॥हरिरुवाच ॥
नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि ॥
जीवमुत्क्षिप्य मूर्द्धन्यां नाभ्यां व्योम्निनिवेशयेत् ॥ 11.1 ॥
ततोरमिति बीजेन दहेद्भूतात्मकं वपुः ॥
यमित्यनेन बीजेन तच्च सर्व विनाशयेत् ॥ 11.2 ॥
लमित्यनेन बीजेन प्लावयेत्सचराचरम् ॥
वमित्यनेन बीजेन चिन्तयेदमृतं ततः ॥ 11.3 ॥
ततो बुद्वुदमध्ये तु पीतवासाश्चतुर्भुजः ॥
अहं मतस्तथात्मानं ध्यानेन परिचिन्तयेत् ॥ 11.4 ॥
मन्त्रन्यासं ततः कुर्यात्त्रिविधं करदेहयोः ॥
द्वादशाक्षरबीजेन उक्तबीजैरनन्तरम् ॥ 11.5 ॥
षडङ्गेन ततः कुर्य्यात्साक्षाद्येन हरिर्भवेत् ॥
दक्षिणाङ्गुष्ठमारभ्य मध्याङ्गुष्ठन्दले न्यसेत् ॥ 11.6 ॥
मध्ये बीजद्वयं न्यस्य न्यसेदङ्गे ततः पुनः ॥
हृच्छिरसि शिखावर्म्मवक्क्राक्ष्युदहपृष्ठतः ॥ 11.7 ॥
बाह्वोश्च करयोर्जान्वोः पादयोश्चापि विन्यसेत् ॥
पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठं निवेशयेत् ॥ 11.8 ॥
चिन्तयेत्तत्र सर्वेशं परं तत्त्वमनामयम् ॥
क्रमाच्चैतानि बीजानि तर्जन्यादिषु विन्य सेत् ॥ 11.9 ॥
ततो मूर्द्धाक्षिवक्क्रेषु कण्ठे च हृदये तथा ॥
नाभौ गुह्ये तथा जान्वोः पादयोर्विन्यसेत्क्रमात् ॥ 11.10 ॥
पाण्योः षडङ्गबीजानि न्यस्य काये ततो न्यसेत् ॥
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेद्वीजपञ्चकम् ॥ 11.11 ॥
करमध्ये नेत्रबीजमङ्गन्यासऽप्ययं क्रमः ॥
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ॥ 11.12 ॥
शिखायां तु शिखां न्यस्य कवचं सर्वतस्तनौ ॥
नेत्रं नेत्रे विधातव्यमस्त्रञ्च करयोर्द्वयोः ॥ 11.13 ॥
तेनैव च दिशो बद्धा पूजा विधिमथाचरेत् ॥
हृदये चिन्तयेत्पूर्वं योगपीठं समाहितः ॥ 11.14 ॥
धर्म ज्ञनं च वैराग्यमैश्वर्यं च यथाक्रमम् ॥
आग्नेयादौ च पूर्वादावधर्मादींश्च विन्यसेत् ॥ 11.15 ॥
एभिः परिच्छन्नतनुं पीठभूतं तदात्मकम् ॥
अनन्तं विन्यसेत्पश्चात्पूर्वकायोन्नतं स्थितम् ॥ 11.16 ॥
ततो विद्यात्सरोजातं दलाष्टसमदिग्दलम् ॥
सिताब्जं शतपत्राढ्यं विप्रकीर्णोर्द्धकर्णिकम् ॥ 11.17 ॥
ध्यात्वा वेदादिना पश्चात्सूर्य्यसोमानलात्मनाम् ॥
मण्डलानि क्रमादेवमुपर्य्युपरि चिन्तयेत् ॥ 11.18 ॥
ततः पूर्वादिदिक्संस्थाः शक्तीः केशवगोचराः ॥
विमलाद्या न्यसेदष्टौ नवमीं कर्णिकागताम् ॥ 11.19 ॥
एवं ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम् ॥
मनसावाह्य तत्रेशं हरिं शार्ङ्गं न्यसेत्पुनः ॥ 11.20 ॥
हृदयादीनि पूर्वादिचतुर्दिग्दलयोगतः ॥
मध्ये नेत्रं तु कोणेषु अस्त्रमन्त्रं न्यसेत्ततः ॥ 11.21 ॥
सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः ॥
द्वारि पूर्वे परे चैव वैनतेयं तु विन्यसेत् ॥ 11.22 ॥
सुदर्शनं सहस्त्रारं दक्षिणे द्वारि विन्यसेत् ॥
श्रियं दक्षिणतो न्यस्य लक्ष्मीमुत्तरतस्तथा ॥ 11.23 ॥
द्वार्य्यत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत् ॥
देवदक्षिणतः शार्ङ्गं वामे चैव सुधीर्न्यसेत् ॥ 11.24 ॥
तद्वत्खङ्गं तथा चक्रं न्यसेत्पार्श्वद्वयोर्द्वयम् ॥
ततोऽन्तर्लोकपालांश्च स्वदिग्भेदेन विन्यसेत् ॥ 11.25 ॥
वज्रादीन्यायुधान्येव तथैव विनिवेशयेत् ॥
ऊर्घ्वं ब्रह्म तथानन्तमधश्च परिचिन्तयेत् ॥ 11.26 ॥
सर्वं ध्यात्वेति सम्पूज्य मुद्राः सन्दर्शयेत्ततः ॥
अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसाधनी ॥ 11.27 ॥
वन्दनी हृदयासक्तात्सार्द्धं दक्षिणतोन्नता ॥
ऊर्द्धाङ्गुष्ठो वाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनः ॥ 11.28 ॥
सव्यस्य तस्य चाङ्गुष्ठो यः स उद्ध्र्वः प्रकीर्त्तितः ॥
तिस्त्रः साधारणा ह्येता मूर्त्तिभेदेन कल्पिताः ॥ 11.29 ॥
कनिष्ठादिप्रयोगेण अष्टौ मुद्रा यथाक्रमम् ॥
अष्टानां पूर्वबीजानां क्रमशस्त्ववधारयेत् ॥ 11.30 ॥
अङ्गुष्ठेन कनिष्ठान्तं नामयित्वाङ्गुलित्रयम् ॥
मुद्रेयं नरसिंहस्य न्युब्जं कृत्वा करद्वयम् ॥ 11.31 ॥
सव्यहस्तं तथोत्तानं कृत्वोर्द्धं भ्रामयेच्छनैः ॥
नवमीयं स्मृता मुद्रा वराहाभिमता सदा ॥ 11.32 ॥
मुष्टिद्वयमथोत्तानमृज्वेकैकेन मोचयेत् ॥
उत्कुञ्चये त्सर्वमुक्ता अङ्गमुद्रेयमुच्यते ॥ 11.33 ॥
मुष्टिद्वयमथो बद्धा एवमेवानुपूर्वशः ॥
दशानां लोकपालानां मुद्राश्च क्रमयोगतः ॥ 11.34 ॥
स्वरमाद्यं द्वितीयं च उपान्त्यञ्चान्त्यमेव च ॥
वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम् ॥ 11.35 ॥
प्रणवस्तत्सदित्येतद् हुं क्षौं भूरिति मन्त्रकाः ॥
नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराहराट् ॥ 11.36 ॥
सितारुणहरिद्राभा नीलश्यामल्लोहिताः ॥
मेघाग्निमधुपिङ्गाभा वर्णतो नवनामकाः ॥ 11.37 ॥
कं टं पं शं गरुत्मान्स्याज्जं खं वं च सुदर्शनम् ॥
षं चं फं षं गदादेवी वं लं मं क्षं च शङ्खकम् ॥ 11.38 ॥
घँ ढँ भँ ङँ भवेच्छ्रीश्च गं जं वं शं च पुष्टिका ॥
घं वं च वनमाला स्याच्छ्री वत्सं दं सं भवेत् ॥ 11.39 ॥
छं डं पं यं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च ॥
इत्यङ्गानियथायोगं देवदेवस्य वै दशा ॥ 11.40 ॥
गरुडोऽम्बुजसङ्काशो गदा चैवासिताकृतिः ॥
पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा ॥ 11.41 ॥
पूर्णचन्द्रनिभः शङ्खः कौस्तुभस्त्वरुणद्युतिः ॥
चक्रं सूर्य्यसहस्त्राभं श्रीवत्सः कुन्दसन्निभः ॥ 11.42 ॥
पञ्चवर्णनिभा माला ह्यनन्तो मेघसन्निभः ॥
विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः ॥ 11.43 ॥
अर्घ्यपाद्यादि वै दद्यात्पुण्डरीकाक्षविद्यया ॥ 11.44 ॥
॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवव्यूहार्चनं नामैकादशोऽध्यायः ॥ 11 ॥