०३४

॥रुद्र उवाच ॥
पुनर्देवार्चनं ब्रूहि हृषीकेश गदाधर ॥
श्रृण्वतो नास्ति तृप्तिर्मे गदतस्तव पूजनम् ॥ 34.1 ॥

हरिरुवाच ॥
हयग्रीवस्य देवस्य पूजनं कथयामि ते ॥
तच्छृणुष्व जगन्नाथो येन विष्णुः प्रतुष्यति ॥ 34.2 ॥

मूलमन्त्रं महादेव हयग्रीवस्य वाचकम् ॥
प्रवक्ष्यामि परं पुण्यं तदादौ श्रृणु शङ्कर ॥ 34.3 ॥

ॐ सौं क्षौं शिरसे नमः इति प्रणवसंयुतः ॥
अयं नवाक्षरोमन्त्रः सर्वविद्याप्रदायकः ॥ 34.4 ॥

अस्याङ्गानि महादेव ताञ्छृणुष्व वृषध्वज ॥
ॐ क्षां हृदयाय नमः ॥
ॐ क्षीं शिरसे स्वाहाशिरः प्रोक्तं क्षूं वषट् तथा ॥ 34.5 ॥

ॐ कारयुक्ता देवस्य शिखा ज्ञेया वृषध्वज ॥
ॐ क्षैं कवचाय हुं वै कवचं परिकीर्त्तितम् ॥ 34.6 ॥

ॐ क्षौं नेत्रत्रयाय वौषट्‌ नेत्रं देवस्य कीर्तितम् ॥
ॐ हः अस्त्राय फट् अस्त्रं देवस्य कीर्त्तितम् ॥ 34.7 ॥

पूजाविधिं प्रवक्ष्यामि तन्मे निगदतः श्रृणु आदौ स्नात्वा तथाचम्य ततो यागगृहं व्रजेत् ॥ 34.8 ॥

ततः प्रविश्य विधिवत्कुर्य्याद्वं शोषणादिकम् ॥
यं क्षौं रमिति बीजैश्च कठिनीकृत्य लमिति ॥ 34.9 ॥

अण्डमुत्पाद्य च ततः ॐ कारेणैव भेदयेत् ॥
अण्डमध्ये हयग्रीवमात्मानं परिचिन्तयेत् ॥ 34.10 ॥

शङ्खकुन्देन्दुधवलं मृणालरजतप्रभम् ॥
गोक्षीरसदृशं तद्वत्सूर्यकोटिसमग्रभम् ॥
शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम् ॥ 34.11 ॥

किरीटिनं कुण्डलिनं वनमालासमन्न्वितम् ॥
सुचक्रं सुकपोलं च पीताम्बरधरं विभुम् ॥ 34.12 ॥

भावयित्वा महात्मानं सर्वदेवैः समन्वितम् ॥
अङ्गमन्त्रैस्ततो न्यासं मूलमन्त्रेण वै तथा ॥ 34.13 ॥

ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम् ॥
ध्यायेद्ध्यात्वार्चयेद्विष्णुं मूलमन्त्रेण शङ्कर ॥ 34.14 ॥

ततश्चावाहयेद्रुद्र देवता आसनस्य याः ॥
ॐ हयग्रीवासनस्य आगच्छत च देवताः ॥ 34.15 ॥

आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके ॥
द्वारे धातुर्विधातुश्च पूजा कार्य्या वृषध्वज ॥ 34.16 ॥

समस्तपरिवाराय अच्युताय नम इति ॥
अस्य मध्येऽर्चनं कार्य्यं द्वारे गङ्गाञ्च पूजयेत् ॥ 34.17 ॥

यमुनां च महादेवीं शङ्खपद्मनिधई तथा ॥
गरुडं पूजयेदग्रे मध्ये शक्तिञ्च पूजयेत् ॥ 34.18 ॥

आधाराख्यां महादेव ततः कूर्मं समर्चयेत् ॥
अनन्तं पृथिवीं पश्चाद्धर्मज्ञाने(नौ) ततोऽर्चयेत् ॥ 34.19 ॥

वैराग्यमथ चैश्वर्य्यमाग्नेयादिषु पूजयेत् ॥
अधर्माज्ञानावैराग्यानैश्रर्ग्यादींस्तु पूर्वतः ॥ 34.20 ॥

सत्त्वं रजस्तमश्चैव मध्यदेशेऽथ पूजयेत् ॥
नन्दं नालं च पद्मं च मध्ये चैव प्रपूजयेत् ॥ 34.21 ॥

अर्कसोमाग्निसञ्ज्ञानां मण्डलानां हि पूजनम् ॥
मध्यदेशे प्रकर्त्तव्यमिति रुद्र प्रकीर्त्तितम् ॥ 34.22 ॥

विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज ॥
प्रह्वी सत्या तथेशानानुग्रहौ शक्तयो ह्यमूः ॥ 34.23 ॥

पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः ॥
अनुग्रहा कर्णिकायां पूज्या श्रेयोऽर्थिभिर्नरैः ॥ 34.24 ॥

प्रणवाद्यैर्नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः ॥
मन्त्रैरेभिर्महादेव आसनं परिपूजयेत् ॥ 34.25 ॥

स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः ॥
दीपनैवेद्यदानेन आसनस्यार्चनं शुभम् ॥ 34.26 ॥

कर्त्तव्यं विधिनानेन इति ते हर कीर्त्तितम् ॥
ततश्चावाहयेद्देवं हयग्रीवं सुरेश्वरम् ॥ 34.27 ॥

वामनासापुटेनैव आगच्छन्तं विचिन्तयेत् ॥
आगच्छतः प्रयोगेण मूलमन्त्रेण शङ्कर ॥ 34.28 ॥

आवाहनं प्रकर्त्तव्यं देवदेवस्य शङ्खिनः ॥
आवाह्यमण्डले तस्य न्यासं कुर्य्यादतन्द्रितः ॥ 34.29 ॥

न्यासं कृत्वा च तत्रस्थं चिन्तयेत्परमेश्वरम् ॥
हयग्रीवं महादेवं सुरासुरनमस्कृतम् ॥ 34.30 ॥

इन्द्रादिलोकपालैश्च संयुक्तं विष्णुमव्ययम् ॥
ध्यात्वा प्रदर्शयेन्मुद्राः शङ्खचक्रादिकाः शुभाः ॥ 34.31 ॥

पाद्यार्घ्याचमनीयानि ततो दद्याच्च विष्णवे ॥
स्नापयेच्च ततो देवं पद्मनाभमनामयम् ॥ 34.32 ॥

देवं संस्थाप्य विधिवद्वस्त्रं दद्याद्वृषध्वज ॥
ततो ह्याचमनं दद्यादुपवीतं ततः शुभम् ॥ 34.33 ॥

ततश्च मण्डले रुद्र ध्यायेद्देवं परेश्वरम् ॥
ध्यात्वा पाद्यादिकं भूयो दद्याद्देवाय शङ्कर ॥ 34.34 ॥

दद्याद्भैरवदेवाय मूलमन्त्रेण शङ्कर ॥
ॐ क्षां हृदयाय नमः अनेन हृदयं यजेत् ॥ 34.35 ॥

ॐ क्षीं शिरसे नमश्च शिरसः पूजनं भवेत् ॥
ॐ क्षूं शिखायै नमश्च शिखामेतेन पूजयेत् ॥ 34.36 ॥

ॐ क्षैं कवचाय नमः कवचं परिपूजयेत् ॥
ॐ क्षौं नेत्राय नमश्च नेत्रं चानेन पूजयेत् ॥ 34.37 ॥

ॐ क्षः अस्त्राय नम इति अस्त्रं चानेन पूजयेत् ॥
हृदयं च शिरश्चैव शिखां च कवचं तथा ॥ 34.38 ॥

पूर्वादिषु प्रदेशेषु ह्येतास्तु परिपूजयेत् ॥
कोणेष्वस्त्रं यजेद्रुद्र नेत्रं मध्यै प्रपूजयेत् ॥ 34.39 ॥

पूजयेत्परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभाम् ॥
शङ्खं पद्मं तथा चक्रं गदां पूर्वादितोऽर्चयेत् ॥ 34.40 ॥

खड्गं च मुसलं पाशमङ्कुशं सशरं धनुः ॥
पूजयेत्पूर्वतो रुद्र एभिर्मन्त्रैः स्वनामकैः ॥ 34.41 ॥

श्रीवत्सं कौस्तुभं मालां तथा पीताम्बरं शुभम् ॥
पूजयेत्पूर्वतो रुद्र शङ्खचक्रगदाधरम् ॥ 34.42 ॥

ब्रह्माणं नारदं सिद्धं गुरुं परगुरुं तथा ॥
गुरोश्च पादुके तद्वत्परमस्य गुरोस्तथा ॥ 34.43 ॥

इन्द्रं सवाहनं चाथ परिवारयुतं तथा ॥
अग्निं यमं निर्ऋतिं च वरुणं वायुमेव च ॥ 34.44 ॥

सोममीशानमेवं वै ब्रह्माणं परिपूजयेत् ॥
पूर्वादिकोर्ध्वपर्य्यन्तं पूजयेद्वृषभध्वज ॥ 34.45 ॥

वज्रं शक्तिं तथा दण्डं खङ्गं पाशं ध्वजं गदाम् ॥
त्रिशूलं चक्रपद्मे च आयुधान्यथ पूजयेत् ॥ 34.46 ॥

विष्वक्सेनं ततो देवमैशान्यां दिशि पूजयेत् ॥
एभिर्मन्त्रैर्नमोऽन्तैश्च प्रणवाद्यैर्वृषध्वज ॥ 34.47 ॥

पूजा कार्य्या महादेव ह्यनन्तस्य वृषध्वज ॥
देवस्य मूलमन्त्रेण पूजा कार्य्या वृषध्वज ॥ 34.48 ॥

गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ॥
प्रदक्षिणं नमस्कारं जप्यं तस्मै समर्पयेत् ॥ 34.49 ॥

स्तुवीत चान्या स्तुत्या प्रणवाद्यैर्वृषध्वज ॥
ॐ नमो हयशिरसे विद्याध्यक्षाय वै नमः ॥ 34.50 ॥

नमो विद्यास्वरूपाय विद्यादात्रे नमोनमः ॥
नमः शान्ताय देवाय त्रिगुणायात्मने नमः ॥ 34.51 ॥

सुरासुरनिहन्त्रे च सर्वदुष्टविनाशिने ॥
सर्वलोकाधिपतये ब्रह्मरूपाय वै नमः ॥ 34.52 ॥

नमश्चेश्वरवन्द्याय शङ्कचक्रधारय च ॥
नम आद्याय दान्ताय सर्वसत्त्वहिताय च ॥ 34.53 ॥

त्रिगुणायागुणायैव ब्रह्मविष्णुस्वरूपिणे ॥
कर्त्रे हर्त्रे सुरेशाय सर्वगाय नमो नमः ॥ 34.54 ॥

इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत् ॥
हृत्पद्मे विमले रुद्र शङ्खचक्रगदाधरम् ॥ 34.55 ॥

सूर्यकोटिप्रतीकाशं सर्वावयवसुन्दरम् ॥
हयग्रीवोमहीशेशं परमात्मानमव्ययम् ॥ 34.56 ॥

इति ते कथिता पूजा हयग्रीवस्य शङ्कर ॥
यः पठेत्परया भक्त्या स गच्छेत्परमं पदम् ॥ 34.57 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हयग्रीवपूजाविधिर्नाम चतुस्त्रिंशोऽध्यायः ॥ 34 ॥