विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
सत्यव्रतस् तु भक्त्या च
कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं तद्
बभार विनये स्थितः ॥ ह्व्_१०।१ ॥
मूलम्
{वैशम्पायन उवाच}
सत्यव्रतस् तु भक्त्या च
कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं तद्
बभार विनये स्थितः ॥ ह्व्_१०।१ ॥
विश्वास-प्रस्तुतिः
हत्वा मृगान् वराहांश् च
महिषांश् च वनेचरान् ।
विश्वामित्राश्रमाभ्याशे
मांसं तद् अवबन्धत ॥ ह्व्_१०।२ ॥
मूलम्
हत्वा मृगान् वराहांश् च
महिषांश् च वनेचरान् ।
विश्वामित्राश्रमाभ्याशे
मांसं तद् अवबन्धत ॥ ह्व्_१०।२ ॥
विश्वास-प्रस्तुतिः
उपांशुव्रतम् आस्थाय
दीक्षां द्वादशवार्षिकीम् ।
पितुर् नियोगाद् अवसत्
तस्मिन् वनगते नृपे ॥ ह्व्_१०।३ ॥
मूलम्
उपांशुव्रतम् आस्थाय
दीक्षां द्वादशवार्षिकीम् ।
पितुर् नियोगाद् अवसत्
तस्मिन् वनगते नृपे ॥ ह्व्_१०।३ ॥
विश्वास-प्रस्तुतिः
अयोध्यां चैव राष्ट्रं च
तथैवान्तःपुरं मुनिः ।
याज्योपाध्यायसंयोगाद्
वसिष्ठः पर्यरक्षत ॥ ह्व्_१०।४ ॥
मूलम्
अयोध्यां चैव राष्ट्रं च
तथैवान्तःपुरं मुनिः ।
याज्योपाध्यायसंयोगाद्
वसिष्ठः पर्यरक्षत ॥ ह्व्_१०।४ ॥
विश्वास-प्रस्तुतिः
सत्यव्रतस् तु बाल्याद् वा
भाविनो ऽर्थस्य वा बलात् ।
वसिष्ठे ऽभ्यधिकं मन्युं
धारयाम् आस नित्यदा ॥ ह्व्_१०।५ ॥
मूलम्
सत्यव्रतस् तु बाल्याद् वा
भाविनो ऽर्थस्य वा बलात् ।
वसिष्ठे ऽभ्यधिकं मन्युं
धारयाम् आस नित्यदा ॥ ह्व्_१०।५ ॥
विश्वास-प्रस्तुतिः
पित्रा तु तं तदा राष्ट्रात्
परित्य्क्तं प्रियं सुतम् ।
न वारयाम् आस मुनिर्
वसिष्ठः कारणेन हि ॥ ह्व्_१०।६ ॥
मूलम्
पित्रा तु तं तदा राष्ट्रात्
परित्य्क्तं प्रियं सुतम् ।
न वारयाम् आस मुनिर्
वसिष्ठः कारणेन हि ॥ ह्व्_१०।६ ॥
विश्वास-प्रस्तुतिः
पाणिग्रहणमन्त्राणां
निष्ठा स्यात् सप्तमे पदे ।
न च सत्यव्रतस् तस्माद्
धृतवान् सप्तमे पदे ॥ ह्व्_१०।७ ॥
मूलम्
पाणिग्रहणमन्त्राणां
निष्ठा स्यात् सप्तमे पदे ।
न च सत्यव्रतस् तस्माद्
धृतवान् सप्तमे पदे ॥ ह्व्_१०।७ ॥
विश्वास-प्रस्तुतिः
जानन् धर्मं वसिष्ठस् तु
न मां त्रातीति भारत ।
सत्यव्रतस् तदा रोषं
वसिष्ठे मनसाकरोत् ॥ ह्व्_१०।८ ॥
मूलम्
जानन् धर्मं वसिष्ठस् तु
न मां त्रातीति भारत ।
सत्यव्रतस् तदा रोषं
वसिष्ठे मनसाकरोत् ॥ ह्व्_१०।८ ॥
विश्वास-प्रस्तुतिः
गुणबुद्ध्या तु भगवान्
वसिष्ठः कृतवांस् तदा ।
न च सत्यव्रतस् तस्य
तम् उपांशुम् अबुध्यत ॥ ह्व्_१०।९ ॥
मूलम्
गुणबुद्ध्या तु भगवान्
वसिष्ठः कृतवांस् तदा ।
न च सत्यव्रतस् तस्य
तम् उपांशुम् अबुध्यत ॥ ह्व्_१०।९ ॥
विश्वास-प्रस्तुतिः
तस्मिन्न् अपरितोषो यः
पितुर् आसीन् महात्मनः ।
तेन द्वादश वर्षाणि
नावर्षत् पाकशासनः ॥ ह्व्_१०।१० ॥
मूलम्
तस्मिन्न् अपरितोषो यः
पितुर् आसीन् महात्मनः ।
तेन द्वादश वर्षाणि
नावर्षत् पाकशासनः ॥ ह्व्_१०।१० ॥
विश्वास-प्रस्तुतिः
तेन त्व् इदानीं वहता
दीक्षां तां दुर्वहां भुवि ।
([क्: द्४ फ़ोर् ११अ-ब् सुब्स्त्।: :क्])
तेनार्थं चैव विहिता
दिक्षास् तातहता भुवि । ह्व्_१०।१११९७ ।
कुलस्य निष्कृतिस् तात
कृता सा वै भवेद् इति ॥ ह्व्_१०।११ ॥
मूलम्
तेन त्व् इदानीं वहता
दीक्षां तां दुर्वहां भुवि ।
([क्: द्४ फ़ोर् ११अ-ब् सुब्स्त्।: :क्])
तेनार्थं चैव विहिता
दिक्षास् तातहता भुवि । ह्व्_१०।१११९७ ।
कुलस्य निष्कृतिस् तात
कृता सा वै भवेद् इति ॥ ह्व्_१०।११ ॥
विश्वास-प्रस्तुतिः
न तं वसिष्ठो भगवान्
पित्रा त्यक्तं न्यवारयत् ।
अभिषेक्ष्याम्य् अहं पुत्रम्
अस्येत्य् एवं मतिर् मुनेः ॥ ह्व्_१०।१२ ॥
मूलम्
न तं वसिष्ठो भगवान्
पित्रा त्यक्तं न्यवारयत् ।
अभिषेक्ष्याम्य् अहं पुत्रम्
अस्येत्य् एवं मतिर् मुनेः ॥ ह्व्_१०।१२ ॥
विश्वास-प्रस्तुतिः
स तु द्वादश वर्षाणि
दीक्षाम् ताम् उद्वहन् बली ।
([क्: क्४ Ñ३ व्१ द्३ ins.: :क्])
उपांशुव्रतम् आस्थाय
महत् सत्यव्रतोनृप । ह्व्_१०।१३१९८ ।
अविद्यमाने मांसे तु
वसिष्ठस्य महात्मनः ॥
मूलम्
स तु द्वादश वर्षाणि
दीक्षाम् ताम् उद्वहन् बली ।
([क्: क्४ Ñ३ व्१ द्३ ins.: :क्])
उपांशुव्रतम् आस्थाय
महत् सत्यव्रतोनृप । ह्व्_१०।१३१९८ ।
अविद्यमाने मांसे तु
वसिष्ठस्य महात्मनः ॥
विश्वास-प्रस्तुतिः
सर्वकामदुहां दोग्ध्रीं
ददर्श स नृपात्मजः ॥ ह्व्_१०।१३ ॥
मूलम्
सर्वकामदुहां दोग्ध्रीं
ददर्श स नृपात्मजः ॥ ह्व्_१०।१३ ॥
विश्वास-प्रस्तुतिः
तां वै क्रोधाच् च मोहाच् च
श्रमाच् चैव क्षुधान्वितः ।
दशधर्मगतो राजा
जघान जनमेजय ॥ ह्व्_१०।१४ ॥
मूलम्
तां वै क्रोधाच् च मोहाच् च
श्रमाच् चैव क्षुधान्वितः ।
दशधर्मगतो राजा
जघान जनमेजय ॥ ह्व्_१०।१४ ॥
विश्वास-प्रस्तुतिः
([क्: द्न् द्६ च्स् (Ñ३ ओन् मर्ग्। after १४ब्) ins.: :क्])
मत्तः प्रमत्त उन्मत्तः
श्रान्तः क्रुद्धो बुभुक्षितः । ह्व्_१०।१४१९९:१ ।
त्वरमाणश् च भीतश् च
लुब्धः कामी च ते दश । ह्व्_१०।१४१९९:२ ।
त च मांसं स्वयं चैव
विश्वामित्रस्य चात्मजान् ।
भोजयाम् आस तच् छ्रुत्वा
वसिष्ठो ऽप्य् अस्य चुक्रुधे ॥ ह्व्_१०।१५ ॥
मूलम्
([क्: द्न् द्६ च्स् (Ñ३ ओन् मर्ग्। after १४ब्) ins.: :क्])
मत्तः प्रमत्त उन्मत्तः
श्रान्तः क्रुद्धो बुभुक्षितः । ह्व्_१०।१४१९९:१ ।
त्वरमाणश् च भीतश् च
लुब्धः कामी च ते दश । ह्व्_१०।१४१९९:२ ।
त च मांसं स्वयं चैव
विश्वामित्रस्य चात्मजान् ।
भोजयाम् आस तच् छ्रुत्वा
वसिष्ठो ऽप्य् अस्य चुक्रुधे ॥ ह्व्_१०।१५ ॥
विश्वास-प्रस्तुतिः
{वसिष्ठ उवाच}
पातयेयम् अहं क्रूर
तव शङ्कुम् अयस्मयम् ।
यदि ते द्वाव् इमौ शङ्कू
न स्यातां वै कृतौ पुनः ॥ ह्व्_१०।१६ ॥
मूलम्
{वसिष्ठ उवाच}
पातयेयम् अहं क्रूर
तव शङ्कुम् अयस्मयम् ।
यदि ते द्वाव् इमौ शङ्कू
न स्यातां वै कृतौ पुनः ॥ ह्व्_१०।१६ ॥
विश्वास-प्रस्तुतिः
पितुश् चापरितोषेण
गुरोर् दोग्ध्रीवधेन च ।
अप्रोक्षितोपयोगाच् च
त्रिविधस् ते व्यतिक्रमः ॥ ह्व्_१०।१७ ॥
मूलम्
पितुश् चापरितोषेण
गुरोर् दोग्ध्रीवधेन च ।
अप्रोक्षितोपयोगाच् च
त्रिविधस् ते व्यतिक्रमः ॥ ह्व्_१०।१७ ॥
विश्वास-प्रस्तुतिः
एवं त्रीण्य् अस्य शङ्कूनि
तानि दृष्ट्वा महातपाः ।
त्रिशङ्कुर् इति होवाच
त्रिशङ्कुस् तेन स स्मृतः ॥ ह्व्_१०।१८ ॥
मूलम्
एवं त्रीण्य् अस्य शङ्कूनि
तानि दृष्ट्वा महातपाः ।
त्रिशङ्कुर् इति होवाच
त्रिशङ्कुस् तेन स स्मृतः ॥ ह्व्_१०।१८ ॥
विश्वास-प्रस्तुतिः
विश्वामित्रस् तु दाराणाम्
आगतो भरणे कृते ।
तेन तस्मै वरं प्रादान्
मुनिः प्रीतस् त्रिशङ्कवे ॥
मूलम्
विश्वामित्रस् तु दाराणाम्
आगतो भरणे कृते ।
तेन तस्मै वरं प्रादान्
मुनिः प्रीतस् त्रिशङ्कवे ॥
विश्वास-प्रस्तुतिः
छन्द्यमानो वरेणाथ
गुरुं वव्रे नृपात्मजः ॥ ह्व्_१०।१९ ॥
मूलम्
छन्द्यमानो वरेणाथ
गुरुं वव्रे नृपात्मजः ॥ ह्व्_१०।१९ ॥
विश्वास-प्रस्तुतिः
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
सशरीरो व्रजे स्वर्गम्
इत्य् एवं याचितो मुनिः । ह्व्_१०।१९२०१ ।
अनावृष्टिभये तस्मिन्
गते द्वादशवार्षिके ।
अभिषिच्य च राज्ये च
याजयाम् आस तं मुनिः ॥
मूलम्
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
सशरीरो व्रजे स्वर्गम्
इत्य् एवं याचितो मुनिः । ह्व्_१०।१९२०१ ।
अनावृष्टिभये तस्मिन्
गते द्वादशवार्षिके ।
अभिषिच्य च राज्ये च
याजयाम् आस तं मुनिः ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१।२ ग् म्४ फ़ोर् २०च्-द् सुब्स्त्।: :क्])
तं मुनिर् याजयाम् आस
पित्रिये राज्ये ऽभिषिच्य तु । ह्व्_१०।२०२०२ ।
मिषतां देवतानां च
वसिष्ठस्य च कौशिकः ॥ ह्व्_१०।२० ॥
मूलम्
([क्: द्६ त्१।२ ग् म्४ फ़ोर् २०च्-द् सुब्स्त्।: :क्])
तं मुनिर् याजयाम् आस
पित्रिये राज्ये ऽभिषिच्य तु । ह्व्_१०।२०२०२ ।
मिषतां देवतानां च
वसिष्ठस्य च कौशिकः ॥ ह्व्_१०।२० ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२।३ व्१।२ ब् द्स् द्२।६ त्२-४ ग्१।४ (व्३ after २०द्) ins.: :क्])
दिवम् आरोपयामास
सशरीरं महातपाः । ह्व्_१०।२०२०४ ।
तस्य सत्यरथा नाम
पत्नी केकयवंशजा ।
कुमारं जनयाम् आस
हरिश्चन्द्रम् अकल्मषम् ॥ ह्व्_१०।२१ ॥
मूलम्
([क्: Ñ२।३ व्१।२ ब् द्स् द्२।६ त्२-४ ग्१।४ (व्३ after २०द्) ins.: :क्])
दिवम् आरोपयामास
सशरीरं महातपाः । ह्व्_१०।२०२०४ ।
तस्य सत्यरथा नाम
पत्नी केकयवंशजा ।
कुमारं जनयाम् आस
हरिश्चन्द्रम् अकल्मषम् ॥ ह्व्_१०।२१ ॥
विश्वास-प्रस्तुतिः
स वै राजा हरिश्चन्द्रस्
त्रैशङ्कव इति स्मृतः ।
आहर्ता राजसूयस्य
स सम्राड् इति विश्रुतः ॥ ह्व्_१०।२२ ॥
मूलम्
स वै राजा हरिश्चन्द्रस्
त्रैशङ्कव इति स्मृतः ।
आहर्ता राजसूयस्य
स सम्राड् इति विश्रुतः ॥ ह्व्_१०।२२ ॥
विश्वास-प्रस्तुतिः
हरिश्चन्द्रस्य तु सुतो
रोहितो नाम विश्रुतः ।
([क्: क्१।३।४ व् द्न् द्३-६ म्४ ins.: :क्])
येनेदं रोहितपुरं
कारितंराज्यसिद्धये ॥ ह्व्_१०।२३२०५:१ ।
मूलम्
हरिश्चन्द्रस्य तु सुतो
रोहितो नाम विश्रुतः ।
([क्: क्१।३।४ व् द्न् द्३-६ म्४ ins.: :क्])
येनेदं रोहितपुरं
कारितंराज्यसिद्धये ॥ ह्व्_१०।२३२०५:१ ।
विश्वास-प्रस्तुतिः
कृत्वा राज्यं स राजर्षिः
पालयित्वा तथा प्रजाः । ह्व्_१०।२३२०५:२ ।
संसारासारतां ज्ञात्वा
द्विजेभ्यस् तत् पुरं ददौ । ह्व्_१०।२३२०५:३ ।
([क्: क्२ Ñ२।३ ब् द्स् द्१।२ त्२-४ ग् (क्१।३।४ व् द्न् द्३-६ after *२०५) ins.: :क्])
हरितो रोहितस्याथ
चञ्चुर् हारीत उच्यते । ह्व्_१०।२३२०६:१ ।
विजयश् च सुदेवश् च
चञ्चुपुत्रौ बभूवतुः । ह्व्_१०।२३२०६:२ ।
जेता क्षत्रस्य सर्वस्य
विजयस् तेन स स्मृतः ॥ ह्व्_१०।२३२०६:३ ।
मूलम्
कृत्वा राज्यं स राजर्षिः
पालयित्वा तथा प्रजाः । ह्व्_१०।२३२०५:२ ।
संसारासारतां ज्ञात्वा
द्विजेभ्यस् तत् पुरं ददौ । ह्व्_१०।२३२०५:३ ।
([क्: क्२ Ñ२।३ ब् द्स् द्१।२ त्२-४ ग् (क्१।३।४ व् द्न् द्३-६ after *२०५) ins.: :क्])
हरितो रोहितस्याथ
चञ्चुर् हारीत उच्यते । ह्व्_१०।२३२०६:१ ।
विजयश् च सुदेवश् च
चञ्चुपुत्रौ बभूवतुः । ह्व्_१०।२३२०६:२ ।
जेता क्षत्रस्य सर्वस्य
विजयस् तेन स स्मृतः ॥ ह्व्_१०।२३२०६:३ ।
विश्वास-प्रस्तुतिः
रुरुकस् तनयस् तस्य
राजधर्मार्थकोविदः । ह्व्_१०।२३२०६:४ ।
([क्: द्३ after लिने १अ of *२०६ ins.: :क्])
हरितो जज्ञिवांस् ततः
तथैव लोके धर्मात्मा । ह्व्_१०।२३२०६अ ।
रोहितस्य वृकः पुत्रो
वृकाद् बाहुस् तु जज्ञिवान् ॥ ह्व्_१०।२३ ॥
मूलम्
रुरुकस् तनयस् तस्य
राजधर्मार्थकोविदः । ह्व्_१०।२३२०६:४ ।
([क्: द्३ after लिने १अ of *२०६ ins.: :क्])
हरितो जज्ञिवांस् ततः
तथैव लोके धर्मात्मा । ह्व्_१०।२३२०६अ ।
रोहितस्य वृकः पुत्रो
वृकाद् बाहुस् तु जज्ञिवान् ॥ ह्व्_१०।२३ ॥
विश्वास-प्रस्तुतिः
([क्: क् Ñ२।३ व् ब् द्१-५ त्२-४ ग्१।४ ins.: :क्])
शकैर् यवनकाम्बोजैः
पारदैः पह्लवैः सह । ह्व्_१०।२३२०७ ।
हेहयास् तालजङ्घाश् च
निरस्यन्ति स्म तं नृपम् ।
नात्यर्थं धार्मिकश् तात
स हि धर्मयुगे ऽभवत् ॥ ह्व्_१०।२४ ॥
मूलम्
([क्: क् Ñ२।३ व् ब् द्१-५ त्२-४ ग्१।४ ins.: :क्])
शकैर् यवनकाम्बोजैः
पारदैः पह्लवैः सह । ह्व्_१०।२३२०७ ।
हेहयास् तालजङ्घाश् च
निरस्यन्ति स्म तं नृपम् ।
नात्यर्थं धार्मिकश् तात
स हि धर्मयुगे ऽभवत् ॥ ह्व्_१०।२४ ॥
विश्वास-प्रस्तुतिः
सगरस् तु सुतो बाहोर्
जज्ञे सह गरेण वै ।
और्वस्याश्रमम् आसाद्य
भार्गवेणाभिरक्षितः ॥ ह्व्_१०।२५ ॥
मूलम्
सगरस् तु सुतो बाहोर्
जज्ञे सह गरेण वै ।
और्वस्याश्रमम् आसाद्य
भार्गवेणाभिरक्षितः ॥ ह्व्_१०।२५ ॥
विश्वास-प्रस्तुतिः
आग्नेयम् अस्त्रं लब्ध्वा च
भार्गवात् सगरो नृपः ।
जिगाय पृथिवीं हत्वा
तालजङ्घान् सहेहयान् ॥ ह्व्_१०।२६ ॥
मूलम्
आग्नेयम् अस्त्रं लब्ध्वा च
भार्गवात् सगरो नृपः ।
जिगाय पृथिवीं हत्वा
तालजङ्घान् सहेहयान् ॥ ह्व्_१०।२६ ॥
विश्वास-प्रस्तुतिः
शकानां पह्लवानां च
धर्मं निरसद् अच्युतः ।
क्षत्रियाणां कुरुश्रेष्ठाः
पारदानां च धर्मवित् ॥ ह्व्_१०।२७ ॥
मूलम्
शकानां पह्लवानां च
धर्मं निरसद् अच्युतः ।
क्षत्रियाणां कुरुश्रेष्ठाः
पारदानां च धर्मवित् ॥ ह्व्_१०।२७ ॥
विश्वास-प्रस्तुतिः
{जनमेजय उवाच}
कथं स सगरो जातो
गरेणैव सहाच्युतः ।
किमर्थं च शकादीनां
क्षत्रियाणां महौजसाम् ॥ ह्व्_१०।२८ ॥
मूलम्
{जनमेजय उवाच}
कथं स सगरो जातो
गरेणैव सहाच्युतः ।
किमर्थं च शकादीनां
क्षत्रियाणां महौजसाम् ॥ ह्व्_१०।२८ ॥
विश्वास-प्रस्तुतिः
धर्मं कुलोचितं क्रुद्धो
राजा निरसद् अच्युतः ।
एतन् मे सर्वम् आचक्ष्व
विस्तरेण तपोधन ॥ ह्व्_१०।२९ ॥
मूलम्
धर्मं कुलोचितं क्रुद्धो
राजा निरसद् अच्युतः ।
एतन् मे सर्वम् आचक्ष्व
विस्तरेण तपोधन ॥ ह्व्_१०।२९ ॥
विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
बाहोर् व्यसनिनस् तात
हृतं राज्यम् अभूत् किल ।
हेहयैस् तालजङ्घैश् च
शकैः सार्धं विशां पते ॥ ह्व्_१०।३० ॥
मूलम्
{वैशम्पायन उवाच}
बाहोर् व्यसनिनस् तात
हृतं राज्यम् अभूत् किल ।
हेहयैस् तालजङ्घैश् च
शकैः सार्धं विशां पते ॥ ह्व्_१०।३० ॥
विश्वास-प्रस्तुतिः
यवनाः पारदाश् चैव
काम्बोजाः पह्लवास् खशाः ।
([क्: ब्१ द्२ त्३।४ (त्२ ग्१।४ after ३७द्) ins.: :क्])
कातिसर्पा माहिषिकाः
पारदाष्टङ्कणाः शकाः । ह्व्_१०।३१२०८ ।
एते ह्य् अपि गणाः पञ्च
हेहयार्थे पराक्रमन् ॥ ह्व्_१०।३१ ॥
मूलम्
यवनाः पारदाश् चैव
काम्बोजाः पह्लवास् खशाः ।
([क्: ब्१ द्२ त्३।४ (त्२ ग्१।४ after ३७द्) ins.: :क्])
कातिसर्पा माहिषिकाः
पारदाष्टङ्कणाः शकाः । ह्व्_१०।३१२०८ ।
एते ह्य् अपि गणाः पञ्च
हेहयार्थे पराक्रमन् ॥ ह्व्_१०।३१ ॥
विश्वास-प्रस्तुतिः
हृतराज्यस् तदा राजा
स वै बाहुर् वनं ययौ ।
पत्न्या चानुगतो दुःखी
वने प्राणान् अवासृजत् ॥ ह्व्_१०।३२ ॥
मूलम्
हृतराज्यस् तदा राजा
स वै बाहुर् वनं ययौ ।
पत्न्या चानुगतो दुःखी
वने प्राणान् अवासृजत् ॥ ह्व्_१०।३२ ॥
विश्वास-प्रस्तुतिः
([क्: क्४ ins.: :क्])
वृद्धं तं पञ्चतां प्राप्तं
तत्पत्न्य् अनुमरिष्यती । ह्व्_१०।३२२०९:१ ।
और्वेण जानतात्मानं
प्रजावन्तं निवारिता । ह्व्_१०।३२२०९:२ ।
पत्नी तु यादवी तस्य
सगर्भा पृष्ठतो ऽन्वगात् ।
सपत्न्या च गरस् तस्या
दत्तः पूर्वम् अभूत् किल ॥ ह्व्_१०।३३ ॥
मूलम्
([क्: क्४ ins.: :क्])
वृद्धं तं पञ्चतां प्राप्तं
तत्पत्न्य् अनुमरिष्यती । ह्व्_१०।३२२०९:१ ।
और्वेण जानतात्मानं
प्रजावन्तं निवारिता । ह्व्_१०।३२२०९:२ ।
पत्नी तु यादवी तस्य
सगर्भा पृष्ठतो ऽन्वगात् ।
सपत्न्या च गरस् तस्या
दत्तः पूर्वम् अभूत् किल ॥ ह्व्_१०।३३ ॥
विश्वास-प्रस्तुतिः
सा तु भर्तुश् चितां कृत्वा
वने ताम् अभ्यरोहत ।
और्वस् तां भार्गवस् तात
कारुण्यात् समवारयत् ॥ ह्व्_१०।३४ ॥
मूलम्
सा तु भर्तुश् चितां कृत्वा
वने ताम् अभ्यरोहत ।
और्वस् तां भार्गवस् तात
कारुण्यात् समवारयत् ॥ ह्व्_१०।३४ ॥
विश्वास-प्रस्तुतिः
तस्याश्रमे च तं गर्भं
गरेणैव सहाच्युतम् ।
व्यजायत महाबाहुं
सगरं नाम पार्थिवम् ॥ ह्व्_१०।३५ ॥
मूलम्
तस्याश्रमे च तं गर्भं
गरेणैव सहाच्युतम् ।
व्यजायत महाबाहुं
सगरं नाम पार्थिवम् ॥ ह्व्_१०।३५ ॥
विश्वास-प्रस्तुतिः
और्वस् तु जातकर्मादी
तस्य कृत्वा महात्मनः ।
अध्याप्य वेदशास्त्राणि
ततो ऽस्त्रं प्रत्यपादयत् ॥
मूलम्
और्वस् तु जातकर्मादी
तस्य कृत्वा महात्मनः ।
अध्याप्य वेदशास्त्राणि
ततो ऽस्त्रं प्रत्यपादयत् ॥
विश्वास-प्रस्तुतिः
आग्नेयं तं महाभागाम्
अमरैर् अपि दुःसहम् ॥ ह्व्_१०।३६ ॥
मूलम्
आग्नेयं तं महाभागाम्
अमरैर् अपि दुःसहम् ॥ ह्व्_१०।३६ ॥
विश्वास-प्रस्तुतिः
स तेनास्त्रबलेनाजौ
बलेन च समन्वितः ।
हेहयान् निजघानाशु
क्रुद्धो रुद्रः पशून् इव ॥
मूलम्
स तेनास्त्रबलेनाजौ
बलेन च समन्वितः ।
हेहयान् निजघानाशु
क्रुद्धो रुद्रः पशून् इव ॥
विश्वास-प्रस्तुतिः
आजहार च लोकेषु
कीर्तिं कीर्तिमतां वरः ॥ ह्व्_१०।३७ ॥
मूलम्
आजहार च लोकेषु
कीर्तिं कीर्तिमतां वरः ॥ ह्व्_१०।३७ ॥
विश्वास-प्रस्तुतिः
ततः शकान् स यवनान्
काम्बोजान् पारदांस् तथा ।
पह्लवांश् चैव निःशेषान्
कर्तुं व्यवसितो नृपः ॥ ह्व्_१०।३८ ॥
मूलम्
ततः शकान् स यवनान्
काम्बोजान् पारदांस् तथा ।
पह्लवांश् चैव निःशेषान्
कर्तुं व्यवसितो नृपः ॥ ह्व्_१०।३८ ॥
विश्वास-प्रस्तुतिः
ते वध्यमाना वीरेण
सगरेण महात्मना ।
वसिष्ठं शरणं गत्वा
प्रणिपेतुर् मनीषिणम् ॥ ह्व्_१०।३९ ॥
मूलम्
ते वध्यमाना वीरेण
सगरेण महात्मना ।
वसिष्ठं शरणं गत्वा
प्रणिपेतुर् मनीषिणम् ॥ ह्व्_१०।३९ ॥
विश्वास-प्रस्तुतिः
वसिष्ठस् त्व् अथ तान् दृष्ट्वा
समयेन महाद्युतिः ।
सगरं वारयाम् आस
तेषां दत्त्वाभयं तदा ॥ ह्व्_१०।४० ॥
मूलम्
वसिष्ठस् त्व् अथ तान् दृष्ट्वा
समयेन महाद्युतिः ।
सगरं वारयाम् आस
तेषां दत्त्वाभयं तदा ॥ ह्व्_१०।४० ॥
विश्वास-प्रस्तुतिः
सगरः स्वां प्रतिज्ञां च
गुरोर् वाक्यं निशम्य च ।
धर्मं जघान तेषां वै
वेषान्यात्वं चकार ह ॥ ह्व्_१०।४१ ॥
मूलम्
सगरः स्वां प्रतिज्ञां च
गुरोर् वाक्यं निशम्य च ।
धर्मं जघान तेषां वै
वेषान्यात्वं चकार ह ॥ ह्व्_१०।४१ ॥
विश्वास-प्रस्तुतिः
अर्धं शकानां शिरसो
मुण्डयित्वा व्यसर्जयत् ।
यवनानां शिरः सर्वं
काम्बोजानां तथैव च ॥ ह्व्_१०।४२ ॥
मूलम्
अर्धं शकानां शिरसो
मुण्डयित्वा व्यसर्जयत् ।
यवनानां शिरः सर्वं
काम्बोजानां तथैव च ॥ ह्व्_१०।४२ ॥
विश्वास-प्रस्तुतिः
पारदा मुक्तकेशास् तु
पह्लवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः
कृतास् तेन महात्मना ॥ ह्व्_१०।४३ ॥
मूलम्
पारदा मुक्तकेशास् तु
पह्लवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः
कृतास् तेन महात्मना ॥ ह्व्_१०।४३ ॥
विश्वास-प्रस्तुतिः
शका यवनकाम्बोजाः
पारदाश् च विशां पते ।
कोलिसर्पा माहिषका
दर्वाश् चोलाः सकेरलाः ॥ ह्व्_१०।४४ ॥
मूलम्
शका यवनकाम्बोजाः
पारदाश् च विशां पते ।
कोलिसर्पा माहिषका
दर्वाश् चोलाः सकेरलाः ॥ ह्व्_१०।४४ ॥
विश्वास-प्रस्तुतिः
सर्वे ते क्षत्रियास् तात
धर्मस् तेषां निराकृतः ।
वसिष्ठवचनाद् राजन्
सगरेण महात्मना ॥ ह्व्_१०।४५ ॥
मूलम्
सर्वे ते क्षत्रियास् तात
धर्मस् तेषां निराकृतः ।
वसिष्ठवचनाद् राजन्
सगरेण महात्मना ॥ ह्व्_१०।४५ ॥
विश्वास-प्रस्तुतिः
([क्: क्१-३।४ Ñ२।३ व् ब् द्न् द्स् द्१।३-५ त्२।३।४ ग्४ (क्४ द्५ अ फ़िर्स्त् तिमे after४४; द्६ ग्२।३।५ after ४५ब्; त्२ अ सेचोन्द् तिमे अन्द् ग्१ after *२१३) ins.: :क्])
खशास् तु षाराश् चीनाश् च
मद्राः किष्कन्धकास् तथा । ह्व्_१०।४५२१०:१ ।
कौन्तलाश् च तथा वङ्गाः
शाल्वाः कौङ्कणकास् तथा । ह्व्_१०।४५२१०:२ ।
स धर्मविजयी राजा
विजित्येमां वसुन्धराम् ।
अश्वं विचारयाम् आस
वाजिमेधाय दीक्षितः ॥ ह्व्_१०।४६ ॥
मूलम्
([क्: क्१-३।४ Ñ२।३ व् ब् द्न् द्स् द्१।३-५ त्२।३।४ ग्४ (क्४ द्५ अ फ़िर्स्त् तिमे after४४; द्६ ग्२।३।५ after ४५ब्; त्२ अ सेचोन्द् तिमे अन्द् ग्१ after *२१३) ins.: :क्])
खशास् तु षाराश् चीनाश् च
मद्राः किष्कन्धकास् तथा । ह्व्_१०।४५२१०:१ ।
कौन्तलाश् च तथा वङ्गाः
शाल्वाः कौङ्कणकास् तथा । ह्व्_१०।४५२१०:२ ।
स धर्मविजयी राजा
विजित्येमां वसुन्धराम् ।
अश्वं विचारयाम् आस
वाजिमेधाय दीक्षितः ॥ ह्व्_१०।४६ ॥
विश्वास-प्रस्तुतिः
तस्य चारयतः सो ऽश्वः
समुद्रे पूर्वदक्षिणे ।
वेलासमीपे ऽपहृतो
भूमिं चैव प्रवेशितः ॥
मूलम्
तस्य चारयतः सो ऽश्वः
समुद्रे पूर्वदक्षिणे ।
वेलासमीपे ऽपहृतो
भूमिं चैव प्रवेशितः ॥
विश्वास-प्रस्तुतिः
([क्: क्४ (मर्ग्।) ins.: :क्])
तस्योत्सृष्टं पशुं यज्ञे
जहाराश्वम्पुरन्दरः । ह्व्_१०।४७२११:१ ।
हृत्वा कपिलपार्श्वे तं
बद्ध्वागान् नगरीं पुनः ॥ ह्व्_१०।४७२११:२ ।
मूलम्
([क्: क्४ (मर्ग्।) ins.: :क्])
तस्योत्सृष्टं पशुं यज्ञे
जहाराश्वम्पुरन्दरः । ह्व्_१०।४७२११:१ ।
हृत्वा कपिलपार्श्वे तं
बद्ध्वागान् नगरीं पुनः ॥ ह्व्_१०।४७२११:२ ।
विश्वास-प्रस्तुतिः
सुमत्यास् तनया दृप्ताः
पितुर् आदेशकारिणः । ह्व्_१०।४७२११:३ ।
तानि षष्टिसहस्राणि
हयरक्षणतत्पराः । ह्व्_१०।४७२११:४ ।
स तं देशं तदा पुत्रैः
खानयाम् आस पार्थिवः ॥ ह्व्_१०।४७ ॥
मूलम्
सुमत्यास् तनया दृप्ताः
पितुर् आदेशकारिणः । ह्व्_१०।४७२११:३ ।
तानि षष्टिसहस्राणि
हयरक्षणतत्पराः । ह्व्_१०।४७२११:४ ।
स तं देशं तदा पुत्रैः
खानयाम् आस पार्थिवः ॥ ह्व्_१०।४७ ॥
विश्वास-प्रस्तुतिः
आसेदुस् ते ततस् तत्र
खन्यमाने महार्णवे ।
तम् आदिपुरुषं देवं
हरिं कृष्णं प्रजापतिम् ॥
मूलम्
आसेदुस् ते ततस् तत्र
खन्यमाने महार्णवे ।
तम् आदिपुरुषं देवं
हरिं कृष्णं प्रजापतिम् ॥
विश्वास-प्रस्तुतिः
विष्णुं कपिलरूपेण
स्वपन्तं पुरुषं तदा ॥ ह्व्_१०।४८ ॥
मूलम्
विष्णुं कपिलरूपेण
स्वपन्तं पुरुषं तदा ॥ ह्व्_१०।४८ ॥
विश्वास-प्रस्तुतिः
([क्: क्४ ins.: :क्])
हयम् अन्वेषमाणास् ते
समन्तान् न्यखनन् महीम् । ह्व्_१०।४८२१२:१ ।
प्रागुदीच्यां दिशि हयं
ददृशुः कपिलान्तिके ॥ ह्व्_१०।४८२१२:२ ।
मूलम्
([क्: क्४ ins.: :क्])
हयम् अन्वेषमाणास् ते
समन्तान् न्यखनन् महीम् । ह्व्_१०।४८२१२:१ ।
प्रागुदीच्यां दिशि हयं
ददृशुः कपिलान्तिके ॥ ह्व्_१०।४८२१२:२ ।
विश्वास-प्रस्तुतिः
एष वाजिहरश् चोर
आस्ते मीलितलोचनः । ह्व्_१०।४८२१२:३ ।
हन्यतां हन्यतां पाप
इति षष्टिसहस्रिणः । ह्व्_१०।४८२१२:४ ।
मुष्टिप्रहारैर् अहनन्न्
उन्मिमेष तदा मुनिः । ह्व्_१०।४८२१२:५ ।
([क्: द्६ त्१।२ ग् म् ins.: :क्])
स्रष्टारं सर्वभूतानां
साध्यन्नारायणं तथा ॥ ह्व्_१०।४८२१३:१ ।
मूलम्
एष वाजिहरश् चोर
आस्ते मीलितलोचनः । ह्व्_१०।४८२१२:३ ।
हन्यतां हन्यतां पाप
इति षष्टिसहस्रिणः । ह्व्_१०।४८२१२:४ ।
मुष्टिप्रहारैर् अहनन्न्
उन्मिमेष तदा मुनिः । ह्व्_१०।४८२१२:५ ।
([क्: द्६ त्१।२ ग् म् ins.: :क्])
स्रष्टारं सर्वभूतानां
साध्यन्नारायणं तथा ॥ ह्व्_१०।४८२१३:१ ।
विश्वास-प्रस्तुतिः
तस्य गत्वा समीपे तु
सो ऽयं चोर इति ब्रुवन् । ह्व्_१०।४८२१३:२ ।
गृह्यतां बध्यताम् एष
नो ऽश्वहर्ता सुदुर्मतिः ॥ ह्व्_१०।४८२१३:३ ।
मूलम्
तस्य गत्वा समीपे तु
सो ऽयं चोर इति ब्रुवन् । ह्व्_१०।४८२१३:२ ।
गृह्यतां बध्यताम् एष
नो ऽश्वहर्ता सुदुर्मतिः ॥ ह्व्_१०।४८२१३:३ ।
विश्वास-प्रस्तुतिः
ततस् ते पाशम् उद्यम्य
ग्रहितुं तं महाद्युतिम् । ह्व्_१०।४८२१३:४ ।
उपाक्रामंस् तदा सर्वे
सगराः कालचोदिताः । ह्व्_१०।४८२१३:५ ।
([क्: त्३ ins.: :क्])
ददृशुः सागराः सर्वे
सायुधास् तम्प्रदुद्रुवुः । ह्व्_१०।४८२१४ ।
तस्य चक्षुःसमुत्थेन
तेजसा प्रतिबुध्यतः ।
दग्धाः सर्वे महाराज
चत्वारस् त्व् अवशेषिताः ॥ ह्व्_१०।४९ ॥
मूलम्
ततस् ते पाशम् उद्यम्य
ग्रहितुं तं महाद्युतिम् । ह्व्_१०।४८२१३:४ ।
उपाक्रामंस् तदा सर्वे
सगराः कालचोदिताः । ह्व्_१०।४८२१३:५ ।
([क्: त्३ ins.: :क्])
ददृशुः सागराः सर्वे
सायुधास् तम्प्रदुद्रुवुः । ह्व्_१०।४८२१४ ।
तस्य चक्षुःसमुत्थेन
तेजसा प्रतिबुध्यतः ।
दग्धाः सर्वे महाराज
चत्वारस् त्व् अवशेषिताः ॥ ह्व्_१०।४९ ॥
विश्वास-प्रस्तुतिः
बर्हकेतुः सुकेतुश् च
तथा भारद्रथो नृपः ।
शूरः पञ्चजनश् चैव
तस्य वंशकरा नृपा ॥ ह्व्_१०।५० ॥
मूलम्
बर्हकेतुः सुकेतुश् च
तथा भारद्रथो नृपः ।
शूरः पञ्चजनश् चैव
तस्य वंशकरा नृपा ॥ ह्व्_१०।५० ॥
विश्वास-प्रस्तुतिः
([क्: त्३ ins.: :क्])
अंशुमन्तं तदाज्ञाप्य
पात्रम् अश्वार्थम् अच्युतम् । ह्व्_१०।५०२१५:१ ।
प्रतीक्षमाणस् तत्रैव
दीक्षितः संव्यतिष्ठत ॥ ह्व्_१०।५०२१५:२ ।
मूलम्
([क्: त्३ ins.: :क्])
अंशुमन्तं तदाज्ञाप्य
पात्रम् अश्वार्थम् अच्युतम् । ह्व्_१०।५०२१५:१ ।
प्रतीक्षमाणस् तत्रैव
दीक्षितः संव्यतिष्ठत ॥ ह्व्_१०।५०२१५:२ ।
विश्वास-प्रस्तुतिः
पितॄणां पदवीं गत्वा
स ददर्श हरिं प्रभुम् । ह्व्_१०।५०२१५:३ ।
मूर्ध्ना प्रणम्य तं देवं
प्रह्वीभावेन चास्थितः । ह्व्_१०।५०२१५:४ ।
प्रादाच् च तस्मै भगवान्
हरिर् नारायणो वरम् ।
अक्षयं वंशम् इक्ष्वाकोः
कीर्तिं चाप्य् अनिवर्तिनीम् ॥
मूलम्
पितॄणां पदवीं गत्वा
स ददर्श हरिं प्रभुम् । ह्व्_१०।५०२१५:३ ।
मूर्ध्ना प्रणम्य तं देवं
प्रह्वीभावेन चास्थितः । ह्व्_१०।५०२१५:४ ।
प्रादाच् च तस्मै भगवान्
हरिर् नारायणो वरम् ।
अक्षयं वंशम् इक्ष्वाकोः
कीर्तिं चाप्य् अनिवर्तिनीम् ॥
विश्वास-प्रस्तुतिः
([क्: त्३ फ़ोर् ५१अ-च् सुब्स्त्।: :क्])
ततः स भगवान् देवो
दत्त्वा चाश्वंवरं ददौ । ह्व्_१०।५१अ२१६:१ ।
सगराय महाराज । ह्व्_१०।५१अ२१६:२ ।*
पुत्रं समुद्रं च विभुः
स्वर्गे वासं तथाक्षयम् ॥ ह्व्_१०।५१ ॥
मूलम्
([क्: त्३ फ़ोर् ५१अ-च् सुब्स्त्।: :क्])
ततः स भगवान् देवो
दत्त्वा चाश्वंवरं ददौ । ह्व्_१०।५१अ२१६:१ ।
सगराय महाराज । ह्व्_१०।५१अ२१६:२ ।*
पुत्रं समुद्रं च विभुः
स्वर्गे वासं तथाक्षयम् ॥ ह्व्_१०।५१ ॥
विश्वास-प्रस्तुतिः
([क्: क्३ द्न् त्३ ins.: :क्])
पुत्राणां चाक्षयांल् लोकांस्
तस्य येचक्षुषा हताः । ह्व्_१०।५१च्२१७ ।
समुद्रश् चार्घ्यम् आदाय
ववन्दे तं महीपतिम् ।
सागरत्वं च लेभे स
कर्मणा तेन तस्य ह ॥ ह्व्_१०।५२ ॥
मूलम्
([क्: क्३ द्न् त्३ ins.: :क्])
पुत्राणां चाक्षयांल् लोकांस्
तस्य येचक्षुषा हताः । ह्व्_१०।५१च्२१७ ।
समुद्रश् चार्घ्यम् आदाय
ववन्दे तं महीपतिम् ।
सागरत्वं च लेभे स
कर्मणा तेन तस्य ह ॥ ह्व्_१०।५२ ॥
विश्वास-प्रस्तुतिः
तं चाश्वमेधिकं सो ऽश्वं
समुद्राद् उपलब्धवान् ।
आजहाराश्वमेधानां
शतं स सुमहायशाः ॥
मूलम्
तं चाश्वमेधिकं सो ऽश्वं
समुद्राद् उपलब्धवान् ।
आजहाराश्वमेधानां
शतं स सुमहायशाः ॥
विश्वास-प्रस्तुतिः
पुत्राणां च सहस्राणि
षष्टिस् तस्येति नः श्रुतम् ॥ ह्व्_१०।५३ ॥
मूलम्
पुत्राणां च सहस्राणि
षष्टिस् तस्येति नः श्रुतम् ॥ ह्व्_१०।५३ ॥
विश्वास-प्रस्तुतिः
{जनमेजय उवाच}
सगरस्यात्मजा वीराः
कथं जाता महाबलाः ।
विक्रान्ताः षष्टिसाहस्रा
विधिना केन वा द्विज ॥ ह्व्_१०।५४ ॥
मूलम्
{जनमेजय उवाच}
सगरस्यात्मजा वीराः
कथं जाता महाबलाः ।
विक्रान्ताः षष्टिसाहस्रा
विधिना केन वा द्विज ॥ ह्व्_१०।५४ ॥
विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
द्वे भार्ये सगरस्यास्तां
तपसा दग्धकिल्बिषे ।
([क्: क् Ñ२।३ व् ब् द्न् द्स् द्१-५ त्३।४ ग्१।४ (द्६ after ५३) ins.: :क्])
ज्येष्ठाविदर्भदुहिता
केशिनी नाम विश्रुता । ह्व्_१०।५५२१८:१ ।
कनीयसी तु या तस्य
पत्नी परमधर्मिणी । ह्व्_१०।५५२१८:२ ।
अरिष्टनेमिदुहिता
रूपेणाप्रतिमा भुवि । ह्व्_१०।५५२१८:३ ।
और्वस् ताभ्यां वरं प्रादात्
तन् निबोध नराधिप ॥ ह्व्_१०।५५ ॥
मूलम्
{वैशम्पायन उवाच}
द्वे भार्ये सगरस्यास्तां
तपसा दग्धकिल्बिषे ।
([क्: क् Ñ२।३ व् ब् द्न् द्स् द्१-५ त्३।४ ग्१।४ (द्६ after ५३) ins.: :क्])
ज्येष्ठाविदर्भदुहिता
केशिनी नाम विश्रुता । ह्व्_१०।५५२१८:१ ।
कनीयसी तु या तस्य
पत्नी परमधर्मिणी । ह्व्_१०।५५२१८:२ ।
अरिष्टनेमिदुहिता
रूपेणाप्रतिमा भुवि । ह्व्_१०।५५२१८:३ ।
और्वस् ताभ्यां वरं प्रादात्
तन् निबोध नराधिप ॥ ह्व्_१०।५५ ॥
विश्वास-प्रस्तुतिः
षष्टिं पुत्रसहस्राणि
गृह्णात्व् एका तरस्विनाम् ।
एकं वंशधरं त्व् एका
यथेष्टं वरयत्व् इति ॥ ह्व्_१०।५६ ॥
मूलम्
षष्टिं पुत्रसहस्राणि
गृह्णात्व् एका तरस्विनाम् ।
एकं वंशधरं त्व् एका
यथेष्टं वरयत्व् इति ॥ ह्व्_१०।५६ ॥
विश्वास-प्रस्तुतिः
तत्रैका जगृहे पुत्रांल्
लुब्धा शूरान् बहूंस् तथा ।
एकं वंशधरं त्व् एका
तथेत्य् आह ततो मुनिः ॥ ह्व्_१०।५७ ॥
मूलम्
तत्रैका जगृहे पुत्रांल्
लुब्धा शूरान् बहूंस् तथा ।
एकं वंशधरं त्व् एका
तथेत्य् आह ततो मुनिः ॥ ह्व्_१०।५७ ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२।३ ब्१।२ द्न् द्स् द्५ ins.: :क्])
केशिन्य् असूत सगराद्
असमञ्जसमात्मजम् । ह्व्_१०।५७२१९ ।
राजा पञ्चजनो नाम
बभूव सुमहाबलः ।
इतरा सुषुवे तुम्बं
बीजपूर्णाम् इति श्रुतिः ॥ ह्व्_१०।५८ ॥
मूलम्
([क्: Ñ२।३ ब्१।२ द्न् द्स् द्५ ins.: :क्])
केशिन्य् असूत सगराद्
असमञ्जसमात्मजम् । ह्व्_१०।५७२१९ ।
राजा पञ्चजनो नाम
बभूव सुमहाबलः ।
इतरा सुषुवे तुम्बं
बीजपूर्णाम् इति श्रुतिः ॥ ह्व्_१०।५८ ॥
विश्वास-प्रस्तुतिः
तत्र षष्टिसहस्राणि
गर्भास् ते तिलसम्मिताः ।
सम्बभूवुर् यथाकालं
ववृधुश् च यथासुखम् ॥ ह्व्_१०।५९ ॥
मूलम्
तत्र षष्टिसहस्राणि
गर्भास् ते तिलसम्मिताः ।
सम्बभूवुर् यथाकालं
ववृधुश् च यथासुखम् ॥ ह्व्_१०।५९ ॥
विश्वास-प्रस्तुतिः
घृतपूर्णेषु कुम्भेषु
तान् गर्भान् निदधुस् ततः ।
धात्रीश् चैकैकशः प्रादात्
तावतीः पोषणे नृप ॥ ह्व्_१०।६० ॥
मूलम्
घृतपूर्णेषु कुम्भेषु
तान् गर्भान् निदधुस् ततः ।
धात्रीश् चैकैकशः प्रादात्
तावतीः पोषणे नृप ॥ ह्व्_१०।६० ॥
विश्वास-प्रस्तुतिः
ततो दशसु मासेषु
समुत्तस्थुर् यथाक्रमम् ।
कुमारास् ते यथाकालं
सगरप्रीतिवर्धनाः ॥ ह्व्_१०।६१ ॥
मूलम्
ततो दशसु मासेषु
समुत्तस्थुर् यथाक्रमम् ।
कुमारास् ते यथाकालं
सगरप्रीतिवर्धनाः ॥ ह्व्_१०।६१ ॥
विश्वास-प्रस्तुतिः
षष्टिः पुत्रसहस्राणि
तस्यैवम् अभवन् नृप ।
शुक्राद् अलाबूमध्याद् वै
जातानि पृथिवीपतेः ॥ ह्व्_१०।६२ ॥
मूलम्
षष्टिः पुत्रसहस्राणि
तस्यैवम् अभवन् नृप ।
शुक्राद् अलाबूमध्याद् वै
जातानि पृथिवीपतेः ॥ ह्व्_१०।६२ ॥
विश्वास-प्रस्तुतिः
तेषां नारायणं तेजः
प्रविष्टानां महात्मनाम् ।
एकः पञ्चजनो नाम
पुत्रो राजा बभूव ह ॥ ह्व्_१०।६३ ॥
मूलम्
तेषां नारायणं तेजः
प्रविष्टानां महात्मनाम् ।
एकः पञ्चजनो नाम
पुत्रो राजा बभूव ह ॥ ह्व्_१०।६३ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्२ ग्१-३।५ म्३ ins.: :क्])
असमञ्ज इति प्राहुस्
तस्य पुत्रोऽंशुमान् अभूत् । ह्व्_१०।६३२२० ।
सुतः पञ्चजनस्यासीद्
अंशुमान् नाम वीर्यवान् ।
दिलीपस् तस्य तनयः
खट्वाङ्ग इति विश्रुतः ॥ ह्व्_१०।६४ ॥
मूलम्
([क्: द्६ त्२ ग्१-३।५ म्३ ins.: :क्])
असमञ्ज इति प्राहुस्
तस्य पुत्रोऽंशुमान् अभूत् । ह्व्_१०।६३२२० ।
सुतः पञ्चजनस्यासीद्
अंशुमान् नाम वीर्यवान् ।
दिलीपस् तस्य तनयः
खट्वाङ्ग इति विश्रुतः ॥ ह्व्_१०।६४ ॥
विश्वास-प्रस्तुतिः
येन स्वर्गाद् इहागत्य
मुहूर्तं प्राप्य जीवितम् ।
त्रयो ऽभिसन्धिता लोका
बुद्ध्या सत्येन चानघ ॥ ह्व्_१०।६५ ॥
मूलम्
येन स्वर्गाद् इहागत्य
मुहूर्तं प्राप्य जीवितम् ।
त्रयो ऽभिसन्धिता लोका
बुद्ध्या सत्येन चानघ ॥ ह्व्_१०।६५ ॥
विश्वास-प्रस्तुतिः
दिलीपस्य तु दायादो
महाराजो भगीरथः ।
यः स गङ्गां सरिच्छ्रेष्ठाम्
अवातारयत प्रभुः ॥
मूलम्
दिलीपस्य तु दायादो
महाराजो भगीरथः ।
यः स गङ्गां सरिच्छ्रेष्ठाम्
अवातारयत प्रभुः ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ Ñ१) त्२-४ ग्१-३।५ ins.: :क्])
कीर्तिमान् स महाभागः
शक्रतुल्यपराक्रमः । ह्व्_१०।६६२२१ ।
समुद्रम् आनयच् चैनां
दुहितृत्वे त्व् अकल्पयत् ॥ ह्व्_१०।६६ ॥
मूलम्
([क्: न् (एxचेप्त् श्१ Ñ१) त्२-४ ग्१-३।५ ins.: :क्])
कीर्तिमान् स महाभागः
शक्रतुल्यपराक्रमः । ह्व्_१०।६६२२१ ।
समुद्रम् आनयच् चैनां
दुहितृत्वे त्व् अकल्पयत् ॥ ह्व्_१०।६६ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ Ñ१) त्२-४ ग् म्४ ins.: :क्])
तस्माद् भागीरथी गङ्गा
कथ्यते वंशचिन्तकैः । ह्व्_१०।६६२२२ ।
भगीरथसुतो राजा
श्रुत इत्य् अभिविश्रुतः ।
नाभागस् तु श्रुतस्यासीत्
पुत्रः परमधार्मिकः ॥ ह्व्_१०।६७ ॥
मूलम्
([क्: न् (एxचेप्त् श्१ Ñ१) त्२-४ ग् म्४ ins.: :क्])
तस्माद् भागीरथी गङ्गा
कथ्यते वंशचिन्तकैः । ह्व्_१०।६६२२२ ।
भगीरथसुतो राजा
श्रुत इत्य् अभिविश्रुतः ।
नाभागस् तु श्रुतस्यासीत्
पुत्रः परमधार्मिकः ॥ ह्व्_१०।६७ ॥
विश्वास-प्रस्तुतिः
अम्बरीषस् तु नाभागिः
सिन्धुद्वीपपिताभवत् ।
अयुताजित् तु दायादः
सिन्धुद्वीपस्य वीर्यवान् ॥ ह्व्_१०।६८ ॥
मूलम्
अम्बरीषस् तु नाभागिः
सिन्धुद्वीपपिताभवत् ।
अयुताजित् तु दायादः
सिन्धुद्वीपस्य वीर्यवान् ॥ ह्व्_१०।६८ ॥
विश्वास-प्रस्तुतिः
अयुताजित्सुतस् त्व् आसीद्
ऋतपर्णो महायशाः ।
दिव्याक्षहृदयज्ञो वै
राजा नलसखो बली ॥ ह्व्_१०।६९ ॥
मूलम्
अयुताजित्सुतस् त्व् आसीद्
ऋतपर्णो महायशाः ।
दिव्याक्षहृदयज्ञो वै
राजा नलसखो बली ॥ ह्व्_१०।६९ ॥
विश्वास-प्रस्तुतिः
ऋतपर्णसुतस् त्व् आसीद्
आर्तपर्णिर् महीपतिः ।
([क्: क्१।२।४ Ñ२।३ व् ब् द्न् द्स् द्२।६ त्२।४ ग् म्४ ins.: :क्])
सुदासस् तस्य तनयो
राजा इन्द्रसखो ऽभवत् । ह्व्_१०।७०२२३:१ ।
सुदासस्य सुतस् त्व् आसीत्
सौदासो नाम पार्थिवः । ह्व्_१०।७०२२३:२ ।
ख्यातः कल्माषपादो वै
नाम्ना मित्रसहो ऽभवत् ॥ ह्व्_१०।७० ॥
मूलम्
ऋतपर्णसुतस् त्व् आसीद्
आर्तपर्णिर् महीपतिः ।
([क्: क्१।२।४ Ñ२।३ व् ब् द्न् द्स् द्२।६ त्२।४ ग् म्४ ins.: :क्])
सुदासस् तस्य तनयो
राजा इन्द्रसखो ऽभवत् । ह्व्_१०।७०२२३:१ ।
सुदासस्य सुतस् त्व् आसीत्
सौदासो नाम पार्थिवः । ह्व्_१०।७०२२३:२ ।
ख्यातः कल्माषपादो वै
नाम्ना मित्रसहो ऽभवत् ॥ ह्व्_१०।७० ॥
विश्वास-प्रस्तुतिः
([क्: क्१।४ Ñ३ द्स् (Ñ२ व्१।३ ब्३ after ७३ब्; व्२ after ७३द्) ins.: :क्])
वसिष्ठस् तुमहातेजाः
क्षेत्रे कल्माषपादके । ह्व्_१०।७०२२४:१ ।
अश्मकं जनयाम् आस
इक्ष्वाकुकुलवृद्धये । ह्व्_१०।७०२२४:२ ।
([क्: क्१ Ñ२ व् ब्३ द्स् after *२२४ चोन्त्।: :क्])
अश्मकाच् चैव कारूषो
मूलकस्तत्सुतो ऽभवत् । ह्व्_१०।७०२२५:१ ।
मूलकस्यापि धर्मात्मा
राजा शतरथो ऽभवत् ॥ ह्व्_१०।७०२२५:२ ।
मूलम्
([क्: क्१।४ Ñ३ द्स् (Ñ२ व्१।३ ब्३ after ७३ब्; व्२ after ७३द्) ins.: :क्])
वसिष्ठस् तुमहातेजाः
क्षेत्रे कल्माषपादके । ह्व्_१०।७०२२४:१ ।
अश्मकं जनयाम् आस
इक्ष्वाकुकुलवृद्धये । ह्व्_१०।७०२२४:२ ।
([क्: क्१ Ñ२ व् ब्३ द्स् after *२२४ चोन्त्।: :क्])
अश्मकाच् चैव कारूषो
मूलकस्तत्सुतो ऽभवत् । ह्व्_१०।७०२२५:१ ।
मूलकस्यापि धर्मात्मा
राजा शतरथो ऽभवत् ॥ ह्व्_१०।७०२२५:२ ।
विश्वास-प्रस्तुतिः
तस्माच् छतरथाज् जज्ञे
राजा एलबिलो बली । ह्व्_१०।७०२२५:३ ।
आसीद् ऐलबिलः श्रीमान्
वृद्धशर्मा प्रतापवान् ॥ ह्व्_१०।७०२२५:४ ।
मूलम्
तस्माच् छतरथाज् जज्ञे
राजा एलबिलो बली । ह्व्_१०।७०२२५:३ ।
आसीद् ऐलबिलः श्रीमान्
वृद्धशर्मा प्रतापवान् ॥ ह्व्_१०।७०२२५:४ ।
विश्वास-प्रस्तुतिः
([क्: Ñ२ व्३ after lines ५-६ of *२२५ (बोथ् lines थेय् रेअद् after *२३०) ins.: :क्])
रजो नाम सुतस् तस्य
शृङ्खलस् तस्य चात्मजः । ह्व्_१०।७०२२५ब् ।
कल्माषपादस्य सुतः
सर्वकर्मेति विश्रुतः ।
अनरण्यस् तु पुत्रो ऽभूद्
विश्रुतः सर्वकर्मणः ॥ ह्व्_१०।७१ ॥
मूलम्
([क्: Ñ२ व्३ after lines ५-६ of *२२५ (बोथ् lines थेय् रेअद् after *२३०) ins.: :क्])
रजो नाम सुतस् तस्य
शृङ्खलस् तस्य चात्मजः । ह्व्_१०।७०२२५ब् ।
कल्माषपादस्य सुतः
सर्वकर्मेति विश्रुतः ।
अनरण्यस् तु पुत्रो ऽभूद्
विश्रुतः सर्वकर्मणः ॥ ह्व्_१०।७१ ॥
विश्वास-प्रस्तुतिः
अनरण्यसुतो निघ्नो
निघ्नपुत्रौ बभूवतुः ।
अनमित्रो रघुश् चैव
पार्थिवर्षभसत्तमौ ॥ ह्व्_१०।७२ ॥
मूलम्
अनरण्यसुतो निघ्नो
निघ्नपुत्रौ बभूवतुः ।
अनमित्रो रघुश् चैव
पार्थिवर्षभसत्तमौ ॥ ह्व्_१०।७२ ॥
विश्वास-प्रस्तुतिः
([क्: क्१ व्२ द्स् ins.: :क्])
अनमित्रसुतः स्तम्बः
शङ्खणस् तस्य चात्मजः । ह्व्_१०।७२२२६ ।
अनमित्रस् तु धर्मात्मा
विद्वान् दुलिदुहो ऽभवत् ।
दिलीपस् तस्य तनयो
रामस्य प्रपितामहः ॥
मूलम्
([क्: क्१ व्२ द्स् ins.: :क्])
अनमित्रसुतः स्तम्बः
शङ्खणस् तस्य चात्मजः । ह्व्_१०।७२२२६ ।
अनमित्रस् तु धर्मात्मा
विद्वान् दुलिदुहो ऽभवत् ।
दिलीपस् तस्य तनयो
रामस्य प्रपितामहः ॥
विश्वास-प्रस्तुतिः
दीर्घबाहुर् दिलीपस्य
रघुर् नाम्नाभवत् सुतः ॥ ह्व्_१०।७३ ॥
मूलम्
दीर्घबाहुर् दिलीपस्य
रघुर् नाम्नाभवत् सुतः ॥ ह्व्_१०।७३ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ Ñ१) (त्१।३।४ ग् म् after ७३ब्) ins.: :क्])
अयोध्यायाम्महाराज
रघुर् आसीन् महाबलः । ह्व्_१०।७३२२७ ।
अजस् तु राघुतो जज्ञे
तथा दशरथो ऽप्य् अजात् ।
रामो दशरथाज् जज्ञे
धर्मारामो महायशाः ॥ ह्व्_१०।७४ ॥
मूलम्
([क्: न् (एxचेप्त् श्१ Ñ१) (त्१।३।४ ग् म् after ७३ब्) ins.: :क्])
अयोध्यायाम्महाराज
रघुर् आसीन् महाबलः । ह्व्_१०।७३२२७ ।
अजस् तु राघुतो जज्ञे
तथा दशरथो ऽप्य् अजात् ।
रामो दशरथाज् जज्ञे
धर्मारामो महायशाः ॥ ह्व्_१०।७४ ॥
विश्वास-प्रस्तुतिः
रामस्य तनयो जज्ञे
कुश इत्य् अभिविश्रुतः ।
अतिथिस् तु कुशाज् जज्ञे
निषधस् तस्य चात्मजः ॥ ह्व्_१०।७५ ॥
मूलम्
रामस्य तनयो जज्ञे
कुश इत्य् अभिविश्रुतः ।
अतिथिस् तु कुशाज् जज्ञे
निषधस् तस्य चात्मजः ॥ ह्व्_१०।७५ ॥
विश्वास-प्रस्तुतिः
निषधस्य नलः पुत्रो
नभः पुत्रो नलस्य तु ।
नभसः पुण्डरीकस् तु
क्षेमधन्वा ततः स्मृतः ॥ ह्व्_१०।७६ ॥
मूलम्
निषधस्य नलः पुत्रो
नभः पुत्रो नलस्य तु ।
नभसः पुण्डरीकस् तु
क्षेमधन्वा ततः स्मृतः ॥ ह्व्_१०।७६ ॥
विश्वास-प्रस्तुतिः
क्षेमधन्वसुतस् त्व् आसीद्
देवानीकः प्रतापवान् ।
आसीद् अहीनगुर् नाम
देवानीकात्मजः प्रभुः ॥
मूलम्
क्षेमधन्वसुतस् त्व् आसीद्
देवानीकः प्रतापवान् ।
आसीद् अहीनगुर् नाम
देवानीकात्मजः प्रभुः ॥
विश्वास-प्रस्तुतिः
([क्: म्४ फ़ोर् ७७च्-द् सुब्स्त्।: :क्])
देवानीकस्य दायादो
ऽहीनगस् तु प्रतापवान् । ह्व्_१०।७७२२८ ।
अहीनगोस् तु दायादः
सहस्वान् नाम पार्थिवः ॥ ह्व्_१०।७७ ॥
मूलम्
([क्: म्४ फ़ोर् ७७च्-द् सुब्स्त्।: :क्])
देवानीकस्य दायादो
ऽहीनगस् तु प्रतापवान् । ह्व्_१०।७७२२८ ।
अहीनगोस् तु दायादः
सहस्वान् नाम पार्थिवः ॥ ह्व्_१०।७७ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।३।४ Ñ२।३ व्१।३ ब्१।२ द्न् द्स् द्१।४-६ त्३ after *२२९ (क्१ द्स् बोथ् अ फ़िर्स्त् तिमे अन्द् व्२ after *२२६) चोन्त्।: :क्])
शङ्खस् तस्य सुतो विद्वान्
ध्युषिताश्व इति श्रुतः । ह्व्_१०।७७२३०:१ ।
ध्युषिताश्वसुतो विद्वान्
राजा विश्वसहः किल ॥ ह्व्_१०।७७२३०:२ ।
मूलम्
([क्: क्१।३।४ Ñ२।३ व्१।३ ब्१।२ द्न् द्स् द्१।४-६ त्३ after *२२९ (क्१ द्स् बोथ् अ फ़िर्स्त् तिमे अन्द् व्२ after *२२६) चोन्त्।: :क्])
शङ्खस् तस्य सुतो विद्वान्
ध्युषिताश्व इति श्रुतः । ह्व्_१०।७७२३०:१ ।
ध्युषिताश्वसुतो विद्वान्
राजा विश्वसहः किल ॥ ह्व्_१०।७७२३०:२ ।
विश्वास-प्रस्तुतिः
हिरण्यनाभः कौशल्यो
ब्रह्मिष्ठस् तस्य चात्मजः । ह्व्_१०।७७२३०:३ ।
पुष्पस् तस्य सुतो विद्वान्
अर्थसिद्धिस् तु तत्सुतः ॥ ह्व्_१०।७७२३०:४ ।
मूलम्
हिरण्यनाभः कौशल्यो
ब्रह्मिष्ठस् तस्य चात्मजः । ह्व्_१०।७७२३०:३ ।
पुष्पस् तस्य सुतो विद्वान्
अर्थसिद्धिस् तु तत्सुतः ॥ ह्व्_१०।७७२३०:४ ।
विश्वास-प्रस्तुतिः
सुदर्शनः सुतस् तस्य
अग्निवर्णः सुदर्शनात् । ह्व्_१०।७७२३०:५ ।
अग्निवर्णस्य शीघ्रस् तु
शीघ्रस्य तु मरुः सुतः ॥ ह्व्_१०।७७२३०:६ ।
मूलम्
सुदर्शनः सुतस् तस्य
अग्निवर्णः सुदर्शनात् । ह्व्_१०।७७२३०:५ ।
अग्निवर्णस्य शीघ्रस् तु
शीघ्रस्य तु मरुः सुतः ॥ ह्व्_१०।७७२३०:६ ।
विश्वास-प्रस्तुतिः
मरुस् तु योगम् आस्थाय
कलापद्वीपम् आस्थितः । ह्व्_१०।७७२३०:७ ।
तस्यासीद् विश्रुतवतः
पुत्रो राजा बृहद्बलः । ह्व्_१०।७७२३०:८ ।
([क्: Ñ२।३ व् ब्२ द्स् (थे फ़िर्स्त् तिमे ओन्ल्य्) after लिने ७ of *२३० (क्४ after ७२) ins.: :क्])
प्रसुस्रुतो मरुसुतः
सुसन्धिस् तस्य चात्मजः । ह्व्_१०।७७२३०अ:१ ।
सुसन्धेस् तु सुतो मर्षः
सहस्रान् नाम नामतः । ह्व्_१०।७७२३०अ:२ ।
आसीत् सहस्रतः पुत्रो
राजा विश्रुतवान् इति । ह्व्_१०।७७२३०अ:३ ।
नलौ द्वाव् एव विख्यातौ
पुराणे भरतर्षभ ।
वीरसेनात्मजश् चैव
यश् चेक्ष्वाकुकुलोद्वहः ॥ ह्व्_१०।७८ ॥
मूलम्
मरुस् तु योगम् आस्थाय
कलापद्वीपम् आस्थितः । ह्व्_१०।७७२३०:७ ।
तस्यासीद् विश्रुतवतः
पुत्रो राजा बृहद्बलः । ह्व्_१०।७७२३०:८ ।
([क्: Ñ२।३ व् ब्२ द्स् (थे फ़िर्स्त् तिमे ओन्ल्य्) after लिने ७ of *२३० (क्४ after ७२) ins.: :क्])
प्रसुस्रुतो मरुसुतः
सुसन्धिस् तस्य चात्मजः । ह्व्_१०।७७२३०अ:१ ।
सुसन्धेस् तु सुतो मर्षः
सहस्रान् नाम नामतः । ह्व्_१०।७७२३०अ:२ ।
आसीत् सहस्रतः पुत्रो
राजा विश्रुतवान् इति । ह्व्_१०।७७२३०अ:३ ।
नलौ द्वाव् एव विख्यातौ
पुराणे भरतर्षभ ।
वीरसेनात्मजश् चैव
यश् चेक्ष्वाकुकुलोद्वहः ॥ ह्व्_१०।७८ ॥
विश्वास-प्रस्तुतिः
इक्ष्वाकुवंशप्रभवाः
प्राधान्येनेह कीर्तिताः ।
एते विवस्वतो वंशे
राजानो भूरितेजसः ॥ ह्व्_१०।७९ ॥
मूलम्
इक्ष्वाकुवंशप्रभवाः
प्राधान्येनेह कीर्तिताः ।
एते विवस्वतो वंशे
राजानो भूरितेजसः ॥ ह्व्_१०।७९ ॥
विश्वास-प्रस्तुतिः
पठन् सम्यग् इमां सृष्टिम्
आदित्यस्य विवस्वतः ।
श्राद्धदेवस्य देवस्य
प्रजानां पुष्टिदस्य च ॥
मूलम्
पठन् सम्यग् इमां सृष्टिम्
आदित्यस्य विवस्वतः ।
श्राद्धदेवस्य देवस्य
प्रजानां पुष्टिदस्य च ॥
विश्वास-प्रस्तुतिः
प्रजानान् एति सायुज्यम्
आदित्यस्य विवस्वतः ॥ ह्व्_१०।८० ॥
मूलम्
प्रजानान् एति सायुज्यम्
आदित्यस्य विवस्वतः ॥ ह्व्_१०।८० ॥