॥हरिरुवाच ॥
अथ योगं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् ॥
ध्यायिभिः प्रोच्यते ध्येयो ध्यानेन हरिरीश्वरः ॥ 14.1 ॥
तच्छृणुष्व महेशान सर्वपापविनाशनम् ॥
विष्णुः सर्वेश्वरोऽनन्तः षड्भिर्भूपरिवर्जितः ॥ 14.2 ॥
वासुदेवो जगन्नाथो ब्रह्मात्मास्म्यहमेव हि ॥
देहिदेहस्थितो नित्यः सर्वदेहविवर्जितः ॥ 14.3 ॥
देहधर्म्मविहीनश्च क्षराक्षरविवर्जितः ॥
षड्विधेषु स्थितो द्रष्टा श्रोता घ्राता ह्यतीन्द्रियः ॥ 14.4 ॥
तद्धर्म्मरहितः स्रष्टा नामगोत्रविवर्जितः ॥
मन्ता मनः स्थितो देवो मनसा परिवर्जितः ॥ 14.5 ॥
मनोधर्म्मविहीनश्च विज्ञानं ज्ञानमेव च ॥
बोद्धा बुद्धिस्थितः साक्षी सर्वज्ञो बुद्धिवर्जितः ॥ 14.6 ॥
बुद्धिधर्म्मविहीनश्च सर्वः सर्वगतो मनः ॥
सर्वप्राणिविनिर्मुक्तः प्राणधर्म्मविवर्जितः ॥ 14.7 ॥
प्राणप्राणो महाशान्तो भयेन परिवर्जितः ॥
अहङ्कारादिहीनश्च तद्धर्म्मपरिवर्जितः ॥ 14.8 ॥
तत्साक्षी तन्नियन्ता च परमानन्दरूपकः ॥
जाग्रत्स्वप्नसुषुप्तिस्थस्तत्साक्षी तद्विवर्जितः ॥ 14.9 ॥
तुरीयः परमो धाता दृग्रूपो गुणवर्जितः ॥
मुक्तो बुद्धोऽजरो व्यापी सत्य आत्मास्म्यहं शिवः ॥ 14.10 ॥
एवं ये मानवा विज्ञा ध्यायन्तीशं परं पदम् ॥
प्राप्नुयुस्ते च तद्रूपं नात्र कार्य्या विचारणा ॥ 14.11 ॥
इति ध्यानं समाख्यातं तव शङ्कर सुव्रत ॥
पठेद्य एतत्सततं विष्णुलोकं स गच्छति ॥ 14.12 ॥
॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ध्यानयोगो नाम चतुर्दशोऽध्यायः ॥ 14 ॥