०३८

॥हरिरुवाच ॥
नवम्यादौ यजेद्दुर्गां ह्रीं दुर्गे रक्षिणीति च ॥
मातर्मातर्वरे दुर्गे सर्वकामार्थसाधनि ॥ 38.1 ॥

अनेन बलिदानेन सर्वकामान्प्रयच्छ मे ॥
गौरी काली उमा दुर्गा भद्रा कान्तिः सरस्वती ॥ 38.2 ॥

मङ्गला विजया लक्ष्मीः शिवा नारायणी क्रमात् ॥
मार्गे तृतीयामारभ्य पूजयेन्न वियोगभाक् ॥ 38.3 ॥

अष्टादशभुजां खेटकं घण्टां दर्पणं तर्जनीम् ॥
धनुर्ध्वजं डमरुकं परशुं पाशमेव च ॥ 38.4 ॥

शक्तिमुशलशूलानि कपालशरकाङ्कुशान् ॥
वज्र चक्रं शलाकां च अष्टादशभुजां स्मरेत् ॥ 38.5 ॥

मन्त्रः श्रीभगवत्याश्च प्रवक्ष्यामि जपादिकम् ॥ 38.6 ॥

ॐ नमो भगवति चामुण्डे श्मशानवासिनि कपालहस्ते महाप्रेतसमारूढे महाविमानमालाकुले कालरात्रि बहुगणपरिवृते महामुखे बहुभुजे सुघण्टाडमरुकिङ्किणीके अट्टाट्टहासे किलिकिलि हुं सर्वनादशब्दबहुले गजचर्मप्रावृतशरीरे रुधिरमांसदिग्धे लोलग्रजिह्वे महाराक्षसि रौद्रदंष्ट्राकराले भीमाट्टाट्टहासे स्फुरितविद्युत्समप्रभे चलचल करालनेत्रे हिलिहिलि ललज्जिह्वे ह्रौं ह्रीं भृकुटिमुखि ॐ कारभद्रासने कपालमालावेष्टिते जटामुकुटशशाङ्कधारिणि अट्टाट्टहासे किलिकिलि हुंहुं दंष्ट्राघोरान्धकारिणि सर्वविघ्नविनाशिनि इदं कर्म साधय साधय शीघ्रं कुरुकुरु कहकह अङ्कुशे समनुप्रवेशय वर्गंवर्गं (वङ्गवङ्ग) कम्पयकम्पय चलचल चालयचालय रुधिरमांसमद्यप्रिये हनहन कुट्टकुट्ट छिन्दछिन्द मारयमारय अनुबूमअनुबूम वज्रशरीरं साधयसाधय त्रैलोक्यगतमपि दुष्टमदुष्टं वा गृहीतमगृहीतम् आवेशयआवेशय क्रामयक्रमय नृत्यनृत्य बन्धबन्ध वल्गवल्ग कोटराक्षि उर्द्ध्वकेशि उलूकवदने करकिङ्किणि करङ्कमालाधारिणि दहदह पचपच गृह्णगह्ण मण्डलमध्ये प्रवेशयप्रवेशय किं विलम्बसि ब्रह्मसत्येन विष्णुसत्येन ऋषिसत्येन रुद्रसत्येन आवेशयआवेशय किलिकिलि खिलिखिलि मिलिमिलि चिलिचिलि विकृतरूपधारिणि कृष्णभुजङ्ग वेष्टितशरीर सर्वग्रहावेशिनि प्रलम्भोष्ठि भ्रूमग्ननासिके विकटमुखि कपिलजटे ब्राह्मि भञ्जभञ्ज ज्वलज्वल कालमुखि खलखल खरखरः पातयपा तय रक्ताक्षि धूर्णापयधूर्णापय भूमिं पातयपातय शिरो गृह्णगृह्ण चक्षुर्मोलयमीलय भञ्जभञ्ज पादौ गृह्णगृह्ण मुद्रां स्फोटयस्फोटय हुं हूं फट् विदारय विदारय त्रिशूलेन भेदयभेदय वज्रेण हनहन दण्डेन ताडयताडय चेक्रण छेदयछेदय शक्तिना भेदयभेदय दंष्ट्रया दंशयदंशय कीलकेन कीलय कीलय कर्त्तारिकया पाटयपाटय अङ्कुशेन गृह्णगृह्ण ब्रह्माणि एहिएहि माहेश्वरि एहिएहि कौमारि एहिएहि वाराहि एहिएहि ऐन्द्रि एहिएहि चामुण्डे एहिएहि वैष्णावि एहिएहि हिमवन्तचारिणि एहिएहि कैलासवारीणि एहिएहि परमन्त्रं छिन्धिछिन्धि किलिकिलि बिम्बे अघोरे घोररूपिणि चामुण्डे रुरुक्रोधान्धविनिः) सृते असुरक्षयङ्करि आकाशगामिनि पाशेन बन्धबन्ध समये तिष्ठतिष्ठ मण्डलं प्रवेशयप्रवेशय पातयपातय गृह्णगृह्ण मुखं बन्धबन्ध चक्षुर्बन्धयबन्धय हृदयं बन्धबन्ध हस्तपादौ च बन्धबन्ध दुष्टग्रहान् सर्वान् बन्धबन्ध दिशां बन्धबन्ध विदिशां बन्धबन्ध ऊर्ध्वं बन्धबन्ध अधस्ताद् बन्धबन्ध भस्मना पानीयेन मृतिकया सर्षपैर्वा आवेशयआवेशय पातयपातय चामुण्डे किलिकिलि विच्छेह्रीं(हुं) फट् स्वाह् ॥ 38.7 ॥
अष्टोत्तरपदानां हि माला मन्त्रमयी जपः ॥
एकैक्रपदमष्टसहस्त्रधा त्रिमधुराक्ततिलाष्टसहस्रहोमः ॥ 38.8 ॥

महामांसेन-त्रिमधुराक्तेन अष्टोत्तरसह्स्रं च एकैकं च पदं यजेत् ॥
तिलांस्त्रिमधुराक्तांश्च सहस्रं चाष्ट होमयेत् ॥ 38.9 ॥

महामांसं त्रिमधुरादथ वा सर्वकर्मकृत् ॥
वारिसर्षपभस्मादिक्षेपाद्युद्धादिके जयः ॥ 38.10 ॥

अष्टाविंशभुजा ध्येया अष्टादशभुजाथवा ॥
द्वादशाष्टभुजा वापि ध्येया वापि चतुर्भुजा ॥ 38.11 ॥

असिखेटान्वितौ हस्तौ गदादण्डयुतौ परौ ॥
शरचापयुतौ चान्यौ खड्गमुद्ररसंयुतौ ॥ 38.12 ॥

खङ्खघण्टान्वितौ चान्यौ ध्वजदण्डयुतौ परौ ॥
अन्यौ परशुचक्राढ्यौ डमरुदर्पणान्वितौ ॥ 38.13 ॥

शक्तिहस्ताश्रितौ चान्यौ रटोणी मुसलान्वितौ ॥
पाशतोमरसंयुक्तौ ढक्रापणवसंयुतौ ॥ 38.14 ॥

तर्जयन्ती परेणैव अन्यं कलकलध्वनिम् ॥
अभयस्वस्तिकाद्यौ च महिषघ्नी च सिंहगा ॥ 38.15 ॥

जय त्वं किल भूतेशे सर्वभूतसमावृते ॥
रक्ष मां निजभूतेभ्यो बलिं गृह्ण नमोऽस्तु ते ॥ 38.16 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दुर्गाजपपूजाबलिमन्त्रनिरूपणं नामाष्टत्रिंशोऽध्यायः ॥ 38 ॥