१६१

श्रीगरुडमहापुराणम् १६१
धन्वन्तरिरुवाच ।
उदराणां निदानञ्च वक्ष्ये सुश्रुत तच्छृणु ।
रोगाः सर्वेऽपि मन्दाग्नौ सुतरामुदराणि तु ॥ १,१६१.१ ॥

अनीर्णामयाश्चाप्यन्ये जायन्ते मलसञ्चयात् ।
ऊर्ध्वाधो वायवो रुद्ध्वा व्याकुलाविप्रवाहिणी? ॥ १,१६१.२ ॥

प्राणानपानान्सन्दूष्य कुर्युस्तान्मांससन्धिगान् ।
आध्माप्य कुक्षिमुदरमष्टधा ते च भेदतः ॥ १,१६१.३ ॥

पृथग्दोषैः समस्तौश्च प्लीहवङ्क्षक्षतोदकैः ।
तेनार्ताः शुष्कताल्वोष्ठाः सर्वपादकरोदराः ॥ १,१६१.४ ॥

नष्टचेष्टबलाहाराः कृतप्रध्मात्कुक्षयः ।
पुरुषाः स्युः प्रेतरूपा भाविनस्तस्य लक्षणम् ॥ १,१६१.५ ॥

क्षुन्नाशोऽरुचिवत्सर्वं सविदाहञ्च पच्यते ।
जीर्णान्नं यो न जानाति सोऽपथ्यं सेवतेनरः ॥ १,१६१.६ ॥

क्षीयते बलमङ्गस्य श्वसित्यल्पोऽविचेष्टितः ।
विषयावृत्तिबुद्धिश्च शोकशोषादयोऽपिच ॥ १,१६१.७ ॥

रुग्बस्तिसन्धौ सततं लघ्वल्पभोजनैरपि ।
जराजीर्णो बलभ्रंशो भवेज्जठररोगिणः ॥ १,१६१.८ ॥

स्वतन्त्रतन्द्रालसता मलसर्गोऽल्पवह्निता ।
दाहः श्वयथुराध्मानमन्त्रे सलिलसम्भवे ॥ १,१६१.९ ॥

सर्वत्र तोये मरणं शोचनं तत्र निष्फलम् ।
गवाक्षवच्छिराजालैरुदरं गुड्गुडायते ॥ १,१६१.१० ॥

नाभिमन्त्रश्च विष्टभ्य वेगं कृत्वा प्रणश्यति ।
मारुते हृत्कटीनाभिपायुवङ्क्षणवेदनाः ॥ १,१६१.११ ॥

सशब्दो निः सरेद्वायुर्वहते मूत्रमल्पकम् ।
नातिमात्रं भवेल्लौल्यं नरस्य विरसं मुखम् ॥ १,१६१.१२ ॥

तत्रवातोदरे शोथः पाणिपान्मुखकुक्षिषु ।
कुर्क्षिपार्श्वोदरकटीपृष्ठरुक्पर्वभदनम् ॥ १,१६१.१३ ॥

शुष्ककासाङ्गमर्दाधोगुरुतामलसङ्ग्रहः ।
श्यामारुणत्वगादित्वं मुखे च रसवद्धिता ॥ १,१६१.१४ ॥

सतोदभेदमुदरं नीलकृष्णशिराततम् ।
आध्मातमुदरे शब्दमद्भुतं वा करोति सः ॥ १,१६१.१५ ॥

वायुश्चात्र सरुक्च्छब्दं विधत्ते सर्वथा गतिम् ।
पित्तोदरे ज्वरो मूर्छा दाहित्वं कटुकास्यता ॥ १,१६१.१६ ॥

भ्रमोतिसारः पीतत्वं त्वगादावुदरं हरित् ।
पीतताम्रशिरादित्वं सस्वेदं सोष्म दह्यते ॥ १,१६१.१७ ॥

धूमायते मृदुस्पर्शं क्षैप्रपाकं प्रदूयते ।
श्लेष्मोदरेषु सदनं स्वेदश्वयथुगौरवम् ॥ १,१६१.१८ ॥

निद्रा क्लेशोऽरुचिः श्वासः काशः शुक्लत्वगादिता ।
उदरं तिमिरं स्निग्धं शुक्लकृष्णशिरावृतम् ॥ १,१६१.१९ ॥

नीरातिवृद्धौ कठिनं शीतस्पर्शं गुरु स्थिरम् ।
त्रिदोषकोपने तैस्तैस्त्रिदोषजीनैतर्मलैः ॥ १,१६१.२० ॥

सर्वदूषणदुष्टाश्च सरक्ताः सञ्चिता मलाः ।
कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्छाभ्रमान्वितम् ॥ १,१६१.२१ ॥

कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम् ।
वर्धते तच्च सुतरां शीतवातप्रदर्शने ॥ १,१६१.२२ ॥

अत्यशनाच्च सङ्क्षोभाद्यानपानादिचेष्ठितैः ।
अविहितैश्च पानाद्यैर्वमनव्याधिकर्षणैः ॥ १,१६१.२३ ॥

वामपार्श्वास्थितः प्लीहा त्युतस्थानो विवर्धते ।
शोणिताद्वा रसादिभ्यो विवृद्धो जनयेद्व्यथाम् ॥ १,१६१.२४ ॥

सोऽष्ठीला चातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्? ।
क्रमेण वर्धमानश्च कुक्षौ व्याततिमाहरेत् ॥ १,१६१.२५ ॥

श्वासकासपिपासास्यवैरस्याध्मानकज्वरैः ।
पाण्डुत्वमूर्छाछर्दित्वग्दाहमोहैश्च संयुतः ॥ १,१६१.२६ ॥

अरुणाभं विचित्राभं नीलहारिद्रराजितम् ।
उदावर्तेन चानाहमोहतृड्द्गहनज्वरैः ॥ १,१६१.२७ ॥

गौरवारुचिकाठिन्यैर्विघातभ्रमसङ्क्रमात् ।
प्लीहवद्दक्षिणात्पार्श्वात्कुर्याद्यकृदपि च्युतम् ॥ १,१६१.२८ ॥

पक्वे भूते यकृति च सदा बद्धमलो गुदे ।
दुर्नामभिरुदावर्तैरन्यैर्वा पीडितो भवेत् ॥ १,१६१.२९ ॥

वर्चः पित्तकफान्बद्धान्करोति कुपितोऽनिलः ।
अपानो जठरे तेन संरुद्धो ज्वररुक्करः ॥ १,१६१.३० ॥

काशश्वासोरुसद्गनं शिरोरुङ्नाभिपार्श्वरुक् ।
मलासङ्गोऽरुचिश्छर्दिरुदरे मलमारुतः ॥ १,१६१.३१ ॥

स्थिरनीलारुणशिराजालैरुदरमावृतम् ।
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते ॥ १,१६१.३२ ॥

अस्थ्यादिशल्यै रन्यैश्च विद्धे चैवोदरे तथा ।
पच्यते यकृतादिश्च तच्छिद्रैश्च सरन्बहिः ॥ १,१६१.३३ ॥

आम एव गुदाहेति ततोऽल्पाल्पः शकृद्रसः ।
स स्याद्विकृतगन्धोऽपि पिच्छिलः पीतलोहितः ॥ १,१६१.३४ ॥

शेषश्चापूर्य जठरं घोरमारभते ततः ।
वर्धते तदधो नाभेराशु चैति जलात्मताम् ॥ १,१६१.३५ ॥

उद्रिक्ते दोषरूपे च व्याप्ते च श्वासतृट्भ्रमैः ।
छिद्रोदरमिदं प्राहुः परिस्त्रावीति चापरे ॥ १,१६१.३६ ॥

प्रवृत्तस्नेहपानादेः सहसापथ्यसेविनः ।
अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य च ॥ १,१६१.३७ ॥

रुद्धः स्वमार्गादनिलः कफश्च जलमूर्छितः ।
वर्धते तु तदेवाम्बु तन्मात्राद्विन्दुराशितः ॥ १,१६१.३८ ॥

तत्कोपादुदरं तृष्णागुदस्नुतिरुजान्वितम् ।
काशश्वासारुचियुतं नानावर्णाशिराततम् ॥ १,१६१.३९ ॥

तोयपूर्णान्मृदुस्पर्शात्सदृशक्षोभवेपथु ।
बकोदरं स्थिरंस्निग्धं नाडीमावृत्य जायते ॥ १,१६१.४० ॥

उपेक्षायाञ्च सर्वेषां स्वस्थानां परिचालिताः ।
पाका द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि ॥ १,१६१.४१ ॥

स्वेदे चैव तु संरुद्धे मूर्छिताश्चान्तरस्थिताः ।
तदेवोदरमापूर्य कुर्यादुदरामयम् ॥ १,१६१.४२ ॥

गुरूदरं स्थितं वृत्तमाहतञ्च न शब्दकृत् ।
हीनबलं तथा घोरं नाड्यां स्पृष्टञ्च सपति ॥ १,१६१.४३ ॥

शिरान्तर्धानमुदरे सर्वलक्षणमुच्यते ।
वातपित्तकफप्लीहसन्निपातोदकोदरम् ॥ १,१६१.४४ ॥

पक्षाच्च जातसलिलं विष्टम्भोपद्रवान्वितम् ।
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् ॥ १,१६१.४५ ॥

इति श्रीगारुडे महापुराण्मे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकषष्ट्यधिकशततमोऽध्यायः