विश्वास-प्रस्तुतिः
{जनमेजय उवाच}
मन्वन्तराणि सर्वाणि
विस्तरेण तपोधन ।
तेषां पूर्वविसृष्टिं च
वैशम्पायन कीर्तय ॥ ह्व्_७।१ ॥
मूलम्
{जनमेजय उवाच}
मन्वन्तराणि सर्वाणि
विस्तरेण तपोधन ।
तेषां पूर्वविसृष्टिं च
वैशम्पायन कीर्तय ॥ ह्व्_७।१ ॥
विश्वास-प्रस्तुतिः
यावन्तो मनवश् चैव
यावन्तं कालम् एव च ।
मन्वन्तरकथां ब्रह्मञ्
छ्रोतुम् इच्छामि तत्त्वतः ॥ ह्व्_७।२ ॥
मूलम्
यावन्तो मनवश् चैव
यावन्तं कालम् एव च ।
मन्वन्तरकथां ब्रह्मञ्
छ्रोतुम् इच्छामि तत्त्वतः ॥ ह्व्_७।२ ॥
विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
न शक्यं विस्तरं तात
वक्तुं वर्षशतैर् अपि ।
मन्वन्तराणां कौरव्य
सङ्क्षेपं त्व् एव मे शृणु ॥ ह्व्_७।३ ॥
मूलम्
{वैशम्पायन उवाच}
न शक्यं विस्तरं तात
वक्तुं वर्षशतैर् अपि ।
मन्वन्तराणां कौरव्य
सङ्क्षेपं त्व् एव मे शृणु ॥ ह्व्_७।३ ॥
विश्वास-प्रस्तुतिः
स्वायम्भुवो मनुस् तात
मनुः स्वारोचिषस् तथा ।
औत्तमस् तामसश् चैव
रैवतश् चाक्षुषस् तथा ॥
मूलम्
स्वायम्भुवो मनुस् तात
मनुः स्वारोचिषस् तथा ।
औत्तमस् तामसश् चैव
रैवतश् चाक्षुषस् तथा ॥
विश्वास-प्रस्तुतिः
वैवस्वतश् च कौरव्य
साम्प्रतो मनुर् उच्यते ॥ ह्व्_७।४ ॥
मूलम्
वैवस्वतश् च कौरव्य
साम्प्रतो मनुर् उच्यते ॥ ह्व्_७।४ ॥
विश्वास-प्रस्तुतिः
([क्: त्३ ins.: :क्])
अष्टमो दक्षसावर्णिर्
धर्मसावर्णिर् एव च । ह्व्_७।४१२७:१ ।
रुद्रपुत्रस् तु सावर्णिर्
भवितैकादशो मनुः । ह्व्_७।४१२७:२ ।
सावर्णिश् च मनुस् तात
भौत्यो रौच्यस् तथैव च ।
([क्: द्४ ins.: :क्])
रैवतो ब्रह्मसावर्णिः
सूर्यसावर्णिर् एव च । ह्व्_७।५अब्१२८ ।
तथैव मेरुसावर्णाश्
चत्वारो मनवः स्मृताः ॥ ह्व्_७।५ ॥
मूलम्
([क्: त्३ ins.: :क्])
अष्टमो दक्षसावर्णिर्
धर्मसावर्णिर् एव च । ह्व्_७।४१२७:१ ।
रुद्रपुत्रस् तु सावर्णिर्
भवितैकादशो मनुः । ह्व्_७।४१२७:२ ।
सावर्णिश् च मनुस् तात
भौत्यो रौच्यस् तथैव च ।
([क्: द्४ ins.: :क्])
रैवतो ब्रह्मसावर्णिः
सूर्यसावर्णिर् एव च । ह्व्_७।५अब्१२८ ।
तथैव मेरुसावर्णाश्
चत्वारो मनवः स्मृताः ॥ ह्व्_७।५ ॥
विश्वास-प्रस्तुतिः
अतीता वर्तमानाश् च
तथैवानागताश् च ये ।
कीर्तिता मनवस् तात
मयैवैते यथाश्रुति ॥
मूलम्
अतीता वर्तमानाश् च
तथैवानागताश् च ये ।
कीर्तिता मनवस् तात
मयैवैते यथाश्रुति ॥
विश्वास-प्रस्तुतिः
ऋषींस् तेषां प्रवक्ष्यामि
पुत्रान् देवगणांस् तथा ॥ ह्व्_७।६ ॥
मूलम्
ऋषींस् तेषां प्रवक्ष्यामि
पुत्रान् देवगणांस् तथा ॥ ह्व्_७।६ ॥
विश्वास-प्रस्तुतिः
मरीचिर् अत्रिर् भगवान्
अङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश् च वसिष्ठश् च
सप्तैते ब्रह्मणः सुताः ॥ ह्व्_७।७ ॥
मूलम्
मरीचिर् अत्रिर् भगवान्
अङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश् च वसिष्ठश् च
सप्तैते ब्रह्मणः सुताः ॥ ह्व्_७।७ ॥
विश्वास-प्रस्तुतिः
उत्तरस्यां दिशि तथा
राजन् सप्तर्षयः स्थिताः ।
यामा नाम तथा देवा
आसन् स्वायम्भुवे ऽन्तरे ॥ ह्व्_७।८ ॥
मूलम्
उत्तरस्यां दिशि तथा
राजन् सप्तर्षयः स्थिताः ।
यामा नाम तथा देवा
आसन् स्वायम्भुवे ऽन्तरे ॥ ह्व्_७।८ ॥
विश्वास-प्रस्तुतिः
अग्नीध्रश् चाग्निबाहुश् च
मेधा मेधातिथिर् वसुः ।
ज्योतिष्मान् द्युतिमान् हव्यः
सवनः पुत्र एव च ॥ ह्व्_७।९ ॥
मूलम्
अग्नीध्रश् चाग्निबाहुश् च
मेधा मेधातिथिर् वसुः ।
ज्योतिष्मान् द्युतिमान् हव्यः
सवनः पुत्र एव च ॥ ह्व्_७।९ ॥
विश्वास-प्रस्तुतिः
मनोः स्वायम्भुवस्यैते
दश पुत्रा महौजसः ।
एतत् ते प्रथमं राजन्
मन्वन्तरम् उदाहृतम् ॥ ह्व्_७।१० ॥
मूलम्
मनोः स्वायम्भुवस्यैते
दश पुत्रा महौजसः ।
एतत् ते प्रथमं राजन्
मन्वन्तरम् उदाहृतम् ॥ ह्व्_७।१० ॥
विश्वास-प्रस्तुतिः
और्वो वसिष्ठपुत्रश् च
स्तम्बः काश्यप एव च ।
प्राणो बृहस्पतिश् चैव
दत्तो ऽत्रिश् च्यवनस् तथा ॥
मूलम्
और्वो वसिष्ठपुत्रश् च
स्तम्बः काश्यप एव च ।
प्राणो बृहस्पतिश् चैव
दत्तो ऽत्रिश् च्यवनस् तथा ॥
विश्वास-प्रस्तुतिः
एते महर्षयस् तात
वायुप्रोक्ता महाव्रताः ॥ ह्व्_७।११ ॥
मूलम्
एते महर्षयस् तात
वायुप्रोक्ता महाव्रताः ॥ ह्व्_७।११ ॥
विश्वास-प्रस्तुतिः
देवाश् च तुषिता नाम
स्मृताः स्वारोचिषे ऽन्तरे ।
हविर्ध्रः सुकृतिर् ज्योतिर्
आपो मूर्तिर् अयस्मयः ॥ ह्व्_७।१२ ॥
मूलम्
देवाश् च तुषिता नाम
स्मृताः स्वारोचिषे ऽन्तरे ।
हविर्ध्रः सुकृतिर् ज्योतिर्
आपो मूर्तिर् अयस्मयः ॥ ह्व्_७।१२ ॥
विश्वास-प्रस्तुतिः
प्रथितश् च नभस्यश् च
नभः सूर्यस् तथैव च ।
स्वारोचिषस्य पुत्रास् ते
मनोस् तात महात्मनः ॥
मूलम्
प्रथितश् च नभस्यश् च
नभः सूर्यस् तथैव च ।
स्वारोचिषस्य पुत्रास् ते
मनोस् तात महात्मनः ॥
विश्वास-प्रस्तुतिः
कीर्तिताः पृथिवीपाल
महावीर्यपराक्रमाः ॥ ह्व्_७।१३ ॥
मूलम्
कीर्तिताः पृथिवीपाल
महावीर्यपराक्रमाः ॥ ह्व्_७।१३ ॥
विश्वास-प्रस्तुतिः
द्वितीयम् एतत् कथितं
तव मन्वन्तरं मया ।
इदं तृतीयं वक्ष्यामि
तन् निबोध नराधिप ॥ ह्व्_७।१४ ॥
मूलम्
द्वितीयम् एतत् कथितं
तव मन्वन्तरं मया ।
इदं तृतीयं वक्ष्यामि
तन् निबोध नराधिप ॥ ह्व्_७।१४ ॥
विश्वास-प्रस्तुतिः
वसिष्ठपुत्राः सप्तासन्
वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुता
ऊर्जा जाताः सुतेजसः ॥ ह्व्_७।१५ ॥
मूलम्
वसिष्ठपुत्राः सप्तासन्
वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुता
ऊर्जा जाताः सुतेजसः ॥ ह्व्_७।१५ ॥
विश्वास-प्रस्तुतिः
ऋषयो ऽत्र मया प्रोक्ताः
कीर्त्यमानान् निबोध मे ।
औत्तमेयान् महाराज
दश पुत्रान् मनोरमान् ॥ ह्व्_७।१६ ॥
मूलम्
ऋषयो ऽत्र मया प्रोक्ताः
कीर्त्यमानान् निबोध मे ।
औत्तमेयान् महाराज
दश पुत्रान् मनोरमान् ॥ ह्व्_७।१६ ॥
विश्वास-प्रस्तुतिः
इष ऊर्जस् तनूपश् च
मधुर् माधव एव च ।
शुचिः शुक्रः सहश् चैव
नभस्यो नभ एव च ॥
मूलम्
इष ऊर्जस् तनूपश् च
मधुर् माधव एव च ।
शुचिः शुक्रः सहश् चैव
नभस्यो नभ एव च ॥
विश्वास-प्रस्तुतिः
भानवस् तत्र देवाश् च
मन्वन्तरम् उदाहृतम् ॥ ह्व्_७।१७ ॥
मूलम्
भानवस् तत्र देवाश् च
मन्वन्तरम् उदाहृतम् ॥ ह्व्_७।१७ ॥
विश्वास-प्रस्तुतिः
मन्वन्तरं चतुर्थं ते
कथयिष्यामि तच् छृणु ।
काव्यः पृथुस् तथैवाग्निर्
जह्नुर् धाता च भारत ॥
मूलम्
मन्वन्तरं चतुर्थं ते
कथयिष्यामि तच् छृणु ।
काव्यः पृथुस् तथैवाग्निर्
जह्नुर् धाता च भारत ॥
विश्वास-प्रस्तुतिः
कपीवान् अकपीवांश् च
तत्र सप्तर्षयो नृप ॥ ह्व्_७।१८ ॥
मूलम्
कपीवान् अकपीवांश् च
तत्र सप्तर्षयो नृप ॥ ह्व्_७।१८ ॥
विश्वास-प्रस्तुतिः
पुराणे कीर्तितास् तात
पुत्राः पौत्राश् च भारत ।
सत्या देवगणाश् चैव
तामसस्यान्तरे मनोः ॥ ह्व्_७।१९ ॥
मूलम्
पुराणे कीर्तितास् तात
पुत्राः पौत्राश् च भारत ।
सत्या देवगणाश् चैव
तामसस्यान्तरे मनोः ॥ ह्व्_७।१९ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् स्१ क्१ न्१) स् (एxचेप्त् म्२।३; म्१ मिस्सिन्ग्) ins.: :क्])
पुत्रांश् चैव प्रवक्ष्यामि
तामसस्य मनोर् नृप । ह्व्_७।१९१२९ ।
द्युतिस् तपस्यः सुतपास्
तपोमूलस् तपोधनः ।
तपोरतिर् अकल्माषस्
तन्वी धन्वी परण्टपः ॥ ह्व्_७।२० ॥
मूलम्
([क्: न् (एxचेप्त् स्१ क्१ न्१) स् (एxचेप्त् म्२।३; म्१ मिस्सिन्ग्) ins.: :क्])
पुत्रांश् चैव प्रवक्ष्यामि
तामसस्य मनोर् नृप । ह्व्_७।१९१२९ ।
द्युतिस् तपस्यः सुतपास्
तपोमूलस् तपोधनः ।
तपोरतिर् अकल्माषस्
तन्वी धन्वी परण्टपः ॥ ह्व्_७।२० ॥
विश्वास-प्रस्तुतिः
तामसस्य मनोर् एते
दश पुत्रा महाबलाः ।
वायुप्रोक्ता महाराज
चतुर्थं चैतद् अन्तरम् ॥ ह्व्_७।२१ ॥
मूलम्
तामसस्य मनोर् एते
दश पुत्रा महाबलाः ।
वायुप्रोक्ता महाराज
चतुर्थं चैतद् अन्तरम् ॥ ह्व्_७।२१ ॥
विश्वास-प्रस्तुतिः
वेदबाहुर् यदुध्रश् च
मुनिर् वेदशिरास् तथा ।
हिरण्यलोमा पर्जन्य
ऊर्ध्वबाहुश् च सोमजः ॥
मूलम्
वेदबाहुर् यदुध्रश् च
मुनिर् वेदशिरास् तथा ।
हिरण्यलोमा पर्जन्य
ऊर्ध्वबाहुश् च सोमजः ॥
विश्वास-प्रस्तुतिः
सत्यनेत्रस् तथात्रेय
एते सप्तर्षयो ऽपरे ॥ ह्व्_७।२२ ॥
मूलम्
सत्यनेत्रस् तथात्रेय
एते सप्तर्षयो ऽपरे ॥ ह्व्_७।२२ ॥
विश्वास-प्रस्तुतिः
देवाश् चाभूतरजसस्
तथा प्रकृतयः स्मृताः ।
पारिप्लवश् च रैभ्यश् च
मनोर् अन्तरम् उच्यते ॥ ह्व्_७।२३ ॥
मूलम्
देवाश् चाभूतरजसस्
तथा प्रकृतयः स्मृताः ।
पारिप्लवश् च रैभ्यश् च
मनोर् अन्तरम् उच्यते ॥ ह्व्_७।२३ ॥
विश्वास-प्रस्तुतिः
अथ पुत्रान् इमांस् तस्य
निबोध गदतो मम ।
धृतिमान् अव्ययो युक्तस्
तत्त्वदर्शी निरुत्सुकः ॥ ह्व्_७।२४ ॥
मूलम्
अथ पुत्रान् इमांस् तस्य
निबोध गदतो मम ।
धृतिमान् अव्ययो युक्तस्
तत्त्वदर्शी निरुत्सुकः ॥ ह्व्_७।२४ ॥
विश्वास-प्रस्तुतिः
अरण्यश् च प्रकाशश् च
निर्मोहः सत्यवाक् कृतिः ।
रैवतस्य मनोः पुत्राः
पञ्चमं चैतद् अन्तरम् ॥ ह्व्_७।२५ ॥
मूलम्
अरण्यश् च प्रकाशश् च
निर्मोहः सत्यवाक् कृतिः ।
रैवतस्य मनोः पुत्राः
पञ्चमं चैतद् अन्तरम् ॥ ह्व्_७।२५ ॥
विश्वास-प्रस्तुतिः
षष्ठं ते सम्प्रवक्ष्यामि
तन् निबोध नराधिप ।
भृगुर् नभो विवस्वांश् च
सुधामा विरजास् तथा ॥ ह्व्_७।२६ ॥
मूलम्
षष्ठं ते सम्प्रवक्ष्यामि
तन् निबोध नराधिप ।
भृगुर् नभो विवस्वांश् च
सुधामा विरजास् तथा ॥ ह्व्_७।२६ ॥
विश्वास-प्रस्तुतिः
अतिनामा सहिष्णुश् च
सप्त एते महर्षयः ।
चाक्षुषस्यान्तरे तात
मनोर् देवान् इमाञ् शृणु ॥ ह्व्_७।२७ ॥
मूलम्
अतिनामा सहिष्णुश् च
सप्त एते महर्षयः ।
चाक्षुषस्यान्तरे तात
मनोर् देवान् इमाञ् शृणु ॥ ह्व्_७।२७ ॥
विश्वास-प्रस्तुतिः
आद्याः प्रभूता ऋभवः
पृथुकाश् च दिवौकसः ।
लेखाश् च नाम राजेन्द्र
पञ्च देवगणाः स्मृताः ॥ ह्व्_७।२८ ॥
मूलम्
आद्याः प्रभूता ऋभवः
पृथुकाश् च दिवौकसः ।
लेखाश् च नाम राजेन्द्र
पञ्च देवगणाः स्मृताः ॥ ह्व्_७।२८ ॥
विश्वास-प्रस्तुतिः
ऋषेर् अङ्गिरसः पुत्रा
महात्मानो महौजसः ।
नाड्वलेया महाराज
दश पुत्राश् च विश्रुताः ॥
मूलम्
ऋषेर् अङ्गिरसः पुत्रा
महात्मानो महौजसः ।
नाड्वलेया महाराज
दश पुत्राश् च विश्रुताः ॥
विश्वास-प्रस्तुतिः
उरुप्रभृतयो राजन्
षष्ठं मन्वन्तरं स्मृतम् ॥ ह्व्_७।२९ ॥
मूलम्
उरुप्रभृतयो राजन्
षष्ठं मन्वन्तरं स्मृतम् ॥ ह्व्_७।२९ ॥
विश्वास-प्रस्तुतिः
([क्: त्३।४ ग्४ ins.: :क्])
षष्टं मन्वन्तरं प्रोक्तं
सप्तमं तु निबोध मे । ह्व्_७।२९१३० ।
अत्रिर् वसिष्ठो भगवान्
कश्यपश् च महान् ऋषिः ।
गौतमो ऽथ भरद्वाजो
विश्वामित्रस् तथैव च ॥ ह्व्_७।३० ॥
मूलम्
([क्: त्३।४ ग्४ ins.: :क्])
षष्टं मन्वन्तरं प्रोक्तं
सप्तमं तु निबोध मे । ह्व्_७।२९१३० ।
अत्रिर् वसिष्ठो भगवान्
कश्यपश् च महान् ऋषिः ।
गौतमो ऽथ भरद्वाजो
विश्वामित्रस् तथैव च ॥ ह्व्_७।३० ॥
विश्वास-प्रस्तुतिः
तथैव पुत्रो भगवान्
ऋचीकस्य महात्मनः ।
सप्तमो जमदग्निश् च
ऋषयः साम्प्रतं दिवि ॥ ह्व्_७।३१ ॥
मूलम्
तथैव पुत्रो भगवान्
ऋचीकस्य महात्मनः ।
सप्तमो जमदग्निश् च
ऋषयः साम्प्रतं दिवि ॥ ह्व्_७।३१ ॥
विश्वास-प्रस्तुतिः
साध्या रुद्राश् च विश्वे च
वसवो मरुतस् तथा ।
आदित्याश् चाश्विनौ चैव
देवौ वैवस्वतौ स्मृतौ ॥ ह्व्_७।३२ ॥
मूलम्
साध्या रुद्राश् च विश्वे च
वसवो मरुतस् तथा ।
आदित्याश् चाश्विनौ चैव
देवौ वैवस्वतौ स्मृतौ ॥ ह्व्_७।३२ ॥
विश्वास-प्रस्तुतिः
मनोर् वैवस्वतस्यैते
वर्तन्ते साम्प्रते ऽन्तरे ।
इक्ष्वाकुप्रमुखाश् चैव
दश पुत्रा महात्मनः ॥ ह्व्_७।३३ ॥
मूलम्
मनोर् वैवस्वतस्यैते
वर्तन्ते साम्प्रते ऽन्तरे ।
इक्ष्वाकुप्रमुखाश् चैव
दश पुत्रा महात्मनः ॥ ह्व्_७।३३ ॥
विश्वास-प्रस्तुतिः
([क्: स्१ ins.: :क्])
मनोः समभवद् राजन्
दिक्षु सर्वासु भारत । ह्व्_७।३३१३१ ।
एतेषां कीर्तितानां तु
महर्षीणां महौजसाम् ।
राजन् पुत्राश् च पौत्राश् च
दिक्षु सर्वासु भारत ॥ ह्व्_७।३४ ॥
मूलम्
([क्: स्१ ins.: :क्])
मनोः समभवद् राजन्
दिक्षु सर्वासु भारत । ह्व्_७।३३१३१ ।
एतेषां कीर्तितानां तु
महर्षीणां महौजसाम् ।
राजन् पुत्राश् च पौत्राश् च
दिक्षु सर्वासु भारत ॥ ह्व्_७।३४ ॥
विश्वास-प्रस्तुतिः
मन्वन्तरेषु सर्वेषु
प्राग्दिशं सप्त सप्तकाः ।
स्थिता धर्मव्यवस्थार्थं
लोकसंरक्षणाय च ॥ ह्व्_७।३५ ॥
मूलम्
मन्वन्तरेषु सर्वेषु
प्राग्दिशं सप्त सप्तकाः ।
स्थिता धर्मव्यवस्थार्थं
लोकसंरक्षणाय च ॥ ह्व्_७।३५ ॥
विश्वास-प्रस्तुतिः
मन्वन्तरे व्यतिक्रान्ते
चत्वारः सप्तका गणाः ।
कृत्वा कर्म दिवं यान्ति
ब्रह्मलोकम् अनामयम् ॥ ह्व्_७।३६ ॥
मूलम्
मन्वन्तरे व्यतिक्रान्ते
चत्वारः सप्तका गणाः ।
कृत्वा कर्म दिवं यान्ति
ब्रह्मलोकम् अनामयम् ॥ ह्व्_७।३६ ॥
विश्वास-प्रस्तुतिः
ततो ऽन्ये तपसा युक्ताः
स्थानं तत् पूरयन्त्य् उत ।
अतीता वर्तमानाश् च
क्रमेणैतेन भारत ॥ ह्व्_७।३७ ॥
मूलम्
ततो ऽन्ये तपसा युक्ताः
स्थानं तत् पूरयन्त्य् उत ।
अतीता वर्तमानाश् च
क्रमेणैतेन भारत ॥ ह्व्_७।३७ ॥
विश्वास-प्रस्तुतिः
एतान्य् उक्तानि कौरव्य
सप्तातीतानि भारत ।
मन्वन्तराणि सर्वाणि
निबोधानागतानि मे ॥ ह्व्_७।३८ ॥
मूलम्
एतान्य् उक्तानि कौरव्य
सप्तातीतानि भारत ।
मन्वन्तराणि सर्वाणि
निबोधानागतानि मे ॥ ह्व्_७।३८ ॥
विश्वास-प्रस्तुतिः
सावर्णा मनवस् तात
पञ्च तांश् च निबोध मे ।
एको वैवस्वतस् तेषां
चत्वारश् च प्रजापतेः ॥
मूलम्
सावर्णा मनवस् तात
पञ्च तांश् च निबोध मे ।
एको वैवस्वतस् तेषां
चत्वारश् च प्रजापतेः ॥
विश्वास-प्रस्तुतिः
परमेष्ठिसुतास् तात
मेरुसावर्णतां गताः ॥ ह्व्_७।३९ ॥
मूलम्
परमेष्ठिसुतास् तात
मेरुसावर्णतां गताः ॥ ह्व्_७।३९ ॥
विश्वास-प्रस्तुतिः
दक्षस्यैते हि दौहित्राः
प्रियायास् तनया नृप ।
महता तपसा युक्ता
मेरुपृष्ठे महौजसः ॥ ह्व्_७।४० ॥
मूलम्
दक्षस्यैते हि दौहित्राः
प्रियायास् तनया नृप ।
महता तपसा युक्ता
मेरुपृष्ठे महौजसः ॥ ह्व्_७।४० ॥
विश्वास-प्रस्तुतिः
रुचेः प्रजापतेः पुत्रो
रौच्यो नाम मनुः स्मृतः ।
भूत्यां चोत्पादितो देव्यां
भौत्यो नाम रुचेः सुतः ॥
मूलम्
रुचेः प्रजापतेः पुत्रो
रौच्यो नाम मनुः स्मृतः ।
भूत्यां चोत्पादितो देव्यां
भौत्यो नाम रुचेः सुतः ॥
विश्वास-प्रस्तुतिः
अनागताश् च सप्तैते
लोके ऽस्मिन् मनवः स्मृताः ॥ ह्व्_७।४१ ॥
मूलम्
अनागताश् च सप्तैते
लोके ऽस्मिन् मनवः स्मृताः ॥ ह्व्_७।४१ ॥
विश्वास-प्रस्तुतिः
अनागताश् च सप्तैव
स्मृता दिवि महर्षयः ।
मनोर् अन्तरम् आसाद्य
सावर्णस्येह ताञ् शृणु ॥ ह्व्_७।४२ ॥
मूलम्
अनागताश् च सप्तैव
स्मृता दिवि महर्षयः ।
मनोर् अन्तरम् आसाद्य
सावर्णस्येह ताञ् शृणु ॥ ह्व्_७।४२ ॥
विश्वास-प्रस्तुतिः
रामो व्यासस् तथात्रेयो
दीप्तिमन्तो बहुश्रुताः ।
भारद्वाजस् तथा द्रौणिर्
अश्वत्थामा महाद्युतिः ॥ ह्व्_७।४३ ॥
मूलम्
रामो व्यासस् तथात्रेयो
दीप्तिमन्तो बहुश्रुताः ।
भारद्वाजस् तथा द्रौणिर्
अश्वत्थामा महाद्युतिः ॥ ह्व्_७।४३ ॥
विश्वास-प्रस्तुतिः
गोतमस्यात्मजश् चैव
शरद्वान् नाम गौतमः ।
कौशिको गालवश् चैव
रुरुः काश्यप एव च ॥
मूलम्
गोतमस्यात्मजश् चैव
शरद्वान् नाम गौतमः ।
कौशिको गालवश् चैव
रुरुः काश्यप एव च ॥
विश्वास-प्रस्तुतिः
एते सप्त महात्मानो
भविष्या मुनिसत्तमाः ॥ ह्व्_७।४४ ॥
मूलम्
एते सप्त महात्मानो
भविष्या मुनिसत्तमाः ॥ ह्व्_७।४४ ॥
विश्वास-प्रस्तुतिः
([क्: स्१ क्१।३ द्४ ins. after ४४: क्२ after २६: :क्])
देवतानां गुणास् तत्र
त्रयः प्रोक्ताः स्वयम्भुवा । ह्व्_७।४४१३२:१ ।
मारीचस्यैव ते पुत्राः
कश्यपस्य महात्मनः । ह्व्_७।४४१३२:२ ।
([क्: क्४ न्२।३ व् ब् द्न् द्स् द्३।५।६ ins. after ४४: :क्])
ब्रह्मणः सदृशाश् चैते
धन्याः सप्तर्षयः स्मृताः ॥ ह्व्_७।४४१३३:१ ।
मूलम्
([क्: स्१ क्१।३ द्४ ins. after ४४: क्२ after २६: :क्])
देवतानां गुणास् तत्र
त्रयः प्रोक्ताः स्वयम्भुवा । ह्व्_७।४४१३२:१ ।
मारीचस्यैव ते पुत्राः
कश्यपस्य महात्मनः । ह्व्_७।४४१३२:२ ।
([क्: क्४ न्२।३ व् ब् द्न् द्स् द्३।५।६ ins. after ४४: :क्])
ब्रह्मणः सदृशाश् चैते
धन्याः सप्तर्षयः स्मृताः ॥ ह्व्_७।४४१३३:१ ।
विश्वास-प्रस्तुतिः
अभिजात्याथ तपसा
मन्त्रव्याकरणैस् तथा । ह्व्_७।४४१३३:२ ।
ब्रह्मलोकप्रतिष्ठास् तु
स्मृता ब्रह्मर्षयो ऽमलाः ॥ ह्व्_७।४४१३३:३ ।
मूलम्
अभिजात्याथ तपसा
मन्त्रव्याकरणैस् तथा । ह्व्_७।४४१३३:२ ।
ब्रह्मलोकप्रतिष्ठास् तु
स्मृता ब्रह्मर्षयो ऽमलाः ॥ ह्व्_७।४४१३३:३ ।
विश्वास-प्रस्तुतिः
भूतभव्यभवज्ज्ञानं
बुद्धा चैव तु यैः स्वयम् । ह्व्_७।४४१३३:४ ।
तपसा वै प्रसिद्धा ये
सङ्गता प्रविचिन्तकाः । ह्व्_७।४४१३३:५ ।
मन्त्रव्याकरणाद्यैश् च
ऐश्वर्यात् सर्वशश् च ये ॥ ह्व्_७।४४१३३:६ ।
मूलम्
भूतभव्यभवज्ज्ञानं
बुद्धा चैव तु यैः स्वयम् । ह्व्_७।४४१३३:४ ।
तपसा वै प्रसिद्धा ये
सङ्गता प्रविचिन्तकाः । ह्व्_७।४४१३३:५ ।
मन्त्रव्याकरणाद्यैश् च
ऐश्वर्यात् सर्वशश् च ये ॥ ह्व्_७।४४१३३:६ ।
विश्वास-प्रस्तुतिः
एतान् भार्यान् द्विजो ज्ञात्वा
नैष्ठिकानि च नाम च । ह्व्_७।४४१३३:७ ।
सप्तैते सप्तभिश् चैव
गुणैः सप्तर्षयः स्मृताः ॥ ह्व्_७।४४१३३:८ ।
मूलम्
एतान् भार्यान् द्विजो ज्ञात्वा
नैष्ठिकानि च नाम च । ह्व्_७।४४१३३:७ ।
सप्तैते सप्तभिश् चैव
गुणैः सप्तर्षयः स्मृताः ॥ ह्व्_७।४४१३३:८ ।
विश्वास-प्रस्तुतिः
दीर्घायुषो मन्त्रकृत
ईश्वरा दीर्घचक्षुषः । ह्व्_७।४४१३३:९ ।
बुद्ध्या प्रत्यक्षधर्माणो
गोत्रप्रावर्तकास् तथा ॥ ह्व्_७।४४१३३:१० ।
मूलम्
दीर्घायुषो मन्त्रकृत
ईश्वरा दीर्घचक्षुषः । ह्व्_७।४४१३३:९ ।
बुद्ध्या प्रत्यक्षधर्माणो
गोत्रप्रावर्तकास् तथा ॥ ह्व्_७।४४१३३:१० ।
विश्वास-प्रस्तुतिः
कृतादिषु युगाख्येषु
सर्वेष्व् एव पुनः पुनः । ह्व्_७।४४१३३:११ ।
प्रवर्तयन्ति ते वर्णान्
आश्रमांश् चैव सर्वशः । ह्व्_७।४४१३३:१२ ।
सप्तर्षयो महाभागाः
सत्यधर्मपरायणाः ॥ ह्व्_७।४४१३३:१३ ।
मूलम्
कृतादिषु युगाख्येषु
सर्वेष्व् एव पुनः पुनः । ह्व्_७।४४१३३:११ ।
प्रवर्तयन्ति ते वर्णान्
आश्रमांश् चैव सर्वशः । ह्व्_७।४४१३३:१२ ।
सप्तर्षयो महाभागाः
सत्यधर्मपरायणाः ॥ ह्व्_७।४४१३३:१३ ।
विश्वास-प्रस्तुतिः
तेषां चैवान्वयोत्पन्ना
जायन्ते हि पुनः पुनः । ह्व्_७।४४१३३:१४ ।
मन्त्रब्राह्मणकर्तारो
धर्मे प्रशिथिले तथा ॥ ह्व्_७।४४१३३:१५ ।
मूलम्
तेषां चैवान्वयोत्पन्ना
जायन्ते हि पुनः पुनः । ह्व्_७।४४१३३:१४ ।
मन्त्रब्राह्मणकर्तारो
धर्मे प्रशिथिले तथा ॥ ह्व्_७।४४१३३:१५ ।
विश्वास-प्रस्तुतिः
यस्माच् च वरदाः सप्त
परेभ्यश् चापराः स्मृताः । ह्व्_७।४४१३३:१६ ।
तस्मान् न कालो न वयः
प्रमाणम् ऋषिभावने ॥ ह्व्_७।४४१३३:१७ ।
मूलम्
यस्माच् च वरदाः सप्त
परेभ्यश् चापराः स्मृताः । ह्व्_७।४४१३३:१६ ।
तस्मान् न कालो न वयः
प्रमाणम् ऋषिभावने ॥ ह्व्_७।४४१३३:१७ ।
विश्वास-प्रस्तुतिः
([क्: after *१३३, द्५।६ चोन्त्।: :क्])
यस्माच् छंसन्ति ते ब्रह्म
तस्माद् ब्रह्मर्षयः स्मृताः । ह्व्_७।४४१३४ ।
वरीवांश् चावरीवांश् च
सम्मतो धृतिमान् वसुः ।
चरिष्णुर् आढ्यो धृष्णुश् च
वाजी सुमतिर् एव च ॥
मूलम्
([क्: after *१३३, द्५।६ चोन्त्।: :क्])
यस्माच् छंसन्ति ते ब्रह्म
तस्माद् ब्रह्मर्षयः स्मृताः । ह्व्_७।४४१३४ ।
वरीवांश् चावरीवांश् च
सम्मतो धृतिमान् वसुः ।
चरिष्णुर् आढ्यो धृष्णुश् च
वाजी सुमतिर् एव च ॥
विश्वास-प्रस्तुतिः
सावर्णस्य मनोः पुत्रा
भविष्या दश भारत ॥ ह्व्_७।४५ ॥
मूलम्
सावर्णस्य मनोः पुत्रा
भविष्या दश भारत ॥ ह्व्_७।४५ ॥
विश्वास-प्रस्तुतिः
([क्: क्३ चोन्त्।: :क्])
चतुर्दशे मनोभाव्ये
उरगम्भीरबुध्नकाः । ह्व्_७।४६अब्१३७:१ ।
पुत्रा(श् चा)[वै चा]क्षुषा देवा
शुक्राद्याश् च तपस्विनः । ह्व्_७।४६अब्१३७:२ ।
अतीतनागतानां वै
महर्षीणां सदा नरः ॥ ह्व्_७।४६ ॥
मूलम्
([क्: क्३ चोन्त्।: :क्])
चतुर्दशे मनोभाव्ये
उरगम्भीरबुध्नकाः । ह्व्_७।४६अब्१३७:१ ।
पुत्रा(श् चा)[वै चा]क्षुषा देवा
शुक्राद्याश् च तपस्विनः । ह्व्_७।४६अब्१३७:२ ।
अतीतनागतानां वै
महर्षीणां सदा नरः ॥ ह्व्_७।४६ ॥
विश्वास-प्रस्तुतिः
([क्: स्१ क्१ द्न् द्४ ins. after ४६: द्स् after ४१: :क्])
देवतानां गणाः प्रोक्ताः
पञ्च वै भरतर्षभ । ह्व्_७।४६१३८:१ ।
तरङ्गभीरुर् वप्रश् च
तरस्वान् उग्र एव च ॥ ह्व्_७।४६१३८:२ ।
मूलम्
([क्: स्१ क्१ द्न् द्४ ins. after ४६: द्स् after ४१: :क्])
देवतानां गणाः प्रोक्ताः
पञ्च वै भरतर्षभ । ह्व्_७।४६१३८:१ ।
तरङ्गभीरुर् वप्रश् च
तरस्वान् उग्र एव च ॥ ह्व्_७।४६१३८:२ ।
विश्वास-प्रस्तुतिः
अभिमानी प्रवीरश् च
जिष्णुः सङ्क्रन्दनस् तथा । ह्व्_७।४६१३८:३ ।
तेजस्वी सबलश् चैव
भौत्यस्यैते मनोः सुताः ॥ ह्व्_७।४६१३८:४ ।
मूलम्
अभिमानी प्रवीरश् च
जिष्णुः सङ्क्रन्दनस् तथा । ह्व्_७।४६१३८:३ ।
तेजस्वी सबलश् चैव
भौत्यस्यैते मनोः सुताः ॥ ह्व्_७।४६१३८:४ ।
विश्वास-प्रस्तुतिः
भौत्यस्यैवाधिकारे तु
पूर्णे कल्पस् तु पूर्यते । ह्व्_७।४६१३८:५ ।
इत्य् एते ऽनागतातीता
मनवः कीर्तिता मया । ह्व्_७।४६१३८:६ ।
([क्: द्६ त् ग्१-३।५ म्४ ins. after ४६: ग्४ after ४६अब्: :क्])
नमस्कृत्वा जयेत् स्वर्गं
ब्राह्मणो नात्र संशयः । ह्व्_७।४६१३९:१ ।
क्षत्रियो जयते शत्रून्
वैश्यः शूद्रो यथेप्सितम् । ह्व्_७।४६१३९:२ ।
तैर् इयं पृथिवी तात
ससमुद्रा सपत्तना ।
यथाप्रदेशम् अद्यापि
सर्वतः परिपाल्यते । ह्व्_७।४७अब्१४० ।
पूर्णं युगसहस्रं हि
परिपाल्या नरेश्वरैः ॥
मूलम्
भौत्यस्यैवाधिकारे तु
पूर्णे कल्पस् तु पूर्यते । ह्व्_७।४६१३८:५ ।
इत्य् एते ऽनागतातीता
मनवः कीर्तिता मया । ह्व्_७।४६१३८:६ ।
([क्: द्६ त् ग्१-३।५ म्४ ins. after ४६: ग्४ after ४६अब्: :क्])
नमस्कृत्वा जयेत् स्वर्गं
ब्राह्मणो नात्र संशयः । ह्व्_७।४६१३९:१ ।
क्षत्रियो जयते शत्रून्
वैश्यः शूद्रो यथेप्सितम् । ह्व्_७।४६१३९:२ ।
तैर् इयं पृथिवी तात
ससमुद्रा सपत्तना ।
यथाप्रदेशम् अद्यापि
सर्वतः परिपाल्यते । ह्व्_७।४७अब्१४० ।
पूर्णं युगसहस्रं हि
परिपाल्या नरेश्वरैः ॥
विश्वास-प्रस्तुतिः
प्रजाभिस् तपसा चैव
संहारान्ते च नित्यशः ॥ ह्व्_७।४७ ॥
मूलम्
प्रजाभिस् तपसा चैव
संहारान्ते च नित्यशः ॥ ह्व्_७।४७ ॥
विश्वास-प्रस्तुतिः
युगानि सप्ततिस् तानि
साग्राणि कथितानि ते ।
कृतत्रेतादियुक्तानि
मनोर् अन्तरम् उच्यते ॥ ह्व्_७।४८ ॥
मूलम्
युगानि सप्ततिस् तानि
साग्राणि कथितानि ते ।
कृतत्रेतादियुक्तानि
मनोर् अन्तरम् उच्यते ॥ ह्व्_७।४८ ॥
विश्वास-प्रस्तुतिः
चतुर्दशैते मनवः
कीर्तिताः कीर्तिवर्धनाः ।
वेदेषु सपुराणेषु
सर्वे ते प्रभविष्णवः ॥
मूलम्
चतुर्दशैते मनवः
कीर्तिताः कीर्तिवर्धनाः ।
वेदेषु सपुराणेषु
सर्वे ते प्रभविष्णवः ॥
विश्वास-प्रस्तुतिः
प्रजानां पतयो राजन्
धन्यम् एषां प्रकीर्तनम् ॥ ह्व्_७।४९ ॥
मूलम्
प्रजानां पतयो राजन्
धन्यम् एषां प्रकीर्तनम् ॥ ह्व्_७।४९ ॥
विश्वास-प्रस्तुतिः
मन्वन्तरेषु संहाराः
संहारान्तेषु सम्भवाः ।
न शक्यम् अन्तं तेषां वै
वक्तुं वर्षशतैर् अपि ॥ ह्व्_७।५० ॥
मूलम्
मन्वन्तरेषु संहाराः
संहारान्तेषु सम्भवाः ।
न शक्यम् अन्तं तेषां वै
वक्तुं वर्षशतैर् अपि ॥ ह्व्_७।५० ॥
विश्वास-प्रस्तुतिः
विसर्गस्य प्रजानां वै
संहारस्य च भारत ।
मन्वन्तरेषु संहारः
श्रूयते भरतर्षभ ॥ ह्व्_७।५१ ॥
मूलम्
विसर्गस्य प्रजानां वै
संहारस्य च भारत ।
मन्वन्तरेषु संहारः
श्रूयते भरतर्षभ ॥ ह्व्_७।५१ ॥
विश्वास-प्रस्तुतिः
सशेषास् तत्र तिष्ठन्ति
देवा ब्रह्मर्षिभिः सह ।
तपसा ब्रह्मचर्येण
श्रुतेन च समन्विताः ॥
मूलम्
सशेषास् तत्र तिष्ठन्ति
देवा ब्रह्मर्षिभिः सह ।
तपसा ब्रह्मचर्येण
श्रुतेन च समन्विताः ॥
विश्वास-प्रस्तुतिः
पूर्णे युगसहस्रे तु
कल्पो निःशेष उच्यते ॥ ह्व्_७।५२ ॥
मूलम्
पूर्णे युगसहस्रे तु
कल्पो निःशेष उच्यते ॥ ह्व्_७।५२ ॥
विश्वास-प्रस्तुतिः
तत्र भूतानि सर्वाणि
दग्धान्य् आदित्यरश्मिभिः ।
ब्रह्माणम् अग्रतः कृत्वा
सहादित्यगणैर् विभो ॥ ह्व्_७।५३ ॥
मूलम्
तत्र भूतानि सर्वाणि
दग्धान्य् आदित्यरश्मिभिः ।
ब्रह्माणम् अग्रतः कृत्वा
सहादित्यगणैर् विभो ॥ ह्व्_७।५३ ॥
विश्वास-प्रस्तुतिः
([क्: ब्१ (मर्ग्।) द्५ ins.: :क्])
योगं योगीश्वरं देवम्
अजं क्षेत्रजम् अच्युतम् । ह्व्_७।५३१४१ ।
प्रविशन्ति सुरश्रेष्ठं
हरिं नारायणं प्रभुम् ।
स्रष्टारं सर्वभूतानां
कल्पान्तेषु पुनः पुनः ॥
मूलम्
([क्: ब्१ (मर्ग्।) द्५ ins.: :क्])
योगं योगीश्वरं देवम्
अजं क्षेत्रजम् अच्युतम् । ह्व्_७।५३१४१ ।
प्रविशन्ति सुरश्रेष्ठं
हरिं नारायणं प्रभुम् ।
स्रष्टारं सर्वभूतानां
कल्पान्तेषु पुनः पुनः ॥
विश्वास-प्रस्तुतिः
अव्यक्तः शाश्वतो देवस्
तस्य सर्वम् इदं जगत् ॥ ह्व्_७।५४ ॥
मूलम्
अव्यक्तः शाश्वतो देवस्
तस्य सर्वम् इदं जगत् ॥ ह्व्_७।५४ ॥
विश्वास-प्रस्तुतिः
([क्: क्२(मर्ग्।)।३ व्२।३ द्न् द्स् द्३-६ ins. after ५४: न्२ after the फ़िर्स्त् ओच्चुरेन्चे of ५५अब्: :क्])
तत्र संवर्तते रात्रिः
सकलैकार्णवे तदा । ह्व्_७।५४१४२:१ ।
नारायणोदरे निद्रां
ब्राह्मं वर्षसहस्रकम् ॥ ह्व्_७।५४१४२:२ ।
मूलम्
([क्: क्२(मर्ग्।)।३ व्२।३ द्न् द्स् द्३-६ ins. after ५४: न्२ after the फ़िर्स्त् ओच्चुरेन्चे of ५५अब्: :क्])
तत्र संवर्तते रात्रिः
सकलैकार्णवे तदा । ह्व्_७।५४१४२:१ ।
नारायणोदरे निद्रां
ब्राह्मं वर्षसहस्रकम् ॥ ह्व्_७।५४१४२:२ ।
विश्वास-प्रस्तुतिः
तावन्तम् इति कालं सा
रात्रिर् इत्य् अभिशब्दिता । ह्व्_७।५४१४२:३ ।
निद्रायोगम् अनुप्राप्तो
यस्याम् अन्ते पितामहः ॥ ह्व्_७।५४१४२:४ ।
मूलम्
तावन्तम् इति कालं सा
रात्रिर् इत्य् अभिशब्दिता । ह्व्_७।५४१४२:३ ।
निद्रायोगम् अनुप्राप्तो
यस्याम् अन्ते पितामहः ॥ ह्व्_७।५४१४२:४ ।
विश्वास-प्रस्तुतिः
सा च रात्रिर् अपक्रान्ता
सहस्रयुगपर्यया । ह्व्_७।५४१४२:५ ।
तदा प्रबुद्धो भगवान्
ब्रह्मा लोकपितामहः । ह्व्_७।५४१४२:६ ।
पुनः सिसृक्षया युक्तः
सर्गाय विदधे मनः ॥ ह्व्_७।५४१४२:७ ।
मूलम्
सा च रात्रिर् अपक्रान्ता
सहस्रयुगपर्यया । ह्व्_७।५४१४२:५ ।
तदा प्रबुद्धो भगवान्
ब्रह्मा लोकपितामहः । ह्व्_७।५४१४२:६ ।
पुनः सिसृक्षया युक्तः
सर्गाय विदधे मनः ॥ ह्व्_७।५४१४२:७ ।
विश्वास-प्रस्तुतिः
सैव स्मृतिः पुराणेयं
तद्वृत्तं तद्विचेष्टितम् । ह्व्_७।५४१४२:८ ।
देवस्थानानि तान्य् एव
केवलं च विपर्ययः ॥ ह्व्_७।५४१४२:९ ।
मूलम्
सैव स्मृतिः पुराणेयं
तद्वृत्तं तद्विचेष्टितम् । ह्व्_७।५४१४२:८ ।
देवस्थानानि तान्य् एव
केवलं च विपर्ययः ॥ ह्व्_७।५४१४२:९ ।
विश्वास-प्रस्तुतिः
ततो दग्धानि भूतानि
सर्वाण्य् आदित्यरश्मिभिः । ह्व्_७।५४१४२:१० ।
देवर्षियक्षगन्धर्वाः
पिशाचोरगराक्षसाः । ह्व्_७।५४१४२:११ ।
जायन्ते च पुनस् तात
युगे भरतसत्तम ॥ ह्व्_७।५४१४२:१२ ।
मूलम्
ततो दग्धानि भूतानि
सर्वाण्य् आदित्यरश्मिभिः । ह्व्_७।५४१४२:१० ।
देवर्षियक्षगन्धर्वाः
पिशाचोरगराक्षसाः । ह्व्_७।५४१४२:११ ।
जायन्ते च पुनस् तात
युगे भरतसत्तम ॥ ह्व्_७।५४१४२:१२ ।
विश्वास-प्रस्तुतिः
यथर्ताव् ऋतुलिङ्गानि
नानारूपाणि पर्यये । ह्व्_७।५४१४२:१३ ।
दृश्यन्ते तानि तान्य् एव
तथा ब्राह्मीषु रात्रिषु ॥ ह्व्_७।५४१४२:१४ ।
मूलम्
यथर्ताव् ऋतुलिङ्गानि
नानारूपाणि पर्यये । ह्व्_७।५४१४२:१३ ।
दृश्यन्ते तानि तान्य् एव
तथा ब्राह्मीषु रात्रिषु ॥ ह्व्_७।५४१४२:१४ ।
विश्वास-प्रस्तुतिः
निष्क्रमित्वा प्रजाकारः
प्रजापतिर् असंशयम् । ह्व्_७।५४१४२:१५ ।
ये च वै मानवा देवाः
सर्वे चैव महर्षयः ॥ ह्व्_७।५४१४२:१६ ।
मूलम्
निष्क्रमित्वा प्रजाकारः
प्रजापतिर् असंशयम् । ह्व्_७।५४१४२:१५ ।
ये च वै मानवा देवाः
सर्वे चैव महर्षयः ॥ ह्व्_७।५४१४२:१६ ।
विश्वास-प्रस्तुतिः
ते सङ्गताः शुद्धसङ्गाः
शश्वद् धर्मविसर्गतः । ह्व्_७।५४१४२:१७ ।
न भवन्ति पुनस् तात
युगे भरतसत्तम ॥ ह्व्_७।५४१४२:१८ ।
मूलम्
ते सङ्गताः शुद्धसङ्गाः
शश्वद् धर्मविसर्गतः । ह्व्_७।५४१४२:१७ ।
न भवन्ति पुनस् तात
युगे भरतसत्तम ॥ ह्व्_७।५४१४२:१८ ।
विश्वास-प्रस्तुतिः
तत् सर्वं क्रमयोगेन
कालसङ्ख्याविभागवित् । ह्व्_७।५४१४२:१९ ।
सहस्रयुगसङ्ख्यानं
कृत्वा दिवसम् ईश्वरः ॥ ह्व्_७।५४१४२:२० ।
मूलम्
तत् सर्वं क्रमयोगेन
कालसङ्ख्याविभागवित् । ह्व्_७।५४१४२:१९ ।
सहस्रयुगसङ्ख्यानं
कृत्वा दिवसम् ईश्वरः ॥ ह्व्_७।५४१४२:२० ।
विश्वास-प्रस्तुतिः
रात्रिं युगसहस्रान्तां
कृत्वा च भगवान् विभुः । ह्व्_७।५४१४२:२१ ।
संहरत्य् अथ भूतानि
सृजते च पुनः पुनः । ह्व्_७।५४१४२:२२ ।
व्यक्ताव्यक्तो महादेवो
हरिर् नारायणः प्रभुः । ह्व्_७।५४१४२:२३ ।
अत्र ते वर्तयिष्यामि
मनोर् वैवस्वतस्य ह ।
विसर्गं भरतश्रेष्ठ
साम्प्रतस्य महाद्युते ॥ ह्व्_७।५५ ॥
मूलम्
रात्रिं युगसहस्रान्तां
कृत्वा च भगवान् विभुः । ह्व्_७।५४१४२:२१ ।
संहरत्य् अथ भूतानि
सृजते च पुनः पुनः । ह्व्_७।५४१४२:२२ ।
व्यक्ताव्यक्तो महादेवो
हरिर् नारायणः प्रभुः । ह्व्_७।५४१४२:२३ ।
अत्र ते वर्तयिष्यामि
मनोर् वैवस्वतस्य ह ।
विसर्गं भरतश्रेष्ठ
साम्प्रतस्य महाद्युते ॥ ह्व्_७।५५ ॥
विश्वास-प्रस्तुतिः
वृष्णिवंशप्रसङ्गेन
कथ्यमानं पुरातनम् ।
([क्: द्६ त्१।३।४ ग् म्४ ins.: :क्])
नित्यः सर्वगतः सूक्ष्मः
शाश्वतः पुरुषोत्तमः । ह्व्_७।५६अब्१४३ ।
यत्रोत्पन्नो महात्मा स
हरिर् वृष्णिकुले प्रभुः ॥ ह्व्_७।५६ ॥
मूलम्
वृष्णिवंशप्रसङ्गेन
कथ्यमानं पुरातनम् ।
([क्: द्६ त्१।३।४ ग् म्४ ins.: :क्])
नित्यः सर्वगतः सूक्ष्मः
शाश्वतः पुरुषोत्तमः । ह्व्_७।५६अब्१४३ ।
यत्रोत्पन्नो महात्मा स
हरिर् वृष्णिकुले प्रभुः ॥ ह्व्_७।५६ ॥