०२६

॥सूत उवाच ॥
अनन्तरं करन्यासः ॥
विद्याकरी शुद्धिः कार्य्या ॥
पद्ममुद्रां बद्ध्वा मन्त्रन्यासं कुर्य्यात् ॥

कौं कनिष्ठायै नमः ॥
नौं अनामिकायै नमः ॥
मौं मध्यमायै नमः ॥
तौं तर्जन्यै नमः ॥
अं अङ्गुष्ठायै नमः ॥
लां करतलायै नमः ॥
वां करपृष्ठायै नमः ॥ 26.1 ॥

अथ देहन्यासः ॥
स्मंस्मं मणिबन्धाय नमः ॥
ऐं ह्रीं श्रीं करास्फालाय नमः ॥
महातेजोरूपं हुंहुङ्कारेण करास्फालनं कुर्य्यात् ॥ 26.2 ॥

ऐं ह्रीं श्रीं ह्रीं स्फैं नमो भगवते स्फैं कुब्जीकायै नमः ॥
ह्रं ह्रीं ह्रौं ङञणनमे अघोरामुखि ह्रां ह्रीं किलिकिलि विच्चे स्थौल्यक्रोशी ह्रीं ह्रीं श्रीं ऐं नमो भगवते उर्द्ध्ववक्त्राय नमः ॥
स्फौं कुब्जिकायै पूर्ववक्त्राय नमः ॥
ह्रीं श्रीं ह्रीं ङञणनमे दक्षिणवक्त्राय नमः ॥
ॐ ह्रीं श्रीं किलिकिलि पश्चिमवक्त्राय नमः ॥
ॐ अखोरमुखि उत्तरवक्त्राय नमः ॥
ॐ नमो भगवते हृदयाय नमः क्षौं (क्षें ऐं) कुब्जिकायै शिरसे स्वाहा ॥
ह्रीं क्रीं ह्रीं आं ङ ञ ण नमे शिखायै वषट् ॥
अघोरामुखि कवचाय हुं ॥
हैं हैं ईं नेत्रत्रयाय वौषट् ॥
किलिकिलि विच्चे अस्त्राय फट् ॥ 26.3 ॥

ऐं ह्रीं श्रीं अखण्डमण्डलाकारमहाशूलमण्डलमाय नमः ॥ ऐं ह्रीं श्रीं वायुमण्डलाय नमः ॥
ऐं ह्रीं श्रीं सोममण्डलाय नमः ॥ ऐं ह्रीं श्रीं महाकुलबोधावलिमण्डलाय नमः ॥
ऐं ह्रीं श्रीं महाकौलमण्डलाय नमः ॥ ऐं ह्रीं श्रीं गुरुमण्डलाय नमः ॥
ऐं ह्रीं श्रीं साममण्डलाय नमः ॥ ऐं ह्रीं श्रीं समग्र सिद्ध योगीनीपीठापपीठ क्षेत्रेपक्षेत्रमहासन्तानमण्डलाय नमः ॥
एवं मण्डलानां द्वादशकं क्रमेण पूज्यम् ॥ 26.4 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे आचारकाण्डे करन्यासादिनिरूपणं नाम षड्‌विंशोऽध्यायः ॥ 26 ॥