॥ ब्रह्मोवाच ॥
सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः ॥
विप्राद्यैः स्वेन धर्मेण तद्धर्मं व्यास ! वै श्रृणु ॥ 49.1 ॥
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः ॥
अध्यापनञ्चाध्ययनं षट् कर्माणिद्विजोत्तमे ॥ 49.2 ॥
दानमध्ययनं यज्ञो धर्मः क्षत्त्रियवैश्ययोः ॥
दण्डस्तस्य कृषिर्वैश्यस्य शस्यते ॥ 49.3 ॥
शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ॥
कारुकर्म तथाऽऽजीवोपाकयज्ञोऽपि धर्मतः ॥ 49.4 ॥
भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च ॥
सन्ध्याकर्माग्निकार्य्यञ्च धर्मोऽयं ब्रह्मचारिणः ॥ 49.5 ॥
सर्वेषामाश्रमाणां च द्वैविध्यं तु चतुर्विधम् ॥
ब्रह्मचार्य्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ 49.6 ॥
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ॥
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ 49.7 ॥
अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ॥
गृहस्थस्य समासेन धर्मोऽयं द्विजसत्तम ! ॥ 49.8 ॥
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ॥
कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥ 49.9 ॥
ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्य्याधनादिकम् ॥
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ 49.10 ॥
भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च ॥
संविभागो यथान्यायं धर्मोऽयं वनवासिनः ॥ 49.11 ॥
तपस्तप्यति योऽरण्ये यजेद्देवाञ्जुहोति च ॥
स्वाध्याये चैव निरतो वनस्थस्तापसोत्तमः ॥ 49.12 ॥
तपसा कर्शितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ॥
सन्यासी स हि विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ 49.13 ॥
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ॥
ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ 49.14 ॥
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ॥
सम्यक् चन्दनम् सम्पन्नः स योगी भिक्षुरुच्यते ॥ 49.15 ॥
भैक्ष्यं श्रुतं च मौनित्वं तपो ध्यानं विशेषतः ॥
सम्यक् च ज्ञानवैराग्यं धर्मोऽयं भिक्षुके मतः ॥ 49.16 ॥
ज्ञानसन्यासिनः केचिद्वेदसन्यासिनोऽपरे ॥
कर्मसन्यासिनः केचित्त्रिविधः पारमेष्ठिकः ॥ 49.17 ॥
योगी च त्रिविधो ज्ञेयो भौतिकः क्षत्त्र एवं च ॥
तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्त्तिंसमास्थितः ॥ 49.18 ॥
प्रथमा भावना पूर्वे मोक्षे त्वक्ष(दुष्क) रभावना ॥
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ 49.19 ॥
धर्मात्सञ्जायते मोक्षो ह्यर्थात्कामोऽभिजायते ॥
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम् ॥ 49.20 ॥
ज्ञानं पूर्वं निवृत्तं स्यात्प्रवृत्तं चाग्निदेवकृत् ॥
क्षमा दमो दया दानमलोभा (भो) भ्यास एव च ॥ 49.21 ॥
आर्जवं चान्सूया च तीर्थानुसरणं तथा ॥
सत्यं सन्तोष आस्तिक्यं तथा चेन्द्रियनिग्रहः ॥ 49.22 ॥
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥
अहिंसा प्रियवादित्वमपैशुन्यमरूक्षता ॥ 49.23 ॥
एते आश्रमिका धर्माश्चतुर्वर्ण्यं ब्रवीम्यतः ॥
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ॥ 49.24 ॥
स्थानमैन्द्रं क्षत्त्रियाणां सङ्ग्रामेष्वपलायिनाम् ॥
वैश्यानां मारुतं स्थानं स्वधरममनुवर्त्तताम् ॥ 49.25 ॥
गान्धर्वं शूद्रजातीनां परिचारे च वर्त्तताम् ॥
अष्टाशीतिसहस्त्राणामृषीणामूर्द्ध्वरेतसाम् ॥ 49.26 ॥
स्मृतं तेषां तु यत्स्थानं तदेव वन (गुरु) वासिनाम् ॥
सप्तर्षोणां तु यत्स्थानं स्थानं तद्वै वनौकसाम् ॥ 49.27 ॥
यतीनां यतचित्तानां न्यासिनामूर्द्ध्वरेतसाम् ॥
आनन्दं ब्रह्म तत्स्थानं यस्मान्नावर्त्तते मुनिः ॥ 49.28 ॥
योगिनाममृतस्थानं व्योमाख्यं परमाक्षरम् ॥
आनन्दमैश्वरं यस्मान्मुक्तो नावर्त्तते नरः ॥ 49.29 ॥
मुक्तिरष्टाङ्गविज्ञानात्सङ्क्षेपात्तद्वदे श्रृणु ॥
यमाः पञ्च त्वहिंसाद्या अहिंसा प्राण्यहिंसनम् ॥ 49.30 ॥
सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं परम् ॥
अमैथुनं ब्रह्मचर्य्यं सर्वत्यागोऽपरिग्रहः ॥ 49.31 ॥
नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्विधा ॥
शौचं तुष्टिश्च सन्तोषस्तपश्चोन्द्रियनिग्रहः ॥ 49.32 ॥
स्वाध्यायः स्यान्मन्त्रजापः प्रणिधानं हरेर्यजिः ॥
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥ 49.33 ॥
मन्त्रध्यान तो गर्भो विपरीतो ह्यगर्भकः ॥
एवं द्विधा त्रिधाप्युक्तं पुरणात्पूरकः स च ॥ 49.34 ॥
कुम्भको निश्चलत्वाच्च रेचनाद्रेचकस्त्रिधा ॥
लघुर्द्वादशमात्रः स्याच्चतुर्विंशतिकः परः ॥ 49.35 ॥
षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् ॥
ब्रह्मात्मचिन्ता ध्यानं स्याद्धारणा मनसो धृतिः ॥ 49.36 ॥
अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः ॥
अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् ॥ 49.37 ॥
ब्रह्म विज्ञानमानन्दः स तत्त्वमसि केवलम् ॥
अहं ब्रह्मास्म्यहं ब्रह्म अशरीरमानिन्द्रियम् ॥ 49.38 ॥
अहम्मनोबुद्धिमहदहङ्कारादिवर्जितम् ॥
जाग्रत्स्वप्नसुषुप्त्यादियुक्तज्योतिस्तदीयकम् ॥ 49.39 ॥
नित्यं शुद्धं बुद्धमुक्तं सत्यमानन्दमद्वयम् ॥
योऽसावादित्यपुरुषः सोऽसावहमखण्डितम् ॥
इति ध्यायन्विमुच्येत् ब्राह्मणो भवबन्धनात् ॥ 49.40 ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वर्णआश्रमधर्मनिरूपणं नामैकोनपञ्चाशत्तमोध्यायः ॥ 49 ॥