विश्वास-प्रस्तुतिः
{पृथुर् उवाच}
एकस्यार्थाय यो हन्याद्
आत्मनो वा परस्य वा ।
बहून् वै प्राणिनो लोके
भवेत् तस्येह पातकम् ॥ ह्व्_६।१ ॥
मूलम्
{पृथुर् उवाच}
एकस्यार्थाय यो हन्याद्
आत्मनो वा परस्य वा ।
बहून् वै प्राणिनो लोके
भवेत् तस्येह पातकम् ॥ ह्व्_६।१ ॥
विश्वास-प्रस्तुतिः
सुखम् एधन्ति बहवो
यस्मिंस् तु निहते शुभे ।
तस्मिन् हते नास्ति भद्रे
पातकं नोपपातकम् ॥ ह्व्_६।२ ॥
मूलम्
सुखम् एधन्ति बहवो
यस्मिंस् तु निहते शुभे ।
तस्मिन् हते नास्ति भद्रे
पातकं नोपपातकम् ॥ ह्व्_६।२ ॥
विश्वास-प्रस्तुतिः
([क्: द्न् द्३ त्३।४ ins.: :क्])
एकस्मिन् यत्र निधनं
प्रापिते दुष्टकारिणि । ह्व्_६।२११५:१ ।
बहूनां भवति क्षेमं
तत्र पुण्यप्रदो वधः । ह्व्_६।२११५:२ ।
सो ऽहं प्रजानिमित्तं त्वां
हनिष्यामि वसुन्धरे ।
यदि मे वचनं नाद्य
करिष्यसि जगद्धितम् ॥ ह्व्_६।३ ॥
मूलम्
([क्: द्न् द्३ त्३।४ ins.: :क्])
एकस्मिन् यत्र निधनं
प्रापिते दुष्टकारिणि । ह्व्_६।२११५:१ ।
बहूनां भवति क्षेमं
तत्र पुण्यप्रदो वधः । ह्व्_६।२११५:२ ।
सो ऽहं प्रजानिमित्तं त्वां
हनिष्यामि वसुन्धरे ।
यदि मे वचनं नाद्य
करिष्यसि जगद्धितम् ॥ ह्व्_६।३ ॥
विश्वास-प्रस्तुतिः
त्वां निहत्याद्य बाणेन
मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाहं
प्रजा धारयिता स्वयम् ॥ ह्व्_६।४ ॥
मूलम्
त्वां निहत्याद्य बाणेन
मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाहं
प्रजा धारयिता स्वयम् ॥ ह्व्_६।४ ॥
विश्वास-प्रस्तुतिः
सा त्वं शासनम् आस्थाय
मम धर्मभृतां वरे ।
सञ्जीवय प्रजाः सर्वाः
समर्था ह्य् असि धारणे ॥ ह्व्_६।५ ॥
मूलम्
सा त्वं शासनम् आस्थाय
मम धर्मभृतां वरे ।
सञ्जीवय प्रजाः सर्वाः
समर्था ह्य् असि धारणे ॥ ह्व्_६।५ ॥
विश्वास-प्रस्तुतिः
दुहितृत्वं च मे गच्छ
तत एनम् अहं शरम् ।
नियच्छेयं त्वद्वधार्थम्
उद्यतं घोरदर्शनम् ॥ ह्व्_६।६ ॥
मूलम्
दुहितृत्वं च मे गच्छ
तत एनम् अहं शरम् ।
नियच्छेयं त्वद्वधार्थम्
उद्यतं घोरदर्शनम् ॥ ह्व्_६।६ ॥
विश्वास-प्रस्तुतिः
{वसुन्धरोवाच}
सर्वम् एतद् अहं वीर
विधास्यामि न संशयः ।
वत्सं तु मम तं पश्य
क्षरेयं येन वत्सला ॥ ह्व्_६।७ ॥
मूलम्
{वसुन्धरोवाच}
सर्वम् एतद् अहं वीर
विधास्यामि न संशयः ।
वत्सं तु मम तं पश्य
क्षरेयं येन वत्सला ॥ ह्व्_६।७ ॥
विश्वास-प्रस्तुतिः
समां च कुरु सर्वत्र
मां त्वं धर्मभृतां वर ।
यथा विष्यन्दमानं मे
क्षीरं सर्वत्र भावयेत् ॥ ह्व्_६।८ ॥
मूलम्
समां च कुरु सर्वत्र
मां त्वं धर्मभृतां वर ।
यथा विष्यन्दमानं मे
क्षीरं सर्वत्र भावयेत् ॥ ह्व्_६।८ ॥
विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
तत उत्सारयामास
शिलाः शतसहस्रशः ।
धनुष्कोट्या तदा वैन्यस्
तेन शैला विवर्धिताः ॥ ह्व्_६।९ ॥
मूलम्
{वैशम्पायन उवाच}
तत उत्सारयामास
शिलाः शतसहस्रशः ।
धनुष्कोट्या तदा वैन्यस्
तेन शैला विवर्धिताः ॥ ह्व्_६।९ ॥
विश्वास-प्रस्तुतिः
([क्: क् न्२।३ व् ब् द् त्२-४ ग् म्३ ins.: :क्])
पृथुर् वैन्यस् तदा राजा
महीं चक्रे समां ततः । ह्व्_६।९११६:१ ।
मन्वन्तरेष्व् अतीतेषु
विषम् आसीद् वसुन्धरा ॥ ह्व्_६।९११६:२ ।
मूलम्
([क्: क् न्२।३ व् ब् द् त्२-४ ग् म्३ ins.: :क्])
पृथुर् वैन्यस् तदा राजा
महीं चक्रे समां ततः । ह्व्_६।९११६:१ ।
मन्वन्तरेष्व् अतीतेषु
विषम् आसीद् वसुन्धरा ॥ ह्व्_६।९११६:२ ।
विश्वास-प्रस्तुतिः
स्वभावेनाभवंस् तस्या
समानि विषमाणि च । ह्व्_६।९११६:३ ।
चाक्षुषस्यान्तरे पूर्वम्
आसीद् एवं तदा किल । ह्व्_६।९११६:४ ।
न हि पूर्वविसर्गे वै
विषमे पृथिवीतले ।
प्रविभागः पुराणां वा
ग्रामाणां वा तदाभवत् ॥ ह्व्_६।१० ॥
मूलम्
स्वभावेनाभवंस् तस्या
समानि विषमाणि च । ह्व्_६।९११६:३ ।
चाक्षुषस्यान्तरे पूर्वम्
आसीद् एवं तदा किल । ह्व्_६।९११६:४ ।
न हि पूर्वविसर्गे वै
विषमे पृथिवीतले ।
प्रविभागः पुराणां वा
ग्रामाणां वा तदाभवत् ॥ ह्व्_६।१० ॥
विश्वास-प्रस्तुतिः
न सस्यानि न गोरक्ष्यं
न कृषिर् न वणिक्पथः ।
([क्: क्१(मर्ग्।)।२-४ न्२।३ व् ब् द् त्३।४ ins.: :क्])
नैव सत्यानृतं तत्र
न लोभो न च मत्सरः । ह्व्_६।१०अब्११७:१ ।
वैवस्वते ऽन्तरे तस्मिन्
साम्प्रते समुपस्थिते । ह्व्_६।१०अब्११७:२ ।
वैन्यात् प्रभृति राजेन्द्र
सर्वस्यैतस्य सम्भवः ॥ ह्व्_६।११ ॥
मूलम्
न सस्यानि न गोरक्ष्यं
न कृषिर् न वणिक्पथः ।
([क्: क्१(मर्ग्।)।२-४ न्२।३ व् ब् द् त्३।४ ins.: :क्])
नैव सत्यानृतं तत्र
न लोभो न च मत्सरः । ह्व्_६।१०अब्११७:१ ।
वैवस्वते ऽन्तरे तस्मिन्
साम्प्रते समुपस्थिते । ह्व्_६।१०अब्११७:२ ।
वैन्यात् प्रभृति राजेन्द्र
सर्वस्यैतस्य सम्भवः ॥ ह्व्_६।११ ॥
विश्वास-प्रस्तुतिः
यत्र यत्र समं त्व् अस्या
भूमेर् आसीत् तदानघ ।
तत्र तत्र प्रजाः सर्वा
निवासं समरोचयन् ॥ ह्व्_६।१२ ॥
मूलम्
यत्र यत्र समं त्व् अस्या
भूमेर् आसीत् तदानघ ।
तत्र तत्र प्रजाः सर्वा
निवासं समरोचयन् ॥ ह्व्_६।१२ ॥
विश्वास-प्रस्तुतिः
आहारः फलमूलानि
प्रजानाम् अभवत् तदा ।
कृच्छ्रेण महता युक्त
इत्य् एवम् अनुशुश्रुम ॥ ह्व्_६।१३ ॥
मूलम्
आहारः फलमूलानि
प्रजानाम् अभवत् तदा ।
कृच्छ्रेण महता युक्त
इत्य् एवम् अनुशुश्रुम ॥ ह्व्_६।१३ ॥
विश्वास-प्रस्तुतिः
सङ्कल्पयित्वा वत्सं तु
मनुं स्वायम्भुवं प्रभुम् ।
स्वे पाणौ पुरुषव्याघ्र
दुदोह पृथिवीं ततः ॥ ह्व्_६।१४ ॥
मूलम्
सङ्कल्पयित्वा वत्सं तु
मनुं स्वायम्भुवं प्रभुम् ।
स्वे पाणौ पुरुषव्याघ्र
दुदोह पृथिवीं ततः ॥ ह्व्_६।१४ ॥
विश्वास-प्रस्तुतिः
सस्यजातानि सर्वाणि
पृथुर् वैन्यः प्रतापवान् ।
([क्: व् द्१।२ ins. after १५अब्: द्५ after १५: :क्])
सस्यानि तेन वै दुग्धा
वैन्येनेयं वसुन्धरा । ह्व्_६।१५अब्११८ ।
तेनान्नेन प्रजास् तात
वर्तन्ते ऽद्यापि नित्यशः ॥ ह्व्_६।१५ ॥
मूलम्
सस्यजातानि सर्वाणि
पृथुर् वैन्यः प्रतापवान् ।
([क्: व् द्१।२ ins. after १५अब्: द्५ after १५: :क्])
सस्यानि तेन वै दुग्धा
वैन्येनेयं वसुन्धरा । ह्व्_६।१५अब्११८ ।
तेनान्नेन प्रजास् तात
वर्तन्ते ऽद्यापि नित्यशः ॥ ह्व्_६।१५ ॥
विश्वास-प्रस्तुतिः
ऋषिभिः श्रूयते चापि
पुनर् दुग्ध्हा वसुन्धरा ।
वत्सः सोमो ऽभवत् तेषां
दोग्धा चाङ्गिरसः सुतः ॥ ह्व्_६।१६ ॥
मूलम्
ऋषिभिः श्रूयते चापि
पुनर् दुग्ध्हा वसुन्धरा ।
वत्सः सोमो ऽभवत् तेषां
दोग्धा चाङ्गिरसः सुतः ॥ ह्व्_६।१६ ॥
विश्वास-प्रस्तुतिः
बृहस्पतिर् महातेजाः
पात्रं छन्दांसि भारत ।
क्षीरम् आसीद् अनुपमं
तपो ब्रह्म च शाश्वतम् ॥ ह्व्_६।१७ ॥
मूलम्
बृहस्पतिर् महातेजाः
पात्रं छन्दांसि भारत ।
क्षीरम् आसीद् अनुपमं
तपो ब्रह्म च शाश्वतम् ॥ ह्व्_६।१७ ॥
विश्वास-प्रस्तुतिः
ततः पुनर् देवगणैः
पुरन्दरपुरोगमैः ।
काञ्चनं पात्रम् आदाय
दुग्धेयं श्रूयते मही ॥ ह्व्_६।१८ ॥
मूलम्
ततः पुनर् देवगणैः
पुरन्दरपुरोगमैः ।
काञ्चनं पात्रम् आदाय
दुग्धेयं श्रूयते मही ॥ ह्व्_६।१८ ॥
विश्वास-प्रस्तुतिः
वत्सस् तु मघवान् आसीद्
दोग्धा तु सविता विभुः ।
क्षीरम् ऊर्जस्करं चैव
येन वर्तन्ति देवताः ॥ ह्व्_६।१९ ॥
मूलम्
वत्सस् तु मघवान् आसीद्
दोग्धा तु सविता विभुः ।
क्षीरम् ऊर्जस्करं चैव
येन वर्तन्ति देवताः ॥ ह्व्_६।१९ ॥
विश्वास-प्रस्तुतिः
पितृभिः श्रूयते चापि
पुनर् दुग्धा वसुन्धरा ।
राजतं पात्रम् आदाय
स्वधाम् अमितविक्रमैः ॥ ह्व्_६।२० ॥
मूलम्
पितृभिः श्रूयते चापि
पुनर् दुग्धा वसुन्धरा ।
राजतं पात्रम् आदाय
स्वधाम् अमितविक्रमैः ॥ ह्व्_६।२० ॥
विश्वास-प्रस्तुतिः
यमो वैवस्वतस् तेषाम्
आसीद् वत्सः प्रतापवान् ।
अन्तकश् चाभवद् दोग्धा
कालो लोकप्रकालनः ॥ ह्व्_६।२१ ॥
मूलम्
यमो वैवस्वतस् तेषाम्
आसीद् वत्सः प्रतापवान् ।
अन्तकश् चाभवद् दोग्धा
कालो लोकप्रकालनः ॥ ह्व्_६।२१ ॥
विश्वास-प्रस्तुतिः
नागैश् च श्रूयते दुग्धा
वत्सं कृत्वा तु तक्षकम् ।
अलाबुपात्रम् आदाय
विषं क्षीरं नरोत्तम ॥ ह्व्_६।२२ ॥
मूलम्
नागैश् च श्रूयते दुग्धा
वत्सं कृत्वा तु तक्षकम् ।
अलाबुपात्रम् आदाय
विषं क्षीरं नरोत्तम ॥ ह्व्_६।२२ ॥
विश्वास-प्रस्तुतिः
तेषाम् ऐरावतो दोग्धा
धृतराष्ट्रः प्रतापवान् ।
नागानां भरतश्रेष्ठ
सर्पाणां च महीपते ॥ ह्व्_६।२३ ॥
मूलम्
तेषाम् ऐरावतो दोग्धा
धृतराष्ट्रः प्रतापवान् ।
नागानां भरतश्रेष्ठ
सर्पाणां च महीपते ॥ ह्व्_६।२३ ॥
विश्वास-प्रस्तुतिः
तेनैव वर्तयन्त्य् उग्रा
महाकाया महाबलाः ।
तदाहारास् तदाचारास्
तद्वीर्यास् तदपाश्रयाः ॥ ह्व्_६।२४ ॥
मूलम्
तेनैव वर्तयन्त्य् उग्रा
महाकाया महाबलाः ।
तदाहारास् तदाचारास्
तद्वीर्यास् तदपाश्रयाः ॥ ह्व्_६।२४ ॥
विश्वास-प्रस्तुतिः
असुरैः श्रूयते चापि
पुनर् दुग्धा वसुन्धरा ।
आयसं पात्रम् आदाय
मायाः शत्रुनिबर्हणीः ॥ ह्व्_६।२५ ॥
मूलम्
असुरैः श्रूयते चापि
पुनर् दुग्धा वसुन्धरा ।
आयसं पात्रम् आदाय
मायाः शत्रुनिबर्हणीः ॥ ह्व्_६।२५ ॥
विश्वास-प्रस्तुतिः
विरोचनस् तु प्राह्रादिर्
वत्सस् तेषाम् अभूत् तदा ।
ऋत्विग् द्विमूर्धा दैत्यानां
मधुर् दोग्धा महाबलः ॥ ह्व्_६।२६ ॥
मूलम्
विरोचनस् तु प्राह्रादिर्
वत्सस् तेषाम् अभूत् तदा ।
ऋत्विग् द्विमूर्धा दैत्यानां
मधुर् दोग्धा महाबलः ॥ ह्व्_६।२६ ॥
विश्वास-प्रस्तुतिः
तयैते माययाद्यापि
सर्वे मायाविनो ऽसुराः ।
वर्तयन्त्य् अमितप्रज्ञास्
तद् एषाम् अमितं बलम् ॥ ह्व्_६।२७ ॥
मूलम्
तयैते माययाद्यापि
सर्वे मायाविनो ऽसुराः ।
वर्तयन्त्य् अमितप्रज्ञास्
तद् एषाम् अमितं बलम् ॥ ह्व्_६।२७ ॥
विश्वास-प्रस्तुतिः
यक्षैश् च श्रूयते राजन्
पुनर् दुग्धा वसुन्धरा ।
आमपात्रे महाराज
पुरान्तर्धानम् अक्षयम् ॥ ह्व्_६।२८ ॥
मूलम्
यक्षैश् च श्रूयते राजन्
पुनर् दुग्धा वसुन्धरा ।
आमपात्रे महाराज
पुरान्तर्धानम् अक्षयम् ॥ ह्व्_६।२८ ॥
विश्वास-प्रस्तुतिः
वत्सं वैश्रवणं कृत्वा
यक्षैः पुण्यजनैस् तथा ।
([क्: क्२ न्२।३ व् ब् द्न् द्स् द्३।६ त्२-४ ग् म्४ ins. after २९अब्: द्५ after the repetition of २८ब्: :क्])
दोग्धा रजतनाभस् तु
पिता मणिवरस्य यः । ह्व्_६।२९अब्११९:१ ।
यक्षात्मजो महातेजास्
त्रिशीर्षः सुमहातपाः । ह्व्_६।२९अब्११९:२ ।
([क्: द्१ ins.: :क्])
दोग्धा तु धनदः स्वामिन्न्
एवं तैश् च वसुन्धरा । ह्व्_६।२९अब्१२० ।
तेन ते वर्तयन्तीह
परमर्षिर् उवाच ह ॥ ह्व्_६।२९ ॥
मूलम्
वत्सं वैश्रवणं कृत्वा
यक्षैः पुण्यजनैस् तथा ।
([क्: क्२ न्२।३ व् ब् द्न् द्स् द्३।६ त्२-४ ग् म्४ ins. after २९अब्: द्५ after the repetition of २८ब्: :क्])
दोग्धा रजतनाभस् तु
पिता मणिवरस्य यः । ह्व्_६।२९अब्११९:१ ।
यक्षात्मजो महातेजास्
त्रिशीर्षः सुमहातपाः । ह्व्_६।२९अब्११९:२ ।
([क्: द्१ ins.: :क्])
दोग्धा तु धनदः स्वामिन्न्
एवं तैश् च वसुन्धरा । ह्व्_६।२९अब्१२० ।
तेन ते वर्तयन्तीह
परमर्षिर् उवाच ह ॥ ह्व्_६।२९ ॥
विश्वास-प्रस्तुतिः
राक्षसैश् च पिशाचैश् च
पुनर् दुग्धा वसुन्धरा ।
शावं कपालम् आदाय
प्रजा भोक्तुं नरर्षभ ॥ ह्व्_६।३० ॥
मूलम्
राक्षसैश् च पिशाचैश् च
पुनर् दुग्धा वसुन्धरा ।
शावं कपालम् आदाय
प्रजा भोक्तुं नरर्षभ ॥ ह्व्_६।३० ॥
विश्वास-प्रस्तुतिः
दोग्धा रजतनाभस् तु
तेषाम् आसीत् कुरूद्वह ।
वत्सः सुमाली कौरव्य
क्षीरं रुधिरम् एव च ॥ ह्व्_६।३१ ॥
मूलम्
दोग्धा रजतनाभस् तु
तेषाम् आसीत् कुरूद्वह ।
वत्सः सुमाली कौरव्य
क्षीरं रुधिरम् एव च ॥ ह्व्_६।३१ ॥
विश्वास-प्रस्तुतिः
तेन क्षीरेण रक्षांसि
यक्षाश् चैवामरोपमाः ।
वर्तयन्ति पिशाचाश् च
भूतसङ्घास् तथैव च ॥ ह्व्_६।३२ ॥
मूलम्
तेन क्षीरेण रक्षांसि
यक्षाश् चैवामरोपमाः ।
वर्तयन्ति पिशाचाश् च
भूतसङ्घास् तथैव च ॥ ह्व्_६।३२ ॥
विश्वास-प्रस्तुतिः
पद्मपत्रे पुनर् दुग्धा
गन्धर्वैः साप्सरोगणैः ।
वत्सं चित्ररथं कृत्वा
शुचीन् गन्धान् नरोत्तम ॥ ह्व्_६।३३ ॥
मूलम्
पद्मपत्रे पुनर् दुग्धा
गन्धर्वैः साप्सरोगणैः ।
वत्सं चित्ररथं कृत्वा
शुचीन् गन्धान् नरोत्तम ॥ ह्व्_६।३३ ॥
विश्वास-प्रस्तुतिः
तेषां च सुरुचिस् त्व् आसीद्
दोग्धा भरतसत्तम ।
गन्धर्वराजो ऽतिबलो
महात्मा सूर्यसन्निभः ॥ ह्व्_६।३४ ॥
मूलम्
तेषां च सुरुचिस् त्व् आसीद्
दोग्धा भरतसत्तम ।
गन्धर्वराजो ऽतिबलो
महात्मा सूर्यसन्निभः ॥ ह्व्_६।३४ ॥
विश्वास-प्रस्तुतिः
शैलैश् च श्रूयते दुग्धा
पुनर् देवी वसुन्धरा ।
ओषधीर् वै मूर्तिमती
रत्नानि विविधानि च ॥ ह्व्_६।३५ ॥
मूलम्
शैलैश् च श्रूयते दुग्धा
पुनर् देवी वसुन्धरा ।
ओषधीर् वै मूर्तिमती
रत्नानि विविधानि च ॥ ह्व्_६।३५ ॥
विश्वास-प्रस्तुतिः
वत्सस् तु हिमवान् आसीद्
दोग्धा मेरुर् महागिरिः ।
पात्रं तु शैलम् एवासीत्
तेन शैलाः प्रतिष्ठिताः ॥ ह्व्_६।३६ ॥
मूलम्
वत्सस् तु हिमवान् आसीद्
दोग्धा मेरुर् महागिरिः ।
पात्रं तु शैलम् एवासीत्
तेन शैलाः प्रतिष्ठिताः ॥ ह्व्_६।३६ ॥
विश्वास-प्रस्तुतिः
दुग्धेयं वृक्षवीरुद्भिः
श्रूयते च वसुन्धरा ।
पालाशं पात्रम् आदाय
च्छिन्नदग्धप्ररोहणम् ॥ ह्व्_६।३७ ॥
मूलम्
दुग्धेयं वृक्षवीरुद्भिः
श्रूयते च वसुन्धरा ।
पालाशं पात्रम् आदाय
च्छिन्नदग्धप्ररोहणम् ॥ ह्व्_६।३७ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्२ ग्३।५ म्२।३ ins.: :क्])
सर्वकामदुघा दोग्ध्री
पृथिवी जनमेजय । ह्व्_६।३७१२१ ।
सेयं धात्री विधात्री च
पावनी च वसुन्धरा ।
चराचरस्य सर्वस्य
प्रतिष्ठा योनिर् एव च ॥
मूलम्
([क्: द्६ त्२ ग्३।५ म्२।३ ins.: :क्])
सर्वकामदुघा दोग्ध्री
पृथिवी जनमेजय । ह्व्_६।३७१२१ ।
सेयं धात्री विधात्री च
पावनी च वसुन्धरा ।
चराचरस्य सर्वस्य
प्रतिष्ठा योनिर् एव च ॥
विश्वास-प्रस्तुतिः
सर्वकामदुघा दोग्ध्री
सर्वसस्यप्ररोहिणी ॥ ह्व्_६।३८ ॥
मूलम्
सर्वकामदुघा दोग्ध्री
सर्वसस्यप्ररोहिणी ॥ ह्व्_६।३८ ॥
विश्वास-प्रस्तुतिः
आसीद् इयं समुद्रान्ता
मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना
मेदसाभिपरिप्लुता ॥ ह्व्_६।३९ ॥
मूलम्
आसीद् इयं समुद्रान्ता
मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना
मेदसाभिपरिप्लुता ॥ ह्व्_६।३९ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् स्१ न्१) त्३।४ ins.: :क्])
तेनेयं मेदिनी देवी
प्रोच्यते ब्रह्मवादिभिः । ह्व्_६।३९१२२ ।
ततो ऽभ्युपगमाद् राज्ञः
पृथोर् वैन्यस्य भारत ।
दुहितृत्वम् अनुप्राप्ता
देवी पृथ्वीति चोच्यते ॥ ह्व्_६।४० ॥
मूलम्
([क्: न् (एxचेप्त् स्१ न्१) त्३।४ ins.: :क्])
तेनेयं मेदिनी देवी
प्रोच्यते ब्रह्मवादिभिः । ह्व्_६।३९१२२ ।
ततो ऽभ्युपगमाद् राज्ञः
पृथोर् वैन्यस्य भारत ।
दुहितृत्वम् अनुप्राप्ता
देवी पृथ्वीति चोच्यते ॥ ह्व्_६।४० ॥
विश्वास-प्रस्तुतिः
पृथुना प्रविभक्ता च
शोधिता च वसुन्धरा ।
सस्याकरवती स्फीता
पुरपत्तनमालिनी ॥ ह्व्_६।४१ ॥
मूलम्
पृथुना प्रविभक्ता च
शोधिता च वसुन्धरा ।
सस्याकरवती स्फीता
पुरपत्तनमालिनी ॥ ह्व्_६।४१ ॥
विश्वास-प्रस्तुतिः
एवम्प्रभावो वैन्यः स
राजासीद् राजसत्तम ।
नमस्यश् चैव पूज्यश् च
भूतग्रामैर् न संशयः ॥ ह्व्_६।४२ ॥
मूलम्
एवम्प्रभावो वैन्यः स
राजासीद् राजसत्तम ।
नमस्यश् चैव पूज्यश् च
भूतग्रामैर् न संशयः ॥ ह्व्_६।४२ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणैश् च महाभागैर्
वेदवेदाङ्गपारगैः ।
पृथुर् एव नमस्कार्यो
वृत्तिदः स सनातनः ॥ ह्व्_६।४३ ॥
मूलम्
ब्राह्मणैश् च महाभागैर्
वेदवेदाङ्गपारगैः ।
पृथुर् एव नमस्कार्यो
वृत्तिदः स सनातनः ॥ ह्व्_६।४३ ॥
विश्वास-प्रस्तुतिः
पार्थिवैश् च महाभागैः
पार्थिवत्वम् अभीप्सुभिः ।
आदिराजो नमस्कार्यः
पृथुर् वैन्यः प्रतापवान् ॥ ह्व्_६।४४ ॥
मूलम्
पार्थिवैश् च महाभागैः
पार्थिवत्वम् अभीप्सुभिः ।
आदिराजो नमस्कार्यः
पृथुर् वैन्यः प्रतापवान् ॥ ह्व्_६।४४ ॥
विश्वास-प्रस्तुतिः
योधैर् अपि च विक्रान्तैः
प्राप्तुकामैर् जयं युधि ।
आदिराजो नमस्कार्यो
योधानां प्रथमो नृपः ॥ ह्व्_६।४५ ॥
मूलम्
योधैर् अपि च विक्रान्तैः
प्राप्तुकामैर् जयं युधि ।
आदिराजो नमस्कार्यो
योधानां प्रथमो नृपः ॥ ह्व्_६।४५ ॥
विश्वास-प्रस्तुतिः
यो हि योद्धा रणं याति
कीर्तयित्वा पृथुं नृपम् ।
स घोररूपान् सङ्ग्रामान्
क्षेमी तरति कीर्तिमान् ॥ ह्व्_६।४६ ॥
मूलम्
यो हि योद्धा रणं याति
कीर्तयित्वा पृथुं नृपम् ।
स घोररूपान् सङ्ग्रामान्
क्षेमी तरति कीर्तिमान् ॥ ह्व्_६।४६ ॥
विश्वास-प्रस्तुतिः
वैश्यैर् अपि च वित्ताढ्यैर्
वैश्यवृत्तिम् अनुष्ठितैः ।
पृथुर् एव नमस्कार्यो
वृत्तिदाता महायशाः ॥ ह्व्_६।४७ ॥
मूलम्
वैश्यैर् अपि च वित्ताढ्यैर्
वैश्यवृत्तिम् अनुष्ठितैः ।
पृथुर् एव नमस्कार्यो
वृत्तिदाता महायशाः ॥ ह्व्_६।४७ ॥
विश्वास-प्रस्तुतिः
तथैव शूद्रैः शुचिभिस्
त्रिवर्णपरिचारिभिः ।
पृथुर् एव नमस्कार्यः
श्रेयः परम् अभीप्सुभिः ॥ ह्व्_६।४८ ॥
मूलम्
तथैव शूद्रैः शुचिभिस्
त्रिवर्णपरिचारिभिः ।
पृथुर् एव नमस्कार्यः
श्रेयः परम् अभीप्सुभिः ॥ ह्व्_६।४८ ॥
विश्वास-प्रस्तुतिः
एते वत्सविशेषाश् च
दोग्धारः क्षीरम् एव च ।
पात्राणि च मयोक्तानि
किं भूयो वर्णयामि ते ॥ ह्व्_६।४९ ॥
मूलम्
एते वत्सविशेषाश् च
दोग्धारः क्षीरम् एव च ।
पात्राणि च मयोक्तानि
किं भूयो वर्णयामि ते ॥ ह्व्_६।४९ ॥