१३५

श्रीगरुडमहापुराणम् १३५
ब्रह्मोवाच ।
नवम्यामाश्विने शुक्ले एकभक्तेन पूजयेत् ।
देवीं विप्रंल्लक्षमेकञ्जपेद्वीरं व्रती नरः ॥ १,१३५.१ ॥

(ति वीरनवमीव्रतम्) ।
ब्रह्मोवाच ।
चैत्रे शुक्लनवम्यां च देवीं दमनकैर्यजेत् ।
आयुरारोग्यसौभाग्यं शत्रुभिश्चापराजितः ॥ १,१३५.२ ॥

(इति दमनकनवमीव्रतम्) ।
ब्रह्मोवाच ।
दशम्यामेकभक्ताशी समान्ते दशधेनुदः ।
दिशश्च काञ्चनीर्दत्त्वा ब्रह्माण्डाधिपतिर्भवेत् ॥ १,१३५.३ ॥

(इति दिग्दशमीव्रतम्) ब्रह्मोवाच ।
एकादश्यामृषिपूजा कार्या सर्वोपकारिका ।
धनवान्पुत्रवांश्चान्ते ऋषिलोके महीयते ॥ १,१३५.४ ॥

मरीचिरत्र्यं गिरसौ पुलसत्यः पुलहः क्रतुः ।
प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च ॥ १,१३५.५ ॥

चैत्रादौ कारयेत्पूजां माल्यैश्च दमनोद्भवैः ।
अशोकाख्याष्टमीप्रोक्ता वीराख्या नवमीतथा ॥ १,१३५.६ ॥

दमनाख्या दिग्दशमी नवम्येकादशी तथा ॥ १,१३५.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऋष्येकादशीव्रतं नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः