॥हरिरुवाच ॥
गायत्त्री परमा देवी भुक्तिमुक्तिप्रदा च ताम् ॥
यो जपेत्तस्य पापानिविनश्यन्ति महान्त्यपि ॥ 37.1 ॥
गायत्त्रीकल्पमाख्यास्ये भुक्तिमुक्तिप्रदं च तत् ॥
अष्टोत्तरं सहस्त्रं वा अथवाष्टशतं जपेत् ॥ 37.2 ॥
त्रिसन्ध्यं ब्रह्मलोकीस्याच्छतं जप्त्वा जलं पिबेत् ॥
सन्ध्यायां सर्वपापघ्नीं देवीमावाह्य पूजयेत् ॥ 37.3 ॥
भूर्भुवः स्वः स्वमन्त्रेण युतां द्वादशनामभिः ॥
गायत्र्यै नमः ॥ सावित्र्यै सरस्वत्यै नमोनमः ॥ 37.4 ॥
वेदमात्रे च साङ्कृत्यै ब्रह्माणी कौशिकी क्रमात् ॥
साध्व्यै सर्वार्थसाधिन्यै सहस्त्राक्ष्यै च भूर्भुवः ॥ 37.5 ॥
स्वरेवं जुहुया दग्नौ समिदाज्यं हविष्यकम् ॥
अष्टोत्तरसहस्त्रं वाप्यथवाष्टशन्त घृतम् ॥ 37.6 ॥
धर्मकामादिसिद्ध्यर्थं जुहुयात्सर्वकर्मसु ॥
प्रतिमां चन्दनस्वर्णनिर्मितां प्रतिपूज्य च ॥ 37.7 ॥
यथा लक्षं तु जप्तव्यं पयोमूलफलार्शनैः ॥
अयुतद्वयहोमेन सर्वकामानवाप्नुयात् ॥ 37.8 ॥
उत्तरे शिखरे जाता भूम्यां पर्वत वासिनी ॥
ब्रह्मणा समनुज्ञाता गच्छ देवि यथासुखम् ॥ 37.9 ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीकल्पनिरूपणं नाम सप्तत्रिंशोऽध्यायः ॥ 37 ॥