०३२

तार्क्ष्य उवाच ।
कथमुत्पद्यते जन्तुर्भूतग्रामे चतुर्विधे ।
त्वचा रक्तं तथा मांसं मेदो मज्जास्थि जीवितम् ॥ २,३२.१ ॥
पादौ पाणी तथा गुह्यं जिह्वाकेशनखाः शिरः ।
सन्धिमार्गाश्च बहुशो रेखा नैकविधास्तथा ॥ २,३२.२ ॥
कामः क्रोधो भयं लज्जा मनो हर्षः सुखासुखम् ।
चित्रितं छिद्रितञ्चापि नानाजालेन वेष्टितम् ॥ २,३२.३ ॥
इन्द्रजालमिदं मन्ये संसारेऽसारसागरे ।
कर्ता कोऽत्र हृषीकेश संसारे दुः खसङ्कुले ॥ २,३२.४ ॥
श्रीविष्णुरुवाच ।
कथयामि परं गोप्यं कोशस्यास्य विनिर्णयम् ।
यस्य विज्ञानमात्रेण सर्वज्ञत्वं प्रज्यते ॥ २,३२.५ ॥
साधु पृष्टं त्वया लोके सदयं जीवकारणम् ।
वैनतेय शृणुष्व त्वमेकाग्रकृतमानसः ॥ २,३२.६ ॥
ऋतुकाले च नारीणां वर्ज्यं दिनचतुष्टयम् ।
यतस्तस्मिन् ब्रह्महत्यां पुरा वृत्रसमुत्थिताम् ॥ २,३२.७ ॥
ब्रह्मा शक्रात्समुत्तार्य चतुर्थांशेन दत्तवान् ।
तावन्नालोक्यते वक्त्रं पापं यावद्वपुः स्थितम् ॥ २,३२.८ ॥
प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ।
तृतीये रजकी ज्ञेया चतुर्थेऽहनि शुध्यति ॥ २,३२.९ ॥
सप्ताहात्पितृदेवानां भवेद्योग्या कृतार्चने ।
सप्ताहमध्ये यो गर्भस्तत्सम्म्भूतिर्मलिम्लुचा ॥ २,३२.१० ॥
निषकसमये पित्रोर्यादृक्चित्तविकल्पना ।
तादृग्गर्भसमुत्पत्तिर्जायते नात्र संशयः ॥ २,३२.११ ॥
युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
पूर्वसप्तममुत्सृज्य तस्माद्युग्मासु संविशेत् ॥ २,३२.१२ ॥
षोडशर्तुर्निशाः स्त्रीणां सामान्यात्समुदाहृतः ।
या चतुर्दशमी रात्रिर्गर्भस्तिष्ठति तत्र चेत् ॥ २,३२.१३ ॥
गुणभाग्यनिधिः पुत्रस्तत्र जायेत धार्मिकः ।
सा निशा तत्र सामान्यैर्न लभ्येत खगाधिप ॥ २,३२.१४ ॥
प्रायशः सम्भवत्यत्र गर्भस्त्वष्टाहमध्यतः ।
पञ्चमेऽहनि नारीणां कार्यं माधुर्यभोजनम् ॥ २,३२.१५ ॥
कटुक्षारञ्च तीक्ष्णञ्च त्याज्यमुष्णञ्च दूरतः ।
तत्क्षेत्रमोषधीपात्रं बीजञ्चाप्यमृतायितम् ॥ २,३२.१६ ॥
तस्मिन्नुप्त्वा नरः स्वामी सम्यक्फलमवाप्नुयात् ।
तस्याश्चैवातपो वर्ज्य शीतलं केवलं चरेत् ॥ २,३२.१७ ॥
ताम्बूलपुष्पश्रीखण्डैः संयुक्तः शुचिवस्त्रभृत् ।
धर्ममादाय मनसि सुतल्पं संविशेत्पुमान् ॥ २,३२.१८ ॥
निषेकसमये यादृङ्नरचित्तविकल्पना ।
तादृक्स्वभावसम्भूतिर्जन्तुर्विशति कुक्षिगः ॥ २,३२.१९ ॥
शुक्रसोणितसंयोगे पिण्डोत्पत्तिः प्रजायते ।
वर्धते जठरे जन्तुस्तारापतिरिवाम्बरे ॥ २,३२.२० ॥
चैतन्यं बीजरूपं हि शुक्रे नित्यं व्यवस्थितम् ।
कामश्चित्तञ्च शुक्रञ्च यदा ह्येकत्वमाप्नुयुः ॥ २,३२.२१ ॥
तदा द्रावमवाप्नोति योषागर्भाशये नरः ।
रक्ताधिक्ये भवेन्नारी शुक्राधिक्ये भवेत्पुमान् ॥ २,३२.२२ ॥
शुक्रसोणितयो साम्ये गर्भाः षण्डत्वमाप्नुयुः ।
अहोरात्रेण कलिलं बुद्वदं पञ्चभिदिनैः ॥ २,३२.२३ ॥
चतुर्दशे भवेन्मांसं मिश्रधातुसमन्वितम् ।
घनं मांसञ्च विंशाहे गर्भस्थो वर्धते क्रमात् ॥ २,३२.२४ ॥
पञ्चविंशतिमे चाह्नि बलं पुष्टिश्च जायते ।
तथा मासे तु सम्पूर्णे पञ्चतत्त्वं निधारयेत् ॥ २,३२.२५ ॥
मासद्वये तु सञ्जाते त्वचा मेदश्च जायते ।
मज्जास्थीनि त्रिभिर्मासैः केशाङ्गुल्यश्चतुर्थके ॥ २,३२.२६ ॥
कर्णौ च नासिके वक्षो जायेरन्मासि पञ्चमे ।
कण्ठरन्ध्रोदरं षष्ठे गुह्यादिर्मासि सप्तमे ॥ २,३२.२७ ॥
अङ्गप्रत्यङ्गसम्पूर्णो गर्भो मासैरथाष्टभिः ।
अष्टमे चलते जीवो धात्रीगर्भे पुनः पुनः ।
नवमेमासि सम्प्राप्ते गर्भस्थौजौ दृढं भवेत् ॥ २,३२.२८ ॥
चिकित्सा जायते तस्य गर्भवासपरिक्षये ।
नारी वाथ नरो वाथ नपुंस्त्वं वाभिजायते ॥ २,३२.२९ ॥
शक्तित्रयं विशालाक्षं षाट्कौशिकसमायुतम् ।
पञ्चेन्द्रियसमोपेतं दशनाडीविभूषितम् ॥ २,३२.३० ॥
दशप्राणगुणोपेतं यो जानाति स योगवित् ।
मज्जास्थिशुक्रमांसानि रोम रक्तं बलं तथा ॥ २,३२.३१ ॥
षाट्कौशिकमिदं पिण्डं स्याज्जन्तोः पाञ्चभौतिकम् ।
नवमे दशमे मासि जायते पाञ्चभौतिकः ॥ २,३२.३२ ॥
सूतिवातैः समाकृष्टः पीडया विह्वलीकृतः ।
पुष्टो नाड्याः सुषुम्णाया योषिद्गर्भस्थितस्त्वरन् ॥ २,३२.३३ ॥