श्रीगरुडमहापुराणम् २३८
श्रीभगवानुवाच ।
यमश्च नियम.पार्थ आसनं प्राणसंयमः ।
प्रत्याहारस्तथा ध्यानं धारणार्जुन सप्तमी ॥ १,२३८.१ ॥
समाधिरिति चाष्टाङ्गो योग उक्तो विमुक्तये ।
कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ॥ १,२३८.२ ॥
हिंसाविरामको धर्मो ह्याहिंसा परमं सुखम् ।
विधिना या भवेद्धिंसा सा त्वहिंसा प्रकीर्तिता ॥ १,२३८.३ ॥
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ १,२३८.४ ॥
यच्चद्रव्यापहरणं चौर्याद्वाथ बलेन वा ।
स्तेयं तस्यानाचरणमस्तेयं धर्मसाधनम् ॥ १,२३८.५ ॥
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ १,२३८.६ ॥
द्रव्याणामप्यनादानमापत्स्वपि तथेच्छया ।
अपरिग्रहमित्याहुस्तं प्रयत्नेन वर्जयेत् ॥ १,२३८.७ ॥
द्विधा शौचं मृज्जलाभ्यां बाह्य भावादथान्तरात् ।
यदृच्छालाभतस्तुष्टिः सन्तोषः सुखलक्षणम् ॥ १,२३८.८ ॥
मनसश्चैन्द्रियाणां च ऐकाग्र्यं परमं तपः ।
शरीरशोषणं वापि कृच्छ्रचान्द्रायणादिभिः ॥ १,२३८.९ ॥
वेदान्तशतरुद्रीयप्रणवादिजप बुधाः ।
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ १,२३८.१० ॥
स्तुतिस्मरणपूजादिवाङ्मनः कायकर्मभिः ।
अनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम् ।
आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा ॥ १,२३८.११ ॥
प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ।
इन्द्रियाणां विचरतां विषयेषु त्वसत्स्विव ॥ १,२३८.१२ ॥