०३६

॥हरिरुवाच ॥
सन्ध्याविधिं प्रवक्ष्यामि श्रृणु रुद्राघनाशनम् ॥
प्राणायामत्रयं कृत्वा सन्ध्यास्नानमुपक्रमेत् ॥ 36.1 ॥

सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह ॥
त्रिः पठेदायतप्रणः प्राणायामः स उच्यते ॥ 36.2 ॥

मनोवाक्रायजं दोषं प्राणायामैर्दहेद्द्विजः ॥
तस्मात्सर्वेषु कालेषु प्राणायामपरो भवेत् ॥ 36.3 ॥

सायमग्निश्च मेत्युक्ता प्रातः सूर्य्येत्यपः पिबेत् ॥
आपः पुनन्तु मध्याह्ने उपस्पृश्य यथाविधि ॥ 36.4 ॥

आपोहिष्ठेत्यृचा कुर्य्यान्मार्जनं तु कुशोदकैः ॥
प्रणवेन तु संयुक्तं क्षिपेद्वारि पदेपदे ॥ 36.5 ॥

रजस्तमः स्वमोहोत्थाञ्जाग्रत्स्वप्नसुषुप्तिजान् ॥
वाङ्‌मनः कर्मजान्दोषान्नवैतान्नवभिर्दहेत् ॥ 36.6 ॥

समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत् ॥
त्रिपडष्टौ द्वादशधा वर्त्तयेदघमर्पणम् ॥ 36.7 ॥

उदुत्यञ्चित्रमित्याभ्यामुपतिष्ठेद्दिवाकरम् ॥
दिवा रात्रौ च यत्पापं सर्वं नश्यति तत्क्षणात् ॥ 36.8 ॥

पूर्वसन्ध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च ॥
महाव्याहृतिसंयुक्तां गायत्त्रीं प्रणवान्विताम् ॥ 36.9 ॥

दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ॥
त्रियुगं तु सहस्त्रेण गायत्त्रीं हन्ति दुष्कृतम् ॥ 36.10 ॥

रक्ता भवति गायत्त्री सावित्री शुक्लवर्णिका ॥
कृष्णा सरस्वती ज्ञेया सन्ध्यात्रयमुदाहृतम् ॥ 36.11 ॥

ॐ भूर्विन्यस्य हृदये ॐ भुवः शिरसि न्यसेत् ॥
ॐ स्वरिति शिखायां च गायत्र्याः प्रथमं पदम् ॥ 36.12 ॥

विन्यसेत्कवचे विद्वान्द्वितीयं नेत्रयोर्न्यसेत् ॥
तृतीयेनाङ्गविन्यासं चतुर्थं सर्वतो न्यसेत् ॥ 36.13 ॥

सन्ध्याकाले तु विन्यस्य जपेद्वै वेदमातरम् ॥
शिवस्तस्यास्तु सर्वाह्णे प्राणायामपरं न्यसेत् ॥ 36.14 ॥

त्रिपदा या तु गायत्त्री ब्रह्मविष्णुमहेश्वरी ॥
विनियोगमृषिच्छन्दो ज्ञात्वा तु जपमारभेत् ॥ 36.15 ॥

सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयात् ॥
परोरजसि सारं तं तुरीयपदमीरितम् ॥ 36.16 ॥

तं हन्ति सूर्य्यः सन्ध्यायां नोपास्तिं कुरुते तु यः ॥
तुरीयस्य पदस्यापि ऋषिर्निर्मल एव च ॥ 36.17 ॥

छन्दस्तु देवी गायत्त्री परमात्मा च देवता ॥ 36.18 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सन्ध्याविधिर्नाम षट्‌त्रिंशोऽध्यायः ॥ 36 ॥