०७४

            ॥ सूत उवाच ॥  

पतिताया हिमाद्रौ तु त्वचस्तस्य सुरद्विषः ॥
प्रादुर्भवन्ति ताभ्यस्तु पुष्प (ष्य) रागा महागुणाः ॥ 74.1 ॥

आपीतपाण्डुरुचिरः पाषाणः पद्मरागसञ्ज्ञस्तु ॥
कौकण्टकनामा स्यात्स एव यदि लोहितापीतः ॥ 74.2 ॥

आलोहितस्तु पीतः स्वच्छः काषायकः स एकोक्तः ॥
आनीलशुक्लवर्णः स्निग्धः सोमाल(न) कः सगुणः ॥ 74.3 ॥

अत्यन्तलोहितो यः स एव खलु पद्मरागसञ्ज्ञः स्यात् ॥
अपि चेन्द्रनीलसञ्ज्ञः स एव कथितः सुनीलः सन् ॥ 74.4 ॥

मूल्यं वैदूर्य्यमणेरिव गदितं ह्यस्य रत्नसारविदा ॥
धारणफलं च तद्वत्किं तु स्त्रीणां सुतप्रदो भवति ॥ 74.5 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुष्परागपरीक्षणं नाम चतुः सप्ततितमोऽध्यायः ॥ 74 ॥