०१७

॥हरिरुवाच ॥
पुनः सूर्य्यार्चनं वक्ष्ये यदुक्तं धनदाय हि ॥
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम् ॥ 17.1 ॥

आवाहनीं ततो बद्धा मुद्रामावाहयेद्धरिम् ॥
खखोल्कं स्थाप्य मुद्रां तु स्थापयेन्मन्त्ररूपिणीम् ॥ 17.2 ॥

आग्नेय्यां दिशि देवस्य हृदयं स्थापयेच्छिव ! ॥
ऐशान्यां तु शिरः स्थाप्यं नैर्ऋत्यां विन्यसेच्छिखाम् ॥ 17.3 ॥

पौरन्दर्य्यां न्यसेद्धर्म्ममेकाग्रस्थितमानसः ॥
वायव्यां चैव नेत्रं तु वारुण्यामस्त्रमेव च ॥ 17.4 ॥

ऐशान्यां स्थापयेत्सोमं पौरन्दर्य्यां तु लोहितम् ॥
आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम् ॥ 17.5 ॥

नैर्ऋत्यां दानवगुरुं वारुण्यां तु शनैश्चरम् ॥
वायव्यां च तथा केतुं कौबेर्य्यां राहुमेव च ॥ 17.6 ॥

द्वितीयायां तु कक्षायां सूर्य्यान्द्वादश पूजयेत् ॥
भगः सूर्य्योऽर्य्यमा चैव मित्रो वै वरुणस्तथा ॥ 17.7 ॥

सविता चैव धाता च विवस्वांश्च महाबलः ॥
त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते ॥ 17.8 ॥

पूर्वादावर्चयेद्देवानिन्द्रादीञ्छ्रद्धया नरः ।
जया च विजया चैव जयन्ति चापराजिता ॥
शेषश्च वासुकिश्चैव नागानित्यादि पूजयेत् ॥ 17.9 ॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चन विधिर्नाम सप्तदशोऽध्यायः ॥ 17 ॥