श्रीगरुडमहापुराणम् २१२
सूत उवाच ।
प्रस्तार आद्यगोऽथो लः परतुल्योऽथ पूर्वगः ।
नष्टमध्ये समेंऽके लः समेऽर्धे विषमे गुरुः ॥ १,२१२.१ ॥
प्रतिलोमगुणं लाद्यं द्विरुद्दिष्टक एकनुत् ॥ १,२१२.२ ॥
सङ्ख्या द्विरर्धे रूपे तु शून्यं शून्ये द्विरीरितम् ।
तावदर्धे तद्गुणितं द्विर्द्व्यूनन्तु तदन्ततः ॥ १,२१२.३ ॥
परे पूर्णं परे पूर्णं मेरुः प्रस्तारतो भवेत् ॥ १,२१२.४ ॥
लगसङ्ख्या वृत्तसङ्ख्या चाद्याङ्गुलमथोर्ध्वतः ।
सङ्ख्यैव द्विगुणैकोनाच्छन्दः सारोऽयमीरितः ॥ १,२१२.५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमानाचा छन्दोलक्षणं नाम द्वादशोत्तरद्विशततमोऽध्यायः