००१

विश्वास-प्रस्तुतिः

{शौनक उवाच}
सौते सुमहदाख्यानं
भवता परिकीर्तितम् ।
भारतानां च सर्वेषां
पार्थिवानां तथैव च ॥ ह्व्_१।१ ॥

मूलम्

{शौनक उवाच}
सौते सुमहदाख्यानं
भवता परिकीर्तितम् ।
भारतानां च सर्वेषां
पार्थिवानां तथैव च ॥ ह्व्_१।१ ॥

विश्वास-प्रस्तुतिः

देवानां दानवानां च
गन्धर्वोरगरक्षसाम् ।
दैत्यानाम् अथ सिद्धानां
गुह्यकानां तथैव च ॥ ह्व्_१।२ ॥

मूलम्

देवानां दानवानां च
गन्धर्वोरगरक्षसाम् ।
दैत्यानाम् अथ सिद्धानां
गुह्यकानां तथैव च ॥ ह्व्_१।२ ॥

विश्वास-प्रस्तुतिः

अत्यद्भुतानि कर्माणि
विक्रमा धर्मनिश्चयाः ।
विचित्राश् च कथायोगा
जन्म चाग्र्यम् अनुत्तमम् ॥ ह्व्_१।३ ॥

मूलम्

अत्यद्भुतानि कर्माणि
विक्रमा धर्मनिश्चयाः ।
विचित्राश् च कथायोगा
जन्म चाग्र्यम् अनुत्तमम् ॥ ह्व्_१।३ ॥

विश्वास-प्रस्तुतिः

कथितं भवता पुण्यं
पुराणं श्लक्ष्णया गिरा ।
मनःकर्णसुखं तन् मां
प्रीणात्य् अमृतसम्मितम् ॥ ह्व्_१।४ ॥

मूलम्

कथितं भवता पुण्यं
पुराणं श्लक्ष्णया गिरा ।
मनःकर्णसुखं तन् मां
प्रीणात्य् अमृतसम्मितम् ॥ ह्व्_१।४ ॥

विश्वास-प्रस्तुतिः

तत्र जन्म कुरूणां वै
त्वयोक्तं लोमहर्षिणे ।
न तु वृष्ण्यन्धकानां वै
तद् भवान् प्रब्रवीतु मे ॥ ह्व्_१।५ ॥

मूलम्

तत्र जन्म कुरूणां वै
त्वयोक्तं लोमहर्षिणे ।
न तु वृष्ण्यन्धकानां वै
तद् भवान् प्रब्रवीतु मे ॥ ह्व्_१।५ ॥

विश्वास-प्रस्तुतिः

{सूत उवाच}
जनमेजयेन यत् पृष्टः
शिष्यो व्यासस्य धीमतः ।
([क्: द्६ त् ग् म्१-३ ins.: :क्])
धर्मवित् कथयाम् आस
कुलं तेषां सविस्तरम् । ह्व्_१।६२३ ।
तत् ते ऽहं सम्प्रवक्ष्यामि
वृष्णीनां वंशम् आदितः ॥ ह्व्_१।६ ॥

मूलम्

{सूत उवाच}
जनमेजयेन यत् पृष्टः
शिष्यो व्यासस्य धीमतः ।
([क्: द्६ त् ग् म्१-३ ins.: :क्])
धर्मवित् कथयाम् आस
कुलं तेषां सविस्तरम् । ह्व्_१।६२३ ।
तत् ते ऽहं सम्प्रवक्ष्यामि
वृष्णीनां वंशम् आदितः ॥ ह्व्_१।६ ॥

विश्वास-प्रस्तुतिः

श्रुत्वेतिहासं कार्त्स्न्येन
भरतानां स भारतः ।
जनमेजयो महाप्राज्ञो
वैशम्पायनम् अब्रवीत् ॥ ह्व्_१।७ ॥

मूलम्

श्रुत्वेतिहासं कार्त्स्न्येन
भरतानां स भारतः ।
जनमेजयो महाप्राज्ञो
वैशम्पायनम् अब्रवीत् ॥ ह्व्_१।७ ॥

विश्वास-प्रस्तुतिः

महाभारतम् आख्यानं
बह्वर्थं बहुविस्तरम् ।
कथितं भवता विप्र
विस्तरेण मया श्रुतम् ॥ ह्व्_१।८ ॥

मूलम्

महाभारतम् आख्यानं
बह्वर्थं बहुविस्तरम् ।
कथितं भवता विप्र
विस्तरेण मया श्रुतम् ॥ ह्व्_१।८ ॥

विश्वास-प्रस्तुतिः

तत्र शूराः समाख्याता
बहवः पुरुषर्षभाः ।
नामभिः कर्मभिश् चैव
वृष्ण्यन्धकमहारथाः ॥ ह्व्_१।९ ॥

मूलम्

तत्र शूराः समाख्याता
बहवः पुरुषर्षभाः ।
नामभिः कर्मभिश् चैव
वृष्ण्यन्धकमहारथाः ॥ ह्व्_१।९ ॥

विश्वास-प्रस्तुतिः

तेषां कर्मावदातानि
त्वयोक्तानि द्विजोत्तम ।
तत्र तत्र समासेन
विस्तरेणैव चाभिभो ॥ ह्व्_१।१० ॥

मूलम्

तेषां कर्मावदातानि
त्वयोक्तानि द्विजोत्तम ।
तत्र तत्र समासेन
विस्तरेणैव चाभिभो ॥ ह्व्_१।१० ॥

विश्वास-प्रस्तुतिः

न च मे तृप्तिर् अस्तीह
कीर्त्यमाने पुरातने ।
एकश् च मे मतो राशिर्
वृष्णयः पाण्डवास् तथा ॥ ह्व्_१।११ ॥

मूलम्

न च मे तृप्तिर् अस्तीह
कीर्त्यमाने पुरातने ।
एकश् च मे मतो राशिर्
वृष्णयः पाण्डवास् तथा ॥ ह्व्_१।११ ॥

विश्वास-प्रस्तुतिः

भवांश् च वंशकुशलस्
तेषां प्रत्यक्षदर्शिवान् ।
कथयस्व कुलं तेषां
विस्तरेण तपोधन ॥ ह्व्_१।१२ ॥

मूलम्

भवांश् च वंशकुशलस्
तेषां प्रत्यक्षदर्शिवान् ।
कथयस्व कुलं तेषां
विस्तरेण तपोधन ॥ ह्व्_१।१२ ॥

विश्वास-प्रस्तुतिः

यस्य यस्यान्वये ये ये
तांस् तान् इच्छामि वेदितुम् ।
([क्: श्१ ins.: :क्])
पूर्वं कथा समाख्याता
विचित्रा च महीपते । ह्व्_१।१३२४ ।
तेषां पूर्वविसृष्टिं च
विचित्राम् आ प्रजापतेः ॥ ह्व्_१।१३ ॥

मूलम्

यस्य यस्यान्वये ये ये
तांस् तान् इच्छामि वेदितुम् ।
([क्: श्१ ins.: :क्])
पूर्वं कथा समाख्याता
विचित्रा च महीपते । ह्व्_१।१३२४ ।
तेषां पूर्वविसृष्टिं च
विचित्राम् आ प्रजापतेः ॥ ह्व्_१।१३ ॥

([क्: द्५ ins.: :क्]) सर्वम् एतद् अशेषेण कथयस्व द्विजोत्तम । *ह्व्_१।१३*२५ ।

([क्: द्२।५ चोन्त्।: :क्])
येन वै शृण्वतां पुंसाम्
अपुत्रत्वं प्रणश्यति । ह्व्_१।१३२६ ।

([क्: त्४ चोन्त्। after *२५, त्२।३ ग्१ ins. after १२, द्२ ग्४ ins. after १३: :क्])
एवं सञ्चोदितो राजा
व्यासशिष्यो महामुने । ह्व्_१।१३२७ ।

विश्वास-प्रस्तुतिः

{सूत उवाच}
सत्कृत्य परिपृष्टस् तु
स महात्मा महातपाः ।
विस्तरेणानुपूर्व्या च
कथयाम् आस तां कथाम् ॥ ह्व्_१।१४ ॥

मूलम्

{सूत उवाच}
सत्कृत्य परिपृष्टस् तु
स महात्मा महातपाः ।
विस्तरेणानुपूर्व्या च
कथयाम् आस तां कथाम् ॥ ह्व्_१।१४ ॥

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
शृणु राजन् कथां दिव्यां
पुण्यां पापप्रणाशिनीम् ।
कथ्यमानां मया चित्रां
बह्वर्थां श्रुतिसम्मिताम् ॥ ह्व्_१।१५ ॥

मूलम्

{वैशम्पायन उवाच}
शृणु राजन् कथां दिव्यां
पुण्यां पापप्रणाशिनीम् ।
कथ्यमानां मया चित्रां
बह्वर्थां श्रुतिसम्मिताम् ॥ ह्व्_१।१५ ॥

विश्वास-प्रस्तुतिः

यश् चैनां धारयेत् तात
शृणुयाद् वाप्य् अभीक्ष्णशः ।
([क्: द्६ त्१।२ ग् म्४ ins.: :क्])
यश् चैनां धारयेद् विप्रः
श्रावयेद् वा महात्मनाम् । ह्व्_१।२६२८ ।
स्ववंशधारणं कृत्वा
स्वर्गलोके महीयते ॥ ह्व्_१।१६ ॥

मूलम्

यश् चैनां धारयेत् तात
शृणुयाद् वाप्य् अभीक्ष्णशः ।
([क्: द्६ त्१।२ ग् म्४ ins.: :क्])
यश् चैनां धारयेद् विप्रः
श्रावयेद् वा महात्मनाम् । ह्व्_१।२६२८ ।
स्ववंशधारणं कृत्वा
स्वर्गलोके महीयते ॥ ह्व्_१।१६ ॥

विश्वास-प्रस्तुतिः

अव्यक्तं कारणं यत् तन्
नित्यं सदसदात्मकम् ।
प्रधानं पुरुषं तस्मान्
निर्ममे विश्वम् ईश्वरः ॥ ह्व्_१।१७ ॥

मूलम्

अव्यक्तं कारणं यत् तन्
नित्यं सदसदात्मकम् ।
प्रधानं पुरुषं तस्मान्
निर्ममे विश्वम् ईश्वरः ॥ ह्व्_१।१७ ॥

विश्वास-प्रस्तुतिः

तं वै विद्धि महाराज
ब्रह्माणम् अमितौजसम् ।
स्रष्टारं सर्वभूतानां
नारायणपरायणम् ॥ ह्व्_१।१८ ॥

मूलम्

तं वै विद्धि महाराज
ब्रह्माणम् अमितौजसम् ।
स्रष्टारं सर्वभूतानां
नारायणपरायणम् ॥ ह्व्_१।१८ ॥

विश्वास-प्रस्तुतिः

अहङ्करस् तु महतस्
तस्माद् भूतानि जज्ञिरे ।
भूतभेदाश् च भूतेभ्य
इति सर्गः सनातनः ॥ ह्व्_१।१९ ॥

मूलम्

अहङ्करस् तु महतस्
तस्माद् भूतानि जज्ञिरे ।
भूतभेदाश् च भूतेभ्य
इति सर्गः सनातनः ॥ ह्व्_१।१९ ॥

विश्वास-प्रस्तुतिः

विस्तरावयवं चैव
यथाप्रज्ञं यथाश्रुतम् ।
कीर्त्यमानं शृणु मया
पूर्वेषां कीर्तिवर्धनम् ॥ ह्व्_१।२० ॥

मूलम्

विस्तरावयवं चैव
यथाप्रज्ञं यथाश्रुतम् ।
कीर्त्यमानं शृणु मया
पूर्वेषां कीर्तिवर्धनम् ॥ ह्व्_१।२० ॥

विश्वास-प्रस्तुतिः

धन्यं यशस्यं शत्रुघ्नं
स्वर्ग्यम् आयुर्विवर्धनम् ।
कीर्तनं स्थिरकीर्तीनां
सर्वेषां पुण्यकर्मणाम् ॥ ह्व्_१।२१ ॥

मूलम्

धन्यं यशस्यं शत्रुघ्नं
स्वर्ग्यम् आयुर्विवर्धनम् ।
कीर्तनं स्थिरकीर्तीनां
सर्वेषां पुण्यकर्मणाम् ॥ ह्व्_१।२१ ॥

विश्वास-प्रस्तुतिः

तस्मात् कल्याय ते कल्यः
समग्रं शुचये शुचिः ।
([क्: श्१ क् द्१।३।४।६ ins.: :क्])
तस्मै हिरण्यगर्भाय
पुरुषायेश्वराय च । ह्व्_१।२२२९:१ ।
अजाय प्रथमायैव
वरिष्ठाय प्रजापते । ह्व्_१।२२२९:२ ।
ब्रह्मणे लोकनाथाय
गरिष्ठाय स्वयम्भुवे । ह्व्_१।२२२९:३ ।
([क्: द्१ चोन्त्।: :क्])
प्रणम्य प्रभवे पूर्वं
तस्मै अमिततेजसे । ह्व्_१।२२३० ।
आ वृष्णिवंशाद् वक्ष्यामि
भूतसर्गम् अनुत्तमम् ॥ ह्व्_१।२२ ॥

मूलम्

तस्मात् कल्याय ते कल्यः
समग्रं शुचये शुचिः ।
([क्: श्१ क् द्१।३।४।६ ins.: :क्])
तस्मै हिरण्यगर्भाय
पुरुषायेश्वराय च । ह्व्_१।२२२९:१ ।
अजाय प्रथमायैव
वरिष्ठाय प्रजापते । ह्व्_१।२२२९:२ ।
ब्रह्मणे लोकनाथाय
गरिष्ठाय स्वयम्भुवे । ह्व्_१।२२२९:३ ।
([क्: द्१ चोन्त्।: :क्])
प्रणम्य प्रभवे पूर्वं
तस्मै अमिततेजसे । ह्व्_१।२२३० ।
आ वृष्णिवंशाद् वक्ष्यामि
भूतसर्गम् अनुत्तमम् ॥ ह्व्_१।२२ ॥

विश्वास-प्रस्तुतिः

विष्णुः स्वयम्भूर् भगवान्
सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ
तासु वीर्यम् अवासृजत् ॥ ह्व्_१।२३ ॥

मूलम्

विष्णुः स्वयम्भूर् भगवान्
सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ
तासु वीर्यम् अवासृजत् ॥ ह्व्_१।२३ ॥

विश्वास-प्रस्तुतिः

आपो नारा इति प्रोक्ता
नाम्ना पूर्वम् इति श्रुतिः ।
अयनं तस्य ताः पूर्वं
तेन नारायणः स्मृतः ॥ ह्व्_१।२४ ॥

मूलम्

आपो नारा इति प्रोक्ता
नाम्ना पूर्वम् इति श्रुतिः ।
अयनं तस्य ताः पूर्वं
तेन नारायणः स्मृतः ॥ ह्व्_१।२४ ॥

विश्वास-प्रस्तुतिः

हिरण्यवर्णम् अभवत्
तद् अण्डम् उदकेशयम् ।
तत्र जज्ञे स्वयं ब्रह्मा
स्वयम्भूर् इति नः श्रुतम् ॥ ह्व्_१।२५ ॥

मूलम्

हिरण्यवर्णम् अभवत्
तद् अण्डम् उदकेशयम् ।
तत्र जज्ञे स्वयं ब्रह्मा
स्वयम्भूर् इति नः श्रुतम् ॥ ह्व्_१।२५ ॥

विश्वास-प्रस्तुतिः

हिरण्यगर्भो भगवान्
उषित्वा परिवत्सरम् ।
तद् अण्डम् अकरोद् द्वैधं
दिवं भुवम् अथापि च ॥ ह्व्_१।२६ ॥

मूलम्

हिरण्यगर्भो भगवान्
उषित्वा परिवत्सरम् ।
तद् अण्डम् अकरोद् द्वैधं
दिवं भुवम् अथापि च ॥ ह्व्_१।२६ ॥

विश्वास-प्रस्तुतिः

तयोः शकल्योर् मध्यम्
आकाशम् अकरोत् प्रभुः ।
अप्सु पारिप्लवां पृथ्वीं
दिशश् च दशधा दधे ॥ ह्व्_१।२७ ॥

मूलम्

तयोः शकल्योर् मध्यम्
आकाशम् अकरोत् प्रभुः ।
अप्सु पारिप्लवां पृथ्वीं
दिशश् च दशधा दधे ॥ ह्व्_१।२७ ॥

विश्वास-प्रस्तुतिः

तत्र कालं मनो वाचं
कामं क्रोधम् अथो रतिम् ।
ससर्ज सृष्टिं तद्रूपां
स्रष्टुम् इच्छन् प्रजापतिम् ॥ ह्व्_१।२८ ॥

मूलम्

तत्र कालं मनो वाचं
कामं क्रोधम् अथो रतिम् ।
ससर्ज सृष्टिं तद्रूपां
स्रष्टुम् इच्छन् प्रजापतिम् ॥ ह्व्_१।२८ ॥

विश्वास-प्रस्तुतिः

मरीचिम् अत्र्यङ्गिरसौ
पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं च महातेजाः
सो ऽसृजत् सप्त मानसान् ॥ ह्व्_१।२९ ॥

मूलम्

मरीचिम् अत्र्यङ्गिरसौ
पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं च महातेजाः
सो ऽसृजत् सप्त मानसान् ॥ ह्व्_१।२९ ॥

विश्वास-प्रस्तुतिः

सप्त ब्रह्माण इत्य् एते
पुराणे निश्चयं गताः ।
नारायणात्मकानां वै
सप्तानां ब्रह्मजन्मनाम् ॥ ह्व्_१।३० ॥

मूलम्

सप्त ब्रह्माण इत्य् एते
पुराणे निश्चयं गताः ।
नारायणात्मकानां वै
सप्तानां ब्रह्मजन्मनाम् ॥ ह्व्_१।३० ॥

विश्वास-प्रस्तुतिः

ततो ऽसृजत् पुनर् ब्रह्मा
रुद्रं रोषात्मसम्भवम् ।
सनत्कुमारं च ऋषिं
पूर्वेषाम् अपि पूर्वजम् ॥ ह्व्_१।३१ ॥

मूलम्

ततो ऽसृजत् पुनर् ब्रह्मा
रुद्रं रोषात्मसम्भवम् ।
सनत्कुमारं च ऋषिं
पूर्वेषाम् अपि पूर्वजम् ॥ ह्व्_१।३१ ॥

विश्वास-प्रस्तुतिः

([क्: १।३१: सन्धि निछ्त् दुर्छ्गेफ़्üह्र्त् ज़्wइस्छेन् “च ऋषिम्”। :क्])
सप्त त्व् एते प्रजायन्ते
प्रजा रुद्रश् च भारत ।
स्कन्दः सनत्कुमारश् च
तेजः सङ्क्षिप्य तिष्ठतः ॥ ह्व्_१।३२ ॥

मूलम्

([क्: १।३१: सन्धि निछ्त् दुर्छ्गेफ़्üह्र्त् ज़्wइस्छेन् “च ऋषिम्”। :क्])
सप्त त्व् एते प्रजायन्ते
प्रजा रुद्रश् च भारत ।
स्कन्दः सनत्कुमारश् च
तेजः सङ्क्षिप्य तिष्ठतः ॥ ह्व्_१।३२ ॥

विश्वास-प्रस्तुतिः

तेषां सप्त महावंशा
दिव्या देवगणान्विताः ।
क्रियावन्तः प्रजावन्तो
महर्षिभिर् अलङ्कृताः ॥ ह्व्_१।३३ ॥

मूलम्

तेषां सप्त महावंशा
दिव्या देवगणान्विताः ।
क्रियावन्तः प्रजावन्तो
महर्षिभिर् अलङ्कृताः ॥ ह्व्_१।३३ ॥

विश्वास-प्रस्तुतिः

विद्युतो ऽशनिमेघांश् च
रोहितेन्द्रधनूंसि च ।
([क्: त् ग् म्४ ins. after ३२; द्६ after ३३अब्: :क्])
सनश् च योगतत्त्वज्ञं
सनकं च सनन्दनम् । ह्व्_१।३३३१:१ ।
एते सप्त समाख्याता
ऋषयः संशितव्रताः । ह्व्_१।३३३१:२ ।
यादांसि च ससर्जादौ
पर्जन्यं च ससर्ज ह ॥ ह्व्_१।३४ ॥

मूलम्

विद्युतो ऽशनिमेघांश् च
रोहितेन्द्रधनूंसि च ।
([क्: त् ग् म्४ ins. after ३२; द्६ after ३३अब्: :क्])
सनश् च योगतत्त्वज्ञं
सनकं च सनन्दनम् । ह्व्_१।३३३१:१ ।
एते सप्त समाख्याता
ऋषयः संशितव्रताः । ह्व्_१।३३३१:२ ।
यादांसि च ससर्जादौ
पर्जन्यं च ससर्ज ह ॥ ह्व्_१।३४ ॥

विश्वास-प्रस्तुतिः

ऋचो यजूंषि सामानि
निर्ममे यज्ञसिद्धये ।
([क्: श्१ क् व्२ द्न् द्३(मर्ग्।)।४ ins.: :क्])
मुखाद् देवान् अजनयत्
पितॄंश् चेशो ऽपि वक्षसः । ह्व्_१।३५३२:१ ।
प्रजनाच् च मनुष्यान् वै
जघनान् निर्ममे ऽसुरान् । ह्व्_१।३५३२:२ ।
साध्यांस् तैर् अयजन् देवान्
इत्य् एवम् अनुशुश्रुमः ॥ ह्व्_१।३५ ॥

मूलम्

ऋचो यजूंषि सामानि
निर्ममे यज्ञसिद्धये ।
([क्: श्१ क् व्२ द्न् द्३(मर्ग्।)।४ ins.: :क्])
मुखाद् देवान् अजनयत्
पितॄंश् चेशो ऽपि वक्षसः । ह्व्_१।३५३२:१ ।
प्रजनाच् च मनुष्यान् वै
जघनान् निर्ममे ऽसुरान् । ह्व्_१।३५३२:२ ।
साध्यांस् तैर् अयजन् देवान्
इत्य् एवम् अनुशुश्रुमः ॥ ह्व्_१।३५ ॥

विश्वास-प्रस्तुतिः

उच्चावचानि भूतानि
गात्रेभ्यस् तस्य जज्ञिरे ।
([क्: द्४ ins.: :क्])
ब्रह्माणं हृदयं भित्त्वा
निश्चितो भगवान् भृगुः ॥ ह्व्_१।३६३३:१ ।

मूलम्

उच्चावचानि भूतानि
गात्रेभ्यस् तस्य जज्ञिरे ।
([क्: द्४ ins.: :क्])
ब्रह्माणं हृदयं भित्त्वा
निश्चितो भगवान् भृगुः ॥ ह्व्_१।३६३३:१ ।

विश्वास-प्रस्तुतिः

स्तनं तु दक्षिणं भित्त्वा
ब्रह्मजेन च विग्रहः । ह्व्_१।३६३३:२ ।
निश्रितो भगवान् धर्मः
सर्वलोकसुखावहः ॥ ह्व्_१।३६३३:३ ।

मूलम्

स्तनं तु दक्षिणं भित्त्वा
ब्रह्मजेन च विग्रहः । ह्व्_१।३६३३:२ ।
निश्रितो भगवान् धर्मः
सर्वलोकसुखावहः ॥ ह्व्_१।३६३३:३ ।

विश्वास-प्रस्तुतिः

त्रयस् तस्य वराः पुत्राः
सर्वभूतमनोहराः । ह्व्_१।३६३३:४ ।
कामः शमश् च हर्षश् च
तेजसा लोकधारिणः ॥ ह्व्_१।३६३३:५ ।

मूलम्

त्रयस् तस्य वराः पुत्राः
सर्वभूतमनोहराः । ह्व्_१।३६३३:४ ।
कामः शमश् च हर्षश् च
तेजसा लोकधारिणः ॥ ह्व्_१।३६३३:५ ।

विश्वास-प्रस्तुतिः

कामस्य तु रतिर् भार्या
शमस्य प्रीतिर् अङ्गना । ह्व्_१।३६३३:६ ।
नन्दा भार्या च हर्षस्य
त्रयो लोकाः प्रतिष्ठिताः । ह्व्_१।३६३३:७ ।
आपवस्य प्रजासर्गं
सृजतो हि प्रजापतेः ॥ ह्व्_१।३६ ॥

मूलम्

कामस्य तु रतिर् भार्या
शमस्य प्रीतिर् अङ्गना । ह्व्_१।३६३३:६ ।
नन्दा भार्या च हर्षस्य
त्रयो लोकाः प्रतिष्ठिताः । ह्व्_१।३६३३:७ ।
आपवस्य प्रजासर्गं
सृजतो हि प्रजापतेः ॥ ह्व्_१।३६ ॥

विश्वास-प्रस्तुतिः

([क्: श्१ क् द्न् द्३(मर्ग्।)।४ ग्४ म्२ ins.: :क्])
सृज्यमानाः प्रजा नैव
विवर्धन्ते यदा तदा । ह्व्_१।३६३४ ।
द्विधा कृत्वात्मनो देहम्
अर्धेन पुरुषो ऽभवत् ।
अर्धेन नारी तस्यां स
ससृजे विविधाः प्रजाः ॥

मूलम्

([क्: श्१ क् द्न् द्३(मर्ग्।)।४ ग्४ म्२ ins.: :क्])
सृज्यमानाः प्रजा नैव
विवर्धन्ते यदा तदा । ह्व्_१।३६३४ ।
द्विधा कृत्वात्मनो देहम्
अर्धेन पुरुषो ऽभवत् ।
अर्धेन नारी तस्यां स
ससृजे विविधाः प्रजाः ॥

विश्वास-प्रस्तुतिः

दिवं च पृथिवीं चैव
महिम्ना व्याप्य तिष्टति ॥ ह्व्_१।३७ ॥

मूलम्

दिवं च पृथिवीं चैव
महिम्ना व्याप्य तिष्टति ॥ ह्व्_१।३७ ॥

विश्वास-प्रस्तुतिः

विराजम् असृजद् विष्णुः
सो ऽसृजत् पुरुषं विराट् ।
पुरुषं तं मनुं विद्धि
तद् वै मन्वन्तरं स्मृतम् ॥

मूलम्

विराजम् असृजद् विष्णुः
सो ऽसृजत् पुरुषं विराट् ।
पुरुषं तं मनुं विद्धि
तद् वै मन्वन्तरं स्मृतम् ॥

विश्वास-प्रस्तुतिः

द्वितीयम् आपवस्यैतन्
मनोर् अन्तरम् उच्यते ॥ ह्व्_१।३८ ॥

मूलम्

द्वितीयम् आपवस्यैतन्
मनोर् अन्तरम् उच्यते ॥ ह्व्_१।३८ ॥

विश्वास-प्रस्तुतिः

स वैराजः प्रजासर्गं
ससर्ज पुरुषः प्रभुः ।
([क्: द्६ त् ग् म्४ ins.: :क्])
मनुं प्रजापतिं विद्धि
ससर्ज प्रभुर् ईश्वरः । ह्व्_१।३९३५ ।
नारायणविसर्गः स
प्रजास् तस्याप्य् अयोनिजाः ॥ ह्व्_१।३९ ॥

मूलम्

स वैराजः प्रजासर्गं
ससर्ज पुरुषः प्रभुः ।
([क्: द्६ त् ग् म्४ ins.: :क्])
मनुं प्रजापतिं विद्धि
ससर्ज प्रभुर् ईश्वरः । ह्व्_१।३९३५ ।
नारायणविसर्गः स
प्रजास् तस्याप्य् अयोनिजाः ॥ ह्व्_१।३९ ॥

विश्वास-प्रस्तुतिः

आयुष्मान् कीर्तिमान् धन्यः
प्रजावांश् च भवेन् नरः ।
([क्: त् ग् ins. after ४०अब्, म्१।२।४ after ४०: :क्])
स्थिरवंशश् च भवति
मृतः स्वर्गे महीयते । ह्व्_१।४०३६ ।
आदिसर्गं विदित्वेमं
यथेष्टां प्राप्नुयाद् गतिम् ॥ ह्व्_१।४० ॥

मूलम्

आयुष्मान् कीर्तिमान् धन्यः
प्रजावांश् च भवेन् नरः ।
([क्: त् ग् ins. after ४०अब्, म्१।२।४ after ४०: :क्])
स्थिरवंशश् च भवति
मृतः स्वर्गे महीयते । ह्व्_१।४०३६ ।
आदिसर्गं विदित्वेमं
यथेष्टां प्राप्नुयाद् गतिम् ॥ ह्व्_१।४० ॥