॥हरिरुवाच ॥
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम् ॥
नमो नमस्ते गोविदं चक्रं गृह्य सुदर्शनम् ॥ 13.1 ॥
प्राच्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ॥
गदां कौमोदकीं गृह्ण पद्मनाभ नमोऽस्त ते ॥ 13.2 ॥
याम्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ॥
हलमादाय सौनन्दे नमस्ते पुरुषोत्तम ॥ 13.3 ॥
प्रतीच्यां रक्ष मां विष्णो ! त्वामहं शरणं गतः ॥
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ॥ 13.4 ॥
उत्तरस्यां जगन्नाथ ! भवन्तं शरणं गतः ॥
खड्गमादाय चर्म्माथ अस्त्रशास्त्रादिकं हरे ! ॥ 13.5 ॥
नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः ॥
पाञ्चजन्यं महाशङ्खमनुघोष्यं च पङ्कजम् ॥ 13.6 ॥
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष शूकर ॥
चन्द्रसूर्य्यं समागृह्य खड्गं चान्द्रमसं तथा ॥ 13.7 ॥
नैर्ऋत्यां मां च रक्षस्व दिव्यमूर्त्ते नृकेशरिन् ॥
वैजयन्तीं स्मप्रगृह्य श्रीवत्सं कण्ठभूषणम् ॥ 13.8 ॥
वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते ॥
वैनतेयं समारुह्य त्वन्तरिक्षे जनार्दन ! ॥ 13.9 ॥
मां रक्षस्वाजित सदा नमस्तेऽस्त्वपराजित ॥
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ॥ 13.10 ॥
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते ॥
करशीर्षाद्यङ्गुलेषु सत्य त्वं बाहुपञ्जरम् ॥ 13.11 ॥
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम ॥
एतदुक्तं शङ्कराय वैष्णवं पञ्जरं महत् ॥ 13.12 ॥
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज ॥
नाशायामास सा येन चामरान्महिषासुरम् ॥ 13.13 ॥
दानवं रक्तबीजं च अन्याँश्च सुरकण्टकान् ॥
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा ॥ 13.14 ॥
इति श्रीगारुडे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपञ्जरस्तोत्रं नाम त्रयोदशोऽध्यायः ॥ 13 ॥