श्रीरङ्गमाहात्म्यम् – Part 03
श्रीरङ्गमाहात्म्यम्– ७१
कदम्बतीर्थ कदंबवृक्ष माहात्म्यम्
भरद्वाजः
सुमहानुच्छ्रितस्कंधः पादपः पर्वतोपमः।
आरात्संदृश्यते यस्तु मुनिसंघैर्निषेवितः ॥ (१)
तथा मंदानिलो वाति दिव्यगंधवहाश्शुभः ।
श्रूयते च महान् घोषोह्याम्नायानामतोऽपि च॥ (२)
तत्राश्चर्यं महद्ब्रह्मन्नस्तीति प्रतिभाति मे।
आचक्ष्वैतद्गुरो सर्वं विस्तरेण महाद्भुतम्॥ (३)
वाल्मीकिः –
कदंबतीर्थं तद्विद्धि कदंबमुरुशाखिनम् ।
पादपं पर्वताकारं तपस्विजनसंश्रयम्॥ (४)
तत्र या तप्यमधुना मामन्वे हि महामुने ।
यत्र गत्वा नरश्शुद्धो वैष्णवं पदमृच्छति॥ (५)
इत्युक्त्वा प्रययौ श्रीमान् वाल्मीकिर्वेदवित्तमः।
भरद्वाजो महाबुद्धि र्गुरुमन्वसरत्तदा ॥ (६)
व्यासः –
कदंबतीर्थं भगवान् वेदो विग्रहवानिव।
सशिष्यस्सह सागच्छत्पुण्यं पुण्यजनाश्रयम् ॥ (७)
समायांतं मुनिं दृष्ट्वा मुनयो वीतकल्मषाः ।
उत्पुल्लत्योत्पुल्लत्य संहृष्टास्तमेवासु ववंदिरे॥ (८)
वाचा मधुरया कांश्चित्परिष्वंगेन चापरान् ।
करस्पर्शेन चाप्यन्यान् वृद्धान् संदर्शनेन च॥ (९)
तांस्तां श्चकार सुप्रीतान् प्रियज्ञो भगवान् मुदा ।
न तैस्समं समागत्य कदंबमुरुशाखिनम्॥ (१ ०)
निषसादासने शुभ्रे वाल्मीकिर्मुनिभिर्युतः ।
निर्वृत्तक्रतु भूयिष्टं तीर्थं दृष्ट्वा महामतिः ॥ (१ १ )
गौतमं परिपप्रच्छ वृद्धं च तपसां निधिम् ।
वाल्मीकिः –
मुने किमयमुद्देशो याज्ञीयैस्समलंकृतः ॥ (१ २)
राजभिस्तत्र निर्वृत्ताः कृतवो भूरिदक्षिणाः ।
यूपेस्तत्र प्रकाशंते चितयश्च चकासति ॥ (१ ३)
पर्यंत पात्रकलशावेदिरद्य चकास्ति हि ।
गौतमः –
मिथिलाधिपतिः श्रीमान् विदेहो मुनिसत्तम ॥ (१ ४)
इयाज मुनिभिस्सार्धं सक्रतून् भूरि दक्षिणान्।
वाल्मीकिः –
आम्नायघोषस्सुमहान् जृंभते च दिशो दश॥
आश्चर्यमेतद्भगवन् केनेदमिति मे वद॥ (१ ५)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकसप्ततितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्– ७२
जनक यज्ञवाटप्रविष्टेन शुना हविरादि दूषणम्
गौतमः –
शृणुष्व भगवन्नत्र पुरावृत्तं महामुने ।
यजतस्तु विदेहस्य यज्ञवाटे महात्मनः ॥ (१ )
विधिवद्याजयामासु राजानं मुनयोऽ मलाः।
अर्थिनां प्रददौ राजा भूरिद्रविणमक्षयम्॥ (२)
एवं समृद्धिजुष्टे तु यजमाने च राजनि।
प्रेक्षकाणां मुनीनां च परिषद्विमलाभवत्॥ (३)
अथर्त्विजस्तदाश्रांताः कुर्वन्तस्सवनं निशिश ।
श्रपयित्वा पुरोडाशमवशास्सुषुवुर्मुने॥ (४)
अन्ये च सुषुवस्सर्वे प्रेक्षका मृष्टभोजनाः।
अनावृतं यज्ञवाटं श्वागच्छत निवारितः ॥ (५)
पीत्वा दधिघृतं तत्र होमार्थं पात्रसंचितम् ।
पुरोडाशादिकं चान्यज्जिघ्रन् संचार्य निर्भयः ॥ (६)
इतस्ततस्ततो गत्वा दुद्राव स बहिस्स्वयम् ।
अथ प्रबुद्धास्ते सर्वे सहसा तत्र ऋत्विजः॥ (७)
नवजज्ञस्तदानन्ते सर्वे दूषितं तद्धविश्शुना ।
अवशिष्टं घृतं चापि दधि चैवावशेषितम् ॥ (८)
पुरोडाशादिकं सर्वं रक्षितं च यथा पुरा।
कर्मशेषं च ते कर्तुमारभन्ताथ ऋत्विजः ॥ (९)
अशुचिद्रव्य यजन प्रवृत्ता मन्त्रराशयः ।
ऋग्यजुस्सामवेदाश्च सर्वे तत्र जगृहिरे ॥ (१ ०)
अथ याज्ञिकमाहूय काश्यपं वृद्धमब्रुवन् ।
मन्त्राश्च विस्मृतास्सर्वे कथं कर्तव्यमित्यपि॥ (१ १ )
सोऽ प्यब्रवीद्भीति भीतः प्रयोगो मम विस्मृतः ।
मत्तः प्रवृत्ताः क्रतवो गण्यंते न हि केनचित् ॥ (१ २)
स्वभ्यस्तापि सदा विद्या विस्मृता केन हेतुना।
न केवलं मंत्रभागो विस्मृतोद्यधुना मम ॥ (१ ३)
अन्यत्सर्वं च विभ्रष्टं यच्छादीतं पुरा मया।
कथं कृत्वोपवेष्यामि संजातं बुद्धिजं तमः ॥ (१ ४)
गौतमः –
इत्युक्तवति धर्मिष्ठे वृद्धे काश्यप नामनि।
सदस्यां च समाहूय धारयन्तो हवींषि च॥ (१ ५)
पप्रच्छुनमनसो राज्ञस्तस्य तथार्त्विजः ।
के ते मन्त्राः प्रयोक्तव्याः प्रयोगाश्चापि कः कथम्॥ (१ ६)
अस्माकं विस्मृतं सर्वं यूयं प्रब्रूत मा चिरम् ।
तेप्यूचुश्च न जानीमः किमेतत्कथमित्यपि॥ (१ ७)
सर्वप्रयोगकुशलाः ह्यनूचानान्महामुनीन् ।
स्तब्धान् राजा समालक्ष्य कथं केनेति चाब्रवीत्॥ (१ ८)
ऋत्विजः –
न विद्मोपयमेतद्धि राजन् केन कथं त्विति ।
श्रेयसो बहुविघ्नस्स्यादित्येषा लौकिकी श्रुतिः॥ (१ ९)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्विसप्ततितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–७३
मुनिगणसहित राजकृत कदंबपूजनम्
राजा –
एवं स्थिते तु कः कुर्यादस्माकं बुद्धिदीपनम् ।
संयजामि कथं किं वा किं कृत्वा नस्सुखं भवेत्॥ (१ )
ब्राह्मणः –
महते दैवतायेदं श्रपितं हविरुत्तमम् ।
तमेव संश्रयामोऽ द्य नारायणमनामयम्॥ (२)
अपाकरोति दिनकृद्बहिष्ठं हित मा भुवि ।
अन्तस्थमविभूतानां तमोनाशयतेच्युतः ॥ (३)
सर्वगस्सर्वभूतेशः सर्वभूतहृदि स्थितः ।
अभ्यन्तरस्य तमसश्चेत्ता नारायणः परः॥ (४)
गौतमः –
इत्युक्तस्तु तदा राजा मुनिभिश्च समावृतः ।
तस्थौ तु ध्यान संयुक्तो गोविन्दे सक्तमानसः॥ (५)
निश्शब्द निष्क्रियाश्चासीद्यज्ञवाटगतो जनः ।
यथा भित्तिषु चित्रस्थाने गतेन च सर्पति।
अथाजगाम यः कश्चिन्मुनिर्दृष्टपरावरः ॥ (६)
शिष्यैः परिवृतो धीमान् वेदानध्यापयन् मुने।
यज्ञवाटं समासाद्य सोऽ पश्यद् ध्यानतत्परान् ॥ (७)
ऋत्विजो ब्राह्मणांश्चैव यजमानं च केवलम् ।
तानपप्रच्छ भगवान् किमिदं विघ्नितः क्रतुः॥ (८)
असमाप्तक्रिया यूयमासीना ध्यानतत्पराः ।
प्रारब्धं च समाप्यैव योगं कुर्वंति साधवः ॥ (९)
वृथासनेन किंकार्यं समापय तपः क्रतुम्।
गौतमः –
इति द्विजवचश्श्रुत्वा मुनयस्त्वब्रुवन्वचः॥ (१ ०)
ब्रह्मन्न विद्मः केनेति मन्त्रजातं च विस्मृतम्।
प्रयोगश्च महाबुद्धे बुद्धिरस्तं गता च नः॥ (१ १ )
ज्ञानं ज्ञेयं परंब्रह्म तदर्थं समुपास्महे ।
इति श्रुत्वा वचस्तेषां निभृतं प्रजहास च॥ (१ २)
मुनिर्मुनीनां मन्वानस्संधानं मनसो महान् ।
अब्रवीच्च द्विजश्रेष्ठो मुनिस्संनादयन् दिशः॥ (१ ३)
स्पष्टाक्षरमसन्दिग्धं महार्थं मधुरं प्रियम्।
द्विजः –
केनचित्कारणेनात्र भवितव्यं द्विजोत्तमाः ॥ (१ ४)
यद्विघ्नितमभूत्कर्म क्रियमानं च भद्रदम् ।
अयं च पादपोलोके पूजितस्सर्वकामधुक् ॥ (१ ५)
जानंस्तिष्ठत्ययं साक्षी विश्रान्तेषु भवत्स्वपि ।
न केवलं मनुष्याद्या भवेयुस्साक्षिणो भुवि ॥ (१ ६)
येषां च तत्वविज्ञाने सामर्थ्यं ते च साक्षिणः ।
नो चेत्तु नृषु लोकेषु ज्ञानिनो ह्येव साक्षिणः॥ (१ ७)
देवत्वं वा मनुष्यत्वं साक्षी कृत्येन कारणम्।
यस्य संशयितार्थस्य स्थावरस्य नरस्य च॥ (१ ८)
यथार्थज्ञानसामर्थ्यं तं च वै साक्षिणो विदुः ।
मनुष्येष्वेव नियतं प्रायिकं त्वितरेषु तत् ॥ (१ ९)
अतस्तज्ञान सामर्थ्यं साक्षित्वे कारणं विदुः ।
अयं च पादपोलोके पूजितो मुनिभिस्सदा ॥ (२०)
सर्वं जानाति सर्वात्मा ह्यस्मिन् वसति सर्वदा।
एवं पृच्छत केनेति मुनयः पूजितं भृशम् ॥ (२१ )
वदत्ययं विघ्नहेतुं ततो वः क्रियतां क्रतुः ।
गौतमः –
इति श्रुत्वा मुनिगणो राजा च भृशहर्षितः ॥
कदंबं पूजयामासुः भक्ष्यैर्भोज्यैस्सुपुष्कलैः ॥ (२२)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्रिसप्ततितमोऽध्यायः
श्रीरङ्गमाहात्म्यम्–७४
मुनिकृत कदंबतरु प्रार्थनम्
वाल्मीकिः –
कोऽ यं मुनिवरो ब्रह्मन् किं प्रभावो वदस्व मे ।
यस्याचार्यवरिष्ठस्य चरितं लोकपूजितम् ॥ (१ )
गौतमः –
शृणु त्वं मुनिशार्दूल तं मुनिप्रवरं परम् ।
यस्मादवाप्तं सकलं यत्र जातं द्विजन्मभिः ॥ (२)
परं च पुरुषं विद्धि नारायणमनामयम्।
केवलं रङ्गधामानं कर्माप्त्यर्थं समागतम्॥ (३)
अथ पूजामलञ्चक्रुः पुष्कलामृत्विजस्तरोः ।
इच्छाविहारचतुरो भगवान् मुनिवेषधृत्॥ (४)
तमाविवेश सहसा कदंबमरुशाखिनम्।
पादपाग्रं समारुह्य बुभुजे भगवान् स्वयम् ॥ (५)
द्विजादिभिरुपानीतं भक्ष्यं भोज्यं च भूरितम् ।
भूरि प्रदेयं तरवे भूरि चेत्यब्रवीत्स्वयम् ॥ (६)
तत्पुरस्सुसमासीनो रङ्गराद्वानकारयत्।
राजा समानयामास भक्ष्यभोज्यादिकं बहु ॥ (७)
ऋत्विजोप्यमलात्मानः सादरं सुसमाहिताः ।
सर्वं निवेदयामासुस्तरवे ब्रह्ममूर्तये ॥ (८)
मूत्र्यन्तरेण प्रोत्साहमकरोत्पूजनाविधौ ।
निवेदितं च बुभुजे पादपात्मा परस्स्वयम् ॥ (९)
समाप्य विधिवत्पूजां चक्रुस्तत्र प्रदक्षिणम्।
प्रणामं च मुदायुक्ताः तुष्टुवुस्तापसास्तरुम्॥ (१ ०)
ब्राह्मणाः –
नमः कदंब वृक्षाय नमस्सर्वाश्रयाय च ।
सकलार्ति विनाशाय नमो ब्रह्मात्मने नमः ॥ (१ १ )
पाहि पाहि च राजानं यजमानं सुधार्मिकम् ।
अस्मान् पाहि क्रतून् पाहि पशून् पाहि तरूत्तम ॥ (१ २)
गौतमः –
इति स्तुतो हरिस्तेस्तु वृक्षाग्रे समवस्थितः ।
अदृश्यास्तानुवाचोच्छैर्दिशोदश विनादयन् ॥ (१ ३)
श्री भगवान् –
स्तुतस्सुपूजितश्चास्मि भक्तिनम्रात्मभिर्द्विजैः ।
वरं वृणुत भद्रं वः प्रयच्छामि यथेप्सितम्॥ (१ ४)
ब्राह्मणाः –
वयं पुरुषमीशानं नारायणमनामयम् ।
तमाराधयितुं देवं प्रवृत्ता यज्ञ कर्मणा ॥ (१ ५)
अयं विदेहो नृपतिर्यजमानोऽ तिधार्मिकः ।
वयं निवृत्तकामस्य कुर्वन्तो यज्ञमृत्विजः ॥ (१ ६)
अध्वरे क्रियमाणेऽ स्मिन्नृचस्सामयजूंषि च।
सर्वाणि समगृहन्त प्रयोगश्चापि विस्मृतः ॥ (१ ७)
वयं सर्वे त्वनूचानाः तथाऽ प्येवमभूच्च नः ।
केनेदं युगपद् ज्ञातमस्माकमिति नो वद ॥ (१ ८)
प्रयच्छ वेदान् सकलानस्मभ्यं पादपोत्तम।
प्रयोगो नस्स्मृतिं यातु निर्विघ्नो भवतु क्रतुः॥ (१ ९)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुस्सप्ततितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–७५
तरु बोधित मन्त्र विस्मरण हेतुः
तरुः –
युष्मात्सु सत्सु श्रान्तेषु शुना स्पृष्टमिदं हविः।
अन्यद्धृतादिकं सर्वं स्वपत्सु युगपद् द्विजाः॥ (१ )
शुचिना यजमानेन शुचिभिर्द्रव्यसञ्चयैः ।
ऋत्विग्भिश्शुचिभिर्यज्ञैः क्रियमाणैः प्रसीदति॥ (२)
यज्ञेश्वरो यज्ञपुमानिति वेदविदां स्थितिः।
इज्यस्सर्वत्र शुचिना पवित्रं भगवान् हरिः ॥ (३)
शुचयस्तं भावयन्तो यज्ञेन तपसा धिया।
प्राप्नुवन्ति पदं तस्य यद्वै पश्यन्ति सूरयः ॥ (४)
अतस्त्वेतद्धविश्चान्यदपहाय द्विजोत्तमाः ।
शुचिना हविषा यूयं समापयत चाध्वरम्॥ (५)
स्मृतिं प्रयान्तु वो मन्त्रा ऋचस्सामयजूंषि च ।
अशुचिद्रव्ययजनात्संजाता वेदविस्मृतिः॥ (६)
अभ्यस्तापि सदा विद्या शुचिभिर्धार्यते यतः ।
अतश्शुचिभिरेवायं युष्माभिः क्रियतां क्रतुः॥ (७)
प्रायश्चित्तं च विधिवत् तत्कुरुतात्र समाहिताः ।
अनेन यजमानोऽ पि प्राप्नोति गतिमुत्तमम् ॥ (८)
गौतमः –
इत्युक्त्वा विररामाथ पादपात्मा परः पुमान् ।
तेऽ पि संप्राप्तविद्याश्च तदा चक्रुः क्रतुं द्विजाः ॥ (९)
ततस्सर्वे मुनिगणा राजा च मुदितो भृशम्।
आगत्य मुनिमभ्येत्य तं च सम्यगपूजयन् ॥ (१ ०)
तत्र प्रीतं मुनिवरं पप्रच्छुर्मुनयोमलाः ।
प्रणतास्त्वञ्जलिं तस्मै प्रकुर्वन्तो महात्मने॥ (१ १ )
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चसप्ततितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम् – ७६
ब्राह्मणस्तुत मुनिना स्ववृत्तस्य कथनम्
ब्राह्मणाः –
मनांसि नो नामकृतानि निर्मलान्यथो कृतं तत्तमसो निबर्हणम्।
भवन्तमासाद्य वयं भवामः मुमूर्षवस्त्वास्य गतं यथामृतम्॥ (१ )
मृदूत्तमप्रेक्षितमेत्यनस्तवं स्मृतिं च मन्त्रास्सहसा च सङ्गताः।
विभाति लक्ष्मीस्तव गात्रसंगता परस्य पुंसो वपुषो यथा पुरा ॥ (२)
यदा समन्वेति भवानिहाध्वरं तदासरम्यः प्रतिभाति नोऽ ध्वरः ।
ऋचोऽ थ सामानि यजूंषि चाप्यलं भवान्महानुत्तमपूरुषः किल ॥ (३)
कुतः कथं किं गमने मनीषितं किमध्वरध्वंसनशान्तये महान्।
विहाय वर्त्मानुगतः कृतात्मा मनस्सुपूर्णं हि यथातथा नरः ॥ (४)
मुनिः –
अथोचिवांस्तत्र भवांस्तदात्मवान् समेयिवानस्मिनकार्यवानहम् ।
अनाथवान् सज्जनवान् सुवृत्तवान् क्रतु नृपस्येत्यनुजग्मिवानिति ॥ (५)
इह खलु न हि जातुविघ्नयुक्तस्सवनसमाप्तिकरो नरः क्वचित्स्यात्।
तमिममहमिहाध्वरं विधातुं सकलमुपैमि नृपान्तिकंमुनीन्द्राः ॥ (६)
सपदि विविधभोग सारजुष्टो प्रजतु नृपोस्तकलङ्कमानसोऽ द्य।
अहमपि सहसा समेमिधिष्ण्यं तदपि जनेष्वखिलेषु विश्रुतं च ॥ (७)
सुरवरनिकरैस्सुपूजितं तत् मनुजवरैरपि रङ्गनामधेयम् ।
तपसि नियतवृत्तिध्वस्तपापा शयानां विमलगतिषु निष्ठा शाश्वती वोऽमलानाम् ॥ (८)
मनसि गतमनल्पं यत्तपस्सञ्चितं तद्भवतु सकलमेतद्भद्रमुच्चैर्मुनीनाम्॥
गौतमः –
इति शुभमभिधाय स्निग्धगंभीरनादो वचनमपि महात्मा संवृतस्तैर्मुनीन्द्रैः ॥ (९)
चतुर वदनकांतिस्स्वं ययौ धाम रङ्गम् मुनिवरगणसेव्यं तीर्थवर्यं वरेण्यम्।
पुरुषवरमतीव स्नेहवर्त्मास्थितानां सुलभमपि महात्मन् योगिनामप्यलक्ष्यम् ॥ (१ ०)
अगणित महिमानं शाश्वतं रङ्गनाथं कमलनयनकान्तं तं प्रजग्मुर्मुनीन्द्राः ।
सपदि मुकुलिताक्षस्सत्वतो ध्यानयुक्ताः मनसि विमलसारे भावितं तद्विजाग्र्याः॥ (१ १ )
पथिगतमदलाभं तं प्रयान्तं च दृष्ट्वा प्रणति निभृतगात्रास्त्वञ्जलिं ते प्रचक्रुः।
अतिसुरभितकाष्ठामण्डलो मण्डनार्हः प्रतिपदमदलां तां चालयन् चारुनेत्रः॥ (१ २)
दिशि दिशि बहुलोर्जन्नीलधाराधराभो विलसितमुरुगायो रङ्गधामा ययौ च ।
इह खलु भगवान् स्तान्ः रङ्गशायी मुनीन्द्रान् जिगमिषुरभिनन्द्यस्वं विमानं च तेषाम् ॥ (१ ३)
वरमपि च ददौस्याद्वेदघोषाश्रयोऽ यं मुनिजनसुखसेव्यो देश एवं सदेति ।
गौतमः –
इह तु बहुविधोऽ यं श्रूयते वेदघोषस्सकलमुनिजनार्हस्तोयवानेष देशः ॥ (१ ४)
तरुरपि निजभूरिच्छायया संश्रितानां श्रमभरमपनुद्य स्वार्थमुच्छैर्ददाति ।
इति भगवति पूज्येत्वागते चारुबुद्धौ प्रियतममिव मन्ये जीवितं चात्मनोऽ पि ॥ (१ ५)
कृशमपि ममगात्रं संगमाते सुपुष्टं भवति हि गतसस्यं वर्षसंगात्सजीवम् ।
किमिह तव विधास्ये किं च कृत्वा प्रियं ते भवति हि जनवासः पुण्यकी र्त्याश्रयोयम् ॥ (१ ६)
तव पदयुगसङ्गात्पूर्णकामश्च शश्वद्दिनकर करसङ्गान्मेदिनी वा कलङ्का।
व्यासः –
अथ मुनिरपि शोर्चस्निग्धगम्भीरभावां श्रुतिसुखपदवर्णां स्पष्टमाकर्ण्य वाणीम्॥ (१ ७)
वयमपि तदिहोच्चैस्तद्वचोम्भः प्रपूतास्त्वतुलममलनिष्ठाः पूजितास्सस्मिताश्च ।
इह खलु मुनिसेव्यं तीर्थवर्यं कदम्बं बहुभवकृतमेनस्संगमाद्धंति चेति॥ (८)
श्रुतिपथगतमेतत्पापविध्वंसदक्षं मुनिगणसमवेतस्संश्रयामीह तीर्थम् ।
इह मुनिचटुवत्र प्रोद्गिरद्वेदनादं मधुकरनिकराणां गीतमुच्छेः प्रवृत्तम् ॥ (९)
निज शुकमुखसर्पत्तद्वचश्राव्यमेतत्कलकलमतिरक्तं श्रोतुमैच्छन्मनो मे ।
सकलविषयसंगेष्वद्य वैतृष्ण्यमेतत्प्रसृजति चिरसेव्यं तीर्थमक्ष्णोर्मुनीन्द्राः ॥ (१ ०)
नयनविषयमासीद्ब्रह्मतीर्थप्रभावाद्दिनमिह निवसेद्यस्संजहात्येव जन्म ।
विहितमिह विधात्रा जन्मसंतानसंगात्प्रचुरभवभयार्तिन् ध्वांतनष्टद्युतीनाम् ॥
सुखमिदमिह वासं कुर्वतां चापिलोके शरणमपि भवाब्धौ मज्जतामेवतीर्थम् ॥ (१ १ )
व्यासः –
इत्थं समादिश्य वचो महात्मा मुनिं भरद्वाजमुदारकीर्तिः।
वाल्मीकिरप्युत्तममत्र तीर्थं जगाम बिल्वाख्यमितो मुनीन्द्रः॥ (१ २)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षट्सप्ततितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–७७
बिल्वतीर्थ माहात्म्यम्
व्यासः –
स तेन सार्धं प्रवरो मुनीनां भावितात्मनाम् ।
भरद्वाजेन भगवान् वाल्मीकिः प्रययौ मुनिः ॥ (१ )
बिल्वाख्यतीर्थमतुलं यत्र बिल्वो महान् स्थितः ।
क्रोशमण्डलविस्तारस्तपस्वीजनसंश्रयः ॥ (२)
तत्र देवास्सगन्धर्वास्सिद्धाश्च सहचारणैः ।
पूजयन्तः परामृद्धिं प्राप्नुवन्ति श्रियं मुदा॥ (३)
सौभाग्यंसंपद्युक्ता ये पृथिव्यां कीर्तिवर्द्धनः ।
तत्र राजश्रियं प्राप्तास्सर्वलोकमहेश्वरीम्॥ (४)
भ्रष्टश्रीकस्तु मघवान् तत्र तेपे महत्तपः ।
तत्राऽऽराध्य श्रियं लेभे त्रिलोकपरवैभवाम्॥ (५)
पुरा मैत्रीति विख्याता ब्रह्मज्ञा ब्रह्मवादिनी ।
योगाग्निनास्तु कलुषा तत्र प्राप्ता वरं मुने ॥ (६)
गार्गी च ब्राह्मणी तत्र निर्वाणं परमं गता।
आर्षिर्षेणः परां प्राप्तस्तपसा शुद्धिमात्मनः॥ (७)
यं यं काममभीप्सन्ति देवमर्त्याऽन्यजातयः ।
बिल्वं व्रजंतस्सुधियस्तं तं विन्दन्ति वै ध्रुवम् ॥ (८)
वालखिल्या महात्माना दन्तोलूखलिनश्च ये।
वैखानसाश्च ये चान्ये बिल्वच्छायां व्रजन्ति ते॥ (९)
अद्यापि ब्राह्मणो वेदिर्यूपस्तत्र प्रकाशते ।
तत्राख्यानं पुरावृत्तं शृणुष्व मुनिसत्तम ॥ (१ ०)
सर्वपापहरं पुण्यं शृण्वतां कीर्तिवर्धनम्।
सोमको नाम राजर्षिः बलवान् दिक्षु विश्रुतः ॥ (१ १ )
शशासनोऽ पि पृथिवीं सप्तद्वीपार्णवाकुलाम् ।
तपसा ब्रह्मचर्येण दमेन नियमेन च॥ (१ २)
विश्रुतस्त्रिषु लोकेषु शीलेन श्रुतिसंपदा ।
इयाज स बहून् यज्ञान् नियमाद्भूरिदक्षिणान्॥ (१ ३)
बहुप्रशस्तपात्रेषु धनानि प्रददौ नृपः ।
अरिराधयिषुर्देवमीशानं जगतः पतिम्॥ (१ ४)
नारायणमणीयांसं परमात्मानमच्युतम् ।
विधायोपरि तं राजा बाह्यकर्मसु संयतः॥ (१ ५)
तत्सपर्याविधौ श्रीमान्कालं निन्ये महामतिः।
अतिथ्यभ्यागतादीना मार्तानामर्थिनां द्विज ॥ (१ ६)
तत्कर्मपूरयत्येव यद्यत्कामयते च यः ।
एवमादि नृपो विद्वान् न्याय्यं कर्म सदाकरोत् ॥ (१ ७)
तं च पश्यन् जनस्सर्वः स्नेहात्प्रियमुदे चिरम्।
पर्जन्यामिव वर्षं तमातपार्ता इव प्रजाः ॥ (१ ८)
स्वदर्शनाज्जगद्दृष्टं चकारादितरां तदा ।
समध्यन्निव शीतांशुश्चालयन् लोलमंबुधिम्॥ (१ ९)
एवं वर्तयतस्तस्य राज्ञः कुशलकर्मणः।
षष्टिर्वर्षाण्यतीतानि दिनमात्राणि सुव्रत ॥ (२०)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्तसप्ततितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–७८
सोमकनाम्ना राज्ञमुनीन् प्रति स्वस्यापुत्रत्वहेतुप्रश्नः
व्यासः –
अथ राजा समोपेदे चिन्तां बहुविदां तदा ।
वयः परिणतिं दृष्ट्वा भूतानां च गतागती॥ (१ )
इयासुर्नृप मुख्याश्च पुण्यलोकान् स्वकान् बहून्।
ब्राह्मणांश्च तपस्सिद्धान् वीतरागान्विमत्सरान् ॥ (२)
ऋत्विक्पुरोहिताचार्यान् समाहूय तपस्विनः ।
ससत्कृत्य च तान् सर्वान् यथायोगं यथावयः ॥ (३)
उवाच वाक्यं वाक्यज्ञो जीमूत इव नादयन् ।
लौकिकं वैदिकंयत्तद्बोद्धव्यं मनुजैरिह ॥ (४)
अन्यच्च सर्वं जानंति भवन्तश्श्रुतिशालिनः ।
कर्तारस्सर्वधर्माणां यूयमार्येषु सत्तमाः॥ (५)
शिष्यवत्सुतवच्चापि युष्माभिः पालिता वयम् ।
इष्टाश्च बहवो यज्ञा वित्तं दत्तं मया बहु ॥ (६)
अध्येतव्यमधीतं च श्रोतव्यं च श्रुतं मया ।
इष्टापूर्तं च सुकृतम् गुरवश्च सुपूजिताः ॥ (७)
प्रजानियच्छता शश्वत्प्रबुद्धेन हितैषिणा ।
राज्यं च सुतवत्पृष्टं मया च परिरक्षितम्॥ (८)
प्रत्यक्षमेतद्भवतामनृतं नात्र किञ्चन।
बलेन शत्रवाणांतद्वैरं निर्यापितं मया ॥ (९)
कृता वसुमतीपूर्णा सर्वत्र निरुपद्रवा।
पुण्योत्सव समायुक्ता मयाऽ प्येतच्च सूनृतम्॥ (१ ०)
तस्माच्छद्विपदां मुख्याः कुशलं कर्म कुर्वतः।
अपत्यलाभो नैवासीत प्रकारैरपि मे द्विजाः ॥ (१ १ )
तदर्थमिष्टं दत्तं च हुतं च बहुशो मया ।
तदाप्यसिद्धिरित्यत्र किमन्यद्भागधेयतः ॥ (१ २)
शास्त्रवर्त्मन् स्थिता सा तु सिद्धिरव्याकुलामता ।
तदलाभो मयैवेति किमन्यद्भागदेयतः ॥ (१ ३)
महान् विनिस्सृतःकालो वर्तते पश्चिमा दशा।
आशाहृतं मनो नासं नियन्तुमहमीश्वरः॥ (१ ४)
किन्नुकृत्यमिहस्थेन मयापत्यमविन्दता।
पुत्रिणां सफलो यत्नः परो रौद्राय कर्मणे ॥ (१ ५)
अनावृता भविष्यन्ति लोकाः पुत्रवतां सताम् ।
नापुत्रिणां परो लोक इति शास्त्रविदां स्थितिः॥ (१ ६)
अहं तु भवतां शिष्यः प्रेष्यश्च मुनिसत्तमाः।
रक्षणीय इति ज्ञात्वा दयां कुरुत मा चिरम् ॥ (१ ७)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टसप्ततितमोऽध्यायः।
श्रीरङ्गमाहात्म्यम्–७९
यज्ञकरणे मुनिकृत राज नियोगः
व्यासः –
इति राज्ञो वचश्श्रुत्वा ब्राह्मणा वीतमत्सराः ।
सत्कृत्य तद्वचस्सर्वे तं प्रत्यूचुर्मनस्विनः ॥ (१ )
आत्मा सत्यः परश्शुद्धो विभुस्सर्वगतो ध्रुवः ।
अन्यद्विनाशि देहादिप्राकृतं तज्जडात्मकम्॥ (२)
तथा प्रकृतिसंगोऽ स्य कर्मबन्धनहेतुकः ।
अनन्त्यात्कर्मणोऽ प्यस्य देहसंत्यं च तत्कृतम्॥ (३)
परस्परस्य वैषम्यात्तद्भेदस्तत्वतो भवेत् ।
देशकालस्वरूपोत्थपरिणामविशेषवत्॥ (४)
कर्मणां फलमिच्छन्ति कर्माणि फलवन्त्यपि।
प्रसूयकर्मस्वफलं तदानीमेव नश्यति ॥ (५)
नान्यथा कर्माणां नाशः केनचित्कस्यचित्क्वचित्।
असंख्येयानि जन्मानि प्रगृहीतानि देहिनाम् ॥ (६)
तत्तज्जन्मकृतं देहि न जहाति शुभाशुभम् ।
देहेन च कृतं कश्चिन्न विजानाति सांप्रतम् ॥ (७)
पूर्वक्षण प्रवृत्तस्य न क्षणान्तरसंस्मृतिः।
जन्मव्यवहितज्ञाने कुतश्शक्तिश्शरीरिणाम् ॥ (८)
अतस्तवानपत्यत्वं भवान्तरकृतं प्रभो ।
कार्ये क्षणात्कारणस्य ह्यास्तिताननिवारिता ॥ (९)
यथा कृशानुर्दहति नृपैधांसि समेदितः।
तदा च कुशलंकर्म भस्मसात्कुरुते शुभम् ॥ (१ ०)
असिद्धेर्यतमानानां महान्स्याच्च फलोदयः ।
नोचेत्संशयितासिद्धिः नराणां भाग्यसंक्षयात्॥ (१ १ )
राजा –
कथं च वर्तमानानामपत्यमिह चैष्यति ।
किमत्रकृत्यं धर्मज्ञास्तद्ब्रूत मम माचिरम् ॥ (१ २)
ब्राह्मणाः –
परं पुमांसं राजानः क्रतुभिर्भूरिदक्षिणैः।
इष्ट्वा च लब्धान्विविधान् कामानिह मनोगतान् ॥ (१ ३)
मान्धाता नाम राजर्षिः त्रिषु लोकेषु विश्रुतः ।
समाराध्य च गोविन्दं संप्राप गतिमुत्तमाम्॥ (१ ४)
दुन्धुमारश्च राजर्षीन् लेभे पुत्रशतं पुरा।
अनेन नियमेनैव तपसानसनेन च ॥ (१ ५)
दिलीपस्तु महायज्ञे समाराध्य च केशवम् ।
ऐश्वर्यं बहुसंप्राप्य लेभे पुत्रशतं च सः॥ (१ ६)
सगरो नाम राजर्षीन् दिक्षु सर्वासु विश्रुतः ।
पुत्राणां बहुसाहस्रं प्राप्तं तेन महात्मना ॥ (१ ७)
तथा दशरथो राजा महान् राजर्षिसत्तमः ।
यज्ञदानतपोयोगैरर्चितः पुरुषोत्तमः ॥ (१ ८)
स्वयं पुत्रत्वमापेदे तस्य राज्ञस्स ईश्वरः ।
जनको नाम राजर्षिः तत्त्वज्ञान निधिस्स्वयम्॥ (१ ९)
ऐश्वर्यममलं प्राप्य योगिनां गतिमाप्तवान्।
एवमेव हि राजानस्समुत्थितगुणाश्रयाः ॥ (२०)
ऐश्वर्यमक्षयं प्राप्ता गतिं ते यज्ञवैभवात्।
विभूतिरुत्तमा तेषां कीर्तिश्चैव सनातनी॥ (२१ )
अपत्यमिष्टमोजश्च एषां तुष्टो जनार्दनः ।
कुले महति संभूतो राजा त्वं प्रबलो बली॥ (२२)
समाराधय गोविन्दं पुत्रकामसमृद्धये।
विश्वेषामपि देवानां विश्वकर्मप्रवर्तकः॥ (२३)
इष्टं ददाति भगवान् सम्यगभ्यर्चितस्त्वया ।
बहुविघ्नायुतानीति भद्रकर्माणि नश्श्रुतम्॥
अद्यैव संप्रवर्त्यन्तां त्वया यज्ञादिकाः क्रियाः ॥ (२४)
व्यासः –
इति मुनिवचनं निशम्य राजा दयितमंन्त्रिदशाधिपप्रभावः ।
तनयमपि गुणान्वितं मनोज्ञं शुभमतिसुलभं सुखेन मेने॥ (२५)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकोनाशीतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–८०
यज्ञशालां प्रति मार्कण्डेयाऽऽगमनम्।
व्यासः –
अथ राजा बहुविधा यज्ञदानाधिकाः क्रियाः।
कारयामास विधिवत् ब्राह्मणैर्वेदपारगैः॥ (१ )
सत्रे तु क्रियमाणेऽस्य राजर्षेरमित प्रभाः।
दिग्भ्यो विनिर्गतास्सर्वे मुनयस्तं दिदृक्षवः ॥ (२)
अथाजगाम भगवान् मार्कण्डेयो महातपाः ।
शिष्यैः परिवृतो धीमान् महाराज दिदृक्षया ॥ (३)
मुनिं दृष्ट्वा समुत्तसौ राजा सर्वे तथार्त्विजः ।
निषसादासने पूर्वं निषेदुरितरे तथा ॥ (४)
राजा सत्कारयामास मुनिमर्घ्यादिभिः क्रमात् ।
सुसत्कृते मुनौ तस्य शिष्यान् सम्यगपूजयत्॥ (५)
ततस्तेषूपविष्टेषु मार्कण्डेयं नृपोत्तमः ।
कुशलं परिपप्रच्छ शिष्याश्रमतपस्सु च ॥ (६)
स चापि नगरेकोशे भृत्ये राष्ट्रे च राजनि।
कुशलं पृष्टवान् धीमान् पुरोधसि महामुनिः ॥ (७)
राजा –
स भवान् क्वचित्संसिद्धः कुतो वा गम्यतेऽ धुना।
तीर्थयात्रापरः कश्चिदिति राजा जगाद ह॥ (८)
निशम्य तद्वचो राज्ञो मार्कण्डेयो महातपाः।
उवाच मधुरं वाक्यं पुरोधा वासवं यथा ॥ (९)
मार्कण्डेयः –
आश्रमो हिमवत्पार्श्वे मम सत्सु च विश्रुतः।
यदृच्छयागतं राजन् तीर्थानि व्रजता मया ॥ (१ ०)
स चावाञ्छितवान् प्राज्ञः आर्यवृत्तेषु संमतः ।
कुशली सत्वसंपन्नः इति त्वां ब्रुवते जनाः ॥ (१ १ )
अनपत्यस्ततो राजा यजते पुत्रलिप्सया ।
इति वाचो हि लोकेऽ स्मिन् तदर्थमहमागतः॥ (१ २)
अपत्यार्थं महाराज यजतो ददतस्तव।
न चासीत्सिद्धिरित्यत्र किमन्यद्भागधेयतः॥ (१ ३)
पापकर्माभिभवति शुभानां कर्मणां फलम्।
यच्च यच्चाऽधिकं राजन् शुभं कर्माथवाऽशुभम् ॥ (१ ४)
तद्धितस्य फलं तद्वन्निरुणद्धि न संशयः ।
सत्यवादि हि शास्त्रं तदिति बुद्धिर्विनिश्चिता ॥ (१ ५)
कृतन्त्ववश्यं भोक्तव्यं कत्रा नान्य व्यतिक्रमः ।
तत्कथं त्वमपत्यार्थमास्सेकस्य मते नृप॥ (१ ६)
शास्त्रहीनापराबुद्धिर्नास्त्येव तव जातुचित् ।
सर्वं शास्त्रपराधीनं इति वै विदुषां स्थितिः ॥ (१ ७)
नो चेत्सर्वविपर्यासस्सर्वधर्मक्षयो भवेत् ।
तत्पावनानि कर्माणि दानानि च महामते ॥ (१ ८)
प्रशस्तानि च तीर्थानि क्षेत्राणि च शुभानि च।
त्वया संश्रयणीयानि कुर्वता ह्येनसः क्षयम्॥ (१ ९)
मनोरथास्ते सकला भविष्यन्ति शुभाश्रयात् ।
राजा-दत्तं बहुविधं वित्तमिष्टं च बहुदक्षिणम् ॥ (२०)
प्रजास्संवर्धितास्सर्वा मया पुत्रार्थिना मुने ।
अथ शस्तानि तीर्थानि क्षेत्राण्यायतनानि च॥
मयाप्याश्रयणीयानि तान्याचक्ष्व महामते ॥ (२१ )
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अशीतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–८१
राजानं प्रति मार्कण्डेयोक्त तीर्थाष्टक माहात्म्यम्
व्यासः –
एवमुक्तस्तु भगवान् मार्कण्डेयो महातपाः।
वचनं वक्तुमारेभे राजानं संप्रहर्षयन् ॥ (१ )
मार्कण्डेयः –
शृणुष्वावहितो राजन् वक्ष्यामि हितमुत्तमम् ।
क्षेत्राणां च वरं क्षेत्रं तीर्थानां प्रवरं भुवि ॥ (२)
प्रशस्तानि च तीर्थानि दृष्टानि बहुशो मया ।
क्षेत्राणि च महाबुद्धे मृत्युमुग्रं तितीर्षुणा ॥ (३)
मम मृत्युभयं तीव्रं क्षपितं राजसत्तम ।
क्षेत्रपुण्यतमे पूर्वं यस्मिन् श्रीरङ्गशब्दिते ॥ (४)
तत्रपुष्करिणी तीर्थं सर्वपापप्रणाशनम्।
तत्र स्नात्वा नरश्शुद्धः सर्वान् कामानवाप्नुयात्॥ (५)
केसरं तीर्थमतुलं तस्य वै पश्चिमोत्तरे ।
कदंबमुत्तरे तस्य आम्रं प्रागुत्तरे नृप ॥ (६)
बिल्वतीर्थं तु पूर्वेऽ स्मिन् जम्बूः प्राग्दक्षिणे तटे ।
दक्षिणप्राक्तु पालाशमश्वत्थं दक्षिणे तटे ॥ (७)
तत्पश्चिमे तु पुन्नागं क्रमेणैव विदुर्बुधाः।
पुष्करिण्यास्तटे राजन् तीर्थाण्यष्टौ शुभानि च ॥ (८)
श्रीमत्पुष्करिणीतीर्थमेभिस्तीर्थस्समन्वितम्।
सर्वपापहरं नृणां सर्वसिद्धिप्रदं भुवि॥ (९)
तापत्रय प्रतप्तानां नृणां शान्तिकरं परम् ।
योगाग्निदग्धकर्माणो मुनयो वीतमत्सराः ॥ (१ ०)
पुष्करिण्यां च संसक्तास्सिद्धिं च परमांगताः।
पुन्नागतीर्थे भगवान् सुवर्चल इति श्रुतिः॥ (१ १ )
ज्ञानाग्निदग्धकर्मा च पुरा निर्वृतिमाप्तवान् ।
भार्गवस्तारको नाम मुनिस्तप्त तपो नृप ॥ (१ २)
भवार्तिमपनीयासौ केसरे निर्वृतिं ययौ ।
सुकीर्तिरिति तत्रैव वैदेहो मिथिलाधिपः॥ (१ ३)
स्वकर्मपचितं कृत्वा निर्वाणं परमं ययौ।
रुक्मदृष्टिरिति ख्यातो गर्गगोत्रसमुद्भवः ॥ (१ ४)
कदंबमाश्रित्य ययौ अक्षरं ब्रह्मसंज्ञितम्।
काश्यपस्त्वाम्रमासाद्य ह्यमृतत्वमविन्दत ॥ (१ ५)
तेपे पशुपतिस्तत्र ब्रह्महत्यापनुत्तये।
कुमारस्तत्र तपसा देवसेनाग्रणीरभूत् ॥ (१ ६)
वकुलं तीर्थमासाद्य ब्राह्मणा वसुधाधिपाः ।
सर्वान् कामानवप्योच्चैर्निर्वृतिं परमां ययुः ॥ (१ ७)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकाशीतितमोऽध्यायः
श्रीरङ्गमाहात्म्यम्–८२
जयधर राजचरितम्
मार्कण्डेयः –
श्रूयतां च पुरावृत्तमघौघक्षपणक्षमम्।
मनः प्रह्लाद जननं शृण्वतामघनाशनम् ॥ (१ )
सोमवंशोद्भवो राजन् राजा जयधरो महान् ।
हृत श्रीब्राह्मण क्रोधाद्राजा कृच्छ्रगतो भवत् ॥ (२)
अप्राप्य चण्डान् नृपतिः ब्राह्मणानप्यबाधत ।
राजक्रोधानलात्तप्ताः कृशाश्च परिपीडिताः ॥ (३)
तद्राष्ट्रान्निर्ययौ राजन् ब्राह्मणाः ब्रह्मवर्धनाः।
राज्यं तच्छूद्रभूयिष्ठमासीत्स्वाध्याय वर्जितम् ॥ (४)
उपद्रव शतैर्युक्तं क्षुत्ताप भयपीडितम्।
दृष्ट्वाधिव्याधिसंयुक्तं स राजापि ह्यतप्यत ॥ (५)
राज्ञः पुत्रशतं राजन्नुपसर्गान्ममार च।
प्रकीर्णकेशा व्याप्तास्याः मातरो रुरुदुर्भृशम्॥ (६)
पुत्रशोकपरीतांगो विललाप महीपतिः।
भरद्वाजस्य शिष्यस्तु तस्य चासीत्पुरोहितः ॥ (७)
तस्मिन्काले महाराज वाल्मीकिर्मुनिसत्तमः ।
पुष्करिण्यास्तटे शुभ्रे सशिष्यो वसति स्म ह ॥ (८)
तं चापि वन्दितुं शिष्यस्तस्यर्षेर्भावितात्मनः ।
भरद्वाजो महाबुद्धिर्जगाम मुनिमर्चितुम् ॥ (९)
सगच्छन्नेव भगवांस्तद्द्राष्टं प्रविवेश ह ।
राज्ञः प्रवृत्तिमूर्तिं च तस्य शिष्यो महामतिः॥ (१ ०)
पुरोधस्सर्वमाचष्ट भरद्वाजाय पार्थिव।
श्रुत्वा तु तद्वचस्तथ्यं मूर्तियुक्तं महामुनिः ॥ (१ १ )
भरद्वाजो महाराज कृपया पर्यतप्यत ।
गुरवे सर्वमाचख्यौ तस्मै वाल्मीकये मुनिः॥ (१ २)
स तु तद्वचनं श्रुत्वा परं हृदयतापनम् ।
कृपां चकार वाल्मीकि राज्ञो राष्ट्रस्य वत्सलः ॥ (१ ३)
तद्राष्ट्रावासिनो विद्वान्सर्वानाहूय सादरम् ।
इदं जगाद भगवान् वाल्मीकिरतुलप्रभः ॥ (१ ४)
युष्मत्कोपप्रभावाच्च राजा कृशतरः कृतः।
युष्माभिर्वर्जितं राष्ट्रं नष्टप्रायमभूद्द्विजाः ॥ (१ ५)
रिक्तं ज्योतिर्गणैश्शुभ्रैरंतरिक्षमिवाप्रियम्।
आहुर्वर्ज्यानि चैतानि सदा धर्मार्थदर्शिभिः ॥ (१ ६)
तद्विनष्टमभूद्राज्यं विप्रकोपप्रपीडितम् ।
राज्ञस्तु दुष्कृतिर्मूलमपसर्गस्य चास्य हि॥ (१ ७)
धर्मार्थकाममोक्षाणाम् चतुर्णामपि सत्तमाः।
राजानं कारणं प्राहुः पुरुषार्थविदो जनाः॥ (१ ८)
राजा प्रतिष्ठा धर्माणां राजमूलमिदं जगत् ।
राजमूला हि वै वर्णा राजमूलास्सदाश्रमाः ॥ (१ ९)
गवां च ब्राह्मणानां च प्रतिष्ठा शाश्वती नृपः ।
राज प्रतिष्ठा वै विप्रा इति धर्मविदां स्थितिः॥ (२०)
ब्रह्मक्षत्रंमहाभागास्तथैवान्योन्यसंगतम् ।
तस्माद् भवन्तस्संसिद्धाः कोपं संशमयन्त्विह॥ (२१ )
रक्षणीयं भवद्भिस्तद्राष्ट्रं राजक्षमापरैः ।
यदि वो मद्वचो ग्राह्यमेवं कुरुत सत्तमाः ॥ (२२)
मार्कण्डेयः –
इति श्रुत्वा वचो राजन्महर्षेर्भावितात्मनः ।
प्रहृष्टवदनास्सर्वे तथा चक्रु चिजर्षभाः।
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्व्यशीतितमोऽध्यायः
श्रीरङ्गमाहात्म्यम्–८३
बिल्वतीर्थे गन्धर्वकृत श्रीशाराधनम्
मार्कण्डेयः –
अथ भूमिपमादाय स द्विजं मुनिसत्तम।
प्रययौ बिल्वकं यत्र बिल्वो यत्र महान् स्थितः ॥ (१ )
समागतं मुनिं दृष्ट्वा मुनयो हृष्टमानसाः।
कृतार्थं मन्यमानास्ते स धर्मां वाचमब्रुवन्॥ (२)
वयं भवामस्सिद्धार्थाः कृतार्था नो मनोरथाः।
भगवत्यागते तीर्थे तत्वज्ञाननिधौ स्वयम् ॥ (३)
इत्याकर्ण्य वचस्तेषां वाल्मीकिर्मुमुदे चिरम्।
मुनीनां तत्र सिद्धानां तीर्थांबुः क्षपितेनसाम् ॥ (४)
अथान्तरिक्षे संवृत्तं दिव्यं गीतं सशुश्रुवे ।
बिल्वमूले ददर्शोच्चैः पुष्पवर्षं निपातितम् ॥ (५)
मनोहरं महाभागस्तत्र गन्धवहो ववौ ।
वादित्राणि विचित्राणि शुश्रुवे गगने शुभे ॥ (६)
एवमेव महाभाग सन्ध्ययोरुभयोरपि ।
दृश्यन्ते स्म महातीर्थे मङ्गलानि बहून्यपि ॥ (७)
दृष्ट्वा सविस्मिताक्षो भूद्वाल्मीकिस्सनृपो मुनिः ।
भूयश्च चिन्तयामास किमेतदिति सत्तमः ॥ (८)
सनत्कुमारोभगवानाजगाम यदृच्छया ।
तस्मिन्स्तीर्थवरे पुण्ये सह शिष्यैर्मनोरमैः॥ (९)
तौ परस्परसंगत्या परिष्वक्तौ महामुनी ।
मुनिभिस्सत्कृता राजन् प्रश्रान्तौ च निषेदतुः ॥ (१ ०)
अथाब्रवीद्भरद्वाजो मुनिं दृष्ट्वा परावरम् ।
सनत्कुमारं मन्वानः किमेतदिति भूपते ॥ (१ १ )
भरद्वाजः –
उपविष्टेषु गुरुषु संगीतमिह सुश्रुतम् ।
वादित्राणि विचित्राणिपुष्पवर्षं च पातितम् ॥ (१ २)
ऐश्वर्यमेतद्युगपदस्माभिरुपलक्षितम् ।
पृच्छतो ब्रूहि मे सत्यं किमेतदिति सत्तम॥ (१ ३)
सनत्कुमारः –
शृणु तत्वं भरद्वाज यदि ते श्रवणे मतिः।
अत्र गंधर्वपतिना यद्वृत्तं तत्पुरा मुने ॥ (१ ४)
गंधर्वो वासवसखश्चित्रसेन इति श्रुतिः ।
स तु क्षीभः क्षितिं गत्वा चचार प्रमादान्वितः॥ (१ ५)
निर्झरेषु च रम्येषु वनेषु मधुगन्धिषु ।
प्रियाभिरसुरक्ताभिश्चिक्रीडानुचरैस्समम् ॥ (१ ६)
गंधर्वेण प्रमत्तेन रंगाभ्यर्णमुपेयुषा ।
श्रीमतो महतो धाम्नश्चायातेन च लंघिता॥ (१ ७)
तस्य व्यतिक्रमात्सद्यश्चिक्षिपु र्देशरक्षिणः ।
गन्धर्वः पतितश्चायं बहि ग्रीपे महामते ॥ (१ ८)
देवराजस्य वचनाद्दुष्कृतस्य गरीयसः ।
चचार निष्कृतिं सोऽ पि तपस्तीर्थनिषेवया ॥ (१ ९)
आसेवमानस्तीर्थानि क्षेत्राणि विदुषां वर ।
ययौ पुष्करिणीतीर्थं ततश्शुद्धो बभूव ह ॥ (२०)
श्रोत्रानुकूलैर्हृद्यैश्च संगीतैर्मधुरैरिह ।
दिव्यगांधर्व संगीत्या रङ्गिणं समतोषयत्॥ (२१ )
ततस्तुतोष भगवान् रङ्गधामा महात्मने ।
ततः कृतार्थो निर्वृत्तो गंधर्वाणामभूत्पतिः ॥ (२२)
अथैनं सहसा ब्रह्मन् परिवप्रुर्वियद्गतम् ।
भास्वराणि विमानानि गंधर्वाश्शरदस्तदा ॥ (२३)
शुक्लपक्षे तु पञ्चम्यां गन्धर्वा प्रिययान्विताः ।
बिल्वतीर्थे श्रियं देवीं समाराध्य श्रियः पतिम् ॥ (२४)
अवापुः परमां सिद्धिं देवैरपि स दुर्लभाम्।
पञ्चमी चाद्य संप्राप्ता गंधर्वास्सपरिच्छदाः।
पूजार्थमिह संप्राप्तास्तत्कृतोद्य महान्महः ॥ (२५)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्र्यशीतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–८४
बिल्वमूले सर्वाभीष्टप्रद पञ्चमी व्रत विधिः
भारद्वाजः –
आचक्ष्व मे विधिं ब्रह्मन् पञ्चम्याः परमे व्रते।
तस्येह महिमायाश्च सर्वान्कामान् प्रवर्षति ॥ (१ )
सनत्कुमारः –
शृणु वक्ष्यामि भगवन् पञ्चम्याः परमं व्रतम्।
यस्य श्रवणमात्रेण नरः पापात् प्रमुच्यते ॥ (२)
श्रवणेन यदा युक्ता शुक्लपक्षे तु पञ्चमी ।
अथवा मार्गशीर्षे तु शुक्लपक्षे तु पञ्चमी ॥ (३)
उत्तरफल्गुणी यस्यामिन्दुवारसमागमः ।
आरभेत नरस्तस्यां व्रतं पूर्वमुपोषितः ॥ (४)
चतुर्थ्यां विधिना स्नातो ब्रह्मचारी जितेन्द्रियः।
धृतिमान् धृतसंकल्पो भवेन्नियतमानसः ॥ (५)
ततः काल्यं समुत्थाय भवेन्नियतमानसः।
धृतसंकल्पया पत्न्या कुर्याद्वृक्षस्य चार्चनम्॥ (६)
बिल्वमूले ततः कुर्याद्वेदिं पुष्पाक्षतैर्युताम् ।
स्थापयेत्कलशानष्टौ तस्यामष्टसु दिक्षु च॥ (७)
तन्मध्ये बिल्वमूले तु स्थापयेद्वै महाघटम् ।
सौवर्णं राजतं ताम्रं मूर्तिकं वा शुभान्वितम् ॥ (८)
वस्त्रयुग्मेन सञ्छन्नं नवरत्नसमन्वितम् ।
कलशांश्च तथाकुर्यात्तीर्थोदकसमन्वितान्॥ (९)
दूर्वा स मधुपर्णी च श्रीलता पङ्कजं सितम्।
एकपत्रमपामार्गं तुलसीजातिरित्यपि॥ (१ ०)
बिल्वाम्रतालदिन्दूकधात्रीरंभाफलान्यथ।
जम्बूपनसजातानि बुद्धिश्शक्तिस्सरस्वती॥ (१ १ )
श्रद्धा लक्ष्मीधृतिस्तुष्टिः पुष्टिरित्येव शक्तयः ।
एलासर्षप तक्कोल तिलकचूरपद्मकम् ॥ (१ २)
लोध्रमांससमायुक्तानिति सर्वान्विनिक्षिपेत् ।
पूर्वादीशानपर्यन्तं कलशेषु महामते॥ (१ ३)
मध्यमे तु क्षिपेत्सर्वं दूर्वादिकमुदीरितम् ।
अथ तत्र श्रियं देवीमष्टशक्तिसमन्विताम् ॥ (१ ४)
श्रीबीजेन समाह्वाय तत्र पूजानि साधयेत् ।
एवं सर्वत्र शक्तीनां बीजेनावाहनं विदुः ॥ (१ ५)
स्वनामाद्यक्षरं बीजमनुस्वार समन्वितम् ।
तत्र तत्र च तत्पूजां विधिना सम्यगाचरेत् ॥ (१ ६)
श्रीलताजातिवकुलैर्नन्द्यावर्तप्रसूनकैः ।
एकपत्रैस्सितांभोजैर्मल्लिकाकुसुमाऽक्षतैः ॥ (१ ७)
श्रीसूक्तेन श्रियं देवीमर्चयेत्तदृचा सुधीः ।
गुडान्नपायसाऽपूपमुद्गान्नदधिसंयुतैः॥ (१ ७)
शाल्यान्नक्षीरमधुरैश्श्रियन्देवीं समर्चयेत् ।
एवं कृत्वा यथायोगं ततस्संवृणुयाद्वरम्॥ (१ ८)
देवीपद्मपलाशाक्षि नमस्ते श्रीधरप्रिये।
सिद्धार्थं मां कुरुष्व त्वं व्रतेनानेन सुव्रते ॥ (१ ९)
जिह्मश्रियेऽमृतकरे पद्मवासे सरस्वति ।
सिद्धार्थं मां कुरुष्व त्वं व्रतेनानेन सुव्रते॥ (२०)
श्रद्धे श्रद्धात्वमीशाने सत्वानि कुरुषे वशे।
सिद्धार्थं मां कुरुष्व त्वं व्रतेनानेन सुव्रते॥ (२१ )
धूम्ये मादधती धात्रीं मलरे दिव्य शुशुभे ।
सिद्धार्थं मां कुरुष्व त्वं व्रतेनानेन सुव्रते॥ (२२)
सतां दोषदितां पुष्टिं ददासि कमले अमले।
सिद्धार्थं मां कुरुष्व त्वं व्रतेनानेन सुव्रते॥ (२३)
संधुक्षयसि संस्पृष्टं मङ्गलायतनं जगत्।
सिद्धार्थं मां कुरुष्व त्वं व्रतेनानेन सुव्रते॥ (२४)
इति मन्वीत सकलास्संपूर्णा मे मनोरथाः।
इन्दिरायाः प्रसादेन व्रतेनाऽपित्वहं सुखी ॥ (२५)
ततःपरिसमाप्त्यैवं श्रियः पूजां समाहितः।
मध्यमस्य समीपे तु महान्तं स्थापयेद्धटम्॥ (२६)
तस्मिन्नावाहयेद्देवं श्रीधरं श्रीपतिं प्रभुम् ।
वस्त्रयुग्मेन संच्छन्नं सर्वरत्नसमन्वितम्॥ (२७)
निधाय विधिना कुम्भं तत्र पूजां समाचरेत् ।
अथवा स्थापिते पूर्वे देवमावाह्य साधयेत्॥ (२८)
समाप्य विधिवत्पूजां ततश्च वृणुयाद्वरम् ।
भगवन् श्रीपते श्रीश श्रीनिवास जगन्मय॥ (२९)
प्रसादात्तव ते सन्तु सम्पूर्णा मे मनोरथाः।
अथ संपूजयेद्विद्वान् ब्राह्मणान् वेदपारगान्॥ (३०)
नवकं मिथुनं कृत्वा तत्तन्मन्त्रेण कारयेत् ।
तेभ्यो दद्याद्यथायोगं भूषणादि धनं बहु ॥ (३१ )
वर्धितस्तत्तदासीभिर्विसृज्य द्विजसत्तमान्।
तत्र त्रैलोक्यपालानां बलिं दिक्षु विनिक्षिपेत् ॥ (३२)
उपवासश्च कर्तव्यस्सहवध्वावरेण च ।
पाषण्डादिभिरालापो न कर्तव्यः कदाचन ॥ (३३)
यदि स्यात्पतनं गच्छेन्निरये चाप्यधोमुखः।
वृथाजल्पपरो न स्यात् वृथारंभो वृथा मतिः ॥ (३४)
न स्वपेच्च दिवारात्रं नाद्यादपि च किंचन।
न क्रीडानोपहासश्च समिधो भूषणं क्वचित् ॥ (३५)
श्रीधराय नमो नित्यं श्रियै नम इतीरयन्।
एवमेव दिनं नीत्वा ततष्षष्ट्यां समाहितः ॥ (३६)
समभ्यर्च्य श्रियं देवीं तथा देवं यथा पुरा।
ब्राह्मणान् भोजयेत्पश्चाद्विधिवत्सपरिग्रहान्॥ (३७)
दत्वा धनादिकमथ स्नायात्कुम्भोदकेन च।
पत्न्या सह हविश्शेषं ततो भुंजीत वाग्यतः ॥ (३८)
दद्यादार्तदरिद्रेभ्यो योषिद्भिश्चाऽन्नमुत्तमम् ।
गुरवे दक्षिणां दद्यात्पितृभ्यश्च स्वधामपि॥ (३९)
बिल्वं च दृष्ट्वा प्रणमेत्तं प्रदक्षिणतो व्रजेत् ।
न कुर्यात्ताडनं तस्य तथा पादाभिमर्शनम्॥ (४०)
न लंघयात्तच्छायां नाद्यात्तस्य फलादिकम् ।
प्रशस्तं बिल्वपत्राणां धारणं मूर्ध्नि नित्यशः ॥ (४१ )
शतपत्रं चैकपत्रं श्रीलताकुसुमान्यपि।
दूर्वाश्च जातिकुसुमतिलसर्षपतण्डुलान्॥ (४२)
शिरसा धारयेन्नित्यं श्रियमिच्छन्ननाकुलाम् ।
आयुर्विद्यां श्रियं तुष्टिमारोग्यं कान्तिमुत्तमाम् ॥ (४३)
सौभाग्यं क्षेत्रसंप्राप्ति व्रतेनाप्नोति मानवः ।
विंदते व्रतकृद्राजा राज्यश्रियमनुत्तमाम्॥ (४४)
वैश्यश्चलभते वित्तं शूद्रस्सुखमाप्नुयात् ।
कन्या च लभते सौम्यं पतिं हृदयहर्षणम् ॥ (४५)
वन्द्या चाऽभिमतं पुत्रं वित्तवन्तं न संशयः ।
योषित्परममाङ्गल्यं प्राप्नुयाद्व्रतसंपदा ॥ (४६)
अपत्यं प्रार्थयेत्तावत्पूजाकाले सुतार्थिनी ।
पायसेन श्रियं देवीं देवेशं च समर्चयेत् ॥ (४७)
श्रियं कामयमानस्य पूर्वोक्तविधिनार्चनम्।
सौभाग्यमिच्छता कार्यं घृतान्नेन समर्चनम् ॥ (४८)
हविश्च फलमूलाभ्यां कार्यं राज्ञश्रियोर्थिना।
विद्यार्थिना च देयानि हवींषि मधुरोल्बणम्॥ (४९)
आयुष्कामेन शुचिना पयसा कार्यमर्चनम् ।
एवमेव च वर्षान्तमनुतिष्ठेत्तु पञ्चमीम्॥ (५०)
अथवा सकृदुक्तेन विधिना कार्यमिष्यते।
अथ यावत्फलप्राप्तिकार्यमेतद्वतं मतम् ॥ (५१ )
सर्वं भाग्यवशादेव फलं भुङ्क्ते नरो भुवि ।
तद्योगात्तत्क्षणात्तावदचिरं स्याच्छिरं फलम्॥ (५२)
अपि च क्षीणभाग्यानामसतामपि संपदः ।
भवेयुस्सर्वसत्वानां व्रतेनाऽनेन वै ध्रुवम् ॥ (५३)
एवमुक्तेन विधिना व्रतं च व्रतिनां वर ।
सर्वसिद्धिकरं पुंसामुक्तमेतन्महामते ।
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुरशीतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–८५
आरोग्यस्वस्त्यादि हेतु षष्टीव्रते चक्रादि पूजा
सनत्कुमारः –
अथ षष्ठ्यां तु राजन्य समुपोष्य यथाविधि ।
चक्राब्जमण्डलं कृत्वा कर्णिकायां सुदर्शनम् ॥ (१ )
दलेषु लोकपालानामायुधानि समर्चयेत् ।
स्वान्यायुधानि पुरतः प्रतिष्ठाप्य सुपूजितम् ॥ (२)
रक्तचंदनसिद्धार्थैः रक्तपद्माङ्कुरैरपि।
रक्तवस्त्र सुगन्धाढ्यै भूषणादिभिरर्चयेत्॥
अपूपादि फलसंयुक्तं गुडान्नं च निवेदयेत् ॥ (३)
सुदर्शन महाभाग ज्वालाव्याप्तदिगंतर ।
दैत्यारि चक्रोन्मथन विद्विषो मे निबर्हय ॥ (४)
अनिशं लोकपालानां सम्यक् प्रहरणान्यपि।
अभयं विजयं युद्धे मङ्गलं प्रदिशन्तु नः॥ (५)
यथा विष्णुः परं पुंसां यथा लक्ष्मीश्च योषिताम्।
तथा चाऽस्त्रवरं चक्रं कुर्यान्मे विजयं सदा ॥ (६)
चक्रप्रतिमरूपाढ्यान्यंशुमंति शुभान्यपि ।
आयुधानि समाप्तानि भवन्तु मम सर्वदा ॥ (७)
मत्तमातङ्गनिकरं रथवाजियुतं मम ।
हृष्टपुष्टपदात्योघं बलं रक्ष सुदर्शन ॥ (८)
इति संप्रार्थ्य तद्भूमौ लभते तत्तथा ध्रुवम्।
ततश्च पुरतो वृत्तं मण्डलं कारयेत्सुधीः ॥ (९)
तत्तण्डुलेन धान्येन तिलबीजेन पूरयेत् ।
अव्रणान् वस्त्रसञ्च्छन्नान् सर्वौषधिसमन्वितान् ॥ (१ ०)
संस्थापयेच्चतुर्दिक्षु कलशांश्चतुरस्तथा ।
मध्ये सर्वौषधीयुतं सर्वरत्नसमन्वितम् ॥ (१ १ )
वस्त्रयुग्मेन सञ्छन्नं कुम्भं तत्र निधाप्य च ।
तस्मिन्नावाहयेद्देवं सुदर्शनमनन्यधीः ॥ (१ २)
शङ्खं च नन्दकं चैव शार्ङ्गं कौमोदकीं तथा ।
न्यसेत्प्राच्यादि दिक्ष्वेवं तत्र तत्र च पूजयेत् ॥ (१ ३)
पायसं च गुडान्नं च मुद्द्रान्नं दधिसंयुतम् ।
निवेदयेद्यथायोगं मध्यमे सकलं मतम्॥ (१ ४)
अथवा मध्यकुम्भे तु पूज्या वै पञ्चहेतयः।
बहिस्तु लोकपालानामायुधानि न्यसेद्बुधः ॥ (१ ५)
तदग्रे महतीं यष्टिं पीतकौशेयसंवृताम्।
संस्थाप्य तार्क्ष्यसंस्थानं ध्वजमग्रे निबध्य च ॥ (१ ६)
तार्क्ष्यं संपूजयेत्पश्चाद्गन्धपुष्पादिभिः क्रमात् ।
अपूपफलमूलान्नं भूरी तत्र निवेदयेत् ॥ (१ ७)
प्रदक्षिणनमस्कारस्तोत्रालापादि कारयेत्।
घनं घनानां पटलं द्रावयत्यनिलो यथा॥ (१ ८)
तथा च मयि विद्विष्टान्विद्रावय तु पक्षिराट्।
इति संप्रार्थ्य विधिवत्पूजां परिसमाप्य च॥ (१ ९)
लोकपालबलिं दद्यात्कृसरान्नेन साधकः ।
तदग्रे च समानीय सौवर्णं सिंहविष्टरम्॥ (१ ०)
तस्मिन् नृपं समारोप्य सर्वालङ्गारसंयुतम् ।
सौदर्शनेन मन्त्रेण मध्यमेनाऽभिषेचयेत् ॥ (१ १ )
अन्यैश्च तत्तन्मन्त्रेण सिद्धमन्त्रः पुरोहितः।
ततो नीराजनविधिरलङ्गारसमर्पणम् ॥ (१ २)
सौवर्णं पात्रमानीय तस्मिन्नेव सुदर्शनम् ।
तन्मन्त्रेण समावाह्य गन्धपुष्पादिनाऽर्चयेत् ॥ (१ ३)
वर्तिं सिद्धार्थसंयुक्तां रक्तवस्त्रेण वेष्टिताम्।
प्रज्वाल्य तत्र संस्थाय पूजां कुर्याद्यथाविधि ॥ (१ ४)
मूर्ध्नि त्रिः परिवर्त्याथ प्राच्यां योषिद्विनिक्षिपेत्।
आयुधानां प्रधानस्य हेतिराजस्य मन्त्रतः ॥ (१ ५)
तत्तन्मन्त्रेण वा कुर्याद्वाहनादि समर्पणम् ।
ततश्च भूषणादीनामेष एव विधिस्स्मृतः ॥ (१ ६)
युद्धारम्भे महोत्पाते परसेनाप्रपीडने।
राज्यभ्रंशे परिक्लेशे शोकव्याद्ध्यादि पीडने ॥ (१ ७)
इष्टदारवियोगे च सुतनाशे बलक्षये।
स्नानमेवं प्रकुर्वीत शुक्लषष्ट्यां समाहितः ॥ (१ ८)
निमित्ते लक्षिते वास्याज्जन्मर्क्षेषु त्वयं विधिः ।
तार्क्ष्यध्वजं च स्म्पूज्य युद्धारम्भे च भूपतिः॥ (१ ९)
रणप्रवेशं कुर्वीत सध्वजो जयमावहेत् ।
ध्वजस्य चलनादादौ फलाफलविनिश्चयः॥ (२०)
जयं प्राक्कलनादाहुर्दक्षिणे तु पराजयम् ।
पश्चिमे सैन्यमरणमुत्तरे स्वपलायनम् ॥ (२१ )
आग्नेय्यामधिपो नश्येन्नैर्ऋत्यां बलनाशनम्।
वायव्यां वाजीमरणमैशान्यां गजसंक्षयः ॥ (२२)
अस्पन्धिते स्वभावस्स्याद्युद्धन्त्यैतत्परीक्षणम् ।
छिन्ने ध्वजे स्वमरणं यष्टिच्छेदे परस्य च॥ (२३)
तत्क्षणं च स्वदेहस्य विद्यादेवं विचक्षणः ।
आदौ सर्वं परीक्ष्यैव कुर्वीत रणपण्डितः॥ (२४)
कार्यान्तरेप्येवमेव भावाभावविनिश्चयः ।
ब्राह्मणैस्स्वस्तिवचनं पश्चाद्ब्राह्मणभोजनम्॥ (२५)
एवं कृत्वा ततः कुर्यात्पूजां चैव परेऽहनि ।
विभवे तु ततः कुर्याद्दर्शनं बान्धवैस्सह ॥ (२६)
गुरवे दक्षिणां दद्यादृत्विग्भ्यो भूरिदक्षिणाः।
वित्तशाठ्यं न कुर्वीत यावद्व्रतसमापनम् ॥ (२७)
न ब्रूयादनृतं कुर्याद्ब्रह्मचर्यस्य रक्षणम्।
एतत्स्वस्त्वयनं प्रोक्तं सर्वरोगविनाशनम् ॥ (२८)
सर्वदुःखप्रशमनं सर्वस्य विजयावहम्।
एतद्व्रतं पुष्टिकरं शृण्वतां कुर्वतामपि ॥ (२९)
एतत्सर्वाधिकारं स्याद्राज्ञां श्रेयो ददात्यलम्।
षष्टिव्रतं तवाख्यातं सप्तम्यामपि तच्छृणु॥ (३०)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चाशीतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–८६
मांगल्याभिलाषी स्त्रीजनकार्य सप्तमीव्रते चक्रादिपूजा
सनत्कुमारः –
माङ्गल्यश्रियमिच्छन्ति मङ्गलायतनं हरिम् ।
अर्चयेद्वनिता देवं सप्तम्यां समुपोषिता ॥ (१ )
मण्डलं चतुरश्रं च विधायाऽक्षतसंयुतम्।
तस्मिन्नावाहयेद्देवं श्रीशमिन्दिरया सह ॥ (२)
पङ्कजैर्जातिकुसुमैर्नन्द्यावर्तप्रसूनकैः।
एकपत्रैर्बिल्वदलैर्दूर्वाकेसरतण्डुलैः ॥ (३)
शर्करामधुसंयुक्तपायसेन समर्चयेत् ।
मृण्मयं राजतं ताम्रं सौवर्णं च चतुष्टयम्॥ (४)
पात्रमव्रणमच्छिद्रं द्रोणपूर्णं च कारयेत् ।
मधुना पयसा दध्ना घृतेन परिपूरितान्।
स्थापयेत्कलशान् तत्र मृण्मयांश्च विचक्षणः॥ (५)
चतुःप्रस्थप्रमाणेन सम्मितान् वस्त्रसंयुतान् ।
लवणं च तिलं चैव हरिद्राचूर्णधान्यकम्॥ (६)
मृत्ताम्रराजतेष्वेव शातकुम्भेषु वापयेत् ।
स्थापयेत्कलशानग्रे पात्राण्यपि महामतिः ॥ (७)
योषितः पूजयेदष्टौ सपुत्राःपतिदेवताः ।
सर्वमङ्गलसंयुक्तास्सर्वाभरणभूषिताः॥ (८)
ताभ्यो दद्याद्यथायोगं मङ्गलार्थं विचक्षणा ।
तास्तथा भोजयेत्तासां दक्षिणां च प्रदापयेत् ॥ (९)
ततश्च सन्निधौ तासां प्रार्थयीत श्रियः पतिम् ।
माङ्गल्यं परमं देहि मङ्गलायतलोचन॥ (१ ०)
इन्दिरे कान्तनयने श्रीकान्तनयनप्रिये।
श्रीप्रदे श्रीलताश्लेष प्रियोदरभुजद्वये॥ (१ १ )
माङ्गल्यं परमं देहि मङ्गलायतलोचने।
अथ ताभिश्च वनिता योषद्भिः कृतमङ्गला ॥ (१ २)
अनुज्ञया हरेः पूजां समाप्य विसृजेच्च ताः ।
आचार्यदक्षिणां दद्याद्ब्राह्मणेभ्यो धनं बहु॥ (१ ३)
संकल्पादौ विधिं तस्यास्सुतो वा जनकोऽ पि वा।
कुर्वीत श्वशुरो भ्राता गुरुर्वा नवतिः क्वचित् ॥ (१ ४)
कार्यः पूजाविधिरयं मन्त्रेणाष्टाक्षरेण च।
अष्टम्यां च ततः कुर्यात् पूर्ववद्देवपूजनम् ॥ (१ ५)
इष्टाभिस्सह योषिद्भिः कुर्यान्मन्त्रेण पारणम्।
उपवासश्च कर्तव्यः पतिनापि सुतार्थिना॥ (१ ६)
अष्टम्यां पारणं कुर्याद्दद्याद्ब्राह्मणभोजनम् ।
आचार्यदक्षिणां दद्यात् व्रतं चैव समापयेत्॥ (१ ७)
एतदारोग्यजनकमायुष्करसुपावनम्।
माङ्गल्यप्रभवं स्त्रीणां पुत्रपौत्रप्रदं नृणाम्॥ (१ ८)
सुतार्थिनी सुतं विन्देदायुश्चापि तदर्थिनी ।
मङ्गलं परमिच्छन्ति व्रतेनानेन चाप्नुयात् ॥ (१ ९)
पुंसामपि यशः कीर्तिं बलमायुः प्रयच्छति।
राज्ञमायुर्द्विजाग्र्याणां विद्यां च विपुलामपि ॥ (२०)
वैश्यानां विपुलां पुष्टिं शूद्राणां च सुखं भवेत् ।
व्रतमेतत् सदा कार्यमात्मनो जयमिच्छता॥ (२१ )
युद्धादि चेहमानानामादौ कार्यमिदं व्रतम्।
कन्यकापि पतिं विन्देत्कुर्वती व्रतमुत्तमम्॥ (२२)
एवमेतद्धि सम्प्रोक्तं सप्तमीव्रतमुत्तमम् ।
सर्वपुण्यप्रदं नृणां सर्वपुष्टिप्रदं भुवि ॥ (२३)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षडशीतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–८७
शत्रुनाशेच्छावता राज्ञाकार्यमष्टमीव्रतविधिः
सनत्कुमारः –
अथाऽष्टमीव्रतं ब्रह्मन् प्रोच्यमानमिदं शृणु।
भव विध्वंसनं नृणां सर्वार्तिहरणं परम्॥ (१ )
राजा वा राजपुत्रो वा य इच्छेद्रिपुनाशनम्।
स चाप्यष्टम्यास्तु सुस्नातो ह्युपवासं प्रकल्पयेत् ॥ (२)
कुर्यादष्टदलं पद्मं तण्डुलैर्वा प्रसूनकैः ।
कर्णिकायामथाशानां नरसिंह्माकृतिं स्मरेत्॥ (३)
उग्ररूपं महादंष्ट्रं गम्भीरध्वनिगर्जितम् ।
बृहद्रजततुङ्गाद्रि प्रवराभ तनुद्युतिम् ॥ (४)
चलत्करालकुटिलभ्रूभङ्गनिहिताहितम् ।
रक्तान्तवृत्तज्वलित स्फुरद्दल विलोचनम्॥ (५)
दम्ष्ट्राप्रान्तविनिष्ठ्या तज्वाला तप्तदिगन्तरम्।
नखराग्रविनिर्भिन्न वैरिवक्षस्थलान्तरम् ॥ (६)
दैत्योरस्थलविक्षोभ क्षतजाक्त कराम्बुजम्।
रक्तपुष्पैर्गुडान्नेन फलमूलेन चार्चयेत् ॥ (७)
तत्सकाशे महाकुम्भमव्रणं भारसंमितम् ।
तीर्थोदकेन शुचिना गन्धयुक्तेन पूरितम् ॥ (८)
वस्त्रयुग्मेन सञ्छन्नं कुशकूर्चैस्समन्वितम्।
सर्वौषधिसमायुक्तं सर्वरत्नसमन्वितम् ॥ (९)
धान्यपूगेऽथवाश्वेत तण्डुले स्थापयेत्सुधीः ।
दिक्ष्वेव कलशानष्टौ नववस्त्रयुतानपि॥ (१ ०)
ततः पूर्वादियोगेन स्थापयेदेकमग्रतः।
द्वारप्रदेशे संस्थाप्य कलशानां द्वयं द्वयम् ॥ (१ १ )
द्वारपालान् प्रतिष्ठाप्य कलशेषु बहिः क्रमात् ।
रथाङ्गं पाञ्चजन्यं च शार्ङ्गं नन्दकमेव च॥ (१ २)
स्मरेत्प्राचीनपर्यन्त कलशेषु यथाक्रमम्।
शरांश्च मुसलं वज्रं स्मरेत्कोणेषु वै गदाम्॥ (१ ३)
अनन्तरं च वै तार्क्ष्य वेदात्मानं च संस्मरेत् ।
अथ मध्ये महाकुम्भे नरसिह्मं च संस्मरेत् ॥ (१ ४)
तत्र तत्र च तन्नाम्ना पूजयेत्सुसमाहितः ।
रक्तानुलेपनैः पुष्पैः फलमूलैस्समर्चयेत् ॥ (१ ५)
तत्र तत्र च तन्मन्त्रं जपेदष्टसहस्रकम् ।
अष्टोत्तरसहस्रं वा शतं वापि स्वशक्तितः ॥ (१ ६)
नृसिह्मैकाक्षरं मन्त्रं जपेद्वानुष्टुभं परम् ।
जपान्ते कल्पयेत्कुण्डमग्रतः शास्त्रसम्मतम् ॥ (१ ७)
हस्तायामनुविस्तारं योनिनाभिसमन्वितम्।
चतुर्मेखलकं वा स्यात्त्रिमेखलकमेव वा ॥ (१ ८)
उन्मत्तपुष्पसदृशं योनिनालं विदुर्बुधाः ।
एवं कृत्वा ततः कुर्यात्समिद्धं जातवेदसम्॥ (१ ९)
तन्मध्ये संस्मरेदुग्रं नरसिह्मतमं हरिम् ।
सुदर्शनाद्यायुधानि यथास्थानं च संस्मरेत् ॥ (२०)
विधायाग्निप्रतिष्ठानं प्रणवेनैव मन्त्रवित् ।
आदौ कुण्डं च संशोध्य कुर्यादग्नि निमन्त्रणम्॥ (२१ )
पश्चादग्निं परिस्तीर्य प्रागग्रैश्च कुशैरपि ।
ततस्संसाद्य पात्राणि प्रोक्षणीं च प्रकल्पयेत् ॥ (२२)
प्रणीतामपि संसाद्य कुर्यात्तत्परिषेचनम् ।
संसाद्य होमद्रव्याणि कुण्डस्यैवाऽपसव्यतः ॥ (२३)
विधायाज्यस्य संस्कारं परिधीनं परिधाय च ।
विधायेध्ममथाघारवाज्यभागौ तथैव च ॥ (२४)
देवतावाहनं पश्चात् हविषश्च समर्पणम् ।
आयुष्कामश्चदूर्वाभिः श्रीकामो बिल्वसम्भवैः ॥ (२५)
आरोग्यकामोऽपामार्गेः तिलैर्वापि विभीतकैः ।
मृत्योर्विजयमन्विच्छन् मध्वक्तश्च गुलादिभिः ॥ (२६)
पुष्पैश्च चम्पकदलैः धनार्थी जातिसम्भवैः ।
शत्रोर्मरणमाकाङ्क्षन् अक्षतैर्वा विभीतकैः ॥ (२७)
पश्वर्थी लवणैषी सर्षपैस्समरीचकैः ।
तुषैर्वा निम्बपत्रैर्वा तद्दलेनाभिसाधयेत्॥ (२८)
उन्मत्तकैस्तथोन्मादे मोहनेस्तम्बनेऽपि च ।
बीजैस्तत्तत्फलैर्वापि तत्काष्ठज्वलिताऽनले॥ (२९)
अब्जैश्च श्रियमन्विच्छन् श्रियमव्याकुलां यदि।
इतरैः कुसुमैश्चापि तत्पत्रैरक्षतैरपि ॥ (३०)
तद्वीजैरङ्गुरैश्चापि मध्वक्तैश्च स तण्डुलैः ।
चन्दनक्षोदसंसिक्तैरुत्पलैः कुमुदैरपि ॥ (३१ )
तथा चन्दनकाष्ठेन गव्येन पयसापि च ।
एकपत्रैः परां पुष्टिं सह देव्याप्यरोगताम्॥ (३२)
धान्यैरायुस्तथायोग्यमक्षतैः कदलीफलैः ।
यं यं कामयते मन्त्री तेन तेनैव साधयेत् ॥ (३३)
साधारणो विधिरयं लभते वाञ्छितं ततः ।
जुहुयाद्दशसाहस्रं सहस्रं वा यथा विधि॥ (३४)
यावत्साध्यनगरीषुस्त्वं ततस्संख्या निदर्शनम् ।
अथ देवस्य पुरतस्साध्यं कृत्वासने स्थितम्॥ (३५)
कुम्भतोयेन कलशैः मन्त्रेणैवाऽभिषेचयेत् ।
दक्षिणां गुरवे दत्वा कुर्याद्ब्राह्मणभोजनम् ॥ (३६)
युद्धारम्भे जनक्षोभे राष्ट्रनाशेऽरिपीडने ।
भये व्याधिपरिक्लेशे स कुर्यादष्टमी व्रतम्॥ (३७)
विद्यार्थी विद्यामतुलां श्रियंचायुश्च विन्दति।
यद्यदिच्छति तत्तस्य पुष्णात्येतद्व्रतं वरम् ॥ (३८)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्ताऽशीतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–८८
सुभगवति कामायाः नवमीव्रत विधिः
अतः परं शृणुष्व त्वं नवमीव्रतमुत्तमम् ।
मङ्गलं परमं स्त्रीणां सर्वपाप प्रणाशनम् ॥ (१ )
नद्यां समुद्रगामिन्यां नवम्यां स्नानमाचरेत् ।
शुचौ तत्पुलिने तीरे सिकता समलंकृते ॥ (२)
वसुदेवसुतं कृष्णं गोपीजननिषेवितम्।
वनमालां चितोरस्कं वन्यपुष्पैरलङ्कृतम् ॥ (३)
बर्हिपत्रकृता पीडं पीतकौशेयवाससम् ।
समानवेषैरतुलैः क्रीडद्भिरितरेतरम् ॥ (४)
वृतं गोपकुमारैश्च नीलकुञ्चितमूर्धजैः।
ध्यात्वा देवपतिं विष्णुम् सर्वलोकेश्वरेश्वरम्॥ (५)
वन्यपुष्पैश्च बहुभिः पायसेन समर्चयेत् ।
फलमूलैश्च गन्धाढ्यैश्शुचिभिश्च यथाविधि ॥ (६)
सुभगं पतिमिच्छन्ती कन्यका वृणुयाद्वरम्।
गोपीजनमनःकान्त गोविन्द गरुडध्वज ॥ (७)
वरं प्रयच्छ सुभगम् सुवेषं दयितं मम ।
ततस्तु सर्पिषापूर्णं हरिद्राचूर्णपूरितम् ॥ (८)
कुलाङ्गनाभ्यस्तद् दद्यात् पात्रं बीजप्रपूरितम् ।
पायसेन घृतान्नेन भोजयेताश्च सादरम्॥ (९)
तासां पतिभ्यश्च पृथग्दद्याद्देवमनन्यधीः ।
दशम्यामर्चनं कृत्वा विघसाशन भोजना॥ (१ ०)
गुरवे च वरं दत्वा तथा ब्राह्मण तर्पणम् ।
एवं माङ्गल्यजननं नवमीव्रतमुत्तमम्॥ (१ १ )
एतत्स्वस्त्ययनं स्त्रीणामुक्तं सर्व सुखप्रदम् ।
भ्राता पितापि वा कन्यार्थं व्रतमेतत्समाचरेत् ॥ (१ २)
अङ्गनानां व्रतं चैतत्कुर्वतीनां श्रियः पतिः ।
पतिर्विश्वस्य भगवान् सर्वान् कामान्प्रवर्षति ॥ (१ ३)
यं यं कामयते कामी यः कश्चिदपि तस्य तम् ।
अलं ददाति भगवानर्थितः किमुयोषिताम् ॥ (१ ४)
परिपूर्णो हि भगवान् स्निग्धैर्यत्किञ्चिदर्पितम्।
सापेक्षश्च तदा दत्ते तेभ्यः प्रीतो ददात्यलम्॥ (१ ५)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टाशीतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–८९
आयुरारोग्यकामी दशमीव्रतम्
सनत्कुमारः –
अथ त्वं शृणु विप्रर्षे दशमीव्रतमुत्तमम् ।
सर्वरोगार्तिशमनं सर्वपुष्टिप्रदं परम् ॥ (१ )
व्रतमेतन्महाबुद्धे कार्यमारोग्यमिच्छता।
सर्वेण कार्यमेतद्धि लिप्सता जीवितं चिरम्॥ (२)
उपवासश्च कर्तव्यो नवम्यां तु फलाप्तये ।
दशम्यां तु कृतस्नानो मङ्गलायतनं हरिम्॥ (३)
देवमिन्दिर मासार्धं ध्यात्वा च जगतीपतिम्।
वैनतेयभुजासक्तं वनमालाविभूषितम् ॥ (४)
शङ्खचक्र गदापद्म शार्ङ्गसिधरमच्युतम् ।
फलैश्च मधुरैः पुष्पैः पायसेन समर्चयेत्॥ (५)
अग्रतस्थापयेत्कुम्भं तीर्थतोयेन पूरितम्।
अस्मिन्नावाहयेत्पञ्च चक्रादीन्यायुधान्यपि ॥ (६)
पूजयेद्रक्तपुष्पैश्च गुडान्नेन समाहितः ।
द्रोणमात्र तिलेनाब्जम् कारयेदजिनोपरि॥ (७)
तस्मिन्नष्टदलं पद्मं सौवर्णं च निधाय च ।
मनष्षष्टानीन्द्रियाणि प्राणं बुद्धिं दलेष्वथ॥ (८)
कर्णिकायां तथाकालं क्रमेणैवं समर्चयेत्।
अनामयानीन्द्रियाणि प्राणस्य चिरसंस्थितिः ॥ (९)
अनाकुला च मे बुद्धिस्स्युर्निरुपद्रवाः ।
मनसा कर्मणा वाचा मया जन्मनि जन्मनि ॥ (१ ०)
संचितं क्षपयत्वे नः कालात्मा भगवान् हरिः।
इत्येवं प्रार्थनां कृत्वा देवदेवस्य चाग्रतः॥ (१ १ )
दरिद्राय सपुत्राय श्रोत्रियाय द्विजन्मने।
इष्टापूर्तविधिज्ञात्वा दद्यात्सर्वमतन्द्रितः ॥ (१ २)
गुरवे दक्षिणां दद्याद्ब्राह्मणेभ्यश्च भोजनम् ।
आचार्यस्साधकं पश्चात् स्नापयेत्कुम्भवारिणा ॥ (१ ३)
अवशिष्टेन चान्नेन गुर्वनुज्ञापुरस्सरम् ।
ब्राह्मणैस्सह भुञ्जीत यजमानो द्विजोत्तमैः॥ (१ ४)
जहत्याधिकृतां पीडां स्वप्नोत्थामपि सत्तमः।
व्रतेनानेन वै विन्देत्सकृत्सिद्धेन संयुतः॥ (१ ५)
पुत्र पौत्र सुहृद्वन्धु पश्वादीन्यपि नित्यशः।
अनपत्यस्सुतं विन्देद्दीर्घमायुश्च विन्दति ॥
अन्तरामरणं जह्यात् स्नानादारोग्यमृच्छति ॥ (१ ६)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकोननवतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–९०
विष्णुसायुज्य कामीकार्य मेकादशीव्रतम्
सनत्कुमारः –
अथ मुक्तिप्रदं ब्रह्मन् शृणुष्व एकादशीव्रतम् ।
सर्वपापहरं नृणां सर्वसिद्धिप्रदं भुवि ॥ (१ )
तापत्रय महागर्तं भवाब्धिं सन्ति तीर्षवः।
एकादशीव्रतपराः प्रापुः पारमनुत्तमम्॥ (२)
इयमेकादशी ब्रह्मन् तिथीनामुत्तमा तिथिः ।
जनानां क्षीणभाग्यानामघौघक्षपणे क्षमा ॥ (३)
वैष्णवैकादशी चेयं द्वादशी च तथा तिथिः ।
भवद्वान्त क्षयकरी सर्वार्तिशयनी शुभा ॥ (४)
सर्वसौख्यप्रदे पुण्ये सर्वकामप्रदे तिथी।
दशम्यां विधिनास्नायाद्दन्तशोधनपूर्वकम् ॥ (५)
एकभुक्ते च निरतो ब्रह्मचारी भवेच्छुचिः ।
एकादश्यां ततस्त्रातः कृतपौर्वाह्निकक्रियः ॥ (६)
मन्त्रेण नियमं कुर्यादादावेकादशी तिथेः ।
एकादश्यामहं किञ्चिदनश्नन् पुरुषोत्तम॥ (७)
भोक्ष्ये परेऽहनि श्रीमन् पाहि मां शरणागतम् ।
इत्थं सङ्कल्प्य मन्त्रेण कुर्वीत नियमानपि ॥ (८)
वाङ्मनःकायसंशुद्धिर्नियमः पर इष्यते ।
कर्म सन्त्विन्द्रियाणां च तदा रागादि वर्जनम् ॥ (९)
वित्तशाठ्यं न कुर्वीत न स्तब्धो न मृषां वदेत् ।
न जातुचिद्वृधाकुर्यान्न वाचा मनसा स्मरेत्॥ (१ ०)
न च कुर्याद्वृथाऽऽलापं न निद्रां न शयीत सः।
न तन्द्रां न च वाणिज्यं नाऽसत्कर्म समाचरेत् ॥ (१ १ )
न स्मरेन्मनसा कामं योषिद्वादमपि त्यजेत् ।
न पारुष्यं न च क्रोधं न पीडां नापि पैशुनम् ॥ (१ २)
पाषण्डपतिताऽऽलापं न कुर्यान्नापि जिताम् ।
नोदक्यया न हीनेन न शूद्रेण समं वदेत् ॥ (१ ३)
मौनी स्वाध्यायनिरतो देवपूजनमुत्सुकः ।
परेशं परमात्मानं भक्त्या संपूजयेद्धरिम् ॥ (१ ४)
एकान्तिनोऽ पि ये युक्ताः भगवद्ध्यानतत्पराः।
भक्तिनम्रा महात्मानः तानप्येवं समर्चयेत् ॥ (१ ५)
विविक्तवासीनस्वप्नो निवसेत्स तु संगतः।
केशवादीनि नामानि सदा सङ्गीर्तयेदपि ॥ (१ ६)
स्वाध्याय निरतो योगी रात्रावपि च न स्वपेत् ।
एवं नीत्वा दिनं भद्रं ततस्स्नात्वा परेऽहनि ॥ (१ ७)
सम्यगभ्यर्चयेद्विष्णुं विधियुक्तं विचक्षणः।
पूजान्ते च तदात्मानं श्रीधराय समर्पयेत् ॥ (१ ८)
अनन्तभवसंसिद्ध पाप प्रग्रथितं मनः ।
ज्ञानादपास्त तिमिरं व्रतेन कुरु मेऽ च्युत ॥ (१ ९)
इत्यनेनैव मन्त्रेण कुर्याद्व्रतसमापनम् ।
गुरूनपि प्रणम्येवं प्रार्थयीत विचक्षणः॥ (२०)
वैष्णवेभ्यः प्रदातव्यं भोजनादि च कामतः ।
भूषणं वस्त्रमाल्यादि यथा विभवमादरात् ॥ (२१ )
पश्चाद्भुञ्जीत विधिवत्स सुहृद् ज्ञाति बान्धवः ।
गुरवे दक्षिणां दद्याद्व्रतमेवं समापयेत् ॥ (२२)
एकादशी प्रधानं चेत् द्वादश्यां तु समापनम् ।
द्वादशी च प्रधानं चेत् त्रयोदश्यां तु पारणम् ॥ (२३)
एकादशी तु दशमी कलामात्र समन्विता।
उपवासफलं हन्ति यथाग्निस्तृणसंचयान्॥ (२४)
अतः परिहरेद्विद्वान्दशमी योगमादितः ।
एवमुक्तेन विधिना तिथिद्वयमलोकयन् ॥ (२५)
समाप्य कृतसङ्कल्पो विष्णुसायुज्यमाप्नुयात्।
यस्त्विदं न वृथा कुर्यात्तिथिद्वयसमापनम्॥ (२६)
पुनाति सोऽ पि तत्सर्वं यावदा सप्तमं कुलम्।
व्रतमेतन्महाबुद्धे सर्वपापहरं नृणाम्॥ (२७)
एतत्कृत्वा महात्मानो वैष्णवं पदमाप्नुयुः।
ये च पातकिनो लोके तिथिद्वयविधेस्तथा॥ (२८)
तेऽपि गच्छन्ति विमलामात्मशुद्धिकरीं गतिम् ।
भवे भवे प्रतप्तानां व्रजतामप्यधोगतिमम् ॥ (२९)
जन्तूनां पापसंगोऽ पि सर्वेषां मोहकारणम् ।
यथाऽनलो धातुमलं यथा च तिमिरं रविः ॥ (३०)
तथा नाशयते सर्वं पापमेतद्व्रतं मुने।
पतिं च लभते नारी सुतं विन्दन्ति कामदम्॥ (३१ )
श्रियं च लभते लोलां चिरमायुश्च विन्दति।
मनः प्रसादं शान्तिं च विद्यामप्यतुलां भुवि ॥ (३२)
योगिनामतुलामृद्धिं व्रतमेतत्प्रयच्छति ।
अनन्तोऽ प्यमलास्सन्तस्सम्यताश्चा जितेन्द्रियाः ॥ (३३)
तिथिद्वय विधानज्ञाः मुनयास्तां गतिं गताः ।
वेदव्रतविहीनानां कुर्वतां वेदविप्लवम्॥ (३४)
असतां त्यक्तधर्माणां तथा पाषण्डिनामपि ।
द्विषतां ब्राह्मणान् वेदान् पितरं दैवतं गुरून् ॥ (३५)
एतेषां नियमस्थोऽ पि सङ्गमाच्यपते नरः।
पाषण्डिभिस्सहालापात्पतत्येव न संशयः ॥ (३६)
एकादशीव्रतपरो यत्नतस्तांश्च वर्जयेत्।
तिथिद्वयविधिद्ब्रह्मन्नुत्तमो वैष्णवः स्मृतः॥ (३७)
एकादशी पापहरा द्वादशी सर्वकामदा।
उभौ तिथिपरौ नॄणां सदाऽक्षयफलप्रदौ ॥ (३८)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये नवतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्-९१
देवव्रताय मैत्रेय भोदित एकादशी माहात्म्यम्
एकादश्यां महायोगी देवव्रत इति श्रुतः ।
यथा परां गतिं प्राप्तस्तथा त्वमपि तच्छ्रुणु॥ (१ )
पुष्करेण्य वसद्धीमान् तीर्थवर्ये महामतिः ।
न सम्प्राप्य मनश्शुद्धिं सत्सदे न सः क्षयम्॥ (२)
स भूत्वा लब्धनिर्वेदस्सर्वत्र विगतस्पृहः ।
पराशरस्य सच्छिष्यं मैत्रेयं समुपासदत् ॥ (३)
तं दृष्ट्वा तु कृशं दीनं देवव्रतमुदारधीः।
मैत्रेयः किं भवान् धीन इत्यपृच्छद्विजोत्तमम् ॥ (४)
देवव्रतः –
शोच्यांत्सर्वासहं पश्यन् शोच्यं पश्याम्यहं च माम् ।
यः पश्यन्तं सदा शोच्यमात्मानं च न शोचति ॥ (५)
मैत्रेयः –
प्रशस्ते हि कुले जन्म सर्वसम्पद्गुणान्विते।
प्रकृत्या रमणीयश्च कुतस्त्वं शोच्यतां गतः ॥ (६)
देवव्रतः –
अहो नु भगवानाह विलपन्तं सुसंयतम् ।
मत्वैतान्कृपणान्भोगान् मन्वानं मामचेतसम्॥ (७)
मांसासृक्पूयविण्मूत्रस्नायिसङ्गवपुर्गतौ।
गर्भवासेथवातद्वत्संगमे शोच्यता कुतः॥ (८)
मैत्रेयः –
वचनं साधु भद्र त्वं साधुनिर्वेदमागतः ।
साधु युक्तं वदाम्यद्य साधुवृत्तस्य ते मुने॥ (९)
देवव्रतः –
तदाचक्ष्व महाबुद्धे यत्र गत्वा न शोचति ।
यच्छ्रुत्वा मरणं मोहं न मनस्तापमृच्छति ॥ (१ ०)
यदविज्ञाय भगवन् शोकमोहभयाकुलः।
न तृप्तमुपगच्छामि सदा सर्वत्र सत्तम ॥ (१ १ )
तापत्रयमहागर्तपरिवृत्तिश्रमातुरम्।
नानाशापाशबद्धं सज्जगत्कष्टमतीव हि ॥ (१ २)
तस्मादुत्तरणोपायं प्रब्रूहि मुनिसत्तम ।
त्वं प्रसन्नाय वै मह्यं भक्ताय भगवन् गुरो ॥ (१ ३)
मैत्रेयः –
आत्मा नित्यः परंज्योतिरप्रमेयो निरञ्जनः ।
ज्ञानानन्दमयो ब्रह्मन् ध्वस्तशोकमलोऽमलः ॥ (१ ४)
असद्धेयाकरं विप्र प्रधानं त्रिगुणात्मकम् ।
कार्यकारणभूतानां कारणं त्वक्षरात्मकम्॥ (१ ५)
अनयोरुभयोर्विद्वन् पश्यैतन्महदन्तरम् ।
परस्परविरोधश्च प्रकाशतमसोरिव ॥ (१ ६)
तथा विधातुः करणान्नानाकर्म नियन्त्रितः।
नैकभावं गतो ह्येष गुणमय्या तु मायया॥ (१ ७)
अस्य प्रकृतिसङ्गाद्धि देहादिष्वात्मविभ्रमः।
जातोऽ हं सुख्यहं दुःखी कृशोऽहं स्थूल इत्यपि ॥ (१ ८)
मम पुत्रः प्रियो नष्टो मम क्षेत्रा ह्यहो बहु ।
इति भेदसमुत्थानं दुःखजालमुपैति सः ॥ (१ ९)
एकस्सम्परिपूर्णोपि ह्यात्मा द्वन्द्वविवर्जितः ।
नाना संस्थानवन्नित्यं नानाहंकृतिमोहनम् ॥ (२०)
क्रीडापदं हरेरेतज्जगद्विश्वं महात्मनः ।
बुद्ध्या प्रवर्तन्त्सर्वं सर्गस्थितिलयात्मकम् ॥ (२१ )
उपासीनः परो भाति परमव्योमशब्दिते ।
देव मानुष पश्वादिष्वखिलेषु सुसंस्थितः ॥ (२२)
कर्मावृतियतोऽ न्यश्च ह्यात्म कार्पासबीजवत् ।
यां यां योनिं प्रविशति देही कर्मनियन्त्रितः ॥ (२३)
तां तामवस्थां सम्प्राप्य तादृशं मन्यते स्वयम् ।
यत्र देवत्वमापन्नस्तदहंकारकारितम्॥ (२४)
तादृशं कुरुते कर्म भोगेच्छा तादृशी तदा ।
स्थावरत्वे च तिर्यक्त्वे मनुष्यत्वे च तादृशम् ॥ (२५)
तत्तज्जात्यनुकूलानि कर्माणि कुरुते वशः ।
लभ्यते च तथा भोगैस्तत्तज्ञानसमन्वितः ॥ (२६)
नित्यं निरञ्जनश्शुद्धो नित्यानन्दमयो विभुः।
शुभेतरं च नित्यं च हेयं परवशं जडम् ॥ (२७)
देहं कर्मपरिष्वङ्गाचात्मानं मन्यते तथा ।
अथ कर्म महाग्राह जिह्वामध्य ग्रहं द्विज ॥ (२८)
आत्मानमुद्धरेत्प्राज्ञः छित्वा ज्ञानासिना रिपुम् ।
नानाघपाशबहुलम् कामगर्तसमन्वितमम् ॥ (२९)
अहंकारतमोऽ प्यूढमादिकण्ठकसञ्चयम् ।
भृशमिन्द्रियसञ्चारकशाघातशतायुतम्॥ (३०)
वैराग्यरथमास्थाय ज्ञानदीप समन्वितः ।
सम्सारमृत्युर्मे तु योगी चरति निर्भयः ॥ (३१ )
अतः कर्मक्षयः कार्यः क्षेमप्राप्तिं च लिप्सता ।
तपसस्संग्रहेणैव तत्क्षयं कर्तुमर्हसि ॥ (३२)
वैराग्यमनहंकारश्शौचमिन्द्रिय निग्रहः ।
आम्नायाभ्यसनं दानं तथा कामविशोषणम्॥ (३३)
आहार नियमं मौनमिति सन्तन्तपो विदुः ।
तपसाचाप्यनल्पेन क्षेममृच्छति वै ध्रुवम् ॥ (३४)
अतः कुरुष्व सततं तपस्सञ्चयमात्मवान्।
व्रतोपवासनिरतस्तीर्थानि व्रज सत्तम ॥ (३५)
देवव्रतः –
उपवासव्रतं ब्रूहि कस्मिन् मासे दिने द्विज।
कस्यां तिथौ वा नियमः कथम्कार्यो विजानता॥ (३६)
मैत्रेयः –
श्रूयतां विप्र सकल उपवास विधिः परः ।
यस्य श्रवणमात्रेण नरः पापात्प्रमुच्यते॥ (३७)
मार्गशीर्षे सिते पक्षे दशम्यां प्रयतस्थितः ।
एकादश्यामुपोष्यैव द्वादश्यां पारणं चरेत्॥ (३८)
एकादश्यां शुचिर्भूत्वा नियमानपि धारयेत् ।
नियच्छेत्प्रथमं वाचं करणानि समाहितः॥ (३९)
हरेः पूजा नमस्कार नामसङ्कीर्तनादिभिः।
तत्कथालाप चतुरैस्समाननियमैस्सह ॥ (४०)
अनिद्रस्त्यक्तशयनो निशायामप्यतन्द्रितः।
दिनशेषं नयेदेवं ततः काल्ये समाहितः॥ (४१ )
प्रविगाह्यनुतीर्थाम्बस्सर्वत्राप्यग्रमानसः ।
समाप्यविधिवत्पूजां देवदेवस्य शार्ङ्गिणः ॥ (४२)
द्विजार्तीन्व्रतसम्पन्नान् विष्णु भक्तांश्च पूजयेत् ।
गुरवे दक्षिणां दत्वा कुर्याद्व्रतसमापनम्॥ (४३)
नियमानुत्सृजेत्पश्चात् त्रयोदश्यां महामुने।
एवमेव ततः कुर्याद्यावदब्दसमापनम् ॥ (४४)
तदा सम्पूजयेद्विद्वान् विष्णुभक्तान्यथोदितम् ।
व्रतमेतन्नरः कुर्वन् सर्वपाप प्रणाशनम्॥ (४५)
सर्वबन्ध विनिर्मुक्तो विष्णुसायुज्यमाप्नुयात्।
सनत्कुमारः –
एवमुक्त्वा तु मैत्रेयो देवव्रतमिदं परम् ॥ (४६)
पूजितस्तेन मुनिना निर्जगाम यथा गतम्।
देवव्रतः परो योगी यथोक्तमकरोद्वतम् ॥ (४७)
दूतपापो जितक्रोधस्सिद्धिं परमिकामयात् ।
एवमेतन्मया प्रोक्तं ब्रह्मन्नेकादशी व्रतम् ॥ (४८)
सर्वपापहरं पुण्यं शश्वत् क्षेमकरं नृणाम्।
श्रीरङ्गराज पादाब्जं शिरसा वचसा वहे ।
मनसापि सदायच्च मणिनूपुरमण्डितम् ॥ (४९)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकनवतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम् – ९२
द्वादशी व्रतेन कुशलस्य राज्ञस्स्वर्ग गतः
सनत्कुमारः –
द्वादश्यां तु महाबुद्धे पुराकृतमिदं शृणु ।
द्वादशीव्रतसिद्धेन राज्ञा कुशलकर्मणा ॥ (१ )
कुशलो नाम राजर्षीन् सूर्यवश समुद्भवः ।
द्वादशीव्रतसम्पत्त्या नीतस्वर्गं महीपतिः ॥ (२)
सतस्सौधर्मराजस्य नित्यं प्राणसमस्सखा ।
गतो वैवस्वतं लोकं कदाचित्कुशलो नृपः॥ (३)
सख्युः प्रियं कर्तुकामस्स्यन्दनेनावभासितः।
दृष्ट्वा वैवस्वतो राजा राजानं कुशलाह्वयम् ॥ (४)
परिष्वज्यमहाबुद्धे नृपस्यैवासनं ददौ ।
आसीनस्तु यमाभ्याशे ददर्श विविधाः प्रजाः॥ (५)
यातनाभिश्चसंयुक्ताः विविधाभिस्सहस्रशः।
भूपतिस्तु कृपाविष्टो दृष्ट्वा भीतिं ययौ भृशम्॥ (६)
संप्रवेपितसर्वाङ्गस्त्रासात्संक्षुभितेन्द्रियः।
धीनो गद्गदभाषी च स चचाल वरासनात् ॥ (७)
तमार्तं पतितं दृष्ट्वा भयात्प्रव्यधितेन्द्रियम्।
प्रियं सखायं नृपतिं धर्मराजोऽब्रवीदिदम्॥ (८)
यमः –
कुतो वा त्वं ससम्मोहः किं तेऽ द्य भयकारणम् ।
तत्सर्वं ब्रूहि राजर्षे विशेषान्मम सन्निधौ ॥ (९)
राजा –
दृष्ट्वै मायातनास्सर्वाः विनीताश्च प्रजास्वकाः।
उद्विघ्नं हृदयं मेऽद्य भीतभीतोऽभवं सखे ॥ (१ ०)
यमः –
अहो कुमारबुद्धिस्त्वं केवलं नृपसत्तम।
लोककर्मविधिस्तावत्त्वया वै पृष्ठतः कृतः ॥ (१ १ )
राजा कथमेतद्भवेदद्य खिन्नानामपि बुद्धिमन् ।
समक्षमतितप्तानां प्रजानामनिवारणम्॥ (१ २)
यमः –
अहो सुविस्मृता तावद्धातुः कृतिरनाहता ।
येन त्वया कृतं कष्टं तं चाराधितुमिच्छता॥ (१ ३)
अचलो जातुसङ्कल्पो न कश्चिच्छलितुं क्षमः ।
पापानां कर्मणां व्युष्टिरियं धात्रा विनिर्मिता॥ (१ ४)
शुभानां कर्मणाम्व्युष्टिस्स्वर्गश्च परिकल्पितः ।
न शक्यमन्यथाकर्तुमचलं हि विधेर्बलम् ॥ (१ ५)
पापिनं पापिगतिषु यथायोगं क्षिपाम्यहम्।
शुभेषु शुभकर्माणं का तत्र परिवेदना ॥ (१ ६)
राजा –
बह्वीभिश्च तथोग्राभिर्यातनाभिश्च पीडिताः ।
एते कीदृग्विदं पापं कुर्वते स्म नरा भुवि ॥ (१ ७)
यमः –
गुरुदेवद्विजातींश्च द्विषन्तो वेददूषकाः ।
ये कृतघ्ना दुराचाराः ये च पातकिनो भुवि ॥ (१ ८)
तेषां विधातृविहितो दण्डोऽ यं नृपसत्तम।
कुर्वतां वर्णसाङ्कर्यमाश्रमाणां च भूपते ॥ (१ ९)
धर्माणां नियमानां च गतिरेषा सनातनी ।
कर्मिणां हि नृणां लोके शुभाशुभरतात्मनाम्॥ (२०)
विस्मृताच्युतनाम्नां तु शासने हरिणा स्थितः ।
ततश्च पापिनां पापम् पुण्यं पुण्यकृतामपि ॥ (२१ )
विज्ञाय तान्नियच्छामि तत्तत्कर्म च तत्फलम् ।
मया साम्यं समास्थाय स्थेयं जीवितुमिच्छता॥ (२२)
विधात्राज्ञासमीचीनो दण्डपातो मम ध्रुवम् ।
यतो रौरवे रौद्रे यातनां प्रापिता मया॥ (२३)
तेषां पुण्यलवः कश्चिद्विद्यते न क्वचिन्नृप ।
अतः पापीयसीं कष्टां गतिं प्रापुरिमाः प्रजाः ॥ (२४)
अहमस्मि महाराजन् प्रभुस्तन्निवर्तने ।
सर्वत्र सर्वदा सर्वे स्वकृतं ह्युपभुज्यते॥ (२५)
नाऽल्पाऽल्पमपि राजेन्द्र कृतं लोपयितुं क्षमः।
शुभाशुभात्मकं कर्म कर्तारमभिगच्छति॥ (२६)
अधो नयति चात्मानमुच्चैर्नयति च स्वयम् ।
एवं स्थिते तु राजेन्द्र तत्र कापरिदेवना॥ (२७)
राजा –
ज्ञायते यदि सर्वेषां भवता यच्छुभाऽशुभम्।
विद्यते तच्छुभं कर्म ममतावद्वदाखिलम्॥ (२८)
यमः –
भवान् पुण्यनिधिश्श्रीमान् पुण्यकीर्तिश्शुभाश्रयः।
लोकत्रयं जितं शश्वद्भवता पुण्यसञ्चयैः ॥ (२९)
व्रतानां च महाभाग द्वादशी व्रतमुत्तमम् ।
त्वया संवत्सरं चैव द्वादशी समुपोषिता ॥ (३०)
तया भवान्तरारब्धं किल्बिषं क्षपितं तव।
निर्व्याजमपरिच्छिन्नं तस्यां पुण्यकृतं नृप॥ (३१ )
राजा –
तैलकुम्भप्रतप्तानां प्रजानां च जनाधिप ।
यावता पुण्यभागेन दुःखस्योपशमो भवेत्॥ (३२)
तावद्दंशं प्रदास्यामि मामके पुण्यसञ्चये।
प्रजानां यातनास्सर्वाः नश्यन्तु मम पश्यतः ॥ (३३)
यमः –
एकोपवासतस्तस्य द्वादश्यां तव यत्फलम् ।
तद्वदस्व महाभाग पर्याप्तं तद्यदीच्छसि॥ (३४)
राजा –
द्वादशीव्रतसंवृद्धं पुण्यं दत्तं मया विभो।
व्रतस्याद्यैव पुण्येन संसिद्धिं लभतां जनाः ॥ (३५)
सनत्कुमारः –
उक्तमात्रे तथा राज्ञा धर्मराजस्य सन्निधौ ।
विमानवरमारूढा ययुस्स्वर्नारका जनाः ॥ (३६)
देवगन्धर्व सङ्घैश्च संस्तुतावन्दि वन्दिताः ।
भ्राजयन्तो दिशस्सर्वा ययुः पुण्यम् गतिं तथा ॥ (३७)
स तान् दृष्ट्वा माहाराजो विस्मयं परमं गतः ।
मुदा परमया युक्तः कृतार्थस्समपद्यत ॥ (३८)
कृतार्थं च नरश्रेष्ठं दृष्ट्वा वैवस्वतो मुने ।
उवाच भगवान् देवो राजानं संप्रहर्षयन्॥ (३९)
यमः –
राजन् हि दृष्टःपरमः प्रभावः परमेष्ठिनः।
भवोद्भव महादुःख भेषजस्य च शार्ङ्गिणः ॥ (४०)
तादृगेव नरेन्द्रेन्द्र विष्णोराराधनात्मकम् ।
कुरुष्व सादरं कर्म माप्रशस्तं चिरं कृथाः॥ (४१ )
सनत्कुमारः –
इत्येवमुक्तो नृपतिः धर्मराजेन सम्भृतः ।
संशाम्यनारकं दुःखं स्वपुरं प्रययौ नृपः॥ (४२)
इत्येतद्व्रतमाख्यातं सर्वपापप्रनाशनम्।
सर्वदोषप्रशमनं शृण्वतां पापनाशनम्॥ (४३)
तिथिद्वयमिदं कुर्वन् नरश्शुद्धोजितेन्द्रियः ।
पूतपाप्माऽमले लोके जायते योगिनां कुले॥ (४४)
तद्वैष्णवकुले जन्म सुराणामपि दुर्लभम् ।
स भूत्वा सुकुले प्राज्ञो विष्णुसायुज्यमाप्नुयात्॥ (४५)
सकृत्करणमात्रेण व्याधयस्स्वस्य सम्भवाः ।
विनाशं यान्ति ते वारि यथा लवणराशयः॥ (४६)
लीयन्ते सर्वपापानि व्रतसंयोगमात्रतः।
यथा दिनकरस्पर्शाद्धिमजालघनावृतिः॥ (४७)
वन्द्याऽपि व्रतसम्पत्त्या लभते पुत्रमुत्तमम्।
विद्यार्थी परमां विद्यां जयार्थी लभते जयम् ॥ (४८)
वित्तमायाश्श्रियं पुष्टिमारोग्यं बलमुत्तमम् ।
यशोवैराग्यमतुलं व्रतेनाप्नोत्यसंशयः॥ (४९)
संवत्सरव्रतमिदं यः कुर्याद्धृढनिश्चयः।
सर्वावरणनिर्मुक्तो वरं निर्वाणमृच्छति ॥ (५०)
इति ते गुह्यमाख्यातं सर्वसिद्धिकरं व्रतम् ।
यज्ञात्वाच्च नरः पुण्यां गतिमेष्यत्यनाकुलाम्॥ (५१ )
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्विनवतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–९३
पुत्रकामी कार्य त्रयोदशी व्रतविधिः
सनत्कुमारः –
अथ स्वस्त्ययनं पुम्सां शृण्वतामघ नाशनम्।
त्रयोदश्याम्महाबुद्धे व्रतमेतन्निशामय॥ (१ )
नवनीतं नवं गव्यं रजतांशु समप्रभम्।
कपित्थफलमात्रं तत्समादाय सुसंयतः॥ (२)
रौप्यताम्रमये पात्रे सौवर्णेवाऽथ मृण्मये।
सुवर्णनवनीतं च निक्षिपेत्प्राङ्मुखश्शुचिः ॥ (३)
स्नात्वाऽथकृतजप्यश्च शुभ्रांबरधरस्स्वयम् ।
मण्डलं पुष्पनिकरैरक्षतैर्वा प्रकल्प्येत् ॥ (४)
तस्मिन्नष्टदलं पद्मं कारयेत्कुसुमोत्करैः ।
तत्र लक्ष्मीपतिं देवं लक्ष्म्यायुक्तस्तु विद्यया ॥ (५)
कर्णिकायां समावाह्य दलेष्वावाहयेदथ।
शक्तिरष्टसु तन्मन्त्रैद्र्यारपालांस्तु बाह्यतः॥ (६)
विधाय देवयजनं स्वाधुमूलफलान्वितम् ।
तदग्रे तत्समानीय नवनीतं नवं शुचि॥ (७)
द्विधाकृत्यदेकैकम् मन्त्रेणैवाभिमन्त्रयत्।
मन्त्रः –
पुरुषः पूर्णकामश्च हरिर्भद्रन्तनोतु नः ॥ (८)
योषिद्वरा सदा लक्ष्मीर्मङ्गलं दिशतु स्वयम् ।
एवं कृत्वा ततः पत्नन्यै दद्यादेकैकमग्रतः ॥ (९)
पूर्वं पुंलक्षितं पिण्डमितरं च तथापरम्।
प्राश्याचम्यस्थितां पत्नीं प्रयतो ह्यभिमन्त्रयेत्॥ (१ ०)
सदान्तरात्मभूतानामनादिनिधनोऽ च्युतः ।
सपरः परमा शक्त्या कुक्षिं रक्षतु ते सदा ॥ (१ १ )
सर्वपुष्टिप्रदा नित्यं सर्वार्तिशमनी तव।
लक्ष्मीः कुक्षिगतं गर्भम् रक्षता दक्षतः श्रिया ॥ (१ २)
सर्वार्तिक्षयदक्षाणि दिव्यशक्तियुतान्यपि।
त्वां रक्षन्तु सदा विष्णोस्सर्वप्रहरणान्यपि॥ (१ ३)
तदा दिक्पतयस्सर्वे रक्षन्तु गृहदेवताः ।
वास्तुसंस्थानसंयुक्तास्सर्वे रक्षन्तु सर्वदा ॥ (१ ४)
इति कृत्वा ततः कुर्यात् ब्राह्मणानां च तर्पणम् ।
गुरवे च परं दत्वा नियमान् परिपालयेत्॥ (१ ५)
वध्वा सहोपवस्तव्यम् तद्दिनं प्रयतात्मना ।
चतुर्दश्यां तु सुमनाः कृतपूजाविधिश्शुचिः॥ (१ ६)
ब्राह्मणान् भोजयित्वा तु तद्वाच गुरुदक्षिणाम् ।
भुञ्जीत ब्राह्मणैस्सार्धम् नियमांश्चत्यजेत्ततः ॥ (१ ७)
एवं कुर्वन्नरश्शुद्धो बह्वपत्यं च विन्दति।
वन्द्याऽपि लभते पुत्रं मनोनयननन्दनम्॥ (१ ८)
कन्यकापि पतिम् विन्देद्व्रतेनानेन सुव्रता ।
मङ्गलं परमं प्राप्य दीर्घमायुश्च विन्दति ॥ (१ ९)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्रिनवतितमोऽध्यायः ।
श्रीमते रामानुजाय नमः
श्रीरङ्गमाहात्म्यम्–९४
रोगनाशक चतुर्दशीव्रत क्रमः
सनत्कुमारः –
अथोत्तमं व्रतं ब्रह्मन् परमं शृणु भद्रदम् ।
चतुर्दश्यां महाभाग सर्वरोगार्ति शान्तये ॥ (१ )
ज्वरमूलप्लीहगुल्म कुष्टाऽतिसारसंयुतैः ।
मर्त्या नित्यमिदं कार्यम् तदार्तिव्यपनुत्तये॥ (२)
स्नात्वा तु कृतसङ्गल्पः सर्वकामविवर्जितः ।
आदित्यमुपतिष्ठेत गायत्रीं च जपेन्मुहुः ॥ (३)
उदयात्पूर्वमारभ्य यावदस्तङ्गतो रविः ।
निराहारो जितक्रोध उपतिष्ठेत्समाहितः ॥ (४)
रवावस्तङ्गते देवमर्चयेत्पुरुषोत्तमम् ।
उपोष्य विधिवत्स्नात्वा तथा पर्वणि सुव्रतः॥ (५)
अर्चयित्वा यथायोगं परमात्मानमच्युतम् ।
गायत्रीमभ्यसे त्तत्र देवदेवस्य सन्निधौ ॥ (६)
सहस्रं दशसाहस्रम् शतम्वापि स्वशक्तितः ।
अथ त्रपुमयं पात्रम् मृण्मयं वा समानयेत्॥ (७)
घृतेन पूर्णं तत्कृत्वा पञ्चप्रस्थमिते न च।
सुवर्णं रजतं मुक्तां रत्नानि च तिलानथ॥ (८)
अन्तर्निधाय तत्कुर्यान्नववस्त्रद्वयान्वृतम्।
स्थापयित्वा तु तस्याग्रे पूजनान्ते महामतिः ॥ (९)
तत्र मार्ताण्डमावाह्य सम्पूज्य च यथाविधि।
प्रदक्षिण नमस्कारस्तोत्रालापैर्मुदा युतः ॥ (१ ०)
स्थिरप्ररूढतिमिरनिर्भेदे चतुरप्रभ ।
नानाव्याधिसमुद्भुता मूर्ति संहर भास्कर ॥ (१ १ )
पुष्कराक्षश्च भगवान् सर्वान्तस्समवस्थितः ।
परमात्मा च हृद्रोगम् व्यपोहतु ममाच्युतः ॥ (१ २)
इत्यनेनैवमन्त्रेण स्तुत्वावासो निवर्त्य च।
आत्मानं दर्शयेत्तत्र यथा सुस्पष्टलक्षितम्॥ (१ ३)
विप्राय वेदविदुषे दरिद्राय च दापयेत् ।
गुरवे दक्षिणां दत्वा कुर्याद्ब्राह्मणभोजनम् ॥ (१ ४)
भुञ्जीत ब्राह्मणैस्सार्धमुत्सृजेन्नियमानपि ।
एवं कुर्वन्नरो लोके सर्वरोगविवर्जितः॥ (१ ५)
सौम्य गात्रप्रवृद्ध श्रीश्चिरमायुश्च विन्दति ।
यथाम्भः शमयेदग्निं समिद्धमपि कामतः ॥ (१ ६)
तथा व्रतमिदं ब्रह्मन् रोगाग्निं शमयेदिह ।
नानाव्याधि भृशार्तानां नराणामपि सुव्रत ॥
तत्र पापशमोपायो व्रतादन्यो न विद्यते ॥ (१ ७)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुर्नवतितमोऽध्यायः
श्रीरङ्गमाहात्म्यम्–९५
आयुःप्रदव्रतविधिः
सनत्कुमारः –
अथ पर्वणि यत्कृत्यं तच्छृणुष्व महामते ।
यद्ज्ञात्वा चात्मनः क्षान्तिं सुखं भूतिं च विन्दति॥ (१ )
तत्पर्वणिकृतं तावच्छुभं वा यदि वाऽशुभम् ।
षष्टिवर्षसहस्राणि तत्फलं भुञ्जते नरः ॥ (२)
दयितं जीवितं पुंसां सर्वेषामपि संमतम् ।
आयुषस्तुक्षयप्राप्तिपरिक्लेशयुता नराः॥ (३)
अतस्तच्छान्तिजननमायुःप्रदमनाकुलम् ।
सर्वसौख्यप्रदं भद्रं तादृग्व्रतमिहोच्यते॥ (४)
चतुर्दश्यां शुचि स्नात्वा दन्तदावनपूर्वकम् ।
चरित्रब्रह्मचर्यश्च यतवाक्काय मानसः ॥ (५)
सर्वाण्यपि तथा भूत्वा देवपूजां समाचरेत् ।
मण्डलं चतुरश्रं तु कारयेत्कुसुमाक्षतैः॥ (६)
तस्मिन् श्रीशं श्रियं देवीमर्चयेत् कुसुमाहितः।
बृहस्तं पयसा पूर्णं गव्येन स्थापयेद्धटम् ॥ (७)
चतुरस्तोयपूर्णाश्च कलशान् स्थापयेत्क्रमात् ।
मध्यदावाहयेत्पञ्च चक्रादीन्यायुधान्यपि ॥ (८)
इन्द्रियाणि तथा पञ्चबुद्धिं प्राणं तथा मनः ।
न्यसेदेतानि पूर्वादि कलशेषु चतुष्वपि ॥ (९)
सर्वापद्भ्योनकास्मृत्योरादिव्याधिभयापि ।
रक्षस्तु नस्सदा विष्णोर्भयेभ्यः पञ्चहेतु यः ॥ (१ ०)
इन्द्रियाणि च रक्षस्तु बुद्धिं प्राणं मनश्च नः ।
अवस्तु सर्वदापद्भ्यो मङ्गलं प्रदिशस्तु नः ॥ (१ १ )
इति मन्त्रेणचाऽभ्यर्च्य समिद्धीऽग्नौ यथा विधि ।
षड्भिर्मन्त्रैस्तु जुहुयात्संस्कृते तु यथाविधि॥ (१ २)
तिलेनाऽक्षतयुक्तेन त्रिमध्वक्तेन सम्यतः ।
मन्त्रः अनाम यायिपूर्णाय विमलायाच्युताय च ॥ (१ ३)
मृत्यवे कालरूपाय एतेमन्त्रस्तथा च षट्।
तथैवाऽऽयुधमन्त्रेण प्राणानां मन्त्रकैरपि॥ (१ ४)
हुत्वा तु पुरुषायेति तच्छेषेण बलिं क्षिपेत्।
अथासनस्थितं साध्यं कृत्वाचार्यस्तदग्रतः ॥ (१ ५)
अभिषेकं ततः कुर्यात्पयसा तज्जलेन च ।
कुटुम्बिने दरिद्राय निष्कमात्रं च हाटकम् ॥ (१ ६)
तिलान्नलवणादीनि दद्याद्विप्रशताय च ।
पूर्णकुम्भं तथाचाऽष्टौ हरिद्राचूर्ण संयुतान् ॥ (१ ७)
बीजपूर्णांस्तु कलशान् लवणेन प्रपूरितान्।
चतुरश्चतुरो दद्याद्योषिद्भ्यः परमायुषे॥ (१ ८)
गुरवे च वरं दत्वा कृत्वा ब्राह्मणतर्पणम्।
उपवासविधानेन दिनशेषं नयेत्सुधीः ॥ (९)
तदन्तरे च दिवसे कुर्याद्भगवदर्चनम्।
बान्धवैस्सह भुञ्जीत नियमांश्च विसर्जयेत्॥ (१ ०)
एवं पर्वणि यः कुर्याच्चिरञ्जीवी भवेत्स च।
मृत्युं जित्वा समाप्नोति दीर्घमायुर्महामतिः ॥ (१ १ )
सर्वव्याधिसमुत्थाने सर्वदुःखान्वये सति।
स्नानं पर्वणि यः कुर्यात्तच्छान्तिं सोश्नुते परम्॥ (१ २)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चनवतितमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–९६
सम्पत्कर प्रतिपद्व्रत विधानम
सनत्कुमारः
अथ त्वं प्रतिपत्कृत्यं शृणु सम्पत्करं व्रतम् ।
यत्कुर्वाण श्रियं विन्देद्दुर्लभाममरैरपि ॥ (१ )
शालितण्डुल संसिद्धे मण्डले चतुष्के ।
श्रीशं श्रियमथावाह्य पूजयेच्च ततः परम् ॥ (२)
अप्रच्छन्नदलैः पद्मैः अयुतैस्तं प्रपूजयेत् ।
सहस्त्रैर्वा यथायोगं पयसा पायसेन च॥ (३)
ततश्च विधिनाऽभ्यर्च्य पार्श्वे देवीं सरस्वतीम् ।
अग्रतः पूजयेदिन्दुं गुरुम्पश्चादनन्य धीः॥ (४)
परिवारनियोगेन तांश्च सत्कारयेदथ।
मन्त्रः –
मम विद्यां प्रदिशतु देवो वागीश्वरो हरिः ॥ (५)
विद्याधिदेवता देवी विद्यां दिशतु मे रमे।
सरस्वती प्रदिशतु वाक्सिद्धिमतिशायिनीम्॥ (६)
शीतांशुरपि मे पुष्टिं सर्वभोगप्रपूरणीम्।
इत्येवं कारयेत्सत्यं प्रसन्नाः पूजितो गुरुः॥ (७)
विधिना चोपवासस्तु कारयेन्नियमान्वितम्।
समभ्यर्च्य द्वितीयायां देवदेवं श्रियः पतिम्॥ (८)
भुञ्जीत पायसान्नेन शुचिराचार्यसन्निधौ ।
आचार्याय परं दत्वा कार्यं तत्प्रीणनं पुनः ॥ (९)
अनधीतमनारब्धं तदानीमारभेत्ततः।
विद्याप्रदो विभुर्नित्यं गुरुर्दैवतमित्यपि॥ (१ ०)
तन्मुखाद्धि सदा स्वस्य निश्श्रेयसः समागमः ।
सदा तदुक्तकारीस्यान्न स्यात्तच्चासनातिगः ॥ (१ १ )
तिष्ठेत्तिष्ठत्सुगुरुषु न चासीततदग्रतः ।
न शयीत तथासीने कुर्वीत वचनान्यपि॥ (१ २)
न लङ्घनीयं वचनं गुरोः कृच्छ्रगतेन च।
निवेद्य गुरवे सर्वं कुर्यादादौ हिताहितम्॥ (१ ३)
ईषद्गुर्वपराधेन सुखं भद्रं च नश्यति।
पूर्वोत्थायी सदाचस्याद्विघ्ननाशी भवेदपि॥ (१ ४)
शयनानि च वस्त्रादि तदीयं न पदा स्पृशेत् ।
नोपयुञ्जीत तच्छायां लङ्घयेत न च क्वचित् ॥ (१ ५)
अभिवाद्य प्रियं ब्रूयात्समक्षमपि चाऽर्चितम् ।
गुरुपत्नी समक्षं तु वर्तितव्यं यथागुरौ ॥ (१ ६)
तत्पुत्रादिषु वर्तेत हितकारि प्रियं वदः ।
पितृवद्वृत्तिरुदिता पितृहीने च तत्सुते ॥ (१ ७)
तत्र वै रक्षणीयास्याद्गुरुपत्नी विशेषतः ।
तत्कन्यां च वरे शिष्यः सदृशे प्रतिपादयेत् ॥ (१ ८)
अनपत्यामृता सा चेद्गुरुपत्नी च केवलम् ।
अपत्यकृत्यं तत्कुर्याच्छिष्यश्रेयः परं हि तत् ॥ (१ ९)
लभते शिष्यः पुत्रांशं तस्य शिष्टधनादिकम् ।
एवमाचार्यनिष्ठस्तु मतिमान् प्राज्ञसत्तमः ॥ (२०)
उत्पन्नज्ञानवैराग्यो दीर्घमायुरवाप्य च ।
यशश्चविपुलं लब्ध्वा सदाचारप्रवर्तनः ॥ (२१ )
पुत्र पौत्र श्रियो जुष्टः पुण्यां गतिमवाप्नुयात् ।
दद्यात्फलानि विप्रेभ्यो ह्यक्षतानि बहून्यपि ॥ (२२)
कदली चूत पनस सम्भवानि शुभान्यपि ।
एवं समापयेन्विद्वान् विद्याव्रतमनन्यधीः ॥
समस्तविद्यानिपुणो वैष्णवं पदमृच्छति ॥ (२३)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षण्णवतितमोऽध्यायः ।
श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये
श्रीरङ्गमाहात्म्यम्–९७
विद्याप्रदद्वितीयाव्रतविधिः
सनत्कुमारः –
अनन्तरं द्वितीयायां यत्कार्यं तच्छ्रुणुष्व मे।
विद्याप्रदं महापुण्यं बुद्धि प्रभवदोषहृत् ॥ (१ )
सुस्नातः कृतजप्यश्च कृतपौर्वाह्निकी क्रियः।
ब्रह्मचारी जितक्रोधो यतवाक्कायमानसः॥ (२)
मण्डलं चतुरश्रं तु कुर्यात्तच्छ्वेततण्डुलैः।
तन्मध्येऽष्टदलं पद्मं विधाय कुसुमोत्करैः ॥ (३)
कर्णिकायां श्रियं देवीं पद्महस्तां हरिप्रियाम् ।
पद्मासनां पद्मनेत्रां पद्मकिञ्जल्कसन्निभाम् ॥ (४)
सरस्वती रतिर्भूतिर्दान्तिः कान्तिश्च संसतिः।
मैत्रीं विद्येति विख्याता दिव्यास्ताह्याऽष्टशक्तयः॥ (५)
ताः दलेषु यथायोगं न्यसेदष्टसुयोजिताः।
तत्तदाद्यर्णयोगेन पूजादिक्रमयोगतः ॥ (६)
प्रज्ञा मेधा प्रभा सत्या छाया कीर्तिः क्षमा दया।
श्वेताकृष्णा तथाश्यामा रक्ता दिग्देवतास्स्मृताः ॥ (७)
न्यसेत्प्रज्ञां तु पूर्वस्यां मेधां दक्षिणतस्तथा।
प्रतीच्यां च प्रभां सत्यामुत्तरस्यामिति क्रमात् ॥ (८)
स्मरन् विदिक्षु छायाद्यामिश्रवणैः पृथक्पृथक् ।
नन्दो दक्षोऽरुणस्सिद्ध इति दिक्पतय स्मृताः ॥ (९)
विशिखो विश्वकृच्छण्डदण्डाः कोणाधिपास्मृताः।
द्वारपाला बहिश्चाऽष्टौ दिक्षु वै द्वन्द्वशः स्थिताः ॥ (१ ०)
वक्रतुण्डो महादंष्ट्रो नीलजिह्वो महाशिराः।
क्रोधेक्षणे दीप्तमुखो दीप्ताक्षः काल इत्यपि॥ (१ १ )
शङ्खपद्मनिधिं दिक्षु पङ्गजोपरि संस्मरेत् ।
क्रतुर्मुनिर्विभुश्शम्बुश्चत्वारः पूर्वतः स्मृताः ॥ (१ २)
अत्रिः द्युम्नः कपिः काण्ड इति दक्षिणे स्थिताः ।
वसिष्ठो वामदेवश्च जीवितश्च पराशरः ॥ (१ ३)
शाण्डिल्यः कासरः कान्तो मैत्र इत्यपि विश्रुताः।
एवमादिषु संयुक्तं मण्डलं कारयेत्सुधीः॥ (१ ४)
चन्दनाऽगरुधूपेन श्वेतपुष्पैस्समर्चयेत् ।
पायसं च पयश्शुद्धं निवेद्य च यथोदयम्॥ (१ ५)
श्रीपद्मकुसुमैश्श्वेततण्डुलैस्स तिलैस्तथा ।
फलपुष्पैस्तथा बिल्वैः नन्द्यावर्तप्रसूनकैः ॥ (१ ६)
जाती केतकपुष्पैश्च मल्लिका चम्पकोद्भवैः।
श्रीबीजेन यथायोगं तां यजेदीश्वरीं श्रियम् ॥ (१ ७)
शक्तिश्च तत्तन्मन्त्रेण सर्वत्रैवं विधिः स्मृतः ।
प्रातरेव विधिःकार्यो नाऽपराह्णे कदाचन ॥ (१ ८)
एवमभ्यर्च्य विधिना देवीं शक्त्यादिसंयुताम्।
संस्नापयेत्तु क्षीरेण स्तोत्रालापादि कारयेत् ॥ (१ ९)
श्रीसूक्तेनाऽन्यसूक्तैश्च वैष्णवैश्चैव कीर्तयेत् ।
एवं समाप्य विधिवत्सपर्यामप्यनन्यधीः ॥ (२०)
गां भूमिं घृतकुम्भञ्च गुरुभ्यः प्रतिपादयेत्।
लाजपूर्णानि पात्राणि तिलपूर्णानि पञ्च च॥ (२१ )
हरिद्राचूर्णपूर्णानि योषिद्भ्यः प्रतिपादयेत् ।
दद्यात्कुटुम्बिने हेमरत्नानि विविधानि च ॥ (२२)
अथ विद्याप्रदं शिष्यं आचार्यमभिवाद्य च ।
देहि विद्यां प्रपन्नाय प्रार्थयीत विचक्षणः॥ (२३)
एवमभ्यर्थितः पूर्वमाचार्यो देविसन्निधौ।
विद्यामुपदिशेत्तस्मै शिष्याय व्रतचारिणे॥ (२४)
दानानामुत्तमं दानं विद्यादानं विदुर्बुधाः ।
विद्यानां च परा विद्या ब्रह्मविद्या समीरिता॥ (२५)
आहुस्समस्तविद्यानां श्रियं विद्याऽधिदैवतम् ।
विद्या सरस्वती इत्येतैश्चेऽवगीयते ॥ (२६)
यथा गरिष्ठो भूतानां विष्णोः कारणपूरुषः।
यथा च योषित्प्रवरा परमा पङ्कजालया॥ (२७)
वायुर्बलवतां श्रेष्ठो यथा ज्योतिष्मतां रविः ।
जलाशयानां प्रवरो यथायं सरिताम्पतिः ॥ (२८)
तथा विद्याप्रदश्श्रेष्ठो गरीयांश्च गरीयसाम्।
सम्पूज्यश्चापि सर्वत्र यश्च विद्यां प्रयच्छति॥ (२९)
इहामुत्र सुरक्षेममाहुर्विद्याधनं धनम्।
विद्यया मूलया युक्तो विमुक्तिं याति संयमी ॥ (३०)
विद्यया च सुखं गच्छेद्विद्यया च पराङ्गतिम् ।
विद्या प्रतिष्ठा भूतानां विद्यावांश्चैव दैवतम् ॥ (३१ )
इति विद्याप्रदं शिष्यो जानीयाद्दैवतं परम्।
स हि सर्वासु चापत्सु परित्राणममुष्य च॥ (३२)
तस्मादाचार्यनिर्देशं नातिवर्तेत जातुचित् ।
आचार्याऽधीनमात्मानं नियच्छेदात्मवान् स्वयम् ॥ (३३)
तद्वदाचार्यपुत्रे च वृत्तिस्स्यात्तत्समन्वये।
एवं कृत्वा समारम्भं विद्यां यो वाऽधिगच्छति ॥ (३४)
तं विद्या स्वयमेवाशु वृणुयान्नात्र संशयः ।
विद्याधिदेवता लक्ष्मीस्ताऽमृतेन तु कस्यचित् ॥ (३५)
तदन्वयस्तद्वियोगे विनाशं स्वयमृच्छति ।
विद्या वियुक्तं यद्वस्तु तदसत्यतदोऽन्यथा ॥ (३६)
विद्यायोगस्सतां यस्य मतो वैशेषिको गुणः ।
तस्मादेवं प्रकुर्वीत विद्यायागम् विचक्षण॥ (३७)
पराऽपरविभागज्ञो विद्ययाऽमृतमश्नुते।
इति द्वितीया नियमो विद्याधिगमकारणम् ॥
संयगुक्तो मया ब्रह्मन् येन पारं गमिष्यति ॥ (३८)
यो विद्ययानाकुलभूतिमिच्छैः प्राप्तुं पदं वा परमस्य पुंसः ।
इच्छेत् द्वितीयो नियमः प्रभावं प्राप्तात्मविद्यः परमं समेति ॥ (३९)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्त नवतितमोऽध्यायः॥
श्रीरङ्गमाहात्म्यम्–९८
ग्रहपीडादिहर–तृतीयव्रतम्
सनत्कुमारः –
तृतीयायां महाभाग कर्तव्यं त्वमतः शृणु ।
एषोऽ नन्तभवारब्धं क्षणेन क्षपितुं द्विज ॥ (१ )
ग्रहपीडादिकैरन्यैः उपसर्गैः प्रपीडितः।
तस्याश्शान्तिं प्रकुर्वीत यतवाक्कायमानसः ॥ (२)
मण्डलं चतुरश्रं तु कुर्यादब्जप्रसूनकैः।
तत्राब्जमण्डलं कुर्यात्तस्मिंश्च तिलतण्डुलैः॥ (३)
तत्र चाऽऽवाहयेद्देवं नरसिंहाकृतिं विभुम् ।
प्रसन्नमधुरोदार वीक्षण क्षपितार्तिकम् ॥ (४)
अशेषभयविध्वंसचतुरेण करेण च ।
अभयं भयतप्तानां ददानम् ददतां वर ॥ (५)
प्रसन्नार्तिमृषा तत्र प्रसादं परमेण च ।
वदनेन लसत्कान्ति नयनेन विराजितम्॥ (६)
विपक्षपक्षो विदलचतुरो दत्तबाहुकम् ।
विद्युन्मालावृतोत्तुङ्गरजताद्रिमिवाऽपरम् ॥ (७)
किरीटहारकेयूर वनमाला विभूषितम् ।
शङ्खचक्रगदाशार्ङ्ग नन्दकाद्यैरलङ्कृतम् ॥ (८)
जातिप्रसूनकैश्चित्रैः सिताम्भोजैरखण्डकैः ।
साक्षतैर्मल्लिकाभिश्च नन्द्यावर्तप्रसूनकैः ॥ (९)
अक्षतैर्बिल्वपत्रैश्च तत्फलैश्च तदङ्करैः।
तिलैस्सतण्डुलैः शुद्धैः तुलसीश्रीलतांकुरैः ॥ (१ ०)
नीलोत्पलैः कुवलयैः कुमुदोत्पलकेसरैः।
काश्मीरचन्दनक्षोद कर्पूराऽगरु मिश्रितैः ॥ (१ १ )
पायसाऽपूपभक्ष्याद्यैः गुडान्नैर्मधुरोल्बणैः ।
श्राव्यगीतवरैश्चारु नृत्तवाद्यप्रदर्शनैः ॥ (१ २)
प्रदक्षिण नमस्कार स्तोत्राद्यैर्भक्तिभावितैः ।
सम्यगभ्यर्च्य देवेशं विधिदृष्टेन वर्त्मना॥ (१ ३)
नानौषधिसमायुक्तं नानातीर्थोदकान्वितम् ।
नानारत्नसमायुक्तं नानाकुसुमसंश्रितम् ॥ (१ ४)
नानाबीजो परीक्षिप्तं नानावस्त्रसमन्वितम् ।
नाना कूर्चयुतं पूर्णकुम्भं संस्थापयेद्बुधः ॥ (१ ५)
तस्मिन्नावाहयेद्देवं सुदर्शनमनन्यधीः ।
पूर्वोक्तेनैव मार्गेण सम्यगभ्यर्च्य शक्तितः ॥ (१ ६)
पूर्वादि क्रमयोगेन संस्थाप्य चतुरो घटान्।
कोणेषु च तथान्येषु क्रमादेतांश्च सम्स्मरेत् ॥ (१ ७)
नन्दकं मुसलं पद्मं गदां शार्ङ्गं च शङ्खकम्।
शरांश्च शक्तिमित्येवं तद्बाह्येऽ पि तथैव च ॥ (१ ८)
लोकपालप्रतिष्ठानं कृत्वा सर्वत्र पूजयेत् ।
यथा च मध्यकुम्भे च तथान्येष्वप्यलङ्कृतम् ॥ (१ ९)
एवं समाप्य विधिवत् पूजां तत्र विचक्षणः ।
जपेद्दशसहस्रं च सुदर्शनमनन्यधीः ॥ (२०)
जपेत्सहस्रमप्यत्र प्रतिकुम्भं विचक्षणः ।
अथ कुण्डप्रतिष्ठानं अग्न्याधानं यथाविधि॥ (२१ )
विधाय संस्कृते चाऽग्नौ जुहुयात्सर्वशान्तये ।
त्रिमध्वक्तैस्तिलैश्शुद्धैराज्येन पयसापि च ॥ (२२)
श्रीलताकुसुमैः पर्णैः बिल्वपत्र प्रसूनकैः।
दूर्वाङ्गुरैः श्रीमधुकैः बजतण्डुल सर्षपैः ॥ (२३)
आयुष्कामस्तु दूर्वाभिः श्रीकामो बिल्वसम्भवैः ।
सौभाग्यकामो लक्ष्मीर्वा श्रीलतापर्णसूनकैः ॥ (२४)
आरोग्यकामी पयसा गव्येनाम्लेन वा तिलैः ।
पुष्टितामस्त्वपामार्गैरपमृत्युं गुलूचिभिः ॥ (२५)
पद्मश्चाव्याहता लक्ष्मीः पुष्टिश्च कुमुदैरपि ।
चन्दनक्षोदसंयुक्तेरायुर्नीलोत्पलैरपि ॥ (२६)
जातीपुष्पैर्धरालाभो नन्द्यावर्तप्रसूनकैः ।
एकपत्रैस्सितैः पद्मैः राजराजत्वमृच्छति ॥ (२७)
रजतं मल्लिकाद्यैश्च सुवर्णं पङ्गजोद्भवैः ।
दध्याज्यतण्डुलाद्यैश्च तत्तल्लाभो भविष्यति॥ (२८)
एतेष्वन्यतमद्रव्यैः यं यं कामयते च यः।
दशसाहस्रहोमेन तं तं विन्दत्यसंशयः ॥ (२९)
होमस्य द्विगुणं प्राहुः तर्पणं मन्त्रनिश्चयाः ।
ततश्च द्विगुणं प्राहुः जपं चैव यथाक्रमम् ॥ (३०)
स योगारम्भसमये नियमान् परिपालयन् ।
यत्नं चाहरहः कुर्वन्नुक्तकालं समापयेत् ॥ (३१ )
हविष्याशी जितक्रोधो यतवाक्कायमानसः।
नित्यं त्रिषवणस्नायी सदाचाररतो मुनिः॥ (३२)
न चाऽनृतकथोऽ नग्निः ब्रह्मचारी जितेन्द्रियः।
मौनी विमत्सरो नित्यं स्वाध्यायनिरतश्शुचिः॥ (३३)
अनग्निमान् महापापी फलस्य गुरुलाघवम् ।
मत्वा भवेच्छ नियमी चासमाप्तेः प्रयत्नतः॥ (३४)
तथा संख्या समुत्कर्षः फलगौरवहेतुकः ।
अयुतं च परं चाहुः तद्वृत्तिस्तत्फलानुगा ॥ (३५)
कृत्वैवं सम्यगाचार्यः समासीनं च पार्थिवम् ।
मध्यमं कुम्भमादाय स्नापयेद्देवसन्निधौ ॥ (३६)
सुदर्शन महाज्वाल ज्वाला व्याप्तदिगन्तर।
त्रायस्व चैनमापद्भ्यो भद्रं प्रतिदिशेति वै॥ (३७)
अन्यैरपि यथायोगं कुर्यात्तस्याऽभिषेचनम्।
तत्तन्मन्त्रेण चाचार्यः तत्समक्षं महामते ॥ (३८)
दैतेय निकरा भोगशैल निर्भेद दीक्षित।
पद्मासन मनोनन्द त्राह्येनमपि नन्दक॥ (३९)
विपक्षकाय मथनः त्वगस्त्याद्याविलानन।
कमलाकान्त धार्यत्वं पाह्येनं मुसलायुध ॥ (१ ०)
विश्वोद्भवलयत्राणलीलस्य परमात्मनः ।
लीलारविन्दसुभग पाह्येनमपि पङ्कज ॥ (१ १ )
कौमोदकी गदा सास्मै देवी दिशतु मङ्गलम् ।
या मुकुन्दकरांभोज विलसद्भूषणाय ते ॥ (१ २)
स्वविष्पारहृताशेषरक्षो दनुजजीवन ।
एनसो रक्ष साध्वेनं विष्णोश्शार्ङ्ग धनुर्वर ॥ (१ ३)
दैत्य सीमंतिनी गर्भनिर्भेद चतुरस्वन।
अपत्वत्यन्त वक्राब्ज मधुपर्णस्तु शंकराट्॥ (१ ४)
दैत्यरक्षोऽ धिप प्राणवसा रुधिरभोजनाः ।
एनं सर्वत्र रक्षन्तु शार्ङ्गपाणेश्शरोत्कराः॥ (१ ५)
अराति हेतिप्रमुख शक्तिविक्षेपणक्षमा ।
आपद्भ्यो रक्षतादेनं शक्तिश्रीशवरायुधम्॥ (१ ६)
एवं स्नात्वाऽहतैर्वस्त्रैर्भूषणाद्यैरलङ्कृतः ।
कृतनीराजनविधिः दद्याद्विप्राय दक्षिणाम् ॥ (१ ७)
गुरवे च परं दत्वा बन्धुभ्यो भूषणादिकम् ।
अन्यच्छापि तदर्थिभ्यो दद्याद्भूरि यथोदयम् ॥ (१ ८)
द्विजैराचारनिरतैः स्नापितो मङ्गलाकृतिः।
तिल चन्दन लाजाब्ज श्वेतसर्षप तण्डुलैः ॥ (१ ९)
ब्राह्मणैः स्वस्तिवचनमाशीर्भिरपि कारयेत्।
कूर्चोदकेनचाचार्यः कुर्याद्भद्भवचः कृती॥ (२०)
आयुश्च विपुलं देयं श्रियं च विपुलां भुवि ।
अक्षय्यमपि चारोग्यं मनश्शान्तिं समर्थताम् ॥ (२१ )
विद्यामनाकुलां बुद्धिं रागाद्यैरप्यनाहताम् ।
स्वाधिक्यं तु तथात्यर्थप्रियं दिशतु मङ्गलम्॥ (२२)
स्वस्ति चास्तु शिवं चास्तु भद्रमस्तु सदा तव।
आपद्भ्यश्च भयेभ्यश्च रक्षतु त्वां श्रियः पतिः ॥ (२३)
इति रक्षाविधिं कृत्वा लोकपाल बलिं क्षिपेत्।
पूर्वत्र तण्डुलैः कार्यं कृसरान्नेन दक्षिणे॥ (२४)
पश्चिमे पायसेनैव शुद्धान्नेन तथोत्तरे ।
कोणेषु सक्तुभिः कुर्यात् गुडमिश्रैस्ततोबलिम्॥ (२५)
सर्वार्थं च बलिं दद्यात्सर्वेभ्यो वै महामतिः ।
इति शान्तिप्रदं प्रोक्तं तृतीयायां महामते ॥ (२६)
सर्वदुःखप्रशमनं सर्वरोगविनाशनम्।
सर्वसौख्यप्रदं नॄणां सर्वकामफलप्रदम्॥ (२७)
सर्वार्तिशमनं धन्यं सर्वपापप्रणाशनम् ।
यस्त्वेतत्कुरुते मर्त्यः श्रद्धाभक्तिसमन्वितः ॥ (२८)
स सर्वार्तिविनिर्मुक्तः शान्तिमाप्नोति नैष्ठिकीम्।
दुस्वप्ने चाऽऽमयग्रासे ग्रहपीडाद्युपप्लवे ॥ (२९)
विषादे विनिपाते च पुत्रार्तौ च धनक्षये।
राज्यनाशे धनक्षोभे दुर्भिक्षे शत्रुपीडने ॥ (३०)
ज्वराऽक्षिरोगातिसारप्लीहकुष्ठभगंधरैः ।
क्षयाऽपस्मारिणाद्यैश्च तीव्रदुःखान्वये सति ॥ (३१ )
स्नानमेतत्प्रकुर्वीत ज्ञात्वैतद्बुद्धिमान्नरः ।
जन्मव्रुषे वा तृतीयायां निमित्तेनमुपस्थिते॥ (३२)
व्रतमेत त्प्रकुर्वीत नात्रकार्यविचारणा।
तत्सन्निपातमालक्ष्य तत्तत्सूचकदर्शनः ॥ (३३)
शान्तिः पुरस्तात्कुर्वीत प्राज्ञा सारस्तु पूरुषः ।
युक्ताचारस्तु पुरुषः प्रज्ञावान् शास्त्रवित्तमः॥ (३४)
अप्युपद्रव साहस्रमतीत्य सुखमेधते ।
शास्त्रं च वत्सलतरं मातृवत्पितृवत्ततः ॥ (३५)
यदनन्तभवारब्धं नृणां कर्म समुद्भवम् ।
प्रदश्य तत्क्षमोपायमेनः क्षपयति स्वयम्॥ (३६)
अतः शास्त्रपराधीनः पुरुषोऽमुत्र जन्मनि ।
युक्तः कर्मावृतीन्त्यक्त्वा निर्वाणमपि गच्छति॥ (३७)
अज्ञातपुरुषार्थानां शास्त्रमुद्वर्तिनामपि ।
स्वानुकूलपदप्राप्तिमर्थं च विदधात्ययम्॥ (३८)
विश्वोद्भव लय त्राण लीलस्य परमात्मनः।
जन्तुःप्रसक्तकारुण्य पुष्टिं शास्त्रविदुर्बुधाः ॥ (३९)
तस्माच्छास्त्रपराधीनः सर्वापद्भ्यः प्रमुच्यते ।
शास्त्रमुत्सृज्य नियमान् पालयन्नप्यधो व्रजेत् ॥ (४०)
कानिचिद्विदधच्छास्त्रं कानिचित्प्रतिषिध्य च।
धर्माद्यवस्ताभेदेन सर्वेषां तत्परायणम्॥ (४१ )
आध्यात्मिकादौ संप्राप्ते परितापत्रये नरः।
अतन्द्रितः प्रस्तुतया नित्यं स्नानं समाचरेत् ॥ (४२)
ग्रहणे चाऽयने प्राप्ते यस्स्नायादुक्तवर्त्मना ।
ब्रह्महत्यासमं पापं व्यपोह्य सुखमश्नुते ॥ (४३)
यस्तु स्नायात् स्वजन्मर्क्षे मन्त्रेणैव विचक्षणः ।
सोऽ न्तरामरणं हित्वा परमायुश्च विन्दति॥ (४४)
आयूंषि क्षपयन्त्याशु नृणां पापानि सर्वदा ।
यत्तदायुः प्रतिष्ठानं कार्यं जीवितुमिच्छता॥ (४५)
पुरुषार्थसमापत्तिर्जीवितामेव हि ध्रुवम् ।
अतस्तत्सिद्धये प्रोक्तं शान्तिस्नानं द्विजोत्तम ॥ (४६)
यदिदं जीवितं नृणां सर्वेषामपि तन्मतम् ।
अर्थिनां तच्छिरं चायुः व्रतमेतत्प्रयच्छति॥ (४७)
इत्येतच्च पुरा प्रोक्तं ब्रह्मणाव्यक्तजन्मना ।
भृग्वादिभ्यो मया चात्र व्रतमेतत्समीरितम् ॥ (४८)
इत्येवं शृणुयान्नित्यमनसूयुर्घृढव्रतः।
सर्वपापविनिर्मुक्तः सर्वलोकेषु पूज्यते ॥ (४९)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टनवतितमोऽध्यायः।
श्रीरङ्गमाहात्म्यम्–९९
गजाऽश्वरोगहर चतुर्थीव्रतक्रमः
सनत्कुमारः –
अथ राजा प्रकुर्वीत चतुर्थ्यां गजवाजिनाम् ।
शान्तिमामय तप्तानां तदुत्पातोदये सति ॥ (१ )
कबलानि च नादत्ते यदा चाश्रूणि मुञ्चति ।
शब्दश्च प्राप्तनिर्वेदः करी स्यान्मद वर्जितः ॥ (२)
निही गतिरत्यर्थं परिक्षीणमथो द्विपः।
विमनास्त्रन्तसर्वज्ञः सदा नष्टपराक्रमः ॥ (३)
नष्टशोभस्सदा भीतो नष्टसंज्ञोरुपोज्झितः।
नानाव्याधिसमुत्थाभिः पीडाभिः पीडितो यदा॥ (४)
अरिष्टोपनि पातेषु तथोत्पातभयेषु च।
तदाशान्तिं प्रकुर्वीत गजरक्षापरो नृपः॥ (५)
स्थापयेच्च ततः कुम्भानष्टावष्टासु दिक्षु च।
अर्चयेत् प्रधानकुम्भेषु नरसिह्माकृतिं हरिम्॥ (५)
शङ्खचक्र गदाशार्ङ्ग वज्रासि शरशक्तयः।
पूर्वादि क्रमयोगेन ध्यातव्यः कलशेष्वपि॥ (६)
बहिश्शक्रादि दिक्पालान् तत्र तत्र च सम्स्मरेत् ।
सम्स्पृशन् मध्यकुम्भं च जपेद्दशसहस्रकम्॥ (७)
अथ राजा समाविष्टे स्वास्तीर्णे सिमविष्टरे ।
कुम्बोदकेन देवाग्रे तन्मन्त्रेणाभिषेचयेत् ॥ (८)
पर्यन्तकलशश्चापि नृपं पश्चाद्गजादिकम्।
कृत्वा तु वाचयेत्पश्चाद्ब्राह्मणैराशिषो बहु ॥ (९)
दक्षिणामल्यलं दद्यादृत्विग्भ्यो गुरवे नृपः।
पूर्वं स्नानाऽवशिष्टेन कुम्भतोयेन मन्त्रवित् ॥ (१ ०)
गजशालां च सम्प्रोक्ष्य वाजिशालां तथैव च ।
एवमेव मुनिश्रेष्ठ तीर्थवृत्तमनुत्तमम् ॥ (१ १ )
सर्वदुःखावहं नृणां सर्वकाम फलप्रदम् ।
सर्वपुष्टिप्रजननं सर्वशान्तिकरं परम्॥ (१ २)
तिथिष्वपि च सर्वासु तत्तद्व्रतमुदीरितम् ।
स्नेहात्तच्चापि विस्रंभान्मुनिवर्य तवोदितम् ॥ (१ ३)
तस्मिंस्तीर्थवरे वृत्तमिदमाख्यानमुत्तमम्।
पुरा श्रुतं मुनिगणैः महाभागैरकल्मषैः॥ (१ ४)
पापक्षयकराण्येवं व्रतानि भगवन् मया।
तवोदितानि सर्वाणि नृणां श्रेयस्कराणि च ॥
इति ते गुह्यमाख्यातं गुह्याद्गुह्यतरं मया ॥ (१ ५)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकोनशततमोऽध्यायः॥
श्रीरङ्गमाहात्म्यम् – १ ००
पूर्वोक्तव्रताचरणेन जयधरस्य पुत्रशत लाभः
मार्कण्डेयः –
इति श्रुत्वा भरद्वाजो वाल्मीकेस्तस्य पश्यतः ।
सनत्कुमारं पूजार्हं तत्रैवाऽपूजयत् स्वयम् ॥ (१ )
वाल्मीकिरपि तेजस्वी दृष्ट्वा परमयोगिनम् ।
सनत्कुमारं तं गत्वा प्राशंसत महामुनिम्॥ (२)
राजानं कारयामास व्रतानि स पुरोहितः ।
यथोक्तं तु समादिश्य नियमस्थं नरोत्तमम्॥ (३)
व्रतप्रभावाद्राजेन्द्र राजा जयधरस्तदा ।
सर्वापद्भ्यो विमुक्तश्च सोऽभूत् पूर्णमनोरथः॥ (४)
स समग्रां समृद्धार्थं पालयामास मेदिनीम्।
राष्ट्रम् अर्थसंयुक्तं सर्वकामसमृद्धिमत् ॥ (५)
विगतार्तिभयं श्रीमत्तस्य राज्ञो बभूव ह ।
तस्य पुत्रशतं जज्ञे बलवीर्यर्तिसंयुतम्॥ (६)
तेषां पुत्रैश्च पौत्रैश्च नृपस्तु मुमुदे चिरम् ।
अथ राजा समृद्धार्थो रङ्गधामाऽभिवन्दितुम् ॥ (७)
महोद्योगं चकारोच्छैः स निर्वृत्तमनोरथः ।
सबलस्सानुयात्रश्च स पुरोधा महाबलः ॥ (८)
बिल्वकं तीर्थमासाद्य वाल्मीकिं प्रयतो मुनिम्।
शिष्यैर्भरद्वाजमुखैर्बहुभिश्च समावृतम्॥ (९)
ववन्दे लब्धविभवस्तत्समीपान्वयान् भुवि ।
वाल्मीकिस्तु नृपं दृष्ट्वा तीर्थस्नानार्थमागतम्॥ (१ ०)
कुशल प्रश्नमकरोद्वले कोशे पुरोधसि ।
तीर्थं च ददृशे राजा प्रशस्तं बिल्व संज्ञितम्॥ (१ १ )
स्नानप्रवृत्तैर्मुनिभिः सुस्नातैरपि संवृतम्।
अवगाहद्भिरन्यैश्च ध्यायद्भी रङ्गशायिनम्॥ (१ २)
ऋचस्सामानि गायद्भिः स्तोत्राऽऽलापपरैःक्वचित्।
क्वचित्फुल्लाब्ज निकरैः पूजयद्भिर्हरिं परम् ॥ (१ ३)
वीतरागभयः क्रोधैः योगिभिश्शान्तमानसैः ।
रङ्गध्यानभवानन्द सुपुष्टां गोरुविग्रहैः ॥ (१ ४)
तद्गुणस्मरणानन्द पूर्णांबुनिधिसम्श्रितैः ।
तद्ध्यानामृतसंपूर्णमनसाचलसुस्थितैः ॥ (१ ५)
तत्कथालाप कुशलैः तद्वन्दनपरैर्वृतम् ।
सात्वतैः सत्वनिरतैः पञ्चकालरतैरपि॥ (१ ६)
स्वयं पुष्करणीस्नानं चक्रे राजा महीपतिः ।
विमलाभून्मतिस्तस्य तीर्थस्नानं प्रकुर्वतः ॥ (१ ७)
सर्वार्तिशयनं श्रीमघौघक्षपणक्षमम् ।
स्नात्वा ववन्देऽथ मुनिं निषण्णं तीर्थसन्निधौ ॥ (१ ८)
कृताञ्जलिपुटो राजा वाल्मीकिं च मुनिं नृपः ।
एवं स्नात्वा नृपश्रेष्ठो रङ्गधाम समभ्यगात्॥ (१ ९)
तत्र तैः मुनिभिस्सर्वैः योगिभिः विमलाशयैः ।
पुरोधसा च संयुक्तो राजा च त्वरयान्वितः ॥ (२०)
तान् रङ्गधामनिलयान् पुरुषान् ध्वस्तबन्धनान्।
सौम्यवेषान् सदाचारान् सर्वकल्याण संश्रयान्॥ (२१ )
तत्सपर्या समारम्भ प्रवृत्ताचल मानसान्।
संहृष्टवदनोद्दामकुण्डलादि विभूषणान्॥ (२२)
दृष्ट्वा राजा ददौ तेभ्यो भूषणादीनि सर्वशः।
सोऽन्तः प्रविश्य सर्वत्र प्रणम्य स महामतिः ॥ (२३)
दिव्यशक्तिमयं धाम ददर्श स महाबलः ।
अथ राजा मुनिश्रेष्ठं कण्वं च ददतां वरम्॥ (२४)
नृपः पप्रच्छ राजेन्द्र बहूनां श्रृण्वतामपि ।
राजा –
एतद्धि परमं धाम सर्वलोकेषु विश्रुतम् ॥ (२५)
अक्षय्यमचलं नित्यं सर्वशक्तिमयं त्विति ।
कालवश्यमिदं सर्वं न कालः कालमन्वयत् ॥ (२६)
तस्मादेतन्मुनिश्रेष्ठ! तन्मे ब्रूहि यथातथम् ।
कण्वः –
कलाकाष्ठा निमेषादिकालः क्षपयति प्रजाः॥ (२७)
न च कश्चित्तमत्येति तत्र सर्वं प्रलीयते।
तथापि सर्वभूतात्मा सर्वस्सर्वेश्वरो हरिः॥ (२८)
कालमत्यर्थमभ्येति तथाऽन्यो वा जगत्पतिः।
तद्विभूत्यंश योगेन कालस्तत्र न विद्यते॥ (२९)
कालस्य च तदान्यस्य सर्वस्य जगतः प्रभुः ।
एतद्धि ब्रह्मणोदत्तं वरं तस्य स्वयंभुवा ॥ (३०)
आराधितं चिरं कालं सप्रीतो मनवे ददौ ।
महता तपसा राजन् तस्मादिक्ष्वाकुराप्तवान् ॥ (३१ )
अनादि निधनं सृष्ट्वा प्रजापति पतिर्हरिः।
शेषाख्यमेतद्राजेन्द्र विद्धि धाम सनातनम्॥ (३२)
सर्वभूतसुहृच्छान्तो रामश्चाक्लिष्टचेष्टितः।
स चापि स्वपुरे राजा ह्येतद्भक्त्या त्वपूजयत्॥ (३३)
विभीषणः परं मित्रं रामस्यासीत्स राक्षसः।
रावणावरजश्रीमान् सर्वश्रुतिपथं गतः॥ (३४)
तस्मै प्रीतमना रामः सुहृदे मित्रवत्सलः ।
आत्मनोऽ प्यधिकं धाम दयितं दत्तवान् पुरा ॥ (३५)
सोऽतिहृष्टमनो राजन् तदादाय च निर्ययौ ।
अतिप्रशस्तं विपुलं रमणीयमिदं पुनः॥ (३६)
नदीतीरं समालक्ष्य तत्पूजार्थं विचक्षणः ।
अवतार्य च तद्धाम चक्रे पूजादिकं बहु ॥ (३७)
कृत्वा पुष्करिणी स्नानं तत्रत्यानभिवाद्य च।
इयेष गन्तुं मनसा लङ्कामेव विभीषणः॥ (३८)
न चैच्छद्रङ्गधामा तदन्यत्र गमनं नृप।
नृणां भाग्यप्रकर्षाच्च देशस्य गुणवत्तया॥ (३९)
यदेतत्परमं धाम स एष भगवानपि ।
तप उत्कर्षविद्वस्त पापान्धतमसैरपि॥ (४०)
निगृहीतेन्द्रियग्राम विमलाचल मानसैः।
स्वयोगमहिमप्राप्तज्ञानदृष्टपरावरैः ॥ (४१ )
योनिभिर्धृतसङ्कल्पैः प्रवृत्त नियमैरपि ।
लक्षीकर्तुमशक्यं तु परं यस्य परेशितुः ॥ (४२)
रङ्गधामा परे धाम्नि रमते तत्र सदा प्रभुः ।
मार्कण्डेयः-
रङ्गनाथं तथा राजन् राजा सुप्रीत मानसः ॥
प्रणामादि चकारोच्छेस्तोत्राऽऽलापमथाकरोत् ॥ (४३)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये शततमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–१ ०१
जयधर राजपक्षिणोः संवादः
मार्कण्डेयः –
अथ प्रणम्य रङ्गेशं रङ्गधाम च सादरम्।
तेभ्यो रङ्गनिवासिभ्यो ददौ बहु धनादिकम् ॥ (१ )
स तैः समन्वितः काले मुनिभिर्भावितात्मभिः।
विनिर्गच्छंस्तदा तत्र ददृशे सत्वमद्भुतम्॥ (२)
विपुलं पक्षिसङ्घानामासीनं दीप्तलोचनम्।
दीप्ततुण्डं बृहत्पक्षमाताम्रनखरावलिम् ॥ (३)
अन्यैश्शकुनिसंघैश्च सेव्यमानमितस्ततः ।
प्रस्पष्टमधुरालाप हृताशेष मनोव्रजम् ॥ (४)
तादृक्पतगसंयुक्तं नदीपुलिनसंश्रितम् ।
श्रृतं शान्ततरं कान्तं सौम्याकृतिविचेष्टितम् ॥ (५)
अतिप्रसन्न गम्भीर मनोनयन निर्वृतिम् ।
अनन्ताऽनंतशयन पुराणपुरुषोत्तम॥ (६)
रङ्गनाथ जगन्नाथ नाथ तुभ्यं नमो नमः ।
इति व्याहृत्य सद्वाणीं प्रसक्ताश्रुविलोचनम्॥ (७)
समीक्ष्य विस्मृतो राजा तस्थाव निमिषेक्षणः ।
पुरोधसं समाहूय राजा ज्वलनसन्निभम् ॥ (८)
उवाच चाऽद्भुतं सौम्य पश्यत्वेतद्भवानिति।
स चाकर्ण्य वचो राज्ञो ब्राह्मणस्तत्वदर्शनः॥ (९)
तत्समीपं समभ्यागात् सम्यक्सत्वं ददर्श सः ।
अहो नु कीमयं पक्षी किं वाऽन्यत्सत्वमुत्तमम्॥ (१ ०)
प्रस्पष्टमधुरं वाक्यं प्रव्याहरति चासकृत् ।
स्वयं पतङ्गसंकाशः पतगैश्च समावृतः ।
आश्चर्यं परमं चैतदित्येवं समचिन्तयत् ॥ (१ १ )
स चोच्छैर्नाम मधुरं बहुधा रङ्गशायिनः ।
अत्यद्भुतमथालक्ष्य व्याजहारन्यवस्ततः॥ (१ २)
तमप्रमेयं नृपतिः महाराजः प्रियंवदः।
शनैः पप्रच्छ मधुरं विस्मयोत्फुल्ललोचनः ॥ (१ ३)
राजा –
कस्त्वं परमकं तेजो वपुश्चान्यादृशं तव ।
मत्योपलक्षिता वाणी बुद्धिः पारम्यसन्तता॥ (१ ४)
क इमे चाऽप्रमेयं च चेष्टितं तव संशयं नः ।
ज्ञानंचानुपमं तद्वन्महत्ते मानसं मतम् ॥ (१ ५)
पक्षी –
अहं च कश्चिन् नृपते! इमे केचिच्चनानृतम्।
यदि हन्यच्च वक्तव्यं तद्भवान् प्रभवी तु नः॥ (१ ६)
राजा –
न तावच्छ्रुतमस्माकं वचः पतङ्गसत्तम।
अज्ञातविषयः प्रश्नः ज्ञातमेव त्वयोदितम् ॥ (१ ७)
ज्ञातास्माभिरयं पूर्वं कश्चिच्छब्दार्थ इत्यपि।
ज्ञातस्य पुनरुक्तिश्च तस्यैव तु निरर्थिका॥ (१ ८)
पक्षी –
एवमेतन् नृपश्रेष्ठ नानृतं न निरर्थकम् ।
निरर्थिका च ज्ञातस्य पुनस्तद्वचन क्रिया॥ (१ ९)
भावांशो ज्ञात एवैषः पूर्वमेव नरोत्तम ।
अर्थाभावादहं तावत् कश्चिच्छब्दं प्रयुक्तवान् ॥ (२०)
राजा –
तेन तत्र हि बोद्धव्यो विशेषार्थो महामते ।
तदेव त्वदविज्ञातमस्माभिश्चोदितं पुरा ॥ (२१ )
पक्षी –
अस्ति चेत्तत्र वक्तव्यं भवितव्यं भविष्यति ।
तमेवाहं न पश्यामि यं त्वं वेदितुमिच्छसि॥ (२२)
राजा –
अहो नु खलु! सर्वेषां नामजात्युदयोऽ ण्डज।
विशेषा बहवस्सिद्धा न कैश्चिच्चैक्यनिर्णयाः॥ (२३)
पक्षी –
तादृशं त्वहमर्थेस्मिन्नपश्यामि नरोत्तम ।
अत्यन्ताऽतिशयोन्यस्य भविष्यति नहि क्वचित् ॥ (२४)
राजा –
साध्वे तदुक्तमन्यस्य नान्यस्येति विहङ्गम।
नामजात्यादयस्तावन्नेव त्वय्युपलक्षिताः॥ (२५)
पक्षी –
आत्मनस्तादृशस्येति न शोभनमिदं वचः ।
परावरज्ञः कृतिं नः प्रवदन्ति विपश्चितः॥ (२६)
नाऽहं तथाविधो राजन् प्राकृतोऽ हमतोऽन्यथा।
पश्यतां तु मनीषेयं न तथा पश्यतामपि॥ (२७)
राजा –
यस्य तस्मिंश्च तद्बुद्धिः तस्यैवास्त्यनुशासनम् ।
त्वां च मां च विशेषेण पश्यतः किं नु शिष्यते॥ (२८)
पक्षी –
अहो विशेषप्राकट्यं भवताऽत्र प्रकाशितम्।
यद्यात्मानं परं वेत्सि तत्र पृच्छ च किं कुतः॥ (२९)
राजा –
नापनीतितमा बुद्धिः तवेयं परिशोभते।
याहि व्यक्तमपि ह्यर्थं अञ्जसा नाऽवलंबते ॥ (३०)
श्रूयतां तदसन्दिग्धं यदस्माभिः प्रजल्पितम् ।
मर्त्यदेहविशिष्टोऽ यं अहंशब्दसमीरितः ॥ (३१ )
त्वं शब्दश्चाभिदत्ते त्वां पक्षि संस्थानलक्षितम्।
एवमेव हि सर्वज्ञाः संतश्शब्दान् प्रयुञ्जते ॥ (३२)
शब्दाभिलभ्यमस्माभिः न च किंचिदपद्भुतम् ।
अनुक्ते च महाबुद्धे विवादः कथमत्र वा॥ (३३)
पक्षी –
अज्ञानयुक्तिर्न तु सा चिरसंस्थायिनी तव।
सा हि प्रज्ञामता युक्तिशतविद्धापि या स्थिरा॥ (३४)
न हि संघातिमात्रस्य वाचकश्शब्द इष्यते ।
दर्शनात्तद्वियुक्तस्य लोकान्तरमुपेयुषः ॥ (३५)
राजा –
सङ्गतमात्रमस्माभिः वाच्यत्वे च न चेष्यते।
सात्मकस्य शरीरस्य वाच्यतामभिधद्महे ॥ (३६)
पक्षी –
तथापि ह्यात्मनोंऽ शस्य वाच्यत्वमिति च स्थितिः ।
तदन्वयाच्च देहस्य न चैतद्गौरवादिति॥ (३७)
अतो न वक्ष्येऽ हं तत्वं मनुष्यस्सुविचक्षण ।
पतङ्ग त्वं मनुष्यत्वे कर्मबन्ध निबन्धने ॥ (३८)
राजा –
प्रसिद्धपदवी ह्येषा न शक्या कर्तुमन्यथा ।
यः पिण्डसमवेतोऽ र्थः स वदन्त्स्यादहं त्वमोः ॥ (३९)
पक्षी –
एवमेव हि शब्दानां प्रसिद्धिरपि लौकिकी।
वाचकत्वं प्रधानं स्यादितरस्य तदन्वयात्॥ (४०)
किं च विण्मूत्रमज्जास्थिमांसासृक्संहतं वपुः ।
आत्मत्वेन प्रसिद्धन्तदिति सत्सु विगर्हितम् ॥ (४१ )
परलोकश्रुतिर्नष्टा भवेत्तस्य तथा सति ।
अपवर्गोपदेशश्च सर्वमेतन्निरर्थकम् ॥ (४२)
राजा –
आढ्यो भुङ्क्ते सुखी चेति व्याहरव्यवहारयोः ।
समूलत्वेन चैनं स्यात् स एवार्थोऽ प्यहं त्वमाः॥ (४३)
पक्षी –
व्याहारव्यवहारौ तौ केवलं न शरीरगौ ।
तावन्वयवियोगाभ्यामात्मन्येवेति निश्चितम् ॥ (४४)
नृणां सद्वर्त्महीनानां आज्ञानामसतामपि।
सत्वेऽसत्वमितिस्तेषामसत्वे सत्वधीरिह॥ (४५)
जायते नष्टभाग्यानां शास्त्रं चापि निरर्थकम् ।
सुनिश्चितमपि व्यर्थयुक्तिभिश्च सहस्रशः ॥ (४६)
तेषां भाग्यविपर्यासाद्बुद्धिरास्कन्दते च हि ।
जायते क्षीणपापानां बुद्धिर्भाग्यवतां सताम् ॥ (४७)
यथार्थग्रहणव्यग्रात् सूक्ष्मात्सूक्ष्मतराव्ययात्।
प्रतितिष्ठन्ति शास्त्राणि बुद्धौ सम्यग्विपश्चितः ॥ (४८)
यस्सदैव नृपश्रेष्ठ! केशवेऽर्पित मानसः।
स हि सत्येश्वर श्रीमान् गुरूणामपि स प्रभुः॥ (४९)
राजा –
महात्मा च वदान्यश्च पूज्योऽसि परमर्षिभिः ।
यत्सत्यं तद्ब्रवीत्वद्य भवन्तो गुरवो मम ॥ (५०)
मार्कण्डेयः –
इत्युक्त्वा स नृपश्रेष्ठः तमेव पतगोत्तमम्।
अभ्येत्य च स्वयं तस्थौ विनीतश्च कृताञ्जलिः ॥ (५१ )
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकोत्तरशततमोऽध्यायः ।