विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
मनोर् वैवस्वतस्यासन्
पुत्रा वै नव तत्समाः ।
इक्ष्वाकुश् चैव नाभागश् च
धृष्णुः शर्यातिर् एव च ॥ ह्व्_९।१ ॥
मूलम्
{वैशम्पायन उवाच}
मनोर् वैवस्वतस्यासन्
पुत्रा वै नव तत्समाः ।
इक्ष्वाकुश् चैव नाभागश् च
धृष्णुः शर्यातिर् एव च ॥ ह्व्_९।१ ॥
विश्वास-प्रस्तुतिः
नरिष्यन्तस् तथा प्रांशूर्
नाभानेदिष्ठसप्तमः ।
करूषश् च पृषध्रश् च
नवैते पुरुषर्षभ ॥ ह्व्_९।२ ॥
मूलम्
नरिष्यन्तस् तथा प्रांशूर्
नाभानेदिष्ठसप्तमः ।
करूषश् च पृषध्रश् च
नवैते पुरुषर्षभ ॥ ह्व्_९।२ ॥
विश्वास-प्रस्तुतिः
अकरोत् पुत्रकामस् तु
मनुर् इष्टिं प्रजापतिः ।
मित्रावरुणयोस् तात
पूर्वम् एव विशां पते ॥
मूलम्
अकरोत् पुत्रकामस् तु
मनुर् इष्टिं प्रजापतिः ।
मित्रावरुणयोस् तात
पूर्वम् एव विशां पते ॥
विश्वास-प्रस्तुतिः
अनुत्पन्नेषु नवसु
पुत्रेष्व् एतेषु भारत ॥ ह्व्_९।३ ॥
मूलम्
अनुत्पन्नेषु नवसु
पुत्रेष्व् एतेषु भारत ॥ ह्व्_९।३ ॥
विश्वास-प्रस्तुतिः
तस्यां तु वर्तमानायाम्
इष्ट्यां भरतसत्तम ।
मित्रावरुणयोर् अंशे
मनुर् आहुतिम् आजुहोत् ॥ ह्व्_९।४ ॥
मूलम्
तस्यां तु वर्तमानायाम्
इष्ट्यां भरतसत्तम ।
मित्रावरुणयोर् अंशे
मनुर् आहुतिम् आजुहोत् ॥ ह्व्_९।४ ॥
विश्वास-प्रस्तुतिः
([क्: क्१-३ Ñ२।३ व्१।२ ब्१।२ द्स् द्१-५ त्३ ins.: :क्])
आहुत्यां हूयमानायां
देवगन्धर्वमानुषाः । ह्व्_९।४१६४:१ ।
तुष्टिं तु परमां जग्मुर्
मुनयश् च तपोधनाः । ह्व्_९।४१६४:२ ।
अहो ऽस्य तपसो वीर्यम्
अहो श्रुतम् अहो धनम् । ह्व्_९।४१६४:३ ।
तत्र दिव्याम्बरधरा
दिव्याभरणभूषिता ।
दिव्यसंहनना चैव
इडा जज्ञ इति श्रुतिः ॥ ह्व्_९।५ ॥
मूलम्
([क्: क्१-३ Ñ२।३ व्१।२ ब्१।२ द्स् द्१-५ त्३ ins.: :क्])
आहुत्यां हूयमानायां
देवगन्धर्वमानुषाः । ह्व्_९।४१६४:१ ।
तुष्टिं तु परमां जग्मुर्
मुनयश् च तपोधनाः । ह्व्_९।४१६४:२ ।
अहो ऽस्य तपसो वीर्यम्
अहो श्रुतम् अहो धनम् । ह्व्_९।४१६४:३ ।
तत्र दिव्याम्बरधरा
दिव्याभरणभूषिता ।
दिव्यसंहनना चैव
इडा जज्ञ इति श्रुतिः ॥ ह्व्_९।५ ॥
विश्वास-प्रस्तुतिः
ताम् इडेत्य् एव होवाच
मनुर् दण्डधरस् तदा ।
अनुगच्छस्व मां भद्रे
तम् इडा प्रत्युवाच ह ॥ ह्व्_९।६ ॥
मूलम्
ताम् इडेत्य् एव होवाच
मनुर् दण्डधरस् तदा ।
अनुगच्छस्व मां भद्रे
तम् इडा प्रत्युवाच ह ॥ ह्व्_९।६ ॥
विश्वास-प्रस्तुतिः
([क्: श्१ क् Ñ व् ब् द्न् द्स् द्१।३-६ त्२-४ ग् म्४ (द्२ after ६ब्) ins.: :क्])
धर्मयुक्तमिदं वाक्यं
पुत्रकामं प्रजापतिम् । ह्व्_९।६१६५ ।
मित्रावरुणयोर् अंशे
जातास्मि वदतां वर ।
तयोः सकाशं यास्यामि
न मां धर्मो हतो ऽहनत् ॥ ह्व्_९।७ ॥
मूलम्
([क्: श्१ क् Ñ व् ब् द्न् द्स् द्१।३-६ त्२-४ ग् म्४ (द्२ after ६ब्) ins.: :क्])
धर्मयुक्तमिदं वाक्यं
पुत्रकामं प्रजापतिम् । ह्व्_९।६१६५ ।
मित्रावरुणयोर् अंशे
जातास्मि वदतां वर ।
तयोः सकाशं यास्यामि
न मां धर्मो हतो ऽहनत् ॥ ह्व्_९।७ ॥
विश्वास-प्रस्तुतिः
सैवम् उक्त्वा मनुं देवं
मित्रावरुणयोर् इडा ।
गत्वान्तिकं वरारोहा
प्राञ्जलिर् वाक्यम् अब्रवीत् ॥
मूलम्
सैवम् उक्त्वा मनुं देवं
मित्रावरुणयोर् इडा ।
गत्वान्तिकं वरारोहा
प्राञ्जलिर् वाक्यम् अब्रवीत् ॥
विश्वास-प्रस्तुतिः
अंशे ऽस्मि युवयोर् जाता
देवौ किं करवाणि वाम् ॥ ह्व्_९।८ ॥
मूलम्
अंशे ऽस्मि युवयोर् जाता
देवौ किं करवाणि वाम् ॥ ह्व्_९।८ ॥
विश्वास-प्रस्तुतिः
([क्: क्२-४ Ñ२।३ व् ब् द् एxचेप्त् द्२ ins.: :क्])
मनुना चाहम् उक्ता वै
अनुगच्छस्वमाम् इति । ह्व्_९।८१६६ ।
तां तथावादिनीं साध्वीम्
इडां धर्मपरायणाम् ।
मित्रश् च वरुणश् चोभाव्
ऊचतुर् यन् निबोध तत् ॥ ह्व्_९।९ ॥
मूलम्
([क्: क्२-४ Ñ२।३ व् ब् द् एxचेप्त् द्२ ins.: :क्])
मनुना चाहम् उक्ता वै
अनुगच्छस्वमाम् इति । ह्व्_९।८१६६ ।
तां तथावादिनीं साध्वीम्
इडां धर्मपरायणाम् ।
मित्रश् च वरुणश् चोभाव्
ऊचतुर् यन् निबोध तत् ॥ ह्व्_९।९ ॥
विश्वास-प्रस्तुतिः
अनेन तव धर्मेण
प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि
प्रीतौ स्वो वरवर्णिनि ॥ ह्व्_९।१० ॥
मूलम्
अनेन तव धर्मेण
प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि
प्रीतौ स्वो वरवर्णिनि ॥ ह्व्_९।१० ॥
विश्वास-प्रस्तुतिः
आवयोस् त्वं महाभागे
ख्यातिं कन्येति यास्यसि ।
मनोर् वंशकरः पुत्रस्
त्वम् एव च भविष्यसि ॥ ह्व्_९।११ ॥
मूलम्
आवयोस् त्वं महाभागे
ख्यातिं कन्येति यास्यसि ।
मनोर् वंशकरः पुत्रस्
त्वम् एव च भविष्यसि ॥ ह्व्_९।११ ॥
विश्वास-प्रस्तुतिः
सुद्युम्न इति विख्यातस्
त्रिषु लोकेषु शोभने ।
जगत्प्रियो धर्मशीलो
मनोर् वंशविवर्धनः ॥ ह्व्_९।१२ ॥
मूलम्
सुद्युम्न इति विख्यातस्
त्रिषु लोकेषु शोभने ।
जगत्प्रियो धर्मशीलो
मनोर् वंशविवर्धनः ॥ ह्व्_९।१२ ॥
विश्वास-प्रस्तुतिः
निवृत्ता सा तु तच् छ्रुत्वा
गच्छन्ती पितुर् अन्तिकाम् ।
बुधेनान्तरम् आसाद्य
मैथुनायोपवर्तिता ॥ ह्व्_९।१३ ॥
मूलम्
निवृत्ता सा तु तच् छ्रुत्वा
गच्छन्ती पितुर् अन्तिकाम् ।
बुधेनान्तरम् आसाद्य
मैथुनायोपवर्तिता ॥ ह्व्_९।१३ ॥
विश्वास-प्रस्तुतिः
सोमपुत्राद् बुधाद् राजंस्
तस्यां जज्ञे पुरूरवाः ।
जनयित्वा ततः सा तम्
इडा सुद्युम्नतां गता ॥ ह्व्_९।१४ ॥
मूलम्
सोमपुत्राद् बुधाद् राजंस्
तस्यां जज्ञे पुरूरवाः ।
जनयित्वा ततः सा तम्
इडा सुद्युम्नतां गता ॥ ह्व्_९।१४ ॥
विश्वास-प्रस्तुतिः
सुद्युम्नस्य तु दायादास्
त्रयः परमधार्मिकाः ।
उत्कलश् च गयश् चैव
विनताश्वश् च भारत ॥ ह्व्_९।१५ ॥
मूलम्
सुद्युम्नस्य तु दायादास्
त्रयः परमधार्मिकाः ।
उत्कलश् च गयश् चैव
विनताश्वश् च भारत ॥ ह्व्_९।१५ ॥
विश्वास-प्रस्तुतिः
उत्कलस्योत्तरा राजन्
विनताश्वस्य पश्चिमा ।
दिक् पूर्वा भरतश्रेष्ठ
गयस्य तु गया स्मृता ॥ ह्व्_९।१६ ॥
मूलम्
उत्कलस्योत्तरा राजन्
विनताश्वस्य पश्चिमा ।
दिक् पूर्वा भरतश्रेष्ठ
गयस्य तु गया स्मृता ॥ ह्व्_९।१६ ॥
विश्वास-प्रस्तुतिः
प्रविष्टे तु मनौ तात
दिवाकरम् अरिन्दम ।
दशधा तद्गतं क्षत्रम्
अकरोत् पृथिवीम् इमाम् ॥ ह्व्_९।१७ ॥
मूलम्
प्रविष्टे तु मनौ तात
दिवाकरम् अरिन्दम ।
दशधा तद्गतं क्षत्रम्
अकरोत् पृथिवीम् इमाम् ॥ ह्व्_९।१७ ॥
विश्वास-प्रस्तुतिः
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
यूपाङ्किता वसुमती
यस्येयं सवनाकरा । ह्व्_९।१७१६७ ।
इक्ष्वाकुर् ज्येष्ठदायादो
मध्यदेशम् अवाप्तवान् ।
कन्याभावाच् च सुद्युम्नो
नैनं गुणम् अवाप्तवान् ॥ ह्व्_९।१८ ॥
मूलम्
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
यूपाङ्किता वसुमती
यस्येयं सवनाकरा । ह्व्_९।१७१६७ ।
इक्ष्वाकुर् ज्येष्ठदायादो
मध्यदेशम् अवाप्तवान् ।
कन्याभावाच् च सुद्युम्नो
नैनं गुणम् अवाप्तवान् ॥ ह्व्_९।१८ ॥
विश्वास-प्रस्तुतिः
वसिष्ठवचनाच् चासीत्
प्रतिष्ठानं महात्मनः ।
प्रतिष्ठा धर्मराजस्य
सुद्युम्नस्य कुरूद्वह ॥ ह्व्_९।१९ ॥
मूलम्
वसिष्ठवचनाच् चासीत्
प्रतिष्ठानं महात्मनः ।
प्रतिष्ठा धर्मराजस्य
सुद्युम्नस्य कुरूद्वह ॥ ह्व्_९।१९ ॥
विश्वास-प्रस्तुतिः
([क्: क्२।४ Ñ२।३ व् ब् द्न् द्स् द्१-३।५।६ त्२-४ ग् म्४ (क्१।३ द्४ after २०द्) ins.: :क्])
सुद्युम्नः कारयाम् आस
प्रतिष्ठाने नृपक्रियाम् । ह्व्_९।२०१६९:१ ।
धृष्णुकश् चाम्बरीषश् च
दण्डश् चेतीह ते त्रयः । ह्व्_९।२०१६९:२ ।
यश् चकार महात्मा वै
दण्डकारण्यम् उत्तमम् ॥ ह्व्_९।२०१६९:३ ।
मूलम्
([क्: क्२।४ Ñ२।३ व् ब् द्न् द्स् द्१-३।५।६ त्२-४ ग् म्४ (क्१।३ द्४ after २०द्) ins.: :क्])
सुद्युम्नः कारयाम् आस
प्रतिष्ठाने नृपक्रियाम् । ह्व्_९।२०१६९:१ ।
धृष्णुकश् चाम्बरीषश् च
दण्डश् चेतीह ते त्रयः । ह्व्_९।२०१६९:२ ।
यश् चकार महात्मा वै
दण्डकारण्यम् उत्तमम् ॥ ह्व्_९।२०१६९:३ ।
विश्वास-प्रस्तुतिः
वनं तल् लोकविख्यातं
तापसानाम् अनुत्तमम् । ह्व्_९।२०१६९:४ ।
तत्र प्रविष्टमात्रस् तु
नरः पापात् प्रमुच्यते ॥ ह्व्_९।२०१६९:५ ।
मूलम्
वनं तल् लोकविख्यातं
तापसानाम् अनुत्तमम् । ह्व्_९।२०१६९:४ ।
तत्र प्रविष्टमात्रस् तु
नरः पापात् प्रमुच्यते ॥ ह्व्_९।२०१६९:५ ।
विश्वास-प्रस्तुतिः
सुद्युम्नश् च दिवं यात
एडम् उत्पाद्य भारत । ह्व्_९।२०१६९:६ ।
([क्: बोम् पोओन एद्स् after लिने १ of *१६९ ins.: :क्])
उत्कलस्य त्रयः पुत्रास्
त्रिषु लोकेषु विश्रुताः । ह्व्_९।२०१६९अ ।
मानवेयो महाराज
स्त्रीपुंसोर् लक्षणैर् युतः ॥ ह्व्_९।२० ॥
मूलम्
सुद्युम्नश् च दिवं यात
एडम् उत्पाद्य भारत । ह्व्_९।२०१६९:६ ।
([क्: बोम् पोओन एद्स् after लिने १ of *१६९ ins.: :क्])
उत्कलस्य त्रयः पुत्रास्
त्रिषु लोकेषु विश्रुताः । ह्व्_९।२०१६९अ ।
मानवेयो महाराज
स्त्रीपुंसोर् लक्षणैर् युतः ॥ ह्व्_९।२० ॥
विश्वास-प्रस्तुतिः
([क्: द्१।२।५ after *१७० (क्२ after २२ब्) ins. (= वर्। ३७): :क्])
पृषध्रो हिवद्धित्वा तु
गुरोर् गां जनमेजय । ह्व्_९।२०१७१:१ ।
शापाच् छूद्रत्वम् आपन्नः
पुत्रस् तस्य महात्मनः । ह्व्_९।२०१७१:२ ।
नारिष्यन्ताः शकाः पुत्रा
नाभागस्य तु भारत ।
अम्बरीषो ऽभवत् पुत्रः
पार्थिवर्षभसत्तम ॥ ह्व्_९।२१ ॥
मूलम्
([क्: द्१।२।५ after *१७० (क्२ after २२ब्) ins. (= वर्। ३७): :क्])
पृषध्रो हिवद्धित्वा तु
गुरोर् गां जनमेजय । ह्व्_९।२०१७१:१ ।
शापाच् छूद्रत्वम् आपन्नः
पुत्रस् तस्य महात्मनः । ह्व्_९।२०१७१:२ ।
नारिष्यन्ताः शकाः पुत्रा
नाभागस्य तु भारत ।
अम्बरीषो ऽभवत् पुत्रः
पार्थिवर्षभसत्तम ॥ ह्व्_९।२१ ॥
विश्वास-प्रस्तुतिः
धृष्णोस् तु धार्ष्णिकं क्षत्रं
रणदृष्टं बभूव ह ।
([क्: श्१ क्१।३।४। Ñ२ व्२ द्न् द्२-५ (क्२ द्१ after *१७१) ins. (ल्। १ = ३६च्-द्, ल्। ५ =*१७८): :क्])
करूषस्य तु कारूषाः
क्षत्रिया युद्धदुर्मदाः । ह्व्_९।२२१७२:१ ।
सहस्रं क्षत्रियगणो
विक्रान्तः सम्बभूव ह ॥ ह्व्_९।२२१७२:२ ।
मूलम्
धृष्णोस् तु धार्ष्णिकं क्षत्रं
रणदृष्टं बभूव ह ।
([क्: श्१ क्१।३।४। Ñ२ व्२ द्न् द्२-५ (क्२ द्१ after *१७१) ins. (ल्। १ = ३६च्-द्, ल्। ५ =*१७८): :क्])
करूषस्य तु कारूषाः
क्षत्रिया युद्धदुर्मदाः । ह्व्_९।२२१७२:१ ।
सहस्रं क्षत्रियगणो
विक्रान्तः सम्बभूव ह ॥ ह्व्_९।२२१७२:२ ।
विश्वास-प्रस्तुतिः
नाभागारिष्टपुत्राश् च
क्षत्रिया वैश्यतां गताः ॥ ह्व्_९।२२१७२:३ ।
मूलम्
नाभागारिष्टपुत्राश् च
क्षत्रिया वैश्यतां गताः ॥ ह्व्_९।२२१७२:३ ।
विश्वास-प्रस्तुतिः
प्रांशोर् एको ऽभवत् पुत्रः
प्रजापतिर् इति श्रुतः । ह्व्_९।२२१७२:४ ।
नरिष्यन्तस्य दायादो
राजा दण्डधरो दमः । ह्व्_९।२२१७२:५ ।
शर्यातेर् मिथुनं चासीद्
आनर्तो नाम विश्रुतः ॥
मूलम्
प्रांशोर् एको ऽभवत् पुत्रः
प्रजापतिर् इति श्रुतः । ह्व्_९।२२१७२:४ ।
नरिष्यन्तस्य दायादो
राजा दण्डधरो दमः । ह्व्_९।२२१७२:५ ।
शर्यातेर् मिथुनं चासीद्
आनर्तो नाम विश्रुतः ॥
विश्वास-प्रस्तुतिः
पुत्रः कन्या सुकन्या च
या पत्नी च्यवनस्य ह ॥ ह्व्_९।२२ ॥
मूलम्
पुत्रः कन्या सुकन्या च
या पत्नी च्यवनस्य ह ॥ ह्व्_९।२२ ॥
विश्वास-प्रस्तुतिः
आनर्तस्य तु दायादो
रेवो नाम महाद्युतिः ।
आनर्तविषयश् चासीत्
पुरी चासीत् कुशस्थली ॥ ह्व्_९।२३ ॥
मूलम्
आनर्तस्य तु दायादो
रेवो नाम महाद्युतिः ।
आनर्तविषयश् चासीत्
पुरी चासीत् कुशस्थली ॥ ह्व्_९।२३ ॥
विश्वास-प्रस्तुतिः
रेवस्य रैवतः पुत्रः
ककुद्मी नाम धार्मिकः ।
ज्येष्ठः पुत्रशतस्यासीद्
राज्यं प्राप्य कुशस्थलीम् ॥ ह्व्_९।२४ ॥
मूलम्
रेवस्य रैवतः पुत्रः
ककुद्मी नाम धार्मिकः ।
ज्येष्ठः पुत्रशतस्यासीद्
राज्यं प्राप्य कुशस्थलीम् ॥ ह्व्_९।२४ ॥
विश्वास-प्रस्तुतिः
([क्: त्३ फ़ोर् २४च्-द् सुब्स्त्।: :क्])
तस्य पुत्रशतं त्व् आसीत्
कन्या चापिकुरूद्वह । ह्व्_९।२४१७३ ।
स कन्यासहितः श्रुत्वा
गान्धर्वं ब्रह्मणो ऽन्तिके ।
मुहूर्तभूतं देवस्य
मर्त्यं बहुयुगं प्रभो ॥ ह्व्_९।२५ ॥
मूलम्
([क्: त्३ फ़ोर् २४च्-द् सुब्स्त्।: :क्])
तस्य पुत्रशतं त्व् आसीत्
कन्या चापिकुरूद्वह । ह्व्_९।२४१७३ ।
स कन्यासहितः श्रुत्वा
गान्धर्वं ब्रह्मणो ऽन्तिके ।
मुहूर्तभूतं देवस्य
मर्त्यं बहुयुगं प्रभो ॥ ह्व्_९।२५ ॥
विश्वास-प्रस्तुतिः
आजगाम युवैवाथ
स्वां पुरीं यादवैर् वृताम् ।
कृतां द्वारवतीं नाम्ना
बहुद्वारां मनोरमाम् ॥
मूलम्
आजगाम युवैवाथ
स्वां पुरीं यादवैर् वृताम् ।
कृतां द्वारवतीं नाम्ना
बहुद्वारां मनोरमाम् ॥
विश्वास-प्रस्तुतिः
भोजवृष्ण्यन्धकैर् गुप्तां
वासुदेवपुरोगमैः ॥ ह्व्_९।२६ ॥
मूलम्
भोजवृष्ण्यन्धकैर् गुप्तां
वासुदेवपुरोगमैः ॥ ह्व्_९।२६ ॥
विश्वास-प्रस्तुतिः
ततस् तद् रैवतो ज्ञात्वा
यथातत्त्वम् अरिन्दम ।
कन्यां तां बलदेवाय
सुव्रतां नाम रेवतीम् ॥ ह्व्_९।२७ ॥
मूलम्
ततस् तद् रैवतो ज्ञात्वा
यथातत्त्वम् अरिन्दम ।
कन्यां तां बलदेवाय
सुव्रतां नाम रेवतीम् ॥ ह्व्_९।२७ ॥
विश्वास-प्रस्तुतिः
दत्त्वा जगाम शिखरं
मेरोस् तपसि संश्रितः ।
([क्: ब्२ ins.: :क्])
रोहिण्या सहितश् चन्द्रो
यथा शच्या शचीपतिः । ह्व्_९।२८१७४ ।
रेमे रामो ऽपि धर्मात्मा
रेवत्या सहितः सुखी ॥ ह्व्_९।२८ ॥
मूलम्
दत्त्वा जगाम शिखरं
मेरोस् तपसि संश्रितः ।
([क्: ब्२ ins.: :क्])
रोहिण्या सहितश् चन्द्रो
यथा शच्या शचीपतिः । ह्व्_९।२८१७४ ।
रेमे रामो ऽपि धर्मात्मा
रेवत्या सहितः सुखी ॥ ह्व्_९।२८ ॥
विश्वास-प्रस्तुतिः
{जनमेजय उवाच}
कथं बहुयुगे काले
समतीते द्विजर्षभ ।
न जरा रेवतीं प्राप्ता
रैवतं च ककुद्मिनम् ॥ ह्व्_९।२९ ॥
मूलम्
{जनमेजय उवाच}
कथं बहुयुगे काले
समतीते द्विजर्षभ ।
न जरा रेवतीं प्राप्ता
रैवतं च ककुद्मिनम् ॥ ह्व्_९।२९ ॥
विश्वास-प्रस्तुतिः
मेरुं गतस्य वा तस्य
शार्यातेः सन्ततिः कथम् ।
स्थिता पृथिव्याम् अद्यापि
श्रोतुम् इच्छामि तत्त्वतः ॥ ह्व्_९।३० ॥
मूलम्
मेरुं गतस्य वा तस्य
शार्यातेः सन्ततिः कथम् ।
स्थिता पृथिव्याम् अद्यापि
श्रोतुम् इच्छामि तत्त्वतः ॥ ह्व्_९।३० ॥
विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
न जरा क्षुत्पिपासे वा
न मृत्युर् भरतर्षभ ।
ऋतुचक्रं प्रभवति
ब्रह्मलोके सदानघा ॥ ह्व्_९।३१ ॥
मूलम्
{वैशम्पायन उवाच}
न जरा क्षुत्पिपासे वा
न मृत्युर् भरतर्षभ ।
ऋतुचक्रं प्रभवति
ब्रह्मलोके सदानघा ॥ ह्व्_९।३१ ॥
विश्वास-प्रस्तुतिः
ककुद्मिनस् तु तं लोकं
रैवतस्य गतस्य ह ।
हता पुण्यजनैस् तात
राक्षसैः सा कुशस्थली ॥ ह्व्_९।३२ ॥
मूलम्
ककुद्मिनस् तु तं लोकं
रैवतस्य गतस्य ह ।
हता पुण्यजनैस् तात
राक्षसैः सा कुशस्थली ॥ ह्व्_९।३२ ॥
विश्वास-प्रस्तुतिः
तस्य भ्रातृशतं त्व् आसीद्
धार्मिकस्य महात्मनः ।
तद् वध्यमानं रक्षोभिर्
दिशः प्राक्रमद् अच्युता ॥ ह्व्_९।३३ ॥
मूलम्
तस्य भ्रातृशतं त्व् आसीद्
धार्मिकस्य महात्मनः ।
तद् वध्यमानं रक्षोभिर्
दिशः प्राक्रमद् अच्युता ॥ ह्व्_९।३३ ॥
विश्वास-प्रस्तुतिः
([क्: क्१-३ Ñ२ व्२।३ द्१।४ (क्४ Ñ१ व्१ ब् द्न् द्स् द्५।६ त्३।४ after *१७५) ins.: :क्])
तेषां तु ते भयाक्रान्तः
क्षत्रियास् तत्र तत्र ह । ह्व्_९।३३१७६ ।
अन्ववायस् तु सुमहांस्
तत्र तत्र विशां पते ।
तेषां ये ते महाराज
शार्याता इति विश्रुताः ॥ ह्व्_९।३४ ॥
मूलम्
([क्: क्१-३ Ñ२ व्२।३ द्१।४ (क्४ Ñ१ व्१ ब् द्न् द्स् द्५।६ त्३।४ after *१७५) ins.: :क्])
तेषां तु ते भयाक्रान्तः
क्षत्रियास् तत्र तत्र ह । ह्व्_९।३३१७६ ।
अन्ववायस् तु सुमहांस्
तत्र तत्र विशां पते ।
तेषां ये ते महाराज
शार्याता इति विश्रुताः ॥ ह्व्_९।३४ ॥
विश्वास-प्रस्तुतिः
क्षत्रिया भरतश्रेष्ठ
दिक्षु सर्वासु धार्मिकाः ।
सर्वशः सर्वगहनं
प्रविष्टाः कुरुनन्दन ॥ ह्व्_९।३५ ॥
मूलम्
क्षत्रिया भरतश्रेष्ठ
दिक्षु सर्वासु धार्मिकाः ।
सर्वशः सर्वगहनं
प्रविष्टाः कुरुनन्दन ॥ ह्व्_९।३५ ॥
विश्वास-प्रस्तुतिः
([क्: त्३ ins.: :क्])
तेषु तत्र कृपां चक्रे
ब्रह्मा लोकपिता महः । ह्व्_९।३५१७७ ।
नाभागस्य तु पुत्रौ द्वौ
वैश्यौ ब्राह्मणतां गतौ ।
करूषस्य तु कारूषाः
क्षत्रिया युद्धदुर्मदाः ॥ ह्व्_९।३६ ॥
मूलम्
([क्: त्३ ins.: :क्])
तेषु तत्र कृपां चक्रे
ब्रह्मा लोकपिता महः । ह्व्_९।३५१७७ ।
नाभागस्य तु पुत्रौ द्वौ
वैश्यौ ब्राह्मणतां गतौ ।
करूषस्य तु कारूषाः
क्षत्रिया युद्धदुर्मदाः ॥ ह्व्_९।३६ ॥
विश्वास-प्रस्तुतिः
([क्: श्१ क्१।३ Ñ१ व्२ द्न् ग्४ ins.: :क्])
प्रांशोर् एको ऽभवत् पुत्रः
प्रजापतिरिति श्रुतः । ह्व्_९।३६१७८ ।
पृषध्रो हिंसयित्वा तु
गुरोर् गां जनमेजय ।
शापाच् छूद्रत्वम् आपन्नो
नवैते परिकीर्तिताः ॥ ह्व्_९।३७ ॥
मूलम्
([क्: श्१ क्१।३ Ñ१ व्२ द्न् ग्४ ins.: :क्])
प्रांशोर् एको ऽभवत् पुत्रः
प्रजापतिरिति श्रुतः । ह्व्_९।३६१७८ ।
पृषध्रो हिंसयित्वा तु
गुरोर् गां जनमेजय ।
शापाच् छूद्रत्वम् आपन्नो
नवैते परिकीर्तिताः ॥ ह्व्_९।३७ ॥
विश्वास-प्रस्तुतिः
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ म्१-३) ins.: :क्])
वैवस्वतस्य तनया
मनोर् वैभरतर्षभ । ह्व्_९।३७१७९ ।
क्षुवतस् तु मनोस् तात
इक्ष्वाकुर् अभवत् सुतः ।
तस्य पुत्रशतं त्व् आसीद्
इक्ष्वाकोर् भूरिदक्षिणम् ॥ ह्व्_९।३८ ॥
मूलम्
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ म्१-३) ins.: :क्])
वैवस्वतस्य तनया
मनोर् वैभरतर्षभ । ह्व्_९।३७१७९ ।
क्षुवतस् तु मनोस् तात
इक्ष्वाकुर् अभवत् सुतः ।
तस्य पुत्रशतं त्व् आसीद्
इक्ष्वाकोर् भूरिदक्षिणम् ॥ ह्व्_९।३८ ॥
विश्वास-प्रस्तुतिः
तेषां विकुक्षिर् ज्येष्ठस् तु
विकुक्षित्वाद् अयोधताम् ।
प्राप्तः परमधर्मज्ञ
सो ऽयोध्याधिपतिः प्रभुः ॥ ह्व्_९।३९ ॥
मूलम्
तेषां विकुक्षिर् ज्येष्ठस् तु
विकुक्षित्वाद् अयोधताम् ।
प्राप्तः परमधर्मज्ञ
सो ऽयोध्याधिपतिः प्रभुः ॥ ह्व्_९।३९ ॥
विश्वास-प्रस्तुतिः
शकुनिप्रमुखास् तस्य
पुत्राः पञ्चशतं स्मृताः ।
उत्तरापथदेशस्य
रक्षितारो विशां पते ॥ ह्व्_९।४० ॥
मूलम्
शकुनिप्रमुखास् तस्य
पुत्राः पञ्चशतं स्मृताः ।
उत्तरापथदेशस्य
रक्षितारो विशां पते ॥ ह्व्_९।४० ॥
विश्वास-प्रस्तुतिः
चत्वारिंशद् अथास्टौ च
दक्षिणस्यां तथा दिशि ।
वसातिप्रमुखाश् चान्ये
रक्षितारो विशां पते ॥ ह्व्_९।४१ ॥
मूलम्
चत्वारिंशद् अथास्टौ च
दक्षिणस्यां तथा दिशि ।
वसातिप्रमुखाश् चान्ये
रक्षितारो विशां पते ॥ ह्व्_९।४१ ॥
विश्वास-प्रस्तुतिः
([क्: क्१ Ñ२।३ व् ब्१।२ द्न् द्स् द्३।५ ins.: :क्])
इक्ष्वाकुस् तु विकुक्षिं वै
अष्टकायाम् अथादिशत् । ह्व्_९।४११८०:१ ।
मांसम् आनय श्राद्धार्थं
मृगान् हत्वा महाबल । ह्व्_९।४११८०:२ ।
श्राद्धकर्मणि चोद्दिष्टे
अकृते श्राद्धकर्मणि ।
भक्षयित्वा शशं तात
शशादो मृगयां गतः ॥ ह्व्_९।४२ ॥
मूलम्
([क्: क्१ Ñ२।३ व् ब्१।२ द्न् द्स् द्३।५ ins.: :क्])
इक्ष्वाकुस् तु विकुक्षिं वै
अष्टकायाम् अथादिशत् । ह्व्_९।४११८०:१ ।
मांसम् आनय श्राद्धार्थं
मृगान् हत्वा महाबल । ह्व्_९।४११८०:२ ।
श्राद्धकर्मणि चोद्दिष्टे
अकृते श्राद्धकर्मणि ।
भक्षयित्वा शशं तात
शशादो मृगयां गतः ॥ ह्व्_९।४२ ॥
विश्वास-प्रस्तुतिः
इक्ष्वाकुणा परित्यक्तो
वसिष्ठवचनात् प्रभुः ।
([क्: Ñ२।३ व्१।३ ins.: :क्])
शशादनाच् छशादो ऽभूच्
छशादो वनमाविशत् । ह्व्_९।४३१८१ ।
इक्ष्वाकौ संस्थिते तात
शशादः पुरम् आवसत् ॥ ह्व्_९।४३ ॥
मूलम्
इक्ष्वाकुणा परित्यक्तो
वसिष्ठवचनात् प्रभुः ।
([क्: Ñ२।३ व्१।३ ins.: :क्])
शशादनाच् छशादो ऽभूच्
छशादो वनमाविशत् । ह्व्_९।४३१८१ ।
इक्ष्वाकौ संस्थिते तात
शशादः पुरम् आवसत् ॥ ह्व्_९।४३ ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२।३ व्१।३ ins.: :क्])
प्राप्तः परमधर्मात्मा
यो ऽयोध्याधिपतिक्रियाम् । ह्व्_९।४३१८२ ।
अयोधस्य तु दायादः
ककुत्स्थो नाम वीर्यवान् ।
([क्: अल्ल् म्स्स्। (एxचेप्त् त् ग् म्१।४) ins.: :क्])
इन्द्रस्य वृषभूतस्य
ककुत्स्थो ऽजयतासुरान् । ह्व्_९।४४१८३:१ ।
पूर्वम् आडीबके युद्धे
ककुत्स्थस् तेन स स्मृतः । ह्व्_९।४४१८३:२ ।
अनेनास् तु ककुत्स्थस्य
पृथुर् आनेनसः स्मृतः ॥ ह्व्_९।४४ ॥
मूलम्
([क्: Ñ२।३ व्१।३ ins.: :क्])
प्राप्तः परमधर्मात्मा
यो ऽयोध्याधिपतिक्रियाम् । ह्व्_९।४३१८२ ।
अयोधस्य तु दायादः
ककुत्स्थो नाम वीर्यवान् ।
([क्: अल्ल् म्स्स्। (एxचेप्त् त् ग् म्१।४) ins.: :क्])
इन्द्रस्य वृषभूतस्य
ककुत्स्थो ऽजयतासुरान् । ह्व्_९।४४१८३:१ ।
पूर्वम् आडीबके युद्धे
ककुत्स्थस् तेन स स्मृतः । ह्व्_९।४४१८३:२ ।
अनेनास् तु ककुत्स्थस्य
पृथुर् आनेनसः स्मृतः ॥ ह्व्_९।४४ ॥
विश्वास-प्रस्तुतिः
विष्टराश्वः पृथोः पुत्रस्
तस्माद् आर्द्रस् त्व् अजायत ।
आर्द्रस्य युवनाश्वस् तु
श्रावस्तस् तस्य चात्मजस् ॥ ह्व्_९।४५ ॥
मूलम्
विष्टराश्वः पृथोः पुत्रस्
तस्माद् आर्द्रस् त्व् अजायत ।
आर्द्रस्य युवनाश्वस् तु
श्रावस्तस् तस्य चात्मजस् ॥ ह्व्_९।४५ ॥
विश्वास-प्रस्तुतिः
जज्ञे श्रावस्तको राजा
श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो
बृहदश्वो महीपतिः ॥ ह्व्_९।४६ ॥
मूलम्
जज्ञे श्रावस्तको राजा
श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो
बृहदश्वो महीपतिः ॥ ह्व्_९।४६ ॥
विश्वास-प्रस्तुतिः
कुवलाश्वः सुतस् तस्य
Ṭराजा परमधार्मिकः ।
यः स धुन्धुवधाद् राजा
धुन्धुमारत्वम् आगतः ॥ ह्व्_९।४७ ॥
मूलम्
कुवलाश्वः सुतस् तस्य
Ṭराजा परमधार्मिकः ।
यः स धुन्धुवधाद् राजा
धुन्धुमारत्वम् आगतः ॥ ह्व्_९।४७ ॥
विश्वास-प्रस्तुतिः
{जनमेजय उवाच}
धुन्धोर् वधम् अहं ब्रह्मञ्
श्रोतुम् इच्छामि तत्त्वतः ।
यदर्थं कुवलाश्वः सन्
धुन्धुमारत्वम् आगतः ॥ ह्व्_९।४८ ॥
मूलम्
{जनमेजय उवाच}
धुन्धोर् वधम् अहं ब्रह्मञ्
श्रोतुम् इच्छामि तत्त्वतः ।
यदर्थं कुवलाश्वः सन्
धुन्धुमारत्वम् आगतः ॥ ह्व्_९।४८ ॥
विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
बृहदश्वस्य पुत्राणां
शतम् उत्तमधन्विनाम् ।
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
सर्वे विद्यासु निष्णाता
बलवन्तो दुरासदाः । ह्व्_९।४९१८४ ।
बभूवाथ पिता राज्ये
कुवलाश्वं न्ययोजयत् ॥ ह्व्_९।४९ ॥
मूलम्
{वैशम्पायन उवाच}
बृहदश्वस्य पुत्राणां
शतम् उत्तमधन्विनाम् ।
([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
सर्वे विद्यासु निष्णाता
बलवन्तो दुरासदाः । ह्व्_९।४९१८४ ।
बभूवाथ पिता राज्ये
कुवलाश्वं न्ययोजयत् ॥ ह्व्_९।४९ ॥
विश्वास-प्रस्तुतिः
([क्: after ४९च्, अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
यज्वानो भूरिदक्षिणाः । ह्व्_९।४९१८५:१ ।*
कुवलाश्वं सुतं राज्ये । ह्व्_९।४९१८५:२ ।*
पुत्रसङ्क्रामितश्रीस् तु
वनं राजा समाविशत् ।
तम् उत्तङ्को ऽथ विप्रर्षिः
प्रयान्तं प्रत्यवारयत् ॥ ह्व्_९।५० ॥
मूलम्
([क्: after ४९च्, अल्ल् म्स्स्। (एxचेप्त् श्१ क्१ Ñ१ त्१ म्१-३) ins.: :क्])
यज्वानो भूरिदक्षिणाः । ह्व्_९।४९१८५:१ ।*
कुवलाश्वं सुतं राज्ये । ह्व्_९।४९१८५:२ ।*
पुत्रसङ्क्रामितश्रीस् तु
वनं राजा समाविशत् ।
तम् उत्तङ्को ऽथ विप्रर्षिः
प्रयान्तं प्रत्यवारयत् ॥ ह्व्_९।५० ॥
विश्वास-प्रस्तुतिः
{उत्तङ्क उवाच}
भवता रक्षणं कार्यं
तत् तावत् कर्तुम् अर्हसि ।
निरुद्विग्नस् तपश् चर्तुं
न हि शक्नोमि पार्थिव ॥ ह्व्_९।५१ ॥
मूलम्
{उत्तङ्क उवाच}
भवता रक्षणं कार्यं
तत् तावत् कर्तुम् अर्हसि ।
निरुद्विग्नस् तपश् चर्तुं
न हि शक्नोमि पार्थिव ॥ ह्व्_९।५१ ॥
विश्वास-प्रस्तुतिः
([क्: श्१ क्१।३ Ñ२।३ व् द्स् द्४ ins.: :क्])
त्वया हि पृथिवी राजन्
रक्ष्यमाणामहात्मना । ह्व्_९।५११८६:१ ।
भविष्यति निरुद्विग्ना
नारण्यं गन्तुम् अर्हसि ॥ ह्व्_९।५११८६:२ ।
मूलम्
([क्: श्१ क्१।३ Ñ२।३ व् द्स् द्४ ins.: :क्])
त्वया हि पृथिवी राजन्
रक्ष्यमाणामहात्मना । ह्व्_९।५११८६:१ ।
भविष्यति निरुद्विग्ना
नारण्यं गन्तुम् अर्हसि ॥ ह्व्_९।५११८६:२ ।
विश्वास-प्रस्तुतिः
पालने हि महान् धर्मः
प्रजानाम् इह दृश्यते । ह्व्_९।५११८६:३ ।
न तथा दृश्यते ऽरण्ये
मा ते भूद् बुद्धिर् ईदृशी ॥ ह्व्_९।५११८६:४ ।
मूलम्
पालने हि महान् धर्मः
प्रजानाम् इह दृश्यते । ह्व्_९।५११८६:३ ।
न तथा दृश्यते ऽरण्ये
मा ते भूद् बुद्धिर् ईदृशी ॥ ह्व्_९।५११८६:४ ।
विश्वास-प्रस्तुतिः
ईदृशो न हि राजेन्द्र
धर्मः क्व चन दृश्यते । ह्व्_९।५११८६:५ ।
प्रजानां पालने यो वै
पुरा राजर्षिभिः कृतः । ह्व्_९।५११८६:६ ।
रक्षितव्याः प्रजा राज्ञा
तास् त्वं रक्षितुम् अर्हसि । ह्व्_९।५११८६:७ ।
ममाश्रमसमीपे वै
समेषु मरुधन्वसु ।
समुद्रो वालुकापूर्ण
उज्जानक इति स्मृतः ॥ ह्व्_९।५२ ॥
मूलम्
ईदृशो न हि राजेन्द्र
धर्मः क्व चन दृश्यते । ह्व्_९।५११८६:५ ।
प्रजानां पालने यो वै
पुरा राजर्षिभिः कृतः । ह्व्_९।५११८६:६ ।
रक्षितव्याः प्रजा राज्ञा
तास् त्वं रक्षितुम् अर्हसि । ह्व्_९।५११८६:७ ।
ममाश्रमसमीपे वै
समेषु मरुधन्वसु ।
समुद्रो वालुकापूर्ण
उज्जानक इति स्मृतः ॥ ह्व्_९।५२ ॥
विश्वास-प्रस्तुतिः
देवतानाम् अवध्यश् च
महाकायो महाबलः ।
अन्तर्भूमिगतस् तत्र
वालुकान्तर्हितो महान् ॥ ह्व्_९।५३ ॥
मूलम्
देवतानाम् अवध्यश् च
महाकायो महाबलः ।
अन्तर्भूमिगतस् तत्र
वालुकान्तर्हितो महान् ॥ ह्व्_९।५३ ॥
विश्वास-प्रस्तुतिः
राक्षसस्य मधोः पुत्रो
धुन्धुर् नाम सुदारुणः ।
शेते लोकविनाशाय
तप आस्थाय दारुणम् ॥ ह्व्_९।५४ ॥
मूलम्
राक्षसस्य मधोः पुत्रो
धुन्धुर् नाम सुदारुणः ।
शेते लोकविनाशाय
तप आस्थाय दारुणम् ॥ ह्व्_९।५४ ॥
विश्वास-प्रस्तुतिः
संवत्सरस्य पर्यन्ते
स निःश्वासं विमुञ्चति ।
यदा तदा मही तात
चलति स्म सकानना ॥ ह्व्_९।५५ ॥
मूलम्
संवत्सरस्य पर्यन्ते
स निःश्वासं विमुञ्चति ।
यदा तदा मही तात
चलति स्म सकानना ॥ ह्व्_९।५५ ॥
विश्वास-प्रस्तुतिः
तस्य निःश्वासवातेन
रज उद्धूयते महत् ।
आदित्यपथम् आवृत्य
सप्ताहं भूमिकम्पनम् ॥ ह्व्_९।५६ ॥
मूलम्
तस्य निःश्वासवातेन
रज उद्धूयते महत् ।
आदित्यपथम् आवृत्य
सप्ताहं भूमिकम्पनम् ॥ ह्व्_९।५६ ॥
विश्वास-प्रस्तुतिः
सविस्फुलिङ्गं साङ्गारं
सधूमम् अतिदारुणम् ।
तेन तात न शक्नोमि
तस्मिन् स्थातुं स्व आश्रमे ॥ ह्व्_९।५७ ॥
मूलम्
सविस्फुलिङ्गं साङ्गारं
सधूमम् अतिदारुणम् ।
तेन तात न शक्नोमि
तस्मिन् स्थातुं स्व आश्रमे ॥ ह्व्_९।५७ ॥
विश्वास-प्रस्तुतिः
तं वारय महाकायं
लोकानां हितकाम्यया ।
लोकाः स्वस्था भवन्त्व् अद्य
तस्मिन् विनिहते त्वया ॥ ह्व्_९।५८ ॥
मूलम्
तं वारय महाकायं
लोकानां हितकाम्यया ।
लोकाः स्वस्था भवन्त्व् अद्य
तस्मिन् विनिहते त्वया ॥ ह्व्_९।५८ ॥
विश्वास-प्रस्तुतिः
त्वं हि तस्य वधायैकः
समर्थः पृथिवीपते ।
विष्णुना च वरो दत्तो
मह्यं पूर्वं ततो ऽनध ॥
मूलम्
त्वं हि तस्य वधायैकः
समर्थः पृथिवीपते ।
विष्णुना च वरो दत्तो
मह्यं पूर्वं ततो ऽनध ॥
विश्वास-प्रस्तुतिः
([क्: व्२ after *१८७ चोन्त्।: :क्])
स च विख्यातकीर्तिस् तु
चक्रवर्ती नसंशयः । ह्व्_९।५९१८८ ।
तेजसा स्वेन ते विष्णुस्
तेज आप्याययिष्यति ॥ ह्व्_९।५९ ॥
मूलम्
([क्: व्२ after *१८७ चोन्त्।: :क्])
स च विख्यातकीर्तिस् तु
चक्रवर्ती नसंशयः । ह्व्_९।५९१८८ ।
तेजसा स्वेन ते विष्णुस्
तेज आप्याययिष्यति ॥ ह्व्_९।५९ ॥
विश्वास-प्रस्तुतिः
न हि धुन्धुर् महातेजास्
तेजसाल्पेन शक्यते ।
निर्दग्धुं पृथिवीपाल
चिरं युगशतैर् अपि ॥
मूलम्
न हि धुन्धुर् महातेजास्
तेजसाल्पेन शक्यते ।
निर्दग्धुं पृथिवीपाल
चिरं युगशतैर् अपि ॥
विश्वास-प्रस्तुतिः
वीर्यं हि सुमहत् तस्य
देवैर् अपि दुरासदम् ॥ ह्व्_९।६० ॥
मूलम्
वीर्यं हि सुमहत् तस्य
देवैर् अपि दुरासदम् ॥ ह्व्_९।६० ॥
विश्वास-प्रस्तुतिः
स एवम् उक्तो राजर्षिर्
उत्तङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात्
तस्मै धुन्धुनिबर्हणे ॥ ह्व्_९।६१ ॥
मूलम्
स एवम् उक्तो राजर्षिर्
उत्तङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात्
तस्मै धुन्धुनिबर्हणे ॥ ह्व्_९।६१ ॥
विश्वास-प्रस्तुतिः
{बृहदश्व उवाच}
भगवन् न्यस्तशस्त्रो ऽहम्
अयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ
धुन्धुमारो न संशयः ॥ ह्व्_९।६२ ॥
मूलम्
{बृहदश्व उवाच}
भगवन् न्यस्तशस्त्रो ऽहम्
अयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ
धुन्धुमारो न संशयः ॥ ह्व्_९।६२ ॥
विश्वास-प्रस्तुतिः
स तं व्यादिश्य तनयं
राजर्षिर् धुन्धुनिग्रहे ।
जगाम पर्वतायैव
तपसे संशितव्रतः ॥ ह्व्_९।६३ ॥
मूलम्
स तं व्यादिश्य तनयं
राजर्षिर् धुन्धुनिग्रहे ।
जगाम पर्वतायैव
तपसे संशितव्रतः ॥ ह्व्_९।६३ ॥
विश्वास-प्रस्तुतिः
कुवलाश्वस् तु पुत्राणां
शतेन सह पार्तिवः ।
प्रायाद् उत्तङ्कसहितो
धुन्धोस् तस्य निबर्हणे ॥ ह्व्_९।६४ ॥
मूलम्
कुवलाश्वस् तु पुत्राणां
शतेन सह पार्तिवः ।
प्रायाद् उत्तङ्कसहितो
धुन्धोस् तस्य निबर्हणे ॥ ह्व्_९।६४ ॥
विश्वास-प्रस्तुतिः
तम् आविशत् तदा विष्णुर्
भगवांस् तेजसा प्रभुः ।
उत्तङ्कस्य नियोगाद् वै
लोकानां हितकाम्यया ॥ ह्व्_९।६५ ॥
मूलम्
तम् आविशत् तदा विष्णुर्
भगवांस् तेजसा प्रभुः ।
उत्तङ्कस्य नियोगाद् वै
लोकानां हितकाम्यया ॥ ह्व्_९।६५ ॥
विश्वास-प्रस्तुतिः
तस्मिन् प्रयाते दुर्धर्षे
दिवि शब्दो महान् अभूत् ।
एष श्रीमान् नृपसुतो
धुन्धुमारो भविष्यति ॥ ह्व्_९।६६ ॥
मूलम्
तस्मिन् प्रयाते दुर्धर्षे
दिवि शब्दो महान् अभूत् ।
एष श्रीमान् नृपसुतो
धुन्धुमारो भविष्यति ॥ ह्व्_९।६६ ॥
विश्वास-प्रस्तुतिः
दिव्यैर् माल्यैश् च तं देवाः
समन्तात् समवाकिरन् ।
देवदुन्दुभयश् चैव
प्रणेदुर् भरतर्षभ ॥ ह्व्_९।६७ ॥
मूलम्
दिव्यैर् माल्यैश् च तं देवाः
समन्तात् समवाकिरन् ।
देवदुन्दुभयश् चैव
प्रणेदुर् भरतर्षभ ॥ ह्व्_९।६७ ॥
विश्वास-प्रस्तुतिः
स गत्वा जयतां श्रेष्ठस्
तनयैः सह वीर्यवान् ।
समुद्रं खानयाम् आस
वालुकार्णवम् अव्ययम् ॥ ह्व्_९।६८ ॥
मूलम्
स गत्वा जयतां श्रेष्ठस्
तनयैः सह वीर्यवान् ।
समुद्रं खानयाम् आस
वालुकार्णवम् अव्ययम् ॥ ह्व्_९।६८ ॥
विश्वास-प्रस्तुतिः
नारायणेन कौरव्य
तेजसाप्यायितस् तदा ।
बभूव स महातेजा
भूयो बलसमन्वितः ॥ ह्व्_९।६९ ॥
मूलम्
नारायणेन कौरव्य
तेजसाप्यायितस् तदा ।
बभूव स महातेजा
भूयो बलसमन्वितः ॥ ह्व्_९।६९ ॥
विश्वास-प्रस्तुतिः
तस्य पुत्रैः खनद्भिस् तु
वालुकान्तर्हितस् तदा ।
धुन्धुर् आसादितो राजन्
दिशम् आवृत्य पश्चिमाम् ॥ ह्व्_९।७० ॥
मूलम्
तस्य पुत्रैः खनद्भिस् तु
वालुकान्तर्हितस् तदा ।
धुन्धुर् आसादितो राजन्
दिशम् आवृत्य पश्चिमाम् ॥ ह्व्_९।७० ॥
विश्वास-प्रस्तुतिः
मुखजेनाग्निना क्रोधाल्
लोकान् उद्वर्तयन्न् इव ।
वारि सुस्राव वेगेन
महोदधिर् इवोदये ॥
मूलम्
मुखजेनाग्निना क्रोधाल्
लोकान् उद्वर्तयन्न् इव ।
वारि सुस्राव वेगेन
महोदधिर् इवोदये ॥
विश्वास-प्रस्तुतिः
सोमस्य भरतश्रेष्ठ
धारोर्मिकलिलो महान् ॥ ह्व्_९।७१ ॥
मूलम्
सोमस्य भरतश्रेष्ठ
धारोर्मिकलिलो महान् ॥ ह्व्_९।७१ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ ins.: :क्])
एकविंशति पुत्राणां
सहस्रम् अमितौजसाम् । ह्व्_९।७११८९ ।
तस्य पुत्रशतं दग्धं
त्रिभिर् ऊनं तु रक्षसा ॥ ह्व्_९।७२ ॥
मूलम्
([क्: द्६ ins.: :क्])
एकविंशति पुत्राणां
सहस्रम् अमितौजसाम् । ह्व्_९।७११८९ ।
तस्य पुत्रशतं दग्धं
त्रिभिर् ऊनं तु रक्षसा ॥ ह्व्_९।७२ ॥
विश्वास-प्रस्तुतिः
ततः स राजा कौरव्य
राक्षसं तं महाबलम् ।
आससाद महातेजा
धुन्धुं धुन्धुविनाशनः ॥ ह्व्_९।७३ ॥
मूलम्
ततः स राजा कौरव्य
राक्षसं तं महाबलम् ।
आससाद महातेजा
धुन्धुं धुन्धुविनाशनः ॥ ह्व्_९।७३ ॥
विश्वास-प्रस्तुतिः
तस्य वारिमयं वेगम्
आपीय स नराधिपः ।
योगी योगेन वह्निं च
शमयाम् आस वारिणा ॥ ह्व्_९।७४ ॥
मूलम्
तस्य वारिमयं वेगम्
आपीय स नराधिपः ।
योगी योगेन वह्निं च
शमयाम् आस वारिणा ॥ ह्व्_९।७४ ॥
विश्वास-प्रस्तुतिः
निहत्य तं महाकायं
बलेनोदकराक्षसम् ।
उत्तङ्कं दर्शयाम् आस
कृतकर्मा नराधिपः ॥ ह्व्_९।७५ ॥
मूलम्
निहत्य तं महाकायं
बलेनोदकराक्षसम् ।
उत्तङ्कं दर्शयाम् आस
कृतकर्मा नराधिपः ॥ ह्व्_९।७५ ॥
विश्वास-प्रस्तुतिः
उत्तङ्कस् तु वरं प्रादात्
तस्मै राज्ञे महात्मने ।
ददतश् चाक्षयं वित्तं
शत्रुभिश् चापराजयम् ॥ ह्व्_९।७६ ॥
मूलम्
उत्तङ्कस् तु वरं प्रादात्
तस्मै राज्ञे महात्मने ।
ददतश् चाक्षयं वित्तं
शत्रुभिश् चापराजयम् ॥ ह्व्_९।७६ ॥
विश्वास-प्रस्तुतिः
धर्मे रतिं च सततं
स्वर्गे वासं तथाक्षयम् ।
पुत्राणां चाक्षयांल् लोकान्
स्वर्गे ये रक्षसा हताः ॥ ह्व्_९।७७ ॥
मूलम्
धर्मे रतिं च सततं
स्वर्गे वासं तथाक्षयम् ।
पुत्राणां चाक्षयांल् लोकान्
स्वर्गे ये रक्षसा हताः ॥ ह्व्_९।७७ ॥
विश्वास-प्रस्तुतिः
तस्य पुत्रास् त्रयः शिष्टा
दृढाश्वो ज्येष्ठ उच्यते ।
दण्डाश्वकपिलाश्वौ तु
कुमारौ तु कनीयसौ ॥ ह्व्_९।७८ ॥
मूलम्
तस्य पुत्रास् त्रयः शिष्टा
दृढाश्वो ज्येष्ठ उच्यते ।
दण्डाश्वकपिलाश्वौ तु
कुमारौ तु कनीयसौ ॥ ह्व्_९।७८ ॥
विश्वास-प्रस्तुतिः
धौन्धुमारिर् दृढाश्वस् तु
हर्यश्वस् तस्य चात्मजः ।
हर्यश्वस्य निकुम्भो ऽभूत्
क्षत्रधर्मरतः सदा ॥ ह्व्_९।७९ ॥
मूलम्
धौन्धुमारिर् दृढाश्वस् तु
हर्यश्वस् तस्य चात्मजः ।
हर्यश्वस्य निकुम्भो ऽभूत्
क्षत्रधर्मरतः सदा ॥ ह्व्_९।७९ ॥
विश्वास-प्रस्तुतिः
संहताश्वो निकुम्भस्य
सुतो रणविशारदः ।
अकृशाश्वः कृशाश्वश् च
संहताश्वसुतौ नृप ॥ ह्व्_९।८० ॥
मूलम्
संहताश्वो निकुम्भस्य
सुतो रणविशारदः ।
अकृशाश्वः कृशाश्वश् च
संहताश्वसुतौ नृप ॥ ह्व्_९।८० ॥
विश्वास-प्रस्तुतिः
तस्य हैमवती कन्या
सतां मता दृषद्वती ।
विख्याता त्रिषु लोकेषु
पुत्रश् चापि प्रसेनजित् ॥ ह्व्_९।८१ ॥
मूलम्
तस्य हैमवती कन्या
सतां मता दृषद्वती ।
विख्याता त्रिषु लोकेषु
पुत्रश् चापि प्रसेनजित् ॥ ह्व्_९।८१ ॥
विश्वास-प्रस्तुतिः
लेभे प्रसेनजिद् भार्यां
गौरीं नाम पतिव्रताम् ।
अभिशप्ता तु सा भर्त्रा
नदी सा बाहुदा कृता ॥ ह्व्_९।८२ ॥
मूलम्
लेभे प्रसेनजिद् भार्यां
गौरीं नाम पतिव्रताम् ।
अभिशप्ता तु सा भर्त्रा
नदी सा बाहुदा कृता ॥ ह्व्_९।८२ ॥
विश्वास-प्रस्तुतिः
तस्याः पुत्रो महान् आसीद्
युवनाश्वो नराधिपः ।
([क्: क्४ ins.: :क्])
युवनाश्वस्य तनयश्
चक्रवर्ती जजान ह । ह्व्_९।८३१९०:१ ।
कं धारयति कुमारो ऽयं
न्यस्तो रोरूयते भृशम् । ह्व्_९।८३१९०:२ ।
मान्धातर् वत्स मा रोदीर्
इतीन्द्रो देशिनीम् अदात् । ह्व्_९।८३१९०:३ ।
मान्धाता युवनाश्वस्य
त्रिलोकविजयी नृपः ॥ ह्व्_९।८३ ॥
मूलम्
तस्याः पुत्रो महान् आसीद्
युवनाश्वो नराधिपः ।
([क्: क्४ ins.: :क्])
युवनाश्वस्य तनयश्
चक्रवर्ती जजान ह । ह्व्_९।८३१९०:१ ।
कं धारयति कुमारो ऽयं
न्यस्तो रोरूयते भृशम् । ह्व्_९।८३१९०:२ ।
मान्धातर् वत्स मा रोदीर्
इतीन्द्रो देशिनीम् अदात् । ह्व्_९।८३१९०:३ ।
मान्धाता युवनाश्वस्य
त्रिलोकविजयी नृपः ॥ ह्व्_९।८३ ॥
विश्वास-प्रस्तुतिः
तस्य चैत्ररथी भार्या
शशबिन्दोः सुताभवत् ।
साध्वी बिन्दुमती नाम
रूपेणासदृशी भुवि ॥
मूलम्
तस्य चैत्ररथी भार्या
शशबिन्दोः सुताभवत् ।
साध्वी बिन्दुमती नाम
रूपेणासदृशी भुवि ॥
विश्वास-प्रस्तुतिः
पतिव्रता च ज्येष्ठा च
भ्रातॄणाम् अयुतस्य सा ॥ ह्व्_९।८४ ॥
मूलम्
पतिव्रता च ज्येष्ठा च
भ्रातॄणाम् अयुतस्य सा ॥ ह्व्_९।८४ ॥
विश्वास-प्रस्तुतिः
तस्याम् उत्पादयाम् आस
मान्धाता द्वौ सुतौ नृप ।
पुरुकुत्सं च धर्मज्ञं
मुचुकुन्दं च पार्थिवम् ॥ ह्व्_९।८५ ॥
मूलम्
तस्याम् उत्पादयाम् आस
मान्धाता द्वौ सुतौ नृप ।
पुरुकुत्सं च धर्मज्ञं
मुचुकुन्दं च पार्थिवम् ॥ ह्व्_९।८५ ॥
विश्वास-प्रस्तुतिः
पुरुकुत्ससुतस् त्व् आसीत्
त्रसद्दस्युर् महीपतिः ।
नर्मदायाम् अथोत्पन्नः
सम्भूतस् तस्य चात्मजः ॥ ह्व्_९।८६ ॥
मूलम्
पुरुकुत्ससुतस् त्व् आसीत्
त्रसद्दस्युर् महीपतिः ।
नर्मदायाम् अथोत्पन्नः
सम्भूतस् तस्य चात्मजः ॥ ह्व्_९।८६ ॥
विश्वास-प्रस्तुतिः
सम्भूतस्य तु दायादः
सुधन्वा रिपुमर्दनः ।
([क्: Ñ२।३ व्३ ब्२ द्५ ins.: :क्])
सुधन्वनः सुतश् चापि
विष्णुवृद्धिर् इति स्मृतः । ह्व्_९।८७१९१:१ ।
विष्णुवृद्धा इति ख्यातास्
तस्य वंश्या नराधिपाः । ह्व्_९।८७१९१:२ ।
एते त्व् अङ्गिरसः पक्षे
क्षेत्रोपेता द्विजातयः ॥ ह्व्_९।८७१९१:३ ।
मूलम्
सम्भूतस्य तु दायादः
सुधन्वा रिपुमर्दनः ।
([क्: Ñ२।३ व्३ ब्२ द्५ ins.: :क्])
सुधन्वनः सुतश् चापि
विष्णुवृद्धिर् इति स्मृतः । ह्व्_९।८७१९१:१ ।
विष्णुवृद्धा इति ख्यातास्
तस्य वंश्या नराधिपाः । ह्व्_९।८७१९१:२ ।
एते त्व् अङ्गिरसः पक्षे
क्षेत्रोपेता द्विजातयः ॥ ह्व्_९।८७१९१:३ ।
विश्वास-प्रस्तुतिः
सम्भूतस्यापरः पुत्रो
अनरण्यो महायशाः । ह्व्_९।८७१९१:४ ।
रावणेन हतो यो ऽसौ
त्रिलोकजयिना पुरा ॥ ह्व्_९।८७१९१:५ ।
मूलम्
सम्भूतस्यापरः पुत्रो
अनरण्यो महायशाः । ह्व्_९।८७१९१:४ ।
रावणेन हतो यो ऽसौ
त्रिलोकजयिना पुरा ॥ ह्व्_९।८७१९१:५ ।
विश्वास-प्रस्तुतिः
त्रसदश्वो नरस् तस्य
हर्यश्वस् तस्य चात्मजः । ह्व्_९।८७१९१:६ ।
हर्यश्वस्य दृषद्वत्यां
जज्ञे सुमनसः सुतः ॥ ह्व्_९।८७१९१:७ ।
मूलम्
त्रसदश्वो नरस् तस्य
हर्यश्वस् तस्य चात्मजः । ह्व्_९।८७१९१:६ ।
हर्यश्वस्य दृषद्वत्यां
जज्ञे सुमनसः सुतः ॥ ह्व्_९।८७१९१:७ ।
विश्वास-प्रस्तुतिः
तस्य पुत्रो ऽभवद् राजा
सुधन्वा रिपुमर्दनः । ह्व्_९।८७१९१:८ ।
सुधन्वनः सुतश् चापि
त्रिधन्वा नाम पार्थिवः ॥ ह्व्_९।८७ ॥
मूलम्
तस्य पुत्रो ऽभवद् राजा
सुधन्वा रिपुमर्दनः । ह्व्_९।८७१९१:८ ।
सुधन्वनः सुतश् चापि
त्रिधन्वा नाम पार्थिवः ॥ ह्व्_९।८७ ॥
विश्वास-प्रस्तुतिः
राज्ञस् त्रिधन्वनस् त्व् आसीद्
विद्वांस् त्रय्यारुणः प्रभुः ।
तस्य सत्यव्रतो नाम
कुमारो ऽभून् महाबलः ॥ ह्व्_९।८८ ॥
मूलम्
राज्ञस् त्रिधन्वनस् त्व् आसीद्
विद्वांस् त्रय्यारुणः प्रभुः ।
तस्य सत्यव्रतो नाम
कुमारो ऽभून् महाबलः ॥ ह्व्_९।८८ ॥
विश्वास-प्रस्तुतिः
पाणिग्रहणमन्त्राणां
विघ्नं चक्रे सुदुर्मतिः ।
येन भार्या हृता पूर्वं
कृतोद्वाहा परस्य वै ॥ ह्व्_९।८९ ॥
मूलम्
पाणिग्रहणमन्त्राणां
विघ्नं चक्रे सुदुर्मतिः ।
येन भार्या हृता पूर्वं
कृतोद्वाहा परस्य वै ॥ ह्व्_९।८९ ॥
विश्वास-प्रस्तुतिः
बाल्यात् कामाच् च मोहाच् च
संहर्षाच् चापलेन च ।
जहार कन्यां कामात् स
कस्य चित् पुरवासिनः ॥ ह्व्_९।९० ॥
मूलम्
बाल्यात् कामाच् च मोहाच् च
संहर्षाच् चापलेन च ।
जहार कन्यां कामात् स
कस्य चित् पुरवासिनः ॥ ह्व्_९।९० ॥
विश्वास-प्रस्तुतिः
([क्: क्४ ins.: :क्])
एकस्मिन् दिवसे राज+
+पुत्रो ऽत्यन्तपराक्रमी । ह्व्_९।९०१९२:१ ।
ददर्श विचरन् स्वीये
पत्तने चारुलोचनाम् । ह्व्_९।९०१९२:२ ।
उद्वाहयन्तीं वेदिकायां
वैश्यवर्यस्य कस्य चित् ॥ ह्व्_९।९०१९२:३ ।
मूलम्
([क्: क्४ ins.: :क्])
एकस्मिन् दिवसे राज+
+पुत्रो ऽत्यन्तपराक्रमी । ह्व्_९।९०१९२:१ ।
ददर्श विचरन् स्वीये
पत्तने चारुलोचनाम् । ह्व्_९।९०१९२:२ ।
उद्वाहयन्तीं वेदिकायां
वैश्यवर्यस्य कस्य चित् ॥ ह्व्_९।९०१९२:३ ।
विश्वास-प्रस्तुतिः
अनुल्लङ्घितमर्यादां
सप्तपद्या विचक्षणः । ह्व्_९।९०१९२:४ ।
भर्त्रा पानिग्रहयुतां
बलाद् गृह्य महीपतिः । ह्व्_९।९०१९२:५ ।
गान्धर्वेण विवाहेन
स्वयं उद्वाहयद् बलात् ॥ ह्व्_९।९०१९२:६ ।
मूलम्
अनुल्लङ्घितमर्यादां
सप्तपद्या विचक्षणः । ह्व्_९।९०१९२:४ ।
भर्त्रा पानिग्रहयुतां
बलाद् गृह्य महीपतिः । ह्व्_९।९०१९२:५ ।
गान्धर्वेण विवाहेन
स्वयं उद्वाहयद् बलात् ॥ ह्व्_९।९०१९२:६ ।
विश्वास-प्रस्तुतिः
वैश्याः सर्वे समागम्य
राजानम् इदम् ऊचतुः । ह्व्_९।९०१९२:७ ।
कुमारेण हृता कन्या
वेदिकाया महद्बलात् । ह्व्_९।९०१९२:८ ।
राज्ञा न रक्षितो लोकस्
तदा नष्टो भवेद् ध्रुवम् ॥ ह्व्_९।९०१९२:९ ।
मूलम्
वैश्याः सर्वे समागम्य
राजानम् इदम् ऊचतुः । ह्व्_९।९०१९२:७ ।
कुमारेण हृता कन्या
वेदिकाया महद्बलात् । ह्व्_९।९०१९२:८ ।
राज्ञा न रक्षितो लोकस्
तदा नष्टो भवेद् ध्रुवम् ॥ ह्व्_९।९०१९२:९ ।
विश्वास-प्रस्तुतिः
न पूर्वैस् तैः कृतं पूर्वं
न करिष्यति चापदि । ह्व्_९।९०१९२:१० ।
यथा कुमारेण कृतं
राजन् कर्म विगर्हितम् । ह्व्_९।९०१९२:११ ।
अधर्मशङ्कुना तेन
राजा त्रय्यारुणो ऽत्यजत् ।
([क्: द्६ त्१।२ ग् म्४ फ़ोर् ९१अ-ब् सुब्स्त्।: :क्])
तम् अधर्मेण संयुक्तं
पितासूर्यारुणो जहौ । ह्व्_९।९११९३ ।
अपध्वंसेति बहुशो
वदन् क्रोधसमन्वितः ॥ ह्व्_९।९१ ॥
मूलम्
न पूर्वैस् तैः कृतं पूर्वं
न करिष्यति चापदि । ह्व्_९।९०१९२:१० ।
यथा कुमारेण कृतं
राजन् कर्म विगर्हितम् । ह्व्_९।९०१९२:११ ।
अधर्मशङ्कुना तेन
राजा त्रय्यारुणो ऽत्यजत् ।
([क्: द्६ त्१।२ ग् म्४ फ़ोर् ९१अ-ब् सुब्स्त्।: :क्])
तम् अधर्मेण संयुक्तं
पितासूर्यारुणो जहौ । ह्व्_९।९११९३ ।
अपध्वंसेति बहुशो
वदन् क्रोधसमन्वितः ॥ ह्व्_९।९१ ॥
विश्वास-प्रस्तुतिः
पितरं सो ऽब्रवीत् त्यक्तः
क्व गच्छामीति वै मुहुः ।
पिता त्व् एनम् अथोवाच
श्वपाकैः सह वर्तय ॥
मूलम्
पितरं सो ऽब्रवीत् त्यक्तः
क्व गच्छामीति वै मुहुः ।
पिता त्व् एनम् अथोवाच
श्वपाकैः सह वर्तय ॥
विश्वास-प्रस्तुतिः
नाहं पुत्रेण पुत्रार्थी
त्वयाद्य कुलपांसन ॥ ह्व्_९।९२ ॥
मूलम्
नाहं पुत्रेण पुत्रार्थी
त्वयाद्य कुलपांसन ॥ ह्व्_९।९२ ॥
विश्वास-प्रस्तुतिः
इत्य् उक्तः स निराक्रामन्
नगराद् वचनात् पितुः ।
न च तं वारयाम् आस
वसिष्ठो भगवान् ऋषिः ॥ ह्व्_९।९३ ॥
मूलम्
इत्य् उक्तः स निराक्रामन्
नगराद् वचनात् पितुः ।
न च तं वारयाम् आस
वसिष्ठो भगवान् ऋषिः ॥ ह्व्_९।९३ ॥
विश्वास-प्रस्तुतिः
स तु सत्यव्रतस् तात
श्वपाकावसथान्तिके ।
पित्रा त्यक्तो ऽवसद् वीरः
पिताप्य् अस्य वनं ययौ ॥ ह्व्_९।९४ ॥
मूलम्
स तु सत्यव्रतस् तात
श्वपाकावसथान्तिके ।
पित्रा त्यक्तो ऽवसद् वीरः
पिताप्य् अस्य वनं ययौ ॥ ह्व्_९।९४ ॥
विश्वास-प्रस्तुतिः
ततस् तस्मिंस् तु विषये
नावर्षत् पाकशासनः ।
([क्: क्४ ins.: :क्])
अचिरान् नरपतेर्
वसिष्ठस्याविचारतः । ह्व्_९।९५१९४:१ ।
परित्यागात् कुमारस्य
नावर्षत् पाकशासनः ॥ ह्व्_९।९५१९४:२ ।
मूलम्
ततस् तस्मिंस् तु विषये
नावर्षत् पाकशासनः ।
([क्: क्४ ins.: :क्])
अचिरान् नरपतेर्
वसिष्ठस्याविचारतः । ह्व्_९।९५१९४:१ ।
परित्यागात् कुमारस्य
नावर्षत् पाकशासनः ॥ ह्व्_९।९५१९४:२ ।
विश्वास-प्रस्तुतिः
यदा द्वादश वर्षाणि
तेन नष्टाभवत् प्रजा । ह्व्_९।९५१९४:३ ।
स्वाहाकारः स्वधाकारो
वषट्कारो ऽपि नाभवत् । ह्व्_९।९५१९४:४ ।
राष्ट्रे तस्य महीपस्य
धर्मनाशो ऽभवत् तदा । ह्व्_९।९५१९४:५ ।
समा द्वादश राजेन्द्र
तेनाधर्मेण वै तदा ॥ ह्व्_९।९५ ॥
मूलम्
यदा द्वादश वर्षाणि
तेन नष्टाभवत् प्रजा । ह्व्_९।९५१९४:३ ।
स्वाहाकारः स्वधाकारो
वषट्कारो ऽपि नाभवत् । ह्व्_९।९५१९४:४ ।
राष्ट्रे तस्य महीपस्य
धर्मनाशो ऽभवत् तदा । ह्व्_९।९५१९४:५ ।
समा द्वादश राजेन्द्र
तेनाधर्मेण वै तदा ॥ ह्व्_९।९५ ॥
विश्वास-प्रस्तुतिः
दारांस् तु तस्य विषये
विश्वामित्रो महातपाः ।
सन्न्यस्य सागरानूपे
चचार विपुलं तपः ॥ ह्व्_९।९६ ॥
मूलम्
दारांस् तु तस्य विषये
विश्वामित्रो महातपाः ।
सन्न्यस्य सागरानूपे
चचार विपुलं तपः ॥ ह्व्_९।९६ ॥
विश्वास-प्रस्तुतिः
([क्: क्४ ins.: :क्])
एतस्मिन्न् एव समये
विश्वामित्रस्य वै सुताः । ह्व्_९।९६१९५:१ ।
चत्वारो वेदविद्वांसः
क्षुधया परिपीडिताः ॥ ह्व्_९।९६१९५:२ ।
मूलम्
([क्: क्४ ins.: :क्])
एतस्मिन्न् एव समये
विश्वामित्रस्य वै सुताः । ह्व्_९।९६१९५:१ ।
चत्वारो वेदविद्वांसः
क्षुधया परिपीडिताः ॥ ह्व्_९।९६१९५:२ ।
विश्वास-प्रस्तुतिः
विश्वामित्रे गते दूरं
तपसे ऽतिमहात्मनि । ह्व्_९।९६१९५:३ ।
प्रोचुः प्राञ्जलयः सर्वे
मातरं प्रति भारत ॥ ह्व्_९।९६१९५:४ ।
मूलम्
विश्वामित्रे गते दूरं
तपसे ऽतिमहात्मनि । ह्व्_९।९६१९५:३ ।
प्रोचुः प्राञ्जलयः सर्वे
मातरं प्रति भारत ॥ ह्व्_९।९६१९५:४ ।
विश्वास-प्रस्तुतिः
विक्रीय तनयं मातर्
जीव्यतां यदि रोचते । ह्व्_९।९६१९५:५ ।
मरिष्यामो ऽन्यथा सर्वे
क्षुधया परिपीडिताः । ह्व्_९।९६१९५:६ ।
विक्रीय तनयं जीव
यावदागमनं पितुः ॥ ह्व्_९।९६१९५:७ ।
मूलम्
विक्रीय तनयं मातर्
जीव्यतां यदि रोचते । ह्व्_९।९६१९५:५ ।
मरिष्यामो ऽन्यथा सर्वे
क्षुधया परिपीडिताः । ह्व्_९।९६१९५:६ ।
विक्रीय तनयं जीव
यावदागमनं पितुः ॥ ह्व्_९।९६१९५:७ ।
विश्वास-प्रस्तुतिः
सर्वनाशे समुत्पन्ने
अर्धं त्यजति मानवः । ह्व्_९।९६१९५:८ ।
अर्धेन कुरुते कार्यम्
इति पौरातनी श्रुतिः ॥ ह्व्_९।९६१९५:९ ।
मूलम्
सर्वनाशे समुत्पन्ने
अर्धं त्यजति मानवः । ह्व्_९।९६१९५:८ ।
अर्धेन कुरुते कार्यम्
इति पौरातनी श्रुतिः ॥ ह्व्_९।९६१९५:९ ।
विश्वास-प्रस्तुतिः
त्यजेद् एकं कुलस्यार्थं
ग्रामस्यार्थं कुलं त्यजेत् । ह्व्_९।९६१९५:१० ।
ग्रामं जनपदस्यार्थं
आत्मार्थं सकलं त्यजेत् ॥ ह्व्_९।९६१९५:११ ।
मूलम्
त्यजेद् एकं कुलस्यार्थं
ग्रामस्यार्थं कुलं त्यजेत् । ह्व्_९।९६१९५:१० ।
ग्रामं जनपदस्यार्थं
आत्मार्थं सकलं त्यजेत् ॥ ह्व्_९।९६१९५:११ ।
विश्वास-प्रस्तुतिः
तस्माद् विक्रीय तनयान्
मातर् जीव यथासुखम् । ह्व्_९।९६१९५:१२ ।
अन्यथा निधनं सर्वे
गमिष्यामस् त्वया सह ॥ ह्व्_९।९६१९५:१३ ।
मूलम्
तस्माद् विक्रीय तनयान्
मातर् जीव यथासुखम् । ह्व्_९।९६१९५:१२ ।
अन्यथा निधनं सर्वे
गमिष्यामस् त्वया सह ॥ ह्व्_९।९६१९५:१३ ।
विश्वास-प्रस्तुतिः
अयोध्यायां महात्मानो
ध्यानवन्तो महत्तराः । ह्व्_९।९६१९५:१४ ।
गृह्वन्ति मनुजाः सर्वे
दासार्थं समुपागतान् ॥ ह्व्_९।९६१९५:१५ ।
मूलम्
अयोध्यायां महात्मानो
ध्यानवन्तो महत्तराः । ह्व्_९।९६१९५:१४ ।
गृह्वन्ति मनुजाः सर्वे
दासार्थं समुपागतान् ॥ ह्व्_९।९६१९५:१५ ।
विश्वास-प्रस्तुतिः
तस्माद् विक्रीय मां मातः
पूर्वं भक्षय पूर्वजम् । ह्व्_९।९६१९५:१६ ।
पश्चाद् विक्रीय तां सर्वान्
नो चेद् वर्षति वासवः । ह्व्_९।९६१९५:१७ ।
तस्य पत्नी गले बद्ध्वा
मध्यमं पुत्रम् औरसम् ।
शेषस्य भरणार्थाय
व्यक्रीणाद् गोशतेन वै ॥ ह्व्_९।९७ ॥
मूलम्
तस्माद् विक्रीय मां मातः
पूर्वं भक्षय पूर्वजम् । ह्व्_९।९६१९५:१६ ।
पश्चाद् विक्रीय तां सर्वान्
नो चेद् वर्षति वासवः । ह्व्_९।९६१९५:१७ ।
तस्य पत्नी गले बद्ध्वा
मध्यमं पुत्रम् औरसम् ।
शेषस्य भरणार्थाय
व्यक्रीणाद् गोशतेन वै ॥ ह्व्_९।९७ ॥
विश्वास-प्रस्तुतिः
तं तु बद्धं गले दृष्ट्वा
विक्रीयन्तं नृपात्मजः ।
महर्षिपुत्रं धर्मात्मा
मोक्षयाम् आस भारत ॥ ह्व्_९।९८ ॥
मूलम्
तं तु बद्धं गले दृष्ट्वा
विक्रीयन्तं नृपात्मजः ।
महर्षिपुत्रं धर्मात्मा
मोक्षयाम् आस भारत ॥ ह्व्_९।९८ ॥
विश्वास-प्रस्तुतिः
सत्यव्रतो महाबाहुर्
भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थम्
अनुकम्पार्थम् एव च ॥ ह्व्_९।९९ ॥
मूलम्
सत्यव्रतो महाबाहुर्
भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थम्
अनुकम्पार्थम् एव च ॥ ह्व्_९।९९ ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२ ins.: :क्])
महाव्रतं तदा रोषं
वसिष्ठो मनसाकरोत् । ह्व्_९।९९१९६ ।
सो ऽभवद् गालवो नाम
गलबन्धान् महातपाः ।
महर्षिः कौशिकस् तात
तेन वीरेण मोक्षितः ॥ ह्व्_९।१०० ॥
मूलम्
([क्: Ñ२ ins.: :क्])
महाव्रतं तदा रोषं
वसिष्ठो मनसाकरोत् । ह्व्_९।९९१९६ ।
सो ऽभवद् गालवो नाम
गलबन्धान् महातपाः ।
महर्षिः कौशिकस् तात
तेन वीरेण मोक्षितः ॥ ह्व्_९।१०० ॥