॥सूत उवाच ॥
पञ्चवक्त्रार्च्चनं वक्ष्ये पृथग्यद्भुक्तिमुक्तिदम् ॥
ॐ भूर्विष्णवे आदिभूताय सर्वाधाराय मूर्त्तये स्वाहा ॥ 1 ॥
सद्योजातस्य चाह्वानमनेन प्रथमं चरेत् ॥
ॐ हां सद्योजातायैव कला ह्यष्टौ प्रकीर्त्तिताः ॥2 ॥
सिद्धिर्ऋद्धिर्धृतिर्लक्ष्मीर्मेधा कान्तिः स्वधा स्थितिः ॥
ॐ हीं वामदेवायैव कलास्तस्य त्रयोदश ॥ 3 ॥
रजा रक्षा रतिः पाल्या कान्ति स्तृष्णा मतिः क्रिया ॥
कामा बुद्धिश्च रात्रिश्च त्रासनी मोहिनी तथ ॥4 ॥
मनोन्मनी अघोरा च तथा मोहा क्षुधा कलाः ॥
निद्रा मृत्युश्च माया च अष्टसङ्ख्या भयङ्करा ॥ 5 ॥
ॐ हैं तत्पुरुषायैव (षाय) निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिर्न केवला ॥ 6 ॥
ॐ हौं ईशानाय नमो निश्चला च निरञ्जना ॥
शशिनी चाङ्गना चैव मरीचिर्ज्वालिनी तथा ॥.7 ॥
॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डं पञ्चवक्क्रपूजनं नामैकविंशोऽध्यायः ॥ 21 ॥