विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
विवस्वान् कश्यपाज् जज्ञे
दाक्षायण्याम् अरिन्दम ।
तस्य भार्याभवत् सञ्ज्ञा
त्वाष्ट्री देवी विवस्वतः ॥
मूलम्
{वैशम्पायन उवाच}
विवस्वान् कश्यपाज् जज्ञे
दाक्षायण्याम् अरिन्दम ।
तस्य भार्याभवत् सञ्ज्ञा
त्वाष्ट्री देवी विवस्वतः ॥
विश्वास-प्रस्तुतिः
सुरेणुर् इति विख्याता
त्रिषु लोकेषु भामिनी ॥ ह्व्_८।१ ॥
मूलम्
सुरेणुर् इति विख्याता
त्रिषु लोकेषु भामिनी ॥ ह्व्_८।१ ॥
विश्वास-प्रस्तुतिः
सा वै भार्या भगवतो
मार्तण्डस्य महात्मनः ।
भर्तृरूपेण नातुष्यद्
रूपयौवनशालिनी ॥
मूलम्
सा वै भार्या भगवतो
मार्तण्डस्य महात्मनः ।
भर्तृरूपेण नातुष्यद्
रूपयौवनशालिनी ॥
विश्वास-प्रस्तुतिः
सञ्ज्ञा नाम स्वतपसा
दीप्तेनेह समन्विता ॥ ह्व्_८।२ ॥
मूलम्
सञ्ज्ञा नाम स्वतपसा
दीप्तेनेह समन्विता ॥ ह्व्_८।२ ॥
विश्वास-प्रस्तुतिः
आदित्यस्य हि तद्रूपं
मार्तण्डस्य स्वतेजसा ।
गात्रेषु परिदग्धं वै
नातिकान्तम् इवाभवत् ॥ ह्व्_८।३ ॥
मूलम्
आदित्यस्य हि तद्रूपं
मार्तण्डस्य स्वतेजसा ।
गात्रेषु परिदग्धं वै
नातिकान्तम् इवाभवत् ॥ ह्व्_८।३ ॥
विश्वास-प्रस्तुतिः
न खल्व् अयं मृतो ऽण्डस्थ
इति स्नेहाद् अभाषत ।
अजानन् काश्यपस् तस्मान्
मार्तण्ड इति चोच्यते ॥ ह्व्_८।४ ॥
मूलम्
न खल्व् अयं मृतो ऽण्डस्थ
इति स्नेहाद् अभाषत ।
अजानन् काश्यपस् तस्मान्
मार्तण्ड इति चोच्यते ॥ ह्व्_८।४ ॥
विश्वास-प्रस्तुतिः
तेजस् त्व् अभ्यधिकं तात
नित्यम् एव विवस्वतः ।
येनातितापयामास
त्रींल् लोकान् कश्यपात्मजः ॥ ह्व्_८।५ ॥
मूलम्
तेजस् त्व् अभ्यधिकं तात
नित्यम् एव विवस्वतः ।
येनातितापयामास
त्रींल् लोकान् कश्यपात्मजः ॥ ह्व्_८।५ ॥
विश्वास-प्रस्तुतिः
त्रीण्य् अपत्यानि कौरव्य
सञ्ज्ञायां तपतां वरः ।
आदित्यो जनयामास
कन्यां द्वौ च प्रजापती ॥ ह्व्_८।६ ॥
मूलम्
त्रीण्य् अपत्यानि कौरव्य
सञ्ज्ञायां तपतां वरः ।
आदित्यो जनयामास
कन्यां द्वौ च प्रजापती ॥ ह्व्_८।६ ॥
विश्वास-प्रस्तुतिः
मनुर् वैवस्वतः पूर्वं
श्राद्धदेवः प्रजापतिः ।
यमश् च यमुना चैव
यमजौ सम्बभूवतुः ॥ ह्व्_८।७ ॥
मूलम्
मनुर् वैवस्वतः पूर्वं
श्राद्धदेवः प्रजापतिः ।
यमश् च यमुना चैव
यमजौ सम्बभूवतुः ॥ ह्व्_८।७ ॥
विश्वास-प्रस्तुतिः
श्यामवर्णं तु तद्रूपं
सञ्ज्ञा दृष्ट्वा विवस्वतः ।
असहन्ती तु स्वां छायां
सवर्णां निर्ममे ततः ॥
मूलम्
श्यामवर्णं तु तद्रूपं
सञ्ज्ञा दृष्ट्वा विवस्वतः ।
असहन्ती तु स्वां छायां
सवर्णां निर्ममे ततः ॥
विश्वास-प्रस्तुतिः
मायामयी तु सा सञ्ज्ञा
तस्याश् छाया समुत्थिता ॥ ह्व्_८।८ ॥
मूलम्
मायामयी तु सा सञ्ज्ञा
तस्याश् छाया समुत्थिता ॥ ह्व्_८।८ ॥
विश्वास-प्रस्तुतिः
प्राञ्जलिः प्रणता भूत्वा
छाया सञ्ज्ञां नरेश्वर ।
उवाच किं मया कार्यं
कथयस्व शुचिस्मिते ॥
मूलम्
प्राञ्जलिः प्रणता भूत्वा
छाया सञ्ज्ञां नरेश्वर ।
उवाच किं मया कार्यं
कथयस्व शुचिस्मिते ॥
विश्वास-प्रस्तुतिः
स्थितास्मि तव निर्देशे
शाधि मां वरवर्णिनि ॥ ह्व्_८।९ ॥
मूलम्
स्थितास्मि तव निर्देशे
शाधि मां वरवर्णिनि ॥ ह्व्_८।९ ॥
विश्वास-प्रस्तुतिः
{सञ्ज्ञोवाच}
अहं यास्यामि भद्रं ते
स्वम् एव भवनं पितुः ।
त्वयेह भवने मह्यं
वस्तव्यं निर्विशङ्कया ॥ ह्व्_८।१० ॥
मूलम्
{सञ्ज्ञोवाच}
अहं यास्यामि भद्रं ते
स्वम् एव भवनं पितुः ।
त्वयेह भवने मह्यं
वस्तव्यं निर्विशङ्कया ॥ ह्व्_८।१० ॥
विश्वास-प्रस्तुतिः
इमौ च बालकौ मह्यं
कन्या चेयं सुमध्यमा ।
सम्भाव्यास् ते न चाख्येयम्
इदं भगवते त्वया ॥ ह्व्_८।११ ॥
मूलम्
इमौ च बालकौ मह्यं
कन्या चेयं सुमध्यमा ।
सम्भाव्यास् ते न चाख्येयम्
इदं भगवते त्वया ॥ ह्व्_८।११ ॥
विश्वास-प्रस्तुतिः
{सवर्णोवाच}
आ कचग्रहणाद् देवि
आ शापान् नैव कर्हिचित् ।
आख्यास्यामि मतं तुभ्यं
गच्छ देवि यथासुखम् ॥ ह्व्_८।१२ ॥
मूलम्
{सवर्णोवाच}
आ कचग्रहणाद् देवि
आ शापान् नैव कर्हिचित् ।
आख्यास्यामि मतं तुभ्यं
गच्छ देवि यथासुखम् ॥ ह्व्_८।१२ ॥
विश्वास-प्रस्तुतिः
समाधाय सवर्णां तु
तथेत्य् उक्ता तया च सा ।
त्वष्टुः समीपम् अगमद्
व्रीडितेव मनस्विनी ॥ ह्व्_८।१३ ॥
मूलम्
समाधाय सवर्णां तु
तथेत्य् उक्ता तया च सा ।
त्वष्टुः समीपम् अगमद्
व्रीडितेव मनस्विनी ॥ ह्व्_८।१३ ॥
विश्वास-प्रस्तुतिः
पितुः समीपगा सा तु
पित्रा निर्भर्त्सिता शुभा ।
भर्तुः समीपं गच्छेति
नियुक्ता च पुनः पुनः ॥ ह्व्_८।१४ ॥
मूलम्
पितुः समीपगा सा तु
पित्रा निर्भर्त्सिता शुभा ।
भर्तुः समीपं गच्छेति
नियुक्ता च पुनः पुनः ॥ ह्व्_८।१४ ॥
विश्वास-प्रस्तुतिः
([क्: द्४ (मर्ग्।) ins.: :क्])
चिन्ताम् अवाप महतीं
स्त्रीणां धिक् चेष्टितं त्व् इति । ह्व्_८।१४१४५:१ ।
निनिन्द बहुधात्मानं
स्त्रीत्वं चातिनिनिन्द सा ॥ ह्व्_८।१४१४५:२ ।
मूलम्
([क्: द्४ (मर्ग्।) ins.: :क्])
चिन्ताम् अवाप महतीं
स्त्रीणां धिक् चेष्टितं त्व् इति । ह्व्_८।१४१४५:१ ।
निनिन्द बहुधात्मानं
स्त्रीत्वं चातिनिनिन्द सा ॥ ह्व्_८।१४१४५:२ ।
विश्वास-प्रस्तुतिः
स्थातव्यं न क्वचित् स्त्रीणां
धिग् अस्वातन्त्र्यजीवितम् । ह्व्_८।१४१४५:३ ।
शैशवे यौवने वार्द्धे
पितृभर्तृसुताद् भयम् ॥ ह्व्_८।१४१४५:४ ।
मूलम्
स्थातव्यं न क्वचित् स्त्रीणां
धिग् अस्वातन्त्र्यजीवितम् । ह्व्_८।१४१४५:३ ।
शैशवे यौवने वार्द्धे
पितृभर्तृसुताद् भयम् ॥ ह्व्_८।१४१४५:४ ।
विश्वास-प्रस्तुतिः
त्यक्तं भर्तृगृहं मौग्ध्याद्
बत दुर्वृत्तया मया । ह्व्_८।१४१४५:५ ।
अविज्ञातापि वेधायाम्
अथ पत्युर् निकेतनम् ॥ ह्व्_८।१४१४५:६ ।
मूलम्
त्यक्तं भर्तृगृहं मौग्ध्याद्
बत दुर्वृत्तया मया । ह्व्_८।१४१४५:५ ।
अविज्ञातापि वेधायाम्
अथ पत्युर् निकेतनम् ॥ ह्व्_८।१४१४५:६ ।
विश्वास-प्रस्तुतिः
तत्रास्ति सा सवर्णा वै
परिपूर्णमनोरथा । ह्व्_८।१४१४५:७ ।
नष्टं भर्तृगृहं मौग्ध्याच्
छ्रेयो ऽत्र न पितुर् गृहे । ह्व्_८।१४१४५:८ ।
अगच्छद् वडवा भूत्वाच्
छाद्य रूपम् अनिन्दिता ।
कुरून् अथोत्तरान् गत्वा
तृणान्य् एव चचार सा ॥ ह्व्_८।१५ ॥
मूलम्
तत्रास्ति सा सवर्णा वै
परिपूर्णमनोरथा । ह्व्_८।१४१४५:७ ।
नष्टं भर्तृगृहं मौग्ध्याच्
छ्रेयो ऽत्र न पितुर् गृहे । ह्व्_८।१४१४५:८ ।
अगच्छद् वडवा भूत्वाच्
छाद्य रूपम् अनिन्दिता ।
कुरून् अथोत्तरान् गत्वा
तृणान्य् एव चचार सा ॥ ह्व्_८।१५ ॥
विश्वास-प्रस्तुतिः
द्वितीयायां तु सञ्ज्ञायां
सञ्ज्ञेयम् इति चिन्तयन् ।
आदित्यो जनयामास
पुत्रम् आत्मसमं तदा ॥ ह्व्_८।१६ ॥
मूलम्
द्वितीयायां तु सञ्ज्ञायां
सञ्ज्ञेयम् इति चिन्तयन् ।
आदित्यो जनयामास
पुत्रम् आत्मसमं तदा ॥ ह्व्_८।१६ ॥
विश्वास-प्रस्तुतिः
पूर्वजस्य मनोस् तात
सदृशो ऽयम् इति प्रभुः ।
मनुर् एवाभवन् नाम्ना
सावर्ण इति चोच्यते ॥ ह्व्_८।१७ ॥
मूलम्
पूर्वजस्य मनोस् तात
सदृशो ऽयम् इति प्रभुः ।
मनुर् एवाभवन् नाम्ना
सावर्ण इति चोच्यते ॥ ह्व्_८।१७ ॥
विश्वास-प्रस्तुतिः
सञ्ज्ञा तु पार्थिवी तात
स्वस्य पुत्रस्य वै तदा ।
चकाराभ्यधिकं स्नेहं
न तथा पूर्वजेषु वै ॥ ह्व्_८।१८ ॥
मूलम्
सञ्ज्ञा तु पार्थिवी तात
स्वस्य पुत्रस्य वै तदा ।
चकाराभ्यधिकं स्नेहं
न तथा पूर्वजेषु वै ॥ ह्व्_८।१८ ॥
विश्वास-प्रस्तुतिः
मनुस् तस्याः क्षमत् तत् तु
यमस् तस्या न चक्षमे ।
तां वै रोषाच् च बाल्याच् च
भाविनो ऽर्थस्य वा बलात् ॥
मूलम्
मनुस् तस्याः क्षमत् तत् तु
यमस् तस्या न चक्षमे ।
तां वै रोषाच् च बाल्याच् च
भाविनो ऽर्थस्य वा बलात् ॥
विश्वास-प्रस्तुतिः
पदा सन्तर्जयामास
सञ्ज्ञां वैवस्वतो यमः ॥ ह्व्_८।१९ ॥
मूलम्
पदा सन्तर्जयामास
सञ्ज्ञां वैवस्वतो यमः ॥ ह्व्_८।१९ ॥
विश्वास-प्रस्तुतिः
तं शशाप ततः क्रोधात्
सवर्णा जननी तदा ।
चरणः पतताम् एष
तवेति भृशदुःखिता ॥ ह्व्_८।२० ॥
मूलम्
तं शशाप ततः क्रोधात्
सवर्णा जननी तदा ।
चरणः पतताम् एष
तवेति भृशदुःखिता ॥ ह्व्_८।२० ॥
विश्वास-प्रस्तुतिः
यमस् तु तत् पितुः सर्वं
प्राञ्जलिः प्रत्यवेदयत् ।
भृशं शापभयोद्विग्नः
सञ्ज्ञावाक्यैर् विवेजितः ॥
मूलम्
यमस् तु तत् पितुः सर्वं
प्राञ्जलिः प्रत्यवेदयत् ।
भृशं शापभयोद्विग्नः
सञ्ज्ञावाक्यैर् विवेजितः ॥
विश्वास-प्रस्तुतिः
शापो निवर्तेद् इति च
प्रोवाच पितरं तदा ॥ ह्व्_८।२१ ॥
मूलम्
शापो निवर्तेद् इति च
प्रोवाच पितरं तदा ॥ ह्व्_८।२१ ॥
विश्वास-प्रस्तुतिः
मात्रा स्नेहेन सर्वेषु
वर्तितव्यं सुतेषु वै ।
सेयम् अस्मान् अपाहाय
यवीयांसं बुभूषति ॥ ह्व्_८।२२ ॥
मूलम्
मात्रा स्नेहेन सर्वेषु
वर्तितव्यं सुतेषु वै ।
सेयम् अस्मान् अपाहाय
यवीयांसं बुभूषति ॥ ह्व्_८।२२ ॥
विश्वास-प्रस्तुतिः
तस्या मयोद्यतः पादो
न तु देहे निपातितः ।
बाल्याद् वा यदि वा मोहात्
तद् भवान् क्षन्तुम् अर्हति ॥ ह्व्_८।२३ ॥
मूलम्
तस्या मयोद्यतः पादो
न तु देहे निपातितः ।
बाल्याद् वा यदि वा मोहात्
तद् भवान् क्षन्तुम् अर्हति ॥ ह्व्_८।२३ ॥
विश्वास-प्रस्तुतिः
([क्: न्२ ब्२ द्स् ग्४ ins.: :क्])
यस्मात् ते पूजनीयाहं
तर्जितास्मि त्वया सुत । ह्व्_८।२३१४६:१ ।
तस्मात् तवैष चरणः
पतिष्यति न संशयः । ह्व्_८।२३१४६:२ ।
([क्: ग्४ चोन्त्।: द्२ ins. after २२अब्: :क्])
अपत्यं दुरपत्यं स्यान्
नाम्बा कुजननी भवेत् । ह्व्_८।२३१४७ ।
शप्तो ऽहम् अस्मि लोकेश
जनन्या तपतां वर ।
तव प्रसादाच् चरणो
न पतेन् मम गोपते ॥ ह्व्_८।२४ ॥
मूलम्
([क्: न्२ ब्२ द्स् ग्४ ins.: :क्])
यस्मात् ते पूजनीयाहं
तर्जितास्मि त्वया सुत । ह्व्_८।२३१४६:१ ।
तस्मात् तवैष चरणः
पतिष्यति न संशयः । ह्व्_८।२३१४६:२ ।
([क्: ग्४ चोन्त्।: द्२ ins. after २२अब्: :क्])
अपत्यं दुरपत्यं स्यान्
नाम्बा कुजननी भवेत् । ह्व्_८।२३१४७ ।
शप्तो ऽहम् अस्मि लोकेश
जनन्या तपतां वर ।
तव प्रसादाच् चरणो
न पतेन् मम गोपते ॥ ह्व्_८।२४ ॥
विश्वास-प्रस्तुतिः
{विवस्वानुवाच}
असंशयं पुत्र महद्
भविष्यत्य् अत्र कारणम् ।
([क्: द्६ त्१।२ ग् म्४ ins.: :क्])
यस् त्वं धर्मपरो नित्यं
धर्मं सन्त्यक्तवान् इमम् । ह्व्_८।२५अब्१४८ ।
येन त्वाम् आविशत् क्रोधो
धर्मज्ञं सत्यवादिनम् ॥ ह्व्_८।२५ ॥
मूलम्
{विवस्वानुवाच}
असंशयं पुत्र महद्
भविष्यत्य् अत्र कारणम् ।
([क्: द्६ त्१।२ ग् म्४ ins.: :क्])
यस् त्वं धर्मपरो नित्यं
धर्मं सन्त्यक्तवान् इमम् । ह्व्_८।२५अब्१४८ ।
येन त्वाम् आविशत् क्रोधो
धर्मज्ञं सत्यवादिनम् ॥ ह्व्_८।२५ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१।२ ग्१।३।५ ins. after २५: ग्२ चोन्त्। after *१४८: :क्])
युक्तम् एव हि ते कर्तुं
तव मातृवचो ऽनघ । ह्व्_८।२५१४९ ।
न शक्यम् एतन् मिथ्या तु
कर्तुं मातृवचस् तव ।
कृमयो मांसम् आदाय
यास्यन्ति तु महीतले ॥ ह्व्_८।२६ ॥
मूलम्
([क्: द्६ त्१।२ ग्१।३।५ ins. after २५: ग्२ चोन्त्। after *१४८: :क्])
युक्तम् एव हि ते कर्तुं
तव मातृवचो ऽनघ । ह्व्_८।२५१४९ ।
न शक्यम् एतन् मिथ्या तु
कर्तुं मातृवचस् तव ।
कृमयो मांसम् आदाय
यास्यन्ति तु महीतले ॥ ह्व्_८।२६ ॥
विश्वास-प्रस्तुतिः
([क्: क् न्२ व्१(मर्ग्।)।२।३ ब्१।२ द्न् द्स् द्१।३-५ ins.: :क्])
तव पादान् महाप्राज्ञ
ततः सम्प्राप्स्यसे सुखम् । ह्व्_८।२६१५० ।
कृतम् एवं वचस् तथ्यं
मातुस् तव भविष्यति ।
शापस्य परिहारेण
त्वं च त्रातो भविष्यसि ॥ ह्व्_८।२७ ॥
मूलम्
([क्: क् न्२ व्१(मर्ग्।)।२।३ ब्१।२ द्न् द्स् द्१।३-५ ins.: :क्])
तव पादान् महाप्राज्ञ
ततः सम्प्राप्स्यसे सुखम् । ह्व्_८।२६१५० ।
कृतम् एवं वचस् तथ्यं
मातुस् तव भविष्यति ।
शापस्य परिहारेण
त्वं च त्रातो भविष्यसि ॥ ह्व्_८।२७ ॥
विश्वास-प्रस्तुतिः
आदित्यश् चाब्रवीत् सञ्ज्ञां
किमर्थं तनयेषु वै ।
तुल्येष्व् अभ्यधिकः स्नेहः
क्रियते ऽति पुनः पुनः ॥
मूलम्
आदित्यश् चाब्रवीत् सञ्ज्ञां
किमर्थं तनयेषु वै ।
तुल्येष्व् अभ्यधिकः स्नेहः
क्रियते ऽति पुनः पुनः ॥
विश्वास-प्रस्तुतिः
([क्: स्होउल्द् बे क्रियतेति (क्रियतईति) :क्])
सा तत् परिहरन्ती स्म
नाचचक्षे विवस्वतः ॥ ह्व्_८।२८ ॥
मूलम्
([क्: स्होउल्द् बे क्रियतेति (क्रियतईति) :क्])
सा तत् परिहरन्ती स्म
नाचचक्षे विवस्वतः ॥ ह्व्_८।२८ ॥
([क्: न्२।३ व् ब्२ द्स् द्६ चोन्त्।: :क्])
मूर्धजेषु च जग्राह
सा चात्मानं शशम्स ह । ह्व्_८।२८१५२ ।
विश्वास-प्रस्तुतिः
([क्: व्२(सेचोन्द् तिमे) चोन्त्। after *१५२: व्३ ins. after २८: :क्])
आत्मानं गोपयामास
संयोगात् तस्य नैव तु । ह्व्_८।२८१५३ ।
तां शप्तुकामो भगवान्
नाशाय कुरुनन्दन ।
([क्: क्३ द्न् द्१ बोम्। अन्द् पोओन एद्स्। ins.: :क्])
मूर्धजेषु च जग्राह
समये ऽतिगते तु सा । ह्व्_८।२९अब्१५४ ।
ततः सर्वं यथावृत्तम्
आचचक्षे विवस्वतः ॥
मूलम्
([क्: व्२(सेचोन्द् तिमे) चोन्त्। after *१५२: व्३ ins. after २८: :क्])
आत्मानं गोपयामास
संयोगात् तस्य नैव तु । ह्व्_८।२८१५३ ।
तां शप्तुकामो भगवान्
नाशाय कुरुनन्दन ।
([क्: क्३ द्न् द्१ बोम्। अन्द् पोओन एद्स्। ins.: :क्])
मूर्धजेषु च जग्राह
समये ऽतिगते तु सा । ह्व्_८।२९अब्१५४ ।
ततः सर्वं यथावृत्तम्
आचचक्षे विवस्वतः ॥
विश्वास-प्रस्तुतिः
विवस्वान् अथ तच् छ्रुत्वा
क्रुद्धस् त्वष्टारम् अभ्यगात् ॥ ह्व्_८।२९ ॥
मूलम्
विवस्वान् अथ तच् छ्रुत्वा
क्रुद्धस् त्वष्टारम् अभ्यगात् ॥ ह्व्_८।२९ ॥
विश्वास-प्रस्तुतिः
त्वष्टा तु तं यथान्यायम्
अर्चयित्वा विभावसुम् ।
निर्दग्धुकामं रोषेण
सान्त्वयामास वै तदा ॥ ह्व्_८।३० ॥
मूलम्
त्वष्टा तु तं यथान्यायम्
अर्चयित्वा विभावसुम् ।
निर्दग्धुकामं रोषेण
सान्त्वयामास वै तदा ॥ ह्व्_८।३० ॥
विश्वास-प्रस्तुतिः
{त्वष्टोवाच}
तवातितेजसाविष्टम्
इदं रूपं न शोभते ।
असहन्ती स्म तत् सञ्ज्ञा
वने चरति शाड्वलम् ॥ ह्व्_८।३१ ॥
मूलम्
{त्वष्टोवाच}
तवातितेजसाविष्टम्
इदं रूपं न शोभते ।
असहन्ती स्म तत् सञ्ज्ञा
वने चरति शाड्वलम् ॥ ह्व्_८।३१ ॥
विश्वास-प्रस्तुतिः
द्रष्टा हि तां भवान् अद्य
स्वां भार्यां शुभचारिणीम् ।
([क्: क् न्२।३ व् ब् द् त्१।३।४ ग्१(फ़िर्स्त् तिमे)।२-५ ins. after ३२अब्: त्२ ग्१(सेचोन्द् तिमे) चोन्त्। after *१५८; म्४ ins. after ३५: :क्])
नित्यं तपस्य् अभिरतां
वडवारूपधारिणीम् । ह्व्_८।३२अब्१५५:१ ।
पर्णाहारां कृशां दीनां
जटिलां मलधारिणीम् । ह्व्_८।३२अब्१५५:२ ।
हस्तिहस्तपरिक्लिष्टां
व्याकुलां पद्मिनीम् इव । ह्व्_८।३२अब्१५५:३ ।
श्लाघ्यां योगबलोपेतां
योगम् आस्थाय गोपते ॥ ह्व्_८।३२ ॥
मूलम्
द्रष्टा हि तां भवान् अद्य
स्वां भार्यां शुभचारिणीम् ।
([क्: क् न्२।३ व् ब् द् त्१।३।४ ग्१(फ़िर्स्त् तिमे)।२-५ ins. after ३२अब्: त्२ ग्१(सेचोन्द् तिमे) चोन्त्। after *१५८; म्४ ins. after ३५: :क्])
नित्यं तपस्य् अभिरतां
वडवारूपधारिणीम् । ह्व्_८।३२अब्१५५:१ ।
पर्णाहारां कृशां दीनां
जटिलां मलधारिणीम् । ह्व्_८।३२अब्१५५:२ ।
हस्तिहस्तपरिक्लिष्टां
व्याकुलां पद्मिनीम् इव । ह्व्_८।३२अब्१५५:३ ।
श्लाघ्यां योगबलोपेतां
योगम् आस्थाय गोपते ॥ ह्व्_८।३२ ॥
विश्वास-प्रस्तुतिः
अनुकूलं तु ते देव
यदि स्यान् मम तन् मतम् ।
रूपं निर्वर्तयाम्य् अद्य
तव कान्तम् अरिन्दम ॥ ह्व्_८।३३ ॥
मूलम्
अनुकूलं तु ते देव
यदि स्यान् मम तन् मतम् ।
रूपं निर्वर्तयाम्य् अद्य
तव कान्तम् अरिन्दम ॥ ह्व्_८।३३ ॥
विश्वास-प्रस्तुतिः
([क्: क् न्२ व्२ ब्२ द्न् द्स् द्३-६ बोम्। अन्द् पोओन एद्स्। ins.: :क्])
रूपं विवस्वतश् चासीत्
तिर्यगूर्ध्वसमं तु वै । ह्व्_८।३३१५६:१ ।
तेनासौ सम्भृतो देवो
रूपेण तु विभावसुः ॥ ह्व्_८।३३१५६:२ ।
मूलम्
([क्: क् न्२ व्२ ब्२ द्न् द्स् द्३-६ बोम्। अन्द् पोओन एद्स्। ins.: :क्])
रूपं विवस्वतश् चासीत्
तिर्यगूर्ध्वसमं तु वै । ह्व्_८।३३१५६:१ ।
तेनासौ सम्भृतो देवो
रूपेण तु विभावसुः ॥ ह्व्_८।३३१५६:२ ।
विश्वास-प्रस्तुतिः
तस्मात् त्वष्टुः स वै वाक्यं
बहु मेने प्रजापतिः । ह्व्_८।३३१५६:३ ।
समनुज्ञातवांश् चैव
त्वष्टारं रूपसिद्धये । ह्व्_८।३३१५६:४ ।
ततो ऽभ्युपगमात् त्वष्टा
मार्तण्डस्य विवस्वतः ।
भ्रमिम् आरोप्य तत् तेजः
शातयामास भारत ॥ ह्व्_८।३४ ॥
मूलम्
तस्मात् त्वष्टुः स वै वाक्यं
बहु मेने प्रजापतिः । ह्व्_८।३३१५६:३ ।
समनुज्ञातवांश् चैव
त्वष्टारं रूपसिद्धये । ह्व्_८।३३१५६:४ ।
ततो ऽभ्युपगमात् त्वष्टा
मार्तण्डस्य विवस्वतः ।
भ्रमिम् आरोप्य तत् तेजः
शातयामास भारत ॥ ह्व्_८।३४ ॥
विश्वास-प्रस्तुतिः
([क्: त्३ ins.: :क्])
कृतवान् अष्टमं भागं
न व्यशातयद् अव्ययम् ॥ ह्व्_८।३४१५७:१ ।
मूलम्
([क्: त्३ ins.: :क्])
कृतवान् अष्टमं भागं
न व्यशातयद् अव्ययम् ॥ ह्व्_८।३४१५७:१ ।
विश्वास-प्रस्तुतिः
यत् सूर्याद् वैष्णवं तेजः
शातितं विश्वकर्मणा । ह्व्_८।३४१५७:२ ।
त्वष्टैव तेजसा तेन
विष्णोश् चक्रम् अकल्पयत् ॥ ह्व्_८।३४१५७:३ ।
मूलम्
यत् सूर्याद् वैष्णवं तेजः
शातितं विश्वकर्मणा । ह्व्_८।३४१५७:२ ।
त्वष्टैव तेजसा तेन
विष्णोश् चक्रम् अकल्पयत् ॥ ह्व्_८।३४१५७:३ ।
विश्वास-प्रस्तुतिः
त्रिशूलं चैव शर्वस्य
शिबिकां धनदस्य च । ह्व्_८।३४१५७:४ ।
शक्तिं गुहस्य देवानाम्
अन्येषां च वरायुधम् ॥ ह्व्_८।३४१५७:५ ।
मूलम्
त्रिशूलं चैव शर्वस्य
शिबिकां धनदस्य च । ह्व्_८।३४१५७:४ ।
शक्तिं गुहस्य देवानाम्
अन्येषां च वरायुधम् ॥ ह्व्_८।३४१५७:५ ।
विश्वास-प्रस्तुतिः
तत् सर्वं तेजसा तेन
विश्वकर्मा ह्य् अकल्पयत् । ह्व्_८।३४१५७:६ ।
ततो निर्भासितं रूपं
तेजसा संहृतेन वै ।
कान्तात् कान्ततरं द्रष्टुम्
अधिकं शुशुभे तदा ॥ ह्व्_८।३५ ॥
मूलम्
तत् सर्वं तेजसा तेन
विश्वकर्मा ह्य् अकल्पयत् । ह्व्_८।३४१५७:६ ।
ततो निर्भासितं रूपं
तेजसा संहृतेन वै ।
कान्तात् कान्ततरं द्रष्टुम्
अधिकं शुशुभे तदा ॥ ह्व्_८।३५ ॥
विश्वास-प्रस्तुतिः
([क्: स्१ क् न्२।३ व् ब्१।२ द् त्२-४ ग्१।३-५ ins. after ३५: ब्३ after ३४अ: ग्४ after ३४: :क्])
मुखे निर्वर्तितं रूपं
तस्य देवस्य गोपतेः । ह्व्_८।३५१५८:१ ।
ततःप्रभृति देवस्य
मुखम् आसीत् तु लोहितम् ॥ ह्व्_८।३५१५८:२ ।
मूलम्
([क्: स्१ क् न्२।३ व् ब्१।२ द् त्२-४ ग्१।३-५ ins. after ३५: ब्३ after ३४अ: ग्४ after ३४: :क्])
मुखे निर्वर्तितं रूपं
तस्य देवस्य गोपतेः । ह्व्_८।३५१५८:१ ।
ततःप्रभृति देवस्य
मुखम् आसीत् तु लोहितम् ॥ ह्व्_८।३५१५८:२ ।
विश्वास-प्रस्तुतिः
मुखरागं तु यत् पूर्वं
मार्तण्डस्य मुखच्युतम् । ह्व्_८।३५१५८:३ ।
आदित्या द्वादशैवेह
सम्भूता मुखसम्भवाः ॥ ह्व्_८।३५१५८:४ ।
मूलम्
मुखरागं तु यत् पूर्वं
मार्तण्डस्य मुखच्युतम् । ह्व्_८।३५१५८:३ ।
आदित्या द्वादशैवेह
सम्भूता मुखसम्भवाः ॥ ह्व्_८।३५१५८:४ ।
विश्वास-प्रस्तुतिः
धातार्यमा च मित्रश् च
वरुणो ऽंशो भगस् तथा । ह्व्_८।३५१५८:५ ।
इन्द्रो विवस्वान् पूषा च
पर्जन्यो दशमस् तथा । ह्व्_८।३५१५८:६ ।
ततस् त्वष्टा ततो विष्णुर्
अजघन्यो जघन्यजः ॥ ह्व्_८।३५१५८:७ ।
मूलम्
धातार्यमा च मित्रश् च
वरुणो ऽंशो भगस् तथा । ह्व्_८।३५१५८:५ ।
इन्द्रो विवस्वान् पूषा च
पर्जन्यो दशमस् तथा । ह्व्_८।३५१५८:६ ।
ततस् त्वष्टा ततो विष्णुर्
अजघन्यो जघन्यजः ॥ ह्व्_८।३५१५८:७ ।
विश्वास-प्रस्तुतिः
हर्षं लेभे ततो देवो
दृष्ट्वादित्यान् स्वदेहजान् । ह्व्_८।३५१५८:८ ।
गन्धैः पुष्पैर् अलङ्कारैर्
भास्वता मुकुटेन च ॥ ह्व्_८।३५१५८:९ ।
मूलम्
हर्षं लेभे ततो देवो
दृष्ट्वादित्यान् स्वदेहजान् । ह्व्_८।३५१५८:८ ।
गन्धैः पुष्पैर् अलङ्कारैर्
भास्वता मुकुटेन च ॥ ह्व्_८।३५१५८:९ ।
विश्वास-प्रस्तुतिः
एवं सम्पूजयामास
त्वष्टा वाक्यम् उवाच ह ॥ ह्व्_८।३५१५८:१० ।
मूलम्
एवं सम्पूजयामास
त्वष्टा वाक्यम् उवाच ह ॥ ह्व्_८।३५१५८:१० ।
विश्वास-प्रस्तुतिः
गच्छ देवेश स्वां भार्यां
कुरूंश् चरति चोत्तरान् । ह्व्_८।३५१५८:११ ।
वडवारूपम् आस्थाय
वने चरति शाड्वले ॥ ह्व्_८।३५१५८:१२ ।
मूलम्
गच्छ देवेश स्वां भार्यां
कुरूंश् चरति चोत्तरान् । ह्व्_८।३५१५८:११ ।
वडवारूपम् आस्थाय
वने चरति शाड्वले ॥ ह्व्_८।३५१५८:१२ ।
विश्वास-प्रस्तुतिः
तां तथारूपम् आस्थाय
स्वां भार्यां शुभलीलया । ह्व्_८।३५१५८:१३ ।
ददर्श योगम् आस्थाय
स्वां भार्यां वडवां ततः ।
अधृष्यां सर्वभूतानां
तेजसा नियमेन च ॥ ह्व्_८।३६ ॥
मूलम्
तां तथारूपम् आस्थाय
स्वां भार्यां शुभलीलया । ह्व्_८।३५१५८:१३ ।
ददर्श योगम् आस्थाय
स्वां भार्यां वडवां ततः ।
अधृष्यां सर्वभूतानां
तेजसा नियमेन च ॥ ह्व्_८।३६ ॥
विश्वास-प्रस्तुतिः
([क्: क्४ न् व् ब् द्३ द्१-५ त्३।४ ग्२ ins.: :क्])
वडवावपुषा राजंश्
चरन्तीम् अकुतोभयाम् । ह्व्_८।३६१५९ ।
सो ऽश्वरूपेण भगवांस्
तां मुखे समभावयत् ।
मैथुनाय विवेष्टन्तीं
परपुंसो विशङ्कया ॥ ह्व्_८।३७ ॥
मूलम्
([क्: क्४ न् व् ब् द्३ द्१-५ त्३।४ ग्२ ins.: :क्])
वडवावपुषा राजंश्
चरन्तीम् अकुतोभयाम् । ह्व्_८।३६१५९ ।
सो ऽश्वरूपेण भगवांस्
तां मुखे समभावयत् ।
मैथुनाय विवेष्टन्तीं
परपुंसो विशङ्कया ॥ ह्व्_८।३७ ॥
विश्वास-प्रस्तुतिः
सा तन् निरवमच् छुक्रं
नासिकाया विवस्वतः ।
देवौ तस्याम् अजायेताम्
अश्विनौ भिषजां वरौ ॥ ह्व्_८।३८ ॥
मूलम्
सा तन् निरवमच् छुक्रं
नासिकाया विवस्वतः ।
देवौ तस्याम् अजायेताम्
अश्विनौ भिषजां वरौ ॥ ह्व्_८।३८ ॥
विश्वास-प्रस्तुतिः
नासत्यश् चैव दस्रश् च
स्मृतौ द्वाव् अश्विनाव् इति ।
मार्तण्डस्यात्मजाव् एताव्
अष्टमस्य प्रजापतेः ॥ ह्व्_८।३९ ॥
मूलम्
नासत्यश् चैव दस्रश् च
स्मृतौ द्वाव् अश्विनाव् इति ।
मार्तण्डस्यात्मजाव् एताव्
अष्टमस्य प्रजापतेः ॥ ह्व्_८।३९ ॥
विश्वास-प्रस्तुतिः
([क्: द्न् द्५ ins.: :क्])
सञ्ज्ञायां जनयामास
वडवायां स भारत । ह्व्_८।३९१६० ।
तां तु रूपेण क्रान्तेन
दर्शयामास भास्करः ।
सा तु दृष्ट्वैव भर्तारं
तुतोष जनमेजय ॥ ह्व्_८।४० ॥
मूलम्
([क्: द्न् द्५ ins.: :क्])
सञ्ज्ञायां जनयामास
वडवायां स भारत । ह्व्_८।३९१६० ।
तां तु रूपेण क्रान्तेन
दर्शयामास भास्करः ।
सा तु दृष्ट्वैव भर्तारं
तुतोष जनमेजय ॥ ह्व्_८।४० ॥
विश्वास-प्रस्तुतिः
यमस् तु कर्मणा तेन
भृशं पीडितमानसः ।
धर्मेण रञ्जयामास
धर्मराज इमाः प्रजाः ॥ ह्व्_८।४१ ॥
मूलम्
यमस् तु कर्मणा तेन
भृशं पीडितमानसः ।
धर्मेण रञ्जयामास
धर्मराज इमाः प्रजाः ॥ ह्व्_८।४१ ॥
विश्वास-प्रस्तुतिः
स लेभे कर्मणा तेन
शुभेन परमद्युतिः ।
पितॄणाम् आधिपत्यं च
लोकपालत्वम् एव च ॥ ह्व्_८।४२ ॥
मूलम्
स लेभे कर्मणा तेन
शुभेन परमद्युतिः ।
पितॄणाम् आधिपत्यं च
लोकपालत्वम् एव च ॥ ह्व्_८।४२ ॥
विश्वास-प्रस्तुतिः
मनुः प्रजापतिस् त्व् आसीत्
सावर्णः स तपोधनः ।
भाव्यः सो ऽनागते तस्मिन्
मनुः सावर्णिके ऽन्तरे ॥ ह्व्_८।४३ ॥
मूलम्
मनुः प्रजापतिस् त्व् आसीत्
सावर्णः स तपोधनः ।
भाव्यः सो ऽनागते तस्मिन्
मनुः सावर्णिके ऽन्तरे ॥ ह्व्_८।४३ ॥
विश्वास-प्रस्तुतिः
मेरुपृष्ठे तपो नित्यम्
अद्यापि स चरत्य् उत ।
भ्राता शनैश्चरश् चास्य
ग्रहत्वं स तु लब्धवान् ॥ ह्व्_८।४४ ॥
मूलम्
मेरुपृष्ठे तपो नित्यम्
अद्यापि स चरत्य् उत ।
भ्राता शनैश्चरश् चास्य
ग्रहत्वं स तु लब्धवान् ॥ ह्व्_८।४४ ॥
विश्वास-प्रस्तुतिः
([क्: द्न् बोम्। अन्द् पोओन एद्स्। ins.: :क्])
नासत्यौ यौ समाख्यातौ
स्वर्वैद्यौ तु बभूवतुः । ह्व्_८।४४१६२:१ ।
रेवन्तो ऽपि तथा राजन्न्
अश्वानां शान्तिदो ऽभवत् । ह्व्_८।४४१६२:२ ।
त्वष्टा तु तेजसा तेन
विष्णोश् चक्रम् अकल्पयत् ।
तद् अप्रतिहतं युद्धे
दानवान्तचिकीर्षया ॥ ह्व्_८।४५ ॥
मूलम्
([क्: द्न् बोम्। अन्द् पोओन एद्स्। ins.: :क्])
नासत्यौ यौ समाख्यातौ
स्वर्वैद्यौ तु बभूवतुः । ह्व्_८।४४१६२:१ ।
रेवन्तो ऽपि तथा राजन्न्
अश्वानां शान्तिदो ऽभवत् । ह्व्_८।४४१६२:२ ।
त्वष्टा तु तेजसा तेन
विष्णोश् चक्रम् अकल्पयत् ।
तद् अप्रतिहतं युद्धे
दानवान्तचिकीर्षया ॥ ह्व्_८।४५ ॥
विश्वास-प्रस्तुतिः
यवीयसी तयोर् या तु
यमी कन्या यशस्विनी ।
अभवत् सा सरिच्छ्रेष्ठा
यमुना लोकभावनी ॥ ह्व्_८।४६ ॥
मूलम्
यवीयसी तयोर् या तु
यमी कन्या यशस्विनी ।
अभवत् सा सरिच्छ्रेष्ठा
यमुना लोकभावनी ॥ ह्व्_८।४६ ॥
विश्वास-प्रस्तुतिः
मनुर् इत्य् उच्यते लोके
सावर्ण इति चोच्यते ।
द्वितीयो यः सुतस् तस्य
स विज्ञेयः शनैश्चरः ॥ ह्व्_८।४७ ॥
मूलम्
मनुर् इत्य् उच्यते लोके
सावर्ण इति चोच्यते ।
द्वितीयो यः सुतस् तस्य
स विज्ञेयः शनैश्चरः ॥ ह्व्_८।४७ ॥
विश्वास-प्रस्तुतिः
([क्: क् न्२।३ व् ब् द् त्१।२।३।४(लस्त् त्wओ सेचोन्द् तिमे) ग् म्४ ins. after ४७: त्३।४(बोथ् फ़िर्स्त् तिमे) after the फ़िर्स्त् ओच्चुरेन्चे of ४७cd: :क्])
ग्रहत्वं स तु लेभे वै
सर्वलोकानुपूजितम् । ह्व्_८।४७१६३ ।
य इदं जन्म देवानां
शृणुयाद् धारयेत वा ।
आपदं प्राप्य मुच्येत
प्राप्नुयाच् च महद् यशः ॥ ह्व्_८।४८ ॥
मूलम्
([क्: क् न्२।३ व् ब् द् त्१।२।३।४(लस्त् त्wओ सेचोन्द् तिमे) ग् म्४ ins. after ४७: त्३।४(बोथ् फ़िर्स्त् तिमे) after the फ़िर्स्त् ओच्चुरेन्चे of ४७cd: :क्])
ग्रहत्वं स तु लेभे वै
सर्वलोकानुपूजितम् । ह्व्_८।४७१६३ ।
य इदं जन्म देवानां
शृणुयाद् धारयेत वा ।
आपदं प्राप्य मुच्येत
प्राप्नुयाच् च महद् यशः ॥ ह्व्_८।४८ ॥