॥सूत उवाच ॥
शिवार्चनं प्रवक्ष्यामि भक्तिमुक्तिकरं परम् ॥
शान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम् ॥ 22.1 ॥
पञ्च वक्त्राणि ह्रस्वानि दीर्घाण्यङ्गानि बिन्दुना ॥
सविसर्गं वदेदस्त्रं शिव ऊर्घ्वं तथा पुनः ॥ 22.2 ॥
षष्ठेनाधो महामन्त्रो हौमित्येवाखिलार्थदः ॥
हस्ताभ्यां संस्पृशेत्पादावूर्ध्वं पादान्मस्तकम् ॥ 22.3 ॥
महामुद्रा हि सर्वेषां कराङ्गन्यासमाचरेत् ॥
तालहस्तेन पृष्ठं च अस्त्रमन्त्रेण शोधयेत् ॥ 22.4 ॥
कनिष्ठामादितः कृत्वा तर्जन्यङ्गानि विन्यसेत् ॥
पूजनं सम्प्रवक्ष्यामि कर्णिकायां हृदम्बुजे ॥ 22.5 ॥
धर्मं ज्ञानं च वैराग्यमैश्वर्य्यादि हृदार्चयेत् ॥
आवाहनं स्थापनं च पाद्यमर्घ्यं हृदार्पयेत् ॥ 22.6 ॥
आचामं स्नपनं पूजामेकाधारणतुल्यकाम् ? ॥
अग्निकार्य्यविधिं वक्ष्ये अस्त्रेणोल्लेखनं चरेत् ॥ 22.7 ॥
वर्म्मणाभ्युक्षणं कार्य्यं शक्तिन्यासं हृदा चरेत् ॥
हृदि वा शक्तिगर्त्ते च प्रक्षिपेज्जातवेदसम् ॥ 22.8 ॥
गर्भाधानादिकं कृत्वा निष्कृतिं चारस्य पश्चिमाम् ॥
हृदा कृत्वा सर्वकर्म्म शिवं साङ्गं तु होमयेत् ॥ 22.9 ॥
पूजयेन्मण्डले शम्भुं पद्मगर्भे गराङ्कितम् ॥
चतुः षष्ट्यन्तमष्टादि स्वाक्षि खाद्यादिमण्डलम् ॥ 22.10 ॥
खाक्षीन्द्रसूर्य्यगं सर्वखादिवेदेन्दु (देवेन्दु) वर्त्तनम् ॥
आग्नेय्यां कारयेत्कुण्डमर्द्धचन्द्रनिभं शुभम् ॥ 22.11 ॥
अग्निशास्त्र परायुस्थो त्दृदयादिगणोच्यते ॥
अस्त्रं दिशा सुपद्मस्य कर्णिकायां सदाशिवः ॥ 22.12 ॥
दीक्षां वक्ष्ये पञ्चतत्त्वे स्थितां भूम्यादिकां परे ॥
निवृत्तिर्भूप्रतिष्ठाद्यैर्विद्याग्निः शान्तिवन्निजः ॥ 22.13
शान्त्यतीतं भवेद्धोम तत्परं शान्तमव्ययम् ॥
एकैकस्य शतं होमित्येवं पञ्च होमयेत् ॥ 22.14 ॥
पश्चात्पूर्णाहुतिं दत्त्वा प्रा(प्र)सादेन शिवं स्मरेत् ॥
प्रायश्चित्तविशुद्ध्यर्थमेकैकाष्टाहुतिं क्रमात् ॥ 22.15 ॥
होमयेदस्त्रबीजेन एवं दीक्षां समाप्येत् ॥
यजनव्यतिरेकेण गोप्यं संस्कारमुत्तमम् ॥ 22.16 ॥
एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् ॥ 22.17 ॥
॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चनप्रकारो नाम द्वाविंशोऽध्यायः ॥ 22 ॥