०४१

॥वासुदेव उवाच ॥
ॐ विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्लभामि ते कन्यां समुत्पाद्य तस्मै विश्ववासवे स्वाहा ॥
स्त्रीलाभो मन्त्रजाप्याच्च कालरात्रिं वदाम्यहम् ॥ 41.1 ॥

ॐ नमो भगवति ऋक्षकर्णि चतुर्भुजे ऊर्द्ध्वकेशि त्रिनयने कालरात्रि मानुषाणां वसारुधिरभोजने अमुकस्य प्राप्तकालस्य मृत्युप्रदे हुं फट् हनहन दहदह मांसरुधिरं पचपच ऋक्षपत्नि स्वाहा । न तिथिर्न च नक्षत्रं नोपवासो विधीयते ॥ 41.2 ॥

क्रुद्धो रक्तेन सम्मार्ज्य करौ ताभ्यां प्रगृह्य च ॥
प्रदोषे सञ्जपेल्लिङ्गमामपात्रं च मारयेत् ॥
ॐ नमः सर्वतोयन्त्राण्येतद्यथा जम्भनि मोहनि सर्वशत्रुविदारिणि रक्षरक्ष माममुकं सर्वभयोपद्रवेभ्यः स्वाहा ॥
शुक्रे नष्टे महादेव वक्ष्येऽहं द्विजपादिह ॥ 41.3 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वश्यादिसाधिकमन्त्रनिरूपणं नामैकचत्वारिंशोऽध्यायः ॥ 41 ॥