विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
स सृष्टासु प्रजास्व् एवम्
आपवो वै प्रजापतिः ।
लेभे वै पुरुषः पत्नीं
शतरूपाम् अयोनिजाम् ॥ ह्व्_२।१ ॥
मूलम्
{वैशम्पायन उवाच}
स सृष्टासु प्रजास्व् एवम्
आपवो वै प्रजापतिः ।
लेभे वै पुरुषः पत्नीं
शतरूपाम् अयोनिजाम् ॥ ह्व्_२।१ ॥
विश्वास-प्रस्तुतिः
आपवस्य महिम्ना तु
दिवम् आवृत्य तिष्ठतः ।
धर्मेणैव महाराज
शतरूपा व्यजायत ॥ ह्व्_२।२ ॥
मूलम्
आपवस्य महिम्ना तु
दिवम् आवृत्य तिष्ठतः ।
धर्मेणैव महाराज
शतरूपा व्यजायत ॥ ह्व्_२।२ ॥
विश्वास-प्रस्तुतिः
सा तु वर्षायुतं तप्त्वा
तपः परमदुश्चरम् ।
भर्तारं दीप्ततपसं
पुरुषं प्रत्यपद्यत ॥ ह्व्_२।३ ॥
मूलम्
सा तु वर्षायुतं तप्त्वा
तपः परमदुश्चरम् ।
भर्तारं दीप्ततपसं
पुरुषं प्रत्यपद्यत ॥ ह्व्_२।३ ॥
विश्वास-प्रस्तुतिः
स वै स्वायम्भुवस् तात
पुरुषो मनुर् उच्यते ।
तस्यैकसप्ततियुगं
मन्वन्तरम् इहोच्यते ॥ ह्व्_२।४ ॥
मूलम्
स वै स्वायम्भुवस् तात
पुरुषो मनुर् उच्यते ।
तस्यैकसप्ततियुगं
मन्वन्तरम् इहोच्यते ॥ ह्व्_२।४ ॥
विश्वास-प्रस्तुतिः
वैराजात् पुरुषाद् वीरं
शतरूपा व्यजात ।
प्रियव्रतोत्तानपादौ
वीरात् काम्या व्यजायत ॥ ह्व्_२।५ ॥
मूलम्
वैराजात् पुरुषाद् वीरं
शतरूपा व्यजात ।
प्रियव्रतोत्तानपादौ
वीरात् काम्या व्यजायत ॥ ह्व्_२।५ ॥
विश्वास-प्रस्तुतिः
काम्या नाम महाबाहो
कर्दमस्य प्रजापतेः ।
([क्: after ६अब्, त्१।२।४,ग् ins.: :क्])
सुता सुतपसा युक्ता
महती लोकधारिणी । ह्व्_२।६अब्३७ ।
काम्यापुत्राश् च चत्वारः
सम्राट् कुक्षिर् विराट् प्रभुः ॥ ह्व्_२।६ ॥
मूलम्
काम्या नाम महाबाहो
कर्दमस्य प्रजापतेः ।
([क्: after ६अब्, त्१।२।४,ग् ins.: :क्])
सुता सुतपसा युक्ता
महती लोकधारिणी । ह्व्_२।६अब्३७ ।
काम्यापुत्राश् च चत्वारः
सम्राट् कुक्षिर् विराट् प्रभुः ॥ ह्व्_२।६ ॥
विश्वास-प्रस्तुतिः
([क्: क्२-४,Ñ२।३,व्,ब्१।२,द्(द्३ मर्ग्।),त्३।४ ins., after ६; ब्३ after ६अब्: :क्])
प्रियव्रतं समासाद्य
पतिं साजनयत् सुतान् । ह्व्_२।६३८ ।
उत्तानपादं जग्राह
पुत्रम् अत्रिः प्रजापतिः ।
उत्तानपादाच् चतुरः
सूनृता सुषुवे सुतान् ॥ ह्व्_२।७ ॥
मूलम्
([क्: क्२-४,Ñ२।३,व्,ब्१।२,द्(द्३ मर्ग्।),त्३।४ ins., after ६; ब्३ after ६अब्: :क्])
प्रियव्रतं समासाद्य
पतिं साजनयत् सुतान् । ह्व्_२।६३८ ।
उत्तानपादं जग्राह
पुत्रम् अत्रिः प्रजापतिः ।
उत्तानपादाच् चतुरः
सूनृता सुषुवे सुतान् ॥ ह्व्_२।७ ॥
विश्वास-प्रस्तुतिः
धर्मस्य कन्या सुश्रोणी
सूनृता नाम विश्रुता ।
उत्पन्ना वाचि धर्मेण
ध्रुवस्य जननी शुभा ॥ ह्व्_२।८ ॥
मूलम्
धर्मस्य कन्या सुश्रोणी
सूनृता नाम विश्रुता ।
उत्पन्ना वाचि धर्मेण
ध्रुवस्य जननी शुभा ॥ ह्व्_२।८ ॥
विश्वास-प्रस्तुतिः
ध्रुवं च कीर्तिमन्तं चाप्य्
अयस्मन्तम् अयस्पतिम् ।
उत्तानपादो ऽजनयत्
सूनृतायां प्रजापतिः ॥ ह्व्_२।९ ॥
मूलम्
ध्रुवं च कीर्तिमन्तं चाप्य्
अयस्मन्तम् अयस्पतिम् ।
उत्तानपादो ऽजनयत्
सूनृतायां प्रजापतिः ॥ ह्व्_२।९ ॥
विश्वास-प्रस्तुतिः
ध्रुवो वर्षसहस्राणि
त्रीणि दिव्यानि भारत ।
तपस् तेपे महाराज
प्रार्थयन् सुमहद् यशः ॥ ह्व्_२।१० ॥
मूलम्
ध्रुवो वर्षसहस्राणि
त्रीणि दिव्यानि भारत ।
तपस् तेपे महाराज
प्रार्थयन् सुमहद् यशः ॥ ह्व्_२।१० ॥
विश्वास-प्रस्तुतिः
तस्मै ब्रह्मा ददौ प्रीतः
स्थानम् आत्मसमं प्रभुः ।
अचलम् चैव पुरतः
सप्तर्षीणां प्रजापतिः ॥ ह्व्_२।११ ॥
मूलम्
तस्मै ब्रह्मा ददौ प्रीतः
स्थानम् आत्मसमं प्रभुः ।
अचलम् चैव पुरतः
सप्तर्षीणां प्रजापतिः ॥ ह्व्_२।११ ॥
विश्वास-प्रस्तुतिः
तस्याभिमानम् ऋद्धिं च
महिमानं निरीक्ष्य च ।
देवासुराणाम् आचार्यः
श्लोकम् अप्य् उशना जगौ ॥ ह्व्_२।१२ ॥
मूलम्
तस्याभिमानम् ऋद्धिं च
महिमानं निरीक्ष्य च ।
देवासुराणाम् आचार्यः
श्लोकम् अप्य् उशना जगौ ॥ ह्व्_२।१२ ॥
विश्वास-प्रस्तुतिः
अहो यस्य तपसो वीर्यम्
अहो श्रुतम् अहो व्रतम् ।
यम् अद्य पुरतः कृत्वा
ध्रुवं सप्तर्षयः स्थिताः ॥ ह्व्_२।१३ ॥
मूलम्
अहो यस्य तपसो वीर्यम्
अहो श्रुतम् अहो व्रतम् ।
यम् अद्य पुरतः कृत्वा
ध्रुवं सप्तर्षयः स्थिताः ॥ ह्व्_२।१३ ॥
विश्वास-प्रस्तुतिः
तस्माच् छ्लिष्टं च मान्यं च
ध्रुवाच् छम्बुर् व्यजायत ।
श्लिष्टेर् आधत्त सुच्छाया
पञ्च पुत्रान् अकल्मषान् ॥
मूलम्
तस्माच् छ्लिष्टं च मान्यं च
ध्रुवाच् छम्बुर् व्यजायत ।
श्लिष्टेर् आधत्त सुच्छाया
पञ्च पुत्रान् अकल्मषान् ॥
विश्वास-प्रस्तुतिः
([क्: क्२,द्२ ins. after १४cd; क्३,द्१ after १४: :क्])
प्राचीनगर्भं वृकतिं
वृकलं वृकतेजसम् । ह्व्_२।१४cd३९:१ ।
पत्नी प्राचीनगर्भस्य
सूनृता सुषुवे नृप । ह्व्_२।१४cd३९:२ ।
नाम्नोदारधियं पुत्रम्
इन्द्रो यः पूर्वजन्मनि ॥ ह्व्_२।१४cd३९:३ ।
मूलम्
([क्: क्२,द्२ ins. after १४cd; क्३,द्१ after १४: :क्])
प्राचीनगर्भं वृकतिं
वृकलं वृकतेजसम् । ह्व्_२।१४cd३९:१ ।
पत्नी प्राचीनगर्भस्य
सूनृता सुषुवे नृप । ह्व्_२।१४cd३९:२ ।
नाम्नोदारधियं पुत्रम्
इन्द्रो यः पूर्वजन्मनि ॥ ह्व्_२।१४cd३९:३ ।
विश्वास-प्रस्तुतिः
उदारधीः सुतं भद्रा+
+जनयद् वै दिवञ्जयम् । ह्व्_२।१४cd३९:४ ।
रिपुं रिपुञ्जयं जज्ञे
वराङ्गी सा दिवञ्जयात् । ह्व्_२।१४cd३९:५ ।
रिपुं रिपुञ्जयं विप्रं
वृकलम् वृकतेजसम् ॥ ह्व्_२।१४ ॥
मूलम्
उदारधीः सुतं भद्रा+
+जनयद् वै दिवञ्जयम् । ह्व्_२।१४cd३९:४ ।
रिपुं रिपुञ्जयं जज्ञे
वराङ्गी सा दिवञ्जयात् । ह्व्_२।१४cd३९:५ ।
रिपुं रिपुञ्जयं विप्रं
वृकलम् वृकतेजसम् ॥ ह्व्_२।१४ ॥
विश्वास-प्रस्तुतिः
रिपोर् आधत्त बृहती
चाक्षुषम् सर्वतेजसम् ।
अजीजनत् पुष्करिण्यां
वैरण्यां चाक्षुषो मनुम् ॥ ह्व्_२।१५ ॥
मूलम्
रिपोर् आधत्त बृहती
चाक्षुषम् सर्वतेजसम् ।
अजीजनत् पुष्करिण्यां
वैरण्यां चाक्षुषो मनुम् ॥ ह्व्_२।१५ ॥
विश्वास-प्रस्तुतिः
प्रजापतेर् आत्मजायां
वीरणस्य महात्मनः ।
मनोर् अजायन्त दश
नड्वलायां महौजसः ॥
मूलम्
प्रजापतेर् आत्मजायां
वीरणस्य महात्मनः ।
मनोर् अजायन्त दश
नड्वलायां महौजसः ॥
विश्वास-प्रस्तुतिः
कन्यायां भरतश्रेष्ठ
वैराजस्य प्रजापतेः ॥ ह्व्_२।१६ ॥
मूलम्
कन्यायां भरतश्रेष्ठ
वैराजस्य प्रजापतेः ॥ ह्व्_२।१६ ॥
विश्वास-प्रस्तुतिः
ऊरुः पूरुः शतद्युम्नस्
तपस्वी सत्यवित् कविः ।
अग्निष्टुद् अतिरात्रश् च
सुद्युम्नश् चेति तेनव ॥
मूलम्
ऊरुः पूरुः शतद्युम्नस्
तपस्वी सत्यवित् कविः ।
अग्निष्टुद् अतिरात्रश् च
सुद्युम्नश् चेति तेनव ॥
विश्वास-प्रस्तुतिः
अभिमन्युश् च दशमो
नड्वलायां महौजसः ॥ ह्व्_२।१७ ॥
मूलम्
अभिमन्युश् च दशमो
नड्वलायां महौजसः ॥ ह्व्_२।१७ ॥
विश्वास-प्रस्तुतिः
ऊरोर्ऽजनयत् पुत्रान्
षडाग्नेयी महाप्रभान् ।
अङ्गं सुमनसं स्वातिं
क्रतुम् आङ्गिरसं शिवम् ॥ ह्व्_२।१८ ॥
मूलम्
ऊरोर्ऽजनयत् पुत्रान्
षडाग्नेयी महाप्रभान् ।
अङ्गं सुमनसं स्वातिं
क्रतुम् आङ्गिरसं शिवम् ॥ ह्व्_२।१८ ॥
विश्वास-प्रस्तुतिः
अङ्गात् सुनीथापत्यं वै
वेनम् एकं व्यजायत ।
अपचारेण वेनस्य
प्रकोपः सुमहान् अभूत् ॥ ह्व्_२।१९ ॥
मूलम्
अङ्गात् सुनीथापत्यं वै
वेनम् एकं व्यजायत ।
अपचारेण वेनस्य
प्रकोपः सुमहान् अभूत् ॥ ह्व्_२।१९ ॥
विश्वास-प्रस्तुतिः
प्रजार्थम् ऋषयो ऽथास्य
ममन्थुर् दक्षिणं करम् ।
वेनस्य पाणौ मथिते
सम्बभूव महान् ऋषिः ॥ ह्व्_२।२० ॥
मूलम्
प्रजार्थम् ऋषयो ऽथास्य
ममन्थुर् दक्षिणं करम् ।
वेनस्य पाणौ मथिते
सम्बभूव महान् ऋषिः ॥ ह्व्_२।२० ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा मुनयः प्राहुर्
एष वै मुदिताः प्रजाः ।
करिष्यति महातेजा
यशश् च प्राप्स्यते महत् ॥ ह्व्_२।२१ ॥
मूलम्
तं दृष्ट्वा मुनयः प्राहुर्
एष वै मुदिताः प्रजाः ।
करिष्यति महातेजा
यशश् च प्राप्स्यते महत् ॥ ह्व्_२।२१ ॥
विश्वास-प्रस्तुतिः
स धन्वी कवची जातस्
तेजसा निर्दहन्न् इव ।
([क्: द्६ त्१।२ ग् ins. after the repetition of २२अ; त्४ after २२अ: :क्])
बद्धगोधाङ्गुलित्रवान् । ह्व्_२।२२अ४०:१ ।*
प्रजारक्षाकृतोत्साहः । ह्व्_२।२२अ४०:२ ।*
पृथुर् वैन्यस् तदा चेमां
ररक्ष क्षत्रपूर्वजः ॥ ह्व्_२।२२ ॥
मूलम्
स धन्वी कवची जातस्
तेजसा निर्दहन्न् इव ।
([क्: द्६ त्१।२ ग् ins. after the repetition of २२अ; त्४ after २२अ: :क्])
बद्धगोधाङ्गुलित्रवान् । ह्व्_२।२२अ४०:१ ।*
प्रजारक्षाकृतोत्साहः । ह्व्_२।२२अ४०:२ ।*
पृथुर् वैन्यस् तदा चेमां
ररक्ष क्षत्रपूर्वजः ॥ ह्व्_२।२२ ॥
विश्वास-प्रस्तुतिः
राजसूयाभिषिक्तानाम्
आद्यः स वसुधाधिपः ।
तस्माच् चैव समुत्पन्नौ
निपुणौ सूतम् अगधौ ॥ ह्व्_२।२३ ॥
मूलम्
राजसूयाभिषिक्तानाम्
आद्यः स वसुधाधिपः ।
तस्माच् चैव समुत्पन्नौ
निपुणौ सूतम् अगधौ ॥ ह्व्_२।२३ ॥
विश्वास-प्रस्तुतिः
तेनेयं गौर् महाराज
दुग्धा सस्यानि भारत ।
प्रजानां वृत्तिकामेन
देवैः सर्षिगणैः सह ॥ ह्व्_२।२४ ॥
मूलम्
तेनेयं गौर् महाराज
दुग्धा सस्यानि भारत ।
प्रजानां वृत्तिकामेन
देवैः सर्षिगणैः सह ॥ ह्व्_२।२४ ॥
विश्वास-प्रस्तुतिः
सर्पैः पुण्यजनैश् चैव
वीरुद्भिः पर्वतैस् तथा ॥ ह्व्_२।२५ ॥
मूलम्
सर्पैः पुण्यजनैश् चैव
वीरुद्भिः पर्वतैस् तथा ॥ ह्व्_२।२५ ॥
विश्वास-प्रस्तुतिः
तेषु तेषु च पात्रेषु
दुह्यमाना वसुन्धरा ।
प्रादाद् यथेप्सितं क्षीरं
तेन प्राणान् अधार्यन् ॥ ह्व्_२।२६ ॥
मूलम्
तेषु तेषु च पात्रेषु
दुह्यमाना वसुन्धरा ।
प्रादाद् यथेप्सितं क्षीरं
तेन प्राणान् अधार्यन् ॥ ह्व्_२।२६ ॥
विश्वास-प्रस्तुतिः
पृथुपुत्रौ तु धर्मज्ञौ
जज्ञाते ऽन्तर्धिपालिनौ ।
शिखण्डिनी हविर्धानम्
अन्तर्धानाद् व्याजायत ॥ ह्व्_२।२७ ॥
मूलम्
पृथुपुत्रौ तु धर्मज्ञौ
जज्ञाते ऽन्तर्धिपालिनौ ।
शिखण्डिनी हविर्धानम्
अन्तर्धानाद् व्याजायत ॥ ह्व्_२।२७ ॥
विश्वास-प्रस्तुतिः
हविर्धानात् षडाग्नेयी
धिषणाजनयत् सुतान् ।
प्राचीनबर्हिषं शुक्रम्
गयं कृष्णं व्रजाजिनौ ॥ ह्व्_२।२८ ॥
मूलम्
हविर्धानात् षडाग्नेयी
धिषणाजनयत् सुतान् ।
प्राचीनबर्हिषं शुक्रम्
गयं कृष्णं व्रजाजिनौ ॥ ह्व्_२।२८ ॥
विश्वास-प्रस्तुतिः
प्राचीनबर्हिर् भगवान्
महान् आसीत् प्रजापतिः ।
हविर्धानान् महाराज
येन संवर्धिताः प्रजाः ॥ ह्व्_२।२९ ॥
मूलम्
प्राचीनबर्हिर् भगवान्
महान् आसीत् प्रजापतिः ।
हविर्धानान् महाराज
येन संवर्धिताः प्रजाः ॥ ह्व्_२।२९ ॥
विश्वास-प्रस्तुतिः
प्राचीनाग्राः कुशास् तस्य
पृथिव्यां जनमेजय ।
प्राचीनबर्हेर् अभवन्
पृथिवीतलचारिणः ॥ ह्व्_२।३० ॥
मूलम्
प्राचीनाग्राः कुशास् तस्य
पृथिव्यां जनमेजय ।
प्राचीनबर्हेर् अभवन्
पृथिवीतलचारिणः ॥ ह्व्_२।३० ॥
विश्वास-प्रस्तुतिः
समुद्रतनयायां तु
कृतदारो ऽभवत् प्रभुः ।
महतस् तपसः पारे
सवर्णायां महीपतिः ॥ ह्व्_२।३१ ॥
मूलम्
समुद्रतनयायां तु
कृतदारो ऽभवत् प्रभुः ।
महतस् तपसः पारे
सवर्णायां महीपतिः ॥ ह्व्_२।३१ ॥
विश्वास-प्रस्तुतिः
सवर्णाधत्त सामुद्री
दश प्राचीनबर्हिषः ।
([क्: after ३२अब्, त्१।२ ग्१।३।४ ins.: :क्])
पुत्रान् वै जनयाम् आस
सर्वलोकाभिपूजितान् । ह्व्_२।३२अब्४१ ।
सर्वे प्रचेतस नाम
धनुर्वेदस्य पारगाः ॥ ह्व्_२।३२ ॥
मूलम्
सवर्णाधत्त सामुद्री
दश प्राचीनबर्हिषः ।
([क्: after ३२अब्, त्१।२ ग्१।३।४ ins.: :क्])
पुत्रान् वै जनयाम् आस
सर्वलोकाभिपूजितान् । ह्व्_२।३२अब्४१ ।
सर्वे प्रचेतस नाम
धनुर्वेदस्य पारगाः ॥ ह्व्_२।३२ ॥
विश्वास-प्रस्तुतिः
अपृथग्धर्मचरणास्
ते ऽतप्यन्त महत् तपः ।
दश वर्षसहस्राणि
समुद्रसलिलेशयाः ॥ ह्व्_२।३३ ॥
मूलम्
अपृथग्धर्मचरणास्
ते ऽतप्यन्त महत् तपः ।
दश वर्षसहस्राणि
समुद्रसलिलेशयाः ॥ ह्व्_२।३३ ॥
विश्वास-प्रस्तुतिः
तपश् चरत्सु पृथिवीं
प्रचेतःसु महीरुहः ।
अरक्ष्यमाणाम् आवव्रुर्
बभूवाथ प्रजाक्षयः ॥ ह्व्_२।३४ ॥
मूलम्
तपश् चरत्सु पृथिवीं
प्रचेतःसु महीरुहः ।
अरक्ष्यमाणाम् आवव्रुर्
बभूवाथ प्रजाक्षयः ॥ ह्व्_२।३४ ॥
विश्वास-प्रस्तुतिः
([क्: after ३४, Ñ२ व् ब्२ द्स् द्३-५ ins.: :क्])
प्रत्याहृताः प्रजाः सर्वाश्
चाक्षुषस्यान्तरे मनोः । ह्व्_२।३४४२ ।
नाशकन् मारुतो वातुं
वृतं खम् अभवद् द्रुमैः ।
दश वर्षसहस्राणि
न शेकुश् चेष्टितुं प्रजाः ॥ ह्व्_२।३५ ॥
मूलम्
([क्: after ३४, Ñ२ व् ब्२ द्स् द्३-५ ins.: :क्])
प्रत्याहृताः प्रजाः सर्वाश्
चाक्षुषस्यान्तरे मनोः । ह्व्_२।३४४२ ।
नाशकन् मारुतो वातुं
वृतं खम् अभवद् द्रुमैः ।
दश वर्षसहस्राणि
न शेकुश् चेष्टितुं प्रजाः ॥ ह्व्_२।३५ ॥
विश्वास-प्रस्तुतिः
तद् उपश्रुत्य तपसा
युक्ताः सर्वे प्रचेतसः ।
([क्: फ़ोर् ३६अब्, Ñ१ सुब्स्त्।: :क्])
प्राचेतसम् उपस्तव्य
तपसः सर्वपर्वतैः । ह्व्_२।३६अब्४३ ।
मुखेभ्यो वायुम् अग्निं च
ते ऽसृजञ् जातमन्यवः ॥ ह्व्_२।३६ ॥
मूलम्
तद् उपश्रुत्य तपसा
युक्ताः सर्वे प्रचेतसः ।
([क्: फ़ोर् ३६अब्, Ñ१ सुब्स्त्।: :क्])
प्राचेतसम् उपस्तव्य
तपसः सर्वपर्वतैः । ह्व्_२।३६अब्४३ ।
मुखेभ्यो वायुम् अग्निं च
ते ऽसृजञ् जातमन्यवः ॥ ह्व्_२।३६ ॥
विश्वास-प्रस्तुतिः
उन्मूलान् अथ वृक्षांस् तान्
कृत्वा वायुर् अशोषयत् ।
तान् अग्निर् अदहद् घोर
एवम् आसीद् द्रुमक्षयः ॥ ह्व्_२।३७ ॥
मूलम्
उन्मूलान् अथ वृक्षांस् तान्
कृत्वा वायुर् अशोषयत् ।
तान् अग्निर् अदहद् घोर
एवम् आसीद् द्रुमक्षयः ॥ ह्व्_२।३७ ॥
विश्वास-प्रस्तुतिः
द्रुमक्षयम् अथो बुद्ध्वा
किञ्चिच् छिष्टेषु शाखिषु ।
उपगम्याब्रवीद् एतान्
राजा सोमः प्रतापवान् ॥ ह्व्_२।३८ ॥
मूलम्
द्रुमक्षयम् अथो बुद्ध्वा
किञ्चिच् छिष्टेषु शाखिषु ।
उपगम्याब्रवीद् एतान्
राजा सोमः प्रतापवान् ॥ ह्व्_२।३८ ॥
विश्वास-प्रस्तुतिः
कोपं यच्छत राजानः
सर्वे प्राचीनबर्हिषः ।
वृक्षशून्या कृता पृथ्वी
शाम्येताम् अग्निमारुतौ ॥ ह्व्_२।३९ ॥
मूलम्
कोपं यच्छत राजानः
सर्वे प्राचीनबर्हिषः ।
वृक्षशून्या कृता पृथ्वी
शाम्येताम् अग्निमारुतौ ॥ ह्व्_२।३९ ॥
विश्वास-प्रस्तुतिः
रत्नभूता च कन्येयं
वृक्षाणां वरवर्णिनी ।
भविष्यं जानता तात
धृता गर्भेण वै मया ॥ ह्व्_२।४० ॥
मूलम्
रत्नभूता च कन्येयं
वृक्षाणां वरवर्णिनी ।
भविष्यं जानता तात
धृता गर्भेण वै मया ॥ ह्व्_२।४० ॥
विश्वास-प्रस्तुतिः
मारिषा नाम नाम्नैषा
वृक्षाणाम् इति निर्मिता ।
भार्या वो ऽस्तु महाभागा
सोमवंशविवर्धिनी ॥ ह्व्_२।४१ ॥
मूलम्
मारिषा नाम नाम्नैषा
वृक्षाणाम् इति निर्मिता ।
भार्या वो ऽस्तु महाभागा
सोमवंशविवर्धिनी ॥ ह्व्_२।४१ ॥
विश्वास-प्रस्तुतिः
([क्: “महाभागा” चोउल्द् बे अत्त्रिबुते of मारिषा (wइथोउत् विसर्ग) ओर् of the प्रचेतसः (wइथ् विसर्ग)। :क्])
युष्माकं तेजसो ऽर्धेन
मम चार्धेन तेजसः ।
अस्याम् उत्पत्स्यते विद्वान्
दक्षो नाम प्रजापतिः ॥ ह्व्_२।४२ ॥
मूलम्
([क्: “महाभागा” चोउल्द् बे अत्त्रिबुते of मारिषा (wइथोउत् विसर्ग) ओर् of the प्रचेतसः (wइथ् विसर्ग)। :क्])
युष्माकं तेजसो ऽर्धेन
मम चार्धेन तेजसः ।
अस्याम् उत्पत्स्यते विद्वान्
दक्षो नाम प्रजापतिः ॥ ह्व्_२।४२ ॥
विश्वास-प्रस्तुतिः
स इमां दग्धभूयिष्ठां
युष्मत्तेजोमयेन वै ।
अग्निनाग्निसमो भूयः
प्रजाः संवर्धयिष्यति ॥ ह्व्_२।४३ ॥
मूलम्
स इमां दग्धभूयिष्ठां
युष्मत्तेजोमयेन वै ।
अग्निनाग्निसमो भूयः
प्रजाः संवर्धयिष्यति ॥ ह्व्_२।४३ ॥
विश्वास-प्रस्तुतिः
ततः सोमस्य वचनाज्
जगृहुस् ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः
पत्नीं धर्मेण मारिषाम् ॥ ह्व्_२।४४ ॥
मूलम्
ततः सोमस्य वचनाज्
जगृहुस् ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः
पत्नीं धर्मेण मारिषाम् ॥ ह्व्_२।४४ ॥
विश्वास-प्रस्तुतिः
([क्: after ४४, न् (एxचेप्त् श्१ Ñ२ द्६) त्४ ग्२ ins.: :क्])
मारिषायां ततस् ते वै
मनसा गर्भम् आदधुः । ह्व्_२।४४४४ ।
दशभ्यस् तु प्रचेतोभ्यो
मारिषायां प्रजापतिः ।
दक्षो जज्ञे महातेजाः
सोमस्यांशेन भारत ॥ ह्व्_२।४५ ॥
मूलम्
([क्: after ४४, न् (एxचेप्त् श्१ Ñ२ द्६) त्४ ग्२ ins.: :क्])
मारिषायां ततस् ते वै
मनसा गर्भम् आदधुः । ह्व्_२।४४४४ ।
दशभ्यस् तु प्रचेतोभ्यो
मारिषायां प्रजापतिः ।
दक्षो जज्ञे महातेजाः
सोमस्यांशेन भारत ॥ ह्व्_२।४५ ॥
विश्वास-प्रस्तुतिः
पुत्रान् उत्पादयाम् आस
सोमवंशविवर्धनान् ।
अचरांश् च चरांश् चैव
द्विपदो ऽथ चतुष्पदः ॥ ह्व्_२।४६ ॥
मूलम्
पुत्रान् उत्पादयाम् आस
सोमवंशविवर्धनान् ।
अचरांश् च चरांश् चैव
द्विपदो ऽथ चतुष्पदः ॥ ह्व्_२।४६ ॥
विश्वास-प्रस्तुतिः
स सृष्ट्वा मनसा दक्षः
पल्श्चाद् असृजत स्त्रियः ।
([क्: after ४७अब्, व्२ ins.: :क्])
तदा प्रजाविवृद्ध्यर्थं
महातेजाः प्रजापतिः । ह्व्_२।४७अब्४५ ।
ददौ स दश दर्माय
कश्यपाय त्रयोदश ॥
मूलम्
स सृष्ट्वा मनसा दक्षः
पल्श्चाद् असृजत स्त्रियः ।
([क्: after ४७अब्, व्२ ins.: :क्])
तदा प्रजाविवृद्ध्यर्थं
महातेजाः प्रजापतिः । ह्व्_२।४७अब्४५ ।
ददौ स दश दर्माय
कश्यपाय त्रयोदश ॥
विश्वास-प्रस्तुतिः
शिष्टाः सोमाय राज्ञे तु
नक्षत्राख्या ददौ प्रभुः ॥ ह्व्_२।४७ ॥
मूलम्
शिष्टाः सोमाय राज्ञे तु
नक्षत्राख्या ददौ प्रभुः ॥ ह्व्_२।४७ ॥
विश्वास-प्रस्तुतिः
तासु देवा खगा गावो
नागा दितिजदानवाः ।
गन्धर्वाप्सरसश् चैव
जज्ञिरे ऽन्याश् च जातयः ॥ ह्व्_२।४८ ॥
मूलम्
तासु देवा खगा गावो
नागा दितिजदानवाः ।
गन्धर्वाप्सरसश् चैव
जज्ञिरे ऽन्याश् च जातयः ॥ ह्व्_२।४८ ॥
विश्वास-प्रस्तुतिः
ततःप्रभृति राजेन्द्र
प्रजा मैथुनसम्भवाः ।
सङ्कल्पाद् दर्शनात् स्पर्शात्
पूर्वेषां सृष्टिर् उच्यते ॥ ह्व्_२।४९ ॥
मूलम्
ततःप्रभृति राजेन्द्र
प्रजा मैथुनसम्भवाः ।
सङ्कल्पाद् दर्शनात् स्पर्शात्
पूर्वेषां सृष्टिर् उच्यते ॥ ह्व्_२।४९ ॥
विश्वास-प्रस्तुतिः
{जनमेजय उवाच}
देवानां दानवानां च
गन्धर्वोरगरक्षसाम् ।
सम्भवः कथितः पूर्वं
दक्षस्य च महात्मनः ॥ ह्व्_२।५० ॥
मूलम्
{जनमेजय उवाच}
देवानां दानवानां च
गन्धर्वोरगरक्षसाम् ।
सम्भवः कथितः पूर्वं
दक्षस्य च महात्मनः ॥ ह्व्_२।५० ॥
विश्वास-प्रस्तुतिः
अङ्गुष्ठाद् ब्रह्मणो जातो
दक्षश् चोक्तस् त्वयानघ ।
([क्: after ५१अब्, न् (एxचेप्त् श्१ Ñ१) त्२।४ ग् म्४ ins.: :क्])
वामाङ्गुष्ठात् तथा चैव
तस्य पत्नी व्यजायत । ह्व्_२।५१अब्४६ ।
कथं प्राचेतसत्वं स
पुनर् लेभे महातपाः ॥ ह्व्_२।५१ ॥
मूलम्
अङ्गुष्ठाद् ब्रह्मणो जातो
दक्षश् चोक्तस् त्वयानघ ।
([क्: after ५१अब्, न् (एxचेप्त् श्१ Ñ१) त्२।४ ग् म्४ ins.: :क्])
वामाङ्गुष्ठात् तथा चैव
तस्य पत्नी व्यजायत । ह्व्_२।५१अब्४६ ।
कथं प्राचेतसत्वं स
पुनर् लेभे महातपाः ॥ ह्व्_२।५१ ॥
विश्वास-प्रस्तुतिः
एतं मे संशयं विप्र
व्याख्यातुं त्वम् इहार्हसि ।
दौहित्रश् चैव सोमस्य
कथं श्वशुरतां गतः ॥ ह्व्_२।५२ ॥
मूलम्
एतं मे संशयं विप्र
व्याख्यातुं त्वम् इहार्हसि ।
दौहित्रश् चैव सोमस्य
कथं श्वशुरतां गतः ॥ ह्व्_२।५२ ॥
विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
उत्पत्तिश् च निरोधश् च
नित्यौ भूतेषु भारत ।
ऋषयो ऽत्र न मुह्यन्ति
विद्यावन्तश् च ये जनाः ॥ ह्व्_२।५३ ॥
मूलम्
{वैशम्पायन उवाच}
उत्पत्तिश् च निरोधश् च
नित्यौ भूतेषु भारत ।
ऋषयो ऽत्र न मुह्यन्ति
विद्यावन्तश् च ये जनाः ॥ ह्व्_२।५३ ॥
विश्वास-प्रस्तुतिः
युगे युगे भवन्त्य् एते
सर्वे दक्षादयो नृप ।
पुनश् चैव निरुध्यन्ते
विद्वांस् तत्र न मुह्यति ॥ ह्व्_२।५४ ॥
मूलम्
युगे युगे भवन्त्य् एते
सर्वे दक्षादयो नृप ।
पुनश् चैव निरुध्यन्ते
विद्वांस् तत्र न मुह्यति ॥ ह्व्_२।५४ ॥
विश्वास-प्रस्तुतिः
ज्यैष्ठ्यं कानिष्ठ्यम् अप्य् एषां
पूर्वं नासीज् जनाधिप ।
तप एव गरीयो ऽभूत्
प्रभावश् चैव कारणम् ॥ ह्व्_२।५५ ॥
मूलम्
ज्यैष्ठ्यं कानिष्ठ्यम् अप्य् एषां
पूर्वं नासीज् जनाधिप ।
तप एव गरीयो ऽभूत्
प्रभावश् चैव कारणम् ॥ ह्व्_२।५५ ॥
विश्वास-प्रस्तुतिः
इमां हि सृष्टिं दक्षस्य
यो विद्यात् सचराचरम् ।
प्रजावान् आयुर् उत्तीर्णः
स्वर्गलोके महीयते ॥ ह्व्_२।५६ ॥
मूलम्
इमां हि सृष्टिं दक्षस्य
यो विद्यात् सचराचरम् ।
प्रजावान् आयुर् उत्तीर्णः
स्वर्गलोके महीयते ॥ ह्व्_२।५६ ॥