॥सूत उवाच ॥
ऐं क्रीं श्रीं स्फें क्षौं अनन्तशक्तिपादुकां पूजयामि नमः ॥ 25.1 ॥
ऐं श्रीं फ्रौं क्षौं आधारशक्तिपादुकां पूजयामि नमः ॥
ॐ ह्रं कालाग्निरुद्रपादुकां पूजयामि नमः ॥ 25.2 ॥
ॐ ह्रीं हुं हाटकेश्वरदेवपादुकां पूजयामि नमः ॥
ॐ ह्रीं शेषभट्टारकपादुकां पूजयामि नमः ॥ 25.3 ॥
ॐ ह्रीं श्रीं पूथिवीतत्सवर्णभुवनद्वीपसमुद्रदिशामनन्ताख्यमासनं पद्मासनं पूजयामि नमः ॥ 25.4 ॥
ह्रीं श्रीं निवृत्त्यादि कला पृथिव्यादितत्त्व मनन्तादिभुवनमोङ्कारादिवर्णम् ॥
हकारादिनवात्मकपदः सद्योदातादिमन्त्रः ह्रां हृदयाद्यङ्गः ॥
एवं मन्त्रमहेश्वर सिद्धविद्यात्मकः परामृतार्णवः सर्वभूतो दिक्समस्तषडङ्गः सदाशिवार्णवपयः पूर्णोदधिपक्षश्रीमानास्पदात्मकः विद्योमापूर्णज्ञत्वकर्त्तृत्वलक्षणज्येष्ठाचक्ररुद्रशक्त्यात्मककर्णिकः ॥
नवशक्तिशिवादिभिर्मूलमण्डलत्रयकुजात्मकोत्पन्नापद्मासनपादुकां पूजयामि नमः ॥ 25.5 ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आसनपूजानिरूपणं नाम पञ्चविंशोऽध्यायः ॥ 25 ॥