अयजंस् ते फलार्थिनः ॥ ह्व्_१२।२१ ॥

मूलम्

देवान् असृजत ब्रह्मा
मां यक्ष्यन्तीति भार्गव ।
तम् उत्सृज्य तदात्मानम्
अयजंस् ते फलार्थिनः ॥ ह्व्_१२।२१ ॥

विश्वास-प्रस्तुतिः

ते शप्ता ब्रह्मणा मूढा
नष्टसञ्ज्ञा विचेतसः ।
न स्म किञ्चित् प्रजानन्ति
ततो लोको व्यमुह्यत ॥ ह्व्_१२।२२ ॥

मूलम्

ते शप्ता ब्रह्मणा मूढा
नष्टसञ्ज्ञा विचेतसः ।
न स्म किञ्चित् प्रजानन्ति
ततो लोको व्यमुह्यत ॥ ह्व्_१२।२२ ॥

विश्वास-प्रस्तुतिः

ते भूयः प्रणताः सर्वे
प्रायाचन्त पितामहम् ।
अनुग्रहाय लोकानां
ततस् तान् अब्रवीत् प्रभुः ॥ ह्व्_१२।२३ ॥

मूलम्

ते भूयः प्रणताः सर्वे
प्रायाचन्त पितामहम् ।
अनुग्रहाय लोकानां
ततस् तान् अब्रवीत् प्रभुः ॥ ह्व्_१२।२३ ॥

विश्वास-प्रस्तुतिः

प्रायश्चित्तं चरध्वं वै
व्यभिचारो हि वः कृतः ।
पुत्रांश् च परिपृच्छध्वं
ततो ज्ञानम् अवाप्स्यथ ॥ ह्व्_१२।२४ ॥

मूलम्

प्रायश्चित्तं चरध्वं वै
व्यभिचारो हि वः कृतः ।
पुत्रांश् च परिपृच्छध्वं
ततो ज्ञानम् अवाप्स्यथ ॥ ह्व्_१२।२४ ॥

विश्वास-प्रस्तुतिः

प्रायश्चित्तक्रियार्थं ते
पुत्रान् पप्रच्छुर् आर्तवत् ।
तेभ्यस् ते प्रयतात्मानः
शशंसुर् तनयास् तदा ॥ ह्व्_१२।२५ ॥

मूलम्

प्रायश्चित्तक्रियार्थं ते
पुत्रान् पप्रच्छुर् आर्तवत् ।
तेभ्यस् ते प्रयतात्मानः
शशंसुर् तनयास् तदा ॥ ह्व्_१२।२५ ॥

विश्वास-प्रस्तुतिः

प्रायश्चित्तानि धर्मज्ञा
वाङ्मनःकर्मजानि वै ।
शंसन्ति कुशला नित्यं
चक्षुष्मन्तो हि तत्त्वतः ॥ ह्व्_१२।२६ ॥

मूलम्

प्रायश्चित्तानि धर्मज्ञा
वाङ्मनःकर्मजानि वै ।
शंसन्ति कुशला नित्यं
चक्षुष्मन्तो हि तत्त्वतः ॥ ह्व्_१२।२६ ॥

विश्वास-प्रस्तुतिः

प्रायश्चित्तार्थतत्त्वज्ञा
लब्धसञ्ज्ञा दिवौकसः ।
गम्यतां पुत्रकाश् चेति
पुत्रैर् उक्ताश् च ते तदा ॥ ह्व्_१२।२७ ॥

मूलम्

प्रायश्चित्तार्थतत्त्वज्ञा
लब्धसञ्ज्ञा दिवौकसः ।
गम्यतां पुत्रकाश् चेति
पुत्रैर् उक्ताश् च ते तदा ॥ ह्व्_१२।२७ ॥

विश्वास-प्रस्तुतिः

अभिशप्तास् तु ते देवाः
पुत्रवाक्येन तेन वै ।
पितामहम् उपागच्छन्
संशयच्छेदनाय वै ॥ ह्व्_१२।२८ ॥

मूलम्

अभिशप्तास् तु ते देवाः
पुत्रवाक्येन तेन वै ।
पितामहम् उपागच्छन्
संशयच्छेदनाय वै ॥ ह्व्_१२।२८ ॥

विश्वास-प्रस्तुतिः

ततस् तान् अब्रवीद् देवो
यूयं वै ब्रह्मवादिनः ।
तस्माद् यद् उक्ता यूयं तैस्
तत् तथा न तद् अन्यथा ॥ ह्व्_१२।२९ ॥

मूलम्

ततस् तान् अब्रवीद् देवो
यूयं वै ब्रह्मवादिनः ।
तस्माद् यद् उक्ता यूयं तैस्
तत् तथा न तद् अन्यथा ॥ ह्व्_१२।२९ ॥

विश्वास-प्रस्तुतिः

यूयं शरीरकर्तारस्
तेषां देवा भविष्यथ ।
ते तु ज्ञानप्रदातारः
पितरो वो न संशयः ॥ ह्व्_१२।३० ॥

मूलम्

यूयं शरीरकर्तारस्
तेषां देवा भविष्यथ ।
ते तु ज्ञानप्रदातारः
पितरो वो न संशयः ॥ ह्व्_१२।३० ॥

विश्वास-प्रस्तुतिः

अन्योन्यपितरो यूयं
ते चैवेति निबोधत ।
देवाश् च पितरश् चैव
तद् बुध्यध्वं दिवौकसः ॥ ह्व्_१२।३१ ॥

मूलम्

अन्योन्यपितरो यूयं
ते चैवेति निबोधत ।
देवाश् च पितरश् चैव
तद् बुध्यध्वं दिवौकसः ॥ ह्व्_१२।३१ ॥

विश्वास-प्रस्तुतिः

ततस् ते पुनर् आगम्य
पुत्रान् ऊचुर् दिवौकसः ।
ब्रह्मणा छिन्नसन्देहाः
प्रीतिमन्तः परस्परम् ॥ ह्व्_१२।३२ ॥

मूलम्

ततस् ते पुनर् आगम्य
पुत्रान् ऊचुर् दिवौकसः ।
ब्रह्मणा छिन्नसन्देहाः
प्रीतिमन्तः परस्परम् ॥ ह्व्_१२।३२ ॥

विश्वास-प्रस्तुतिः

यूयं वै पितरो स्माकं
यैर् वयं प्रतिबोधिताः ।
धर्मज्ञाः कश् च वः कामः
को वरो वः प्रदीयताम् ॥

मूलम्

यूयं वै पितरो स्माकं
यैर् वयं प्रतिबोधिताः ।
धर्मज्ञाः कश् च वः कामः
को वरो वः प्रदीयताम् ॥

विश्वास-प्रस्तुतिः

यद् उक्तं चैव युष्माभिस्
तत् तथा न तद् अन्यथा ॥ ह्व्_१२।३३ ॥

मूलम्

यद् उक्तं चैव युष्माभिस्
तत् तथा न तद् अन्यथा ॥ ह्व्_१२।३३ ॥

विश्वास-प्रस्तुतिः

उक्ताश् च यस्माद् युष्माभिः
पुत्रका इति वै वयम् ।
तस्माद् भवन्तः पितरो
भविष्यन्ति न संशयः ॥ ह्व्_१२।३४ ॥

मूलम्

उक्ताश् च यस्माद् युष्माभिः
पुत्रका इति वै वयम् ।
तस्माद् भवन्तः पितरो
भविष्यन्ति न संशयः ॥ ह्व्_१२।३४ ॥

विश्वास-प्रस्तुतिः

यो निष्ट्वा च पितॄन् श्राद्धैः
क्रियाः काश्चित् करिष्यति ।
राक्षसा दानवा नागाः
फलं प्राप्स्यन्ति तस्य तत् ॥ ह्व्_१२।३५ ॥

मूलम्

यो निष्ट्वा च पितॄन् श्राद्धैः
क्रियाः काश्चित् करिष्यति ।
राक्षसा दानवा नागाः
फलं प्राप्स्यन्ति तस्य तत् ॥ ह्व्_१२।३५ ॥

विश्वास-प्रस्तुतिः

श्राद्धैर् आप्यायिताश् चैव
पितरः सोमम् अव्ययम् ।
आप्याय्यमानं युष्माभिर्
वर्धयिष्यन्ति नित्यदा ॥ ह्व्_१२।३६ ॥

मूलम्

श्राद्धैर् आप्यायिताश् चैव
पितरः सोमम् अव्ययम् ।
आप्याय्यमानं युष्माभिर्
वर्धयिष्यन्ति नित्यदा ॥ ह्व्_१२।३६ ॥

विश्वास-प्रस्तुतिः

श्राद्धैर् आप्यायितः सोमो
लोकम् आप्याययिष्यति ।
समुद्रपर्वतवनं
जङ्गमाजङ्गमैर् वृतम् ॥ ह्व्_१२।३७ ॥

मूलम्

श्राद्धैर् आप्यायितः सोमो
लोकम् आप्याययिष्यति ।
समुद्रपर्वतवनं
जङ्गमाजङ्गमैर् वृतम् ॥ ह्व्_१२।३७ ॥

विश्वास-प्रस्तुतिः

श्राद्धानि पुष्टिकामाश् च
ये करिष्यन्ति मानवाः ।
तेभ्यः पुष्टिं प्रजाश् चैव
दास्यन्ति पितरः सदा ॥ ह्व्_१२।३८ ॥

मूलम्

श्राद्धानि पुष्टिकामाश् च
ये करिष्यन्ति मानवाः ।
तेभ्यः पुष्टिं प्रजाश् चैव
दास्यन्ति पितरः सदा ॥ ह्व्_१२।३८ ॥

विश्वास-प्रस्तुतिः

श्राद्धे च ये प्रदास्यन्ति
त्रीन् पिण्डान् नामगोत्रतः ।
सर्वत्र वर्तमानांस् तान्
पितरः सपितामहाः ॥

मूलम्

श्राद्धे च ये प्रदास्यन्ति
त्रीन् पिण्डान् नामगोत्रतः ।
सर्वत्र वर्तमानांस् तान्
पितरः सपितामहाः ॥

विश्वास-प्रस्तुतिः

भावयिष्यन्ति सततं
श्राद्धदानेन पूजिताः ॥ ह्व्_१२।३९ ॥

मूलम्

भावयिष्यन्ति सततं
श्राद्धदानेन पूजिताः ॥ ह्व्_१२।३९ ॥

विश्वास-प्रस्तुतिः

([क्: न् (एxचेप्त् श्१ Ñ१) त्१।३।४ ग् म्४ ins.: :क्])
एवम् आज्ञा कृता पूर्वं
ब्रह्मणा परमेष्ठिना । ह्व्_१२।३९२४१ ।
इति तद् वचनं सत्यं
भवत्व् अद्य दिवौकसः ।
पुत्राश् च पितरश् चैव
वयं सर्वे परस्परम् ॥ ह्व्_१२।४० ॥

मूलम्

([क्: न् (एxचेप्त् श्१ Ñ१) त्१।३।४ ग् म्४ ins.: :क्])
एवम् आज्ञा कृता पूर्वं
ब्रह्मणा परमेष्ठिना । ह्व्_१२।३९२४१ ।
इति तद् वचनं सत्यं
भवत्व् अद्य दिवौकसः ।
पुत्राश् च पितरश् चैव
वयं सर्वे परस्परम् ॥ ह्व्_१२।४० ॥

विश्वास-प्रस्तुतिः

{सनत्कुमार उवाच}
त एते पितरो देवा
देवाश् च पितरस् तथा ।
अन्योन्यपितरो ह्य् एते
देवाश् च पितरश् च ह ॥ ह्व्_१२।४१ ॥

मूलम्

{सनत्कुमार उवाच}
त एते पितरो देवा
देवाश् च पितरस् तथा ।
अन्योन्यपितरो ह्य् एते
देवाश् च पितरश् च ह ॥ ह्व्_१२।४१ ॥

[चोलोफोन्]